भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९३

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९२ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९३
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९४ →


दन्तकाष्ठविधिवर्णनम्

<poem>।। ।। सप्ताश्वतिलक उवाच ।। ।।
अयने विषुवे वारे संक्रांतौ ग्रहणे तथा ।।
पूजयेत्सततं भानुं सप्तम्यां तु विशेषतः ।। १ ।।
वैनतेय निबोध त्वं विधानं सप्तमीव्रते ।।
एतद्धि परमं गुह्यं रवेराराधनं परम् ।। २ ।।
सिद्धार्थकैस्तु प्रथमा द्वितीया चार्कसंपुटैः ।।
तृतीया मरिचैः कार्या चतुर्थी तिल सप्तमी ।। ३ ।।
सप्तमी चौदनैर्वीर सप्तमी परिकीर्तिता ।।
इत्येताः सप्त सप्तम्यः कर्तव्या भूतिमिच्छता ।। ४ ।।
तथा चानुक्रमे तासां लक्षणं कथया म्यहम् ।।
माघे वा मार्गशीर्षे वा कार्या शुक्ला तु सप्तमी ।। ५ ।।
आर्तस्य तु न नियमः पक्षमासकृतो भवेत् ।।
अर्धप्रहरशेषे तु कुर्याद्वै दंतधाव नम् ।। ६ ।।
पञ्चम्यां तत्र ये वृक्षाः कामितास्तान्वदाम्यहम् ।।
मधूके पुत्रलाभः स्याद्दुःखहा मार्कवो भवेत् ।। ७ ।।
बदर्या च बृहत्या च क्षिप्रं रोगात्प्रमुच्यते ।।
ऐश्वर्यं च भवेद्बिल्वैः खदिरेण च संचयः ।। ८ ।।
शत्रुक्षयः कदंबेषु अर्थलाभोतिमुक्तके ।।
गुरुतां याति सर्वत्र आटरूषकसंभवैः ।। ९ ।।
ज्ञातिप्रधानतां याति अश्वत्थो यच्छते यशः ।।
करवीरात्परिज्ञानमचलं स्यान्न संशयः ।। 1.193.१० ।।
श्रियं प्राप्नोति विपुलां शिरीषस्य निवे शने ।।
प्रियंगुं सेव्यमानस्य सौभाग्यं परमं भवेत् ।। ११ ।।
अभीप्सितार्थसिद्ध्यर्थं सुखासीनोथ वाग्यतः ।।
कामं यथेष्टहृदये कृत्वा समभि मंत्र्य च ।।
मंत्रेणानेन मतिमानश्नीयाद्दन्तधावनम्।। १२ ।।
वरं दत्त्वाभिजानासि कामदं च वनस्पते ।।
सिद्धिं प्रयच्छ मे नित्यं दंतकाष्ठ नमोऽस्तु ते ।। १३ ।।
त्रीन्वारान्परिजप्यैवं भक्षयेद्दंतधावनम् ।।
पश्चात्प्रक्षाल्य काष्ठं तु शुचौ देशे विनिक्षिपेत् ।। १४ ।।
ऊर्ध्वे निपतिते सिद्धिस्तथा चाभि मुखे स्थिते ।।
अतोन्यथा तु पतिते आनीय पुनरुत्सृजेत् ।। १५ ।।
पराङ्मुखं यदि भवेत्त्रीन्वारान्दंतधावनम् ।।
असिद्धां तु विजानीयान्न ग्राह्या सा तु सप्तमी ।। १६ ।।
ब्रह्मचारी तु तां रात्रिं स्वप्यान्मंगलसेवया ।।
बिभ्रद्वासोनुपहतं शुचिराचारसंयुतः ।। १७ ।।
तस्यां रात्र्यां व्यतीतायां प्रात रुत्थाय वै खग ।।
प्रक्षालयेन्मुखं धीमानश्नीयाद्दन्तधावनम् ।। १८ ।।
उपविश्य शुचिर्भूत्वा प्रणम्य शिरसा रविम् ।।
जपं यथेष्टं कृत्वा तु जुहुयाच्च हुताशने ।। १९ ।।
ततोपराह्नसमये स्नात्वा मृद्गोमयांबुभिः ।।
विधिवन्नियमं कृत्वा मौनी शुक्लांबरः शुचिः ।। 1.193.२० ।।
पूजयित्वा विधिं भक्त्या देवदेवं दिवाकरम् ।।
स्वप्याद्देवस्य पुरतो गायत्रीजपतत्परः ।। २१ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे दन्तकाष्ठविधिवर्णनंनाम त्रिनवत्यधिकशततमोऽध्यायः ।। १९३ ।। </poem>