भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०५६

विकिस्रोतः तः
← अध्यायः ०५५ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०५६
अज्ञातलेखकः
अध्यायः ०५७ →

सूर्यरथयात्रावर्णनम्

श्रीरुद्र उवाच
कथं प्रचालयेद्ब्रह्मन् रथस्थं तमनाशनम् ।
अनुगाश्च कथं चास्य के च ते अनुगा क्रमात् । । १
भूयोभूयः सुरश्रेष्ठ विस्तरान्मम श्रेयसे ।
१ वद सर्वं जगन्नाथ परं कौतूहलं हि मे । । २
ब्रह्मोवाच
शनैर्नयेद्रथं रुद्र वर्त्मना सु समेन तु ।
यथा पर्यटनं तु स्याद्विषमे पथि गच्छतः । । ३
प्रतीहाररथं पूर्वं नयेन्मार्गविशुद्धये ।
तस्मादनन्तरं रुद्र दण्डनायकमादरात् । । ४
पिङ्गलं च ततस्तस्य पृष्ठगं चादरान्नयेत् ।
रक्षको द्वारको यस्माद्रथारूढौ तु पृष्ठतः । । ५
रथारूढस्तथा दिण्डी देवस्य पुरतः स्थितः ।
तस्मादपि तथा रुद्र लेखको भास्करप्रियः । । ६
शनैःशनैर्नयेद्रुद्र रथं देवस्य यत्नतः ।
युगाक्षचक्रभङ्गो वा यथा न स्यात्त्रिलोचन । । ७
ईषाभङ्गे द्विजभयं भग्नेऽक्षे क्षत्रियक्षयः ।
तुलाभङ्गे तु वैश्यानां शय्याशूद्रक्षयो भवेत् । । ८
युगभङ्गे त्वनावृष्टिः पीठभङ्गे प्रजाभयम् ।
परचक्रागमं १ विद्याच्चक्रभङ्गे रथस्य तु । । ९
ध्वजस्य पतने चापि नृपभङ्गं विनिर्दिशेत् ।
२व्यङ्गितप्रतिमायां तु राज्ञो मरणमादिशेत् । । 1.56.१०
छत्रभङ्गाद्भयं रुद्र युवराज्ञो विनिर्दिशेत् ।
उत्पन्नेष्वेवमाद्येषु उत्पातेष्वशुभेषु च । । ११
बलिकर्म पुनः कुर्याच्छांतिहोमं तथैव च ।
ब्राह्मणान्वाचयेद्भूयो दद्याद्दानानि चैव हि । । १२
पूर्वोत्तरे च दिग्भागे रथस्याग्निं प्रकल्पयेत् ।
समिद्भिस्तु घृताक्ताभिर्होमयेज्जातवेदसम् । । १३
स्वाहाकारान्वदन्सम्यग्दैवतेभ्यस्त्वनुक्रमात् ।
ग्रहेभ्यश्च प्रजाभ्यश्च नामान्युद्दिश्य होमयेत् । । १४
प्रथमं चाग्नये स्वाहा स्वाहा सोमाय चैव हि ।
स्वाहा प्रजापतये च देया आहुतयः क्रमात् । । १५
स्वस्त्यस्त्विह च विप्रेभ्यः स्वस्ति राज्ञे तथैव च ।
गोभ्यः स्वस्ति प्रजाभ्यश्च जगतः शान्तिरस्तु वै । । १६
शं नोऽस्तु द्विपदे नित्यं शान्तिरस्तु चतुष्पदे ।
शं प्रजाभ्यस्तथैवास्तु शं सदात्मनि चास्तु वै । । १७
भूः शान्तिरस्तु देवेश भुवः शान्तिस्तथैव च ।
स्वश्चैवास्तु तथा शान्तिः सर्वत्रास्तु तथा रवेः । । १८
त्वं देव जगतः स्रष्टा पोष्टा चैव त्वमेव हि ।
प्रजापाल ग्रहेशान शान्तिं कुरु दिवस्पते । । १९
इदमन्यच्च वक्ष्यामि शान्त्या परमकारणम् ।
यात्राकारणभूतस्य पुरुषस्य स्वजन्मनः । । 1.56.२०
दुःस्थान्ग्रहांश्च विज्ञाय ग्रहशान्तिं समाचरेत् ।
प्रादेशमात्राः कर्त्तव्याः समिधोऽथ प्रमाणतः । । २१
अर्कमय्यो रवेः कार्या पालाश्यः शशिनः स्मृताः ।
खादिर्यश्चैव भौमाय आपामार्ग्योऽब्जसूनवे । । २२
आश्वत्थ्यश्चाथ जीवाय औदुम्बर्यः सिताय च ।
असिताय शमीमय्यो दूर्वा कार्यस्तु राहवे । ।२ ३
केतवे तु कुशाः कार्याः दक्षिणाश्चाप्यतः शृणु ।
सूर्याय शोभनां धेनुं शंखं दद्यादथेन्दवे । । २४
रक्तमनड्वाहं भौमाय काञ्चनं सोमसूनवे ।
जीवाय वाससी देये शुक्रायाश्वं सितं हर । । २५
शनैश्चराय गां नीलां राहवे भाण्डपायसम् ।
छागं तु केतवे दद्याच्छृण्वेषां भोजनान्यपि । । २६
गुडौदनं तु सूर्याय सोमाय घृतपायसम् ।
हविष्यमन्नं भौमाय क्षीरान्नं सोमसूनवे । । २७
दध्योदनं तु जीवाय शुक्रायाथ घृताशनम् ।
तिलपिष्टांश्च माषाश्च सूर्यपुत्राय दापयेत् । । २८
राहवे दापयेन्मांसं केतवे चित्रमोदनम् ।
सौवीरमारनालं च स्विन्नबीजं च काञ्जिकम् । । २९
यथा बाणप्रहाराणां वारणं कवचं स्मृतम् ।
तथा दैवोपघातानां शान्तिर्भवति वारणम् । । 1.56.३०
अहिंसकस्य दान्तस्य धर्मार्जितधनस्य च ।
नित्यं च नियमस्थस्य सदा सानुग्रहा ग्रहाः । । ३१
ग्रहाः पूज्याः सदा रुद्र इच्छता विपुलं यशः ।
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । । ३२
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्पुनः ।
यानपत्या भवेन्नारी दुष्प्रजाश्चापि या भवेत् । । ३३
बाला यस्याः प्रम्रियन्ते या च कन्याप्रजा भवेत् ।
राज्यभ्रष्टो नृपो यस्तु दीर्घरोगी च यो भवेत् । । ३४
ग्रहयज्ञः स्मृतस्तेषां मानवानां मनीषिभिः ।
तस्मादसौ सदा कार्यः श्रेयोऽर्थं जानता हर । । ३५
दत्तपुष्पः क्रूरदृक्च पुष्पजो धिषणस्तथा ।
सितासितौ तथा रुद्र उपरागः शिखी तथा । । ३६
एते ग्रहा महाबाहो विद्वद्भिः पूजिताः सदा ।
ताम्रकात्स्फाटिकाद्रक्तचन्दनात्स्वर्णकादपि । ३७
राजतादायसात्सीसाद्ग्रहाः कार्याः२ प्रयत्नतः ।
स्वर्णे वाथ पटे लेख्या यथाशास्त्रं महेश्वर । । ३८
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ।
गंधाश्च बलयश्चैव धूपो देयश्च गुग्गुलः । । ३९
कर्तव्या मन्त्र३वंतश्च चरवः प्रतिदैवतम् ।
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् । । 1.56.४०
उद्बुध्यस्व यथासंख्यमृच एताः प्रकीर्तिताः ।
बृहस्पते अतियदर्यस्तथैवान्नात्परिस्रुतः । । ४१
शं नो देवी तथा कांडात्केतुं कृण्वन्निमाः क्रमात् ।
पूर्वोक्ताः समिधस्त्वत्र यथाशास्त्रं प्रहोमयेत् । ।४ २
एकैकस्याष्टशतकमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिभ्यां दध्ना चैव समन्विताः । ।४ ३
पूर्वोक्तभोजनं यद्धि ब्राह्मणेभ्यो निवेदयेत् ।
शक्तितो वा यथालाभं दक्षिणा तु१ विधानतः । । ४४
यश्च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।
मयैषा हि वरो दत्तः पूजिताः पूजयिष्यथ । । ४५
ग्रहाधीना नरेंद्राणामुच्छ्रयाः पतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः । । ४६
ग्रहा गावो नरेन्द्राश्च गुरवो ब्राह्मणास्तथा ।
पूजितः पूजयन्त्येते निर्दहन्त्यपमानिताः । । ४७
यथा समुत्थितं यन्त्रं यन्त्रेणैव प्रहन्यते ।
तथा समुत्थितां पीडां ग्रहशान्त्या ३ प्रशामयेत् । । ४८
यज्वनां सत्यवाक्यानां तथा नित्योपवासिनाम् ।
जपहोमपराणां च सर्वं दुष्टं प्रशाम्यति । । ४ ९
एवं कृत्वा प्रजाशान्तिं कृत्वा च स्वस्तिवाचनम् ।
पुनः सज्जं रथं कृत्वा कुर्यात्प्रकमणं हर । । 1.56.५०
मार्गं शेषं नयित्वा तु नयेद्देवालयं रविम् ।
पूजयित्वा ततः ४पूर्वा याः प्रोक्ता रथदेवताः । । ५१
यथा पूज्या ग्रहाः सर्वे उत्पातेषु त्रिलोचन ।
रथदेवास्तथा५ पूज्या याः स्थिता रथमाश्रिताः । । ५२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमहिमवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः । ५६ ।