सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९२

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९१ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९२
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९३ →


सप्ताश्वतिलकानूरुसंवादवर्णनम्

<poem>सप्ताश्वतिलक उवाच ।। ।।
संत्रासजननं घोरं पापानां पापकारिणाम् ।।।
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।। १
स्त्रीपुनपुंसकैर्वृद्धैर्गंतव्यं सर्वजंतुषु ।।
शुभाशुभफलं तत्र भोक्तव्यं देहिभिस्तथा ।। २ ।।
चित्रगुप्तादिभिः सर्वैर्धर्मस्थैः सत्यवादिभि ।।
प्रोक्तं वै धर्मराजस्य निकटे यच्छुभाशुभम् ।।
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितम् ।। ३ ।।
तत्र ये शुभकर्माणः सौम्य चित्ता दयान्विताः ।।
ते नरा यांति सौम्येन यथा यमनिकेतनम् ।। ४ ।।
यः प्रदद्याद्द्विजेंद्राणामुपानत्काष्ठछत्रकम् ।।
स च धर्मेण महता सुखं याति यमालयम् ।। ५ ।।
सोपानत्को नरो यस्तु देवायतनमाविशेत् ।।
विशेषतो गर्भगृहं स संत्रासमुपाश्नुते ।।६।।
सोपानत्कानि दानानि तथान्नं तु विशेषतः ।।
एवं दानविशेषेण धर्मराजपुरं नरः ।।
यस्माद्याति सुखेनैव तस्माद्धर्मं समाचरेत् ।।७।।
ये पुनः क्रूरकर्माणो नराः पापरताः खग ।।
ते घोरेण तथा यांति दक्षिणेन यमालयम् ।। ८ ।।
षडशीतिसहस्राणि योजनानामशीति च ।।
वैवस्वतपुरं ज्ञेयं नानारूपमिति स्थितम् ।। ९ ।।
समीपस्थमिवाभाति नराणां शुभचारिणाम् ।।
पापानामतिदूरस्थं तथा रौद्रेण गच्छताम् ।। 1.192.१० ।।
तीक्ष्णकंटकयुक्तेन शर्करानिचितेन च ।।
क्षुरधारातिनिस्त्रिंशैः पाषाणैश्चिंतितेन च ।। ११ ।।
क्वचिदर्केण महता दुरंतैश्चैव खातकैः ।।
लोहशंकुभिराच्छिन्नास्तथा खड्गैः समन्विताः ।। ।। ३२ ।।
ततः पतद्भिर्विमलैः पर्वतैर्वृक्षसंकुलैः ।।
प्रेतप्राकारयुक्तेन यांति मार्गेण दुःखिताः ।। १३ ।।
क्वचिद्विषमगर्ताभिः क्वचिल्लोष्ठैः सपिच्छलैः ।।
सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शंकुभिः ।। १४ ।।
अनेकशाखारचितैर्व्याप्तैर्वंशवनैः क्वचित् ।।
कष्टेन तमसः मार्ग अना लंबे सुदारुणि ।।१५।।
अथ शृंगाटकैर्व्याप्तैः क्वचिद्दावाग्निना पुनः ।।
क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन तु ।। १६ ।।
क्वचिद्वालुकया व्याप्तमाकंठांतं प्रवेशयेत् ।।
क्वचिद्दुष्टांबुना व्याप्तं क्वचिच्च करिषाग्निना।।१७।।
क्वचित्सिंहैः क्वचिद्व्याघ्रैर्दंशैः कीटैश्च दारुणैः ।।
क्वचिन्महाजलौकाभिः क्वचि द्वाजगरैः पुनः ।।१८।।
मक्षिकाभिश्च रौद्राभिः क्वचित्सपेंर्विषोल्बणैः ।।
महागजेंद्रयूनैश्च बलोन्मत्तैः प्रमाथिभिः ।।१९।।
पंथानमुल्लिखद्भिश्च तीक्ष्ण शृंगैर्महावृषैः ।।
महाशृंगैश्च महिषैरुष्ट्रैर्मत्तैर्मदातुरैः।।1.192.२०।।
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः।।
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति हि ।। ।। २१ ।।
महापाशविमिश्रेण महाचंडेन वायुना ।।
महापाषाणवर्षेण हन्यमाना निराश्रयाः ।। २२।।
क्वचिद्विद्युत्प्रपातेन दीर्यमाणा व्रजंति हि ।।
पतद्भिर्वज्रसंघातैरुल्कापातैश्च दारुणैः ।। २३ ।।
प्रदीप्तांगारवर्षेण दह्यमाना व्रजंति हि ।।
महांधकारशुक्रेण पीड्यमाना व्रजंति हि ।। २४ ।।
महामेघरवैर्घोरैर्वित्रास्यंते मुहुर्मुहुः ।।
तीक्ष्णपाषाणयुक्तेन पूर्यमाणाः समन्ततः ।। २५ ।।
महाक्षुरांबुधाराभिः सेव्यमाना व्रजंति हि ।।
महामेघरवैर्घोरै र्वित्रास्यन्ते मुहुर्मुहुः ।।२६।।
भृशं शीतेन तीक्ष्णेन रूक्षेण मारुतेन च ।।
इत्थं मार्गेण रौद्रेण पाथेयरहितेन च ।।२७।।
निरालंबेन दुर्गेण निर्जनेन समंततः ।।
अविश्रामेण महता विगतापायदुर्धरैः ।। २८ ।।
नीयंते देहिनः सर्वे ये मूढाः पापकारिणः ।।
इति ज्ञात्वा नरः कुर्यात्पुण्यं पापं च वर्जयेत् ।।
पुण्येन याति देवत्वं पापेन नरकं व्रजेत् ।। २९ ।।
यैर्मनागपि देवेशो मनसा पूजितो रविः ।।
ते कदापि न पश्यंति यमस्य वदनं खग ।। ।। 1.192.३० ।।
किं तु पापैर्महाघोरैः किञ्चित्कालं तवाज्ञया ।।
भवंति प्रेतराजानस्ततो यांति रवेः पुरम्।। ३१ ।।
ये पुनः सर्वभावेन भजन्ते भुवि भास्क रम् ।।
न ते लिम्पंति पापेन पद्मपत्रमिवांभसा ।। ३२ ।।
तस्मात्प्रकुर्याद्भक्तिं वै भास्करे सततं नरः ।।
श्रद्धया पूजयेद्भानुं य इच्छेद्विपुलं धनम् ।। ३३ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सप्ताश्वतिलकानूरुसंवादे द्विनवत्यधिकशततमोऽध्यायः ।।१९२।।

</poem>