सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ००२

विकिस्रोतः तः
← अध्यायः ००१ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ००२
अज्ञातलेखकः
अध्यायः ००३ →

अथ द्वितीयोऽध्यायः

सृष्टिवर्णनं पुराणानां ब्रह्मपञ्चमास्यादुत्पत्तिवर्णनञ्च

सुमन्तुरुवाच
शृणुष्वेदं महाबाहो पुराणं पञ्चलक्षणम् ।
यच्छ्रुत्वा मुच्यते राजन्पुरुषो ब्रह्महत्यया । । १
पर्वाणि चात्र वै पञ्च कीर्तितानि स्वयम्भुवा ।
प्रथमं कथ्यते ब्राह्मं द्वितीयं वैष्णवं स्मृतम् । । २
तृतीयं शैवमाख्यातं चतुर्थं त्वाष्ट्रमुच्यते ।
पञ्चमं प्रतिसर्गाख्यं सर्वलोकैः सुपूजितम् । । ३
एतानि तात पर्वाणि लक्षणानि निबोध मे ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । । ४
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।
चतुर्दशभिर्विद्याभिर्भूषितं कुरुनन्दन । । ५
अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश । । ६
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः ।
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः । । ७
प्रथमं कथ्यते सर्गो भूतानामिह सर्वशः ।
यच्छ्रुत्वा पापनिर्मुक्तो याति शान्तिमनुत्तमाम् । । ८
जगदासीत्पुरा तात तमोभूतमलक्षणम् ।
अविज्ञेयमतर्क्यं च प्रसुप्तमिव सर्वशः । । ९
ततः स भगवानीशो ह्यव्यक्तो व्यञ्जयन्निदम् ।
महाभूतानि वृत्तौजाः प्रोत्थितस्तमनाशनः १ । । 1.2.१०
योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एष स्वयमुत्थितः । । ११
योऽसौ षड्विंशको लोके तथा यः पुरुषोत्तमः ।
भास्करश्च महाबाहो परं ब्रह्म च कथ्यते । । १२
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।
अत एव ससर्जादौ तासु वीर्यमवासृजत् । । १३
यस्मादुत्पद्यते सर्वं सदेवासुरमानुषम् ।
बीजं शुक्रं तथा रेत उग्रं वीर्यं च कथ्यते । । १४
वीर्यस्यैतानि नामानि कथितानि स्वयम्भुवा ।
तदण्डमभवद्धैमं ज्वालामालाकुलं विभो । । १५
यस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।
सुरज्येष्ठश्चतुर्वक्त्रः परमेष्ठी पितामहः । । १६
क्षेत्रज्ञः पुरुषो वेधाः शम्भुर्नारायणस्तथा ।
पर्यायवाचकैः शब्दैरेव ब्रह्मा प्रकीर्त्यते । । १७
सदा मनीषिभिस्तात विरञ्चिः कञ्जजस्तथा२ ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । । १८
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ।
अरमित्येव शीघ्राय नियताः कविभिः कृताः । । १९
आप ३ एवार्णवीभूत्वा सुशीघ्रास्तेन ता नराः ।
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । । 1.2.२०
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्त्यते ।
एवं स भगवानण्डे तत्त्वमेव निरूप्य वै । ।२ १
ध्यानमास्थाय राजेन्द्र तदण्डमकरोद्द्विधा ।
शकलाभ्यां च राजेन्द्र दिवं भूमिं च निर्ममे । । २२
अन्तर्व्योम दिशश्चाष्टौ वारुणं स्थानमेव हि ।
ऊर्ध्वं महान्गतो राजन् समन्ताल्लोकभूतये । । २३
महतश्चाप्यहंकारस्तस्माच्च त्रिगुणा अपि ।
त्रिगुणा अतिसूक्ष्मास्तु बुद्धिगम्या हि भारत । । २४
उत्पत्तिहेतुभूता वै भूतानां महतां नृप ।
तेषामेव गृहीतानि शनैः पञ्चेन्द्रियाणि तु । । २५
तथैवावयवाः सूक्ष्माः षण्णामप्यमितौजसाम् । । २६
संनिवेश्यात्ममात्रासु स राजन्भगवान्विभुः ।
भूतानि निर्ममे तात सर्वाणि विधिपूर्वकम् । । २७
यन्मूर्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयाणि षट् ।
तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः । । २८
महान्ति तानि भूतानि आविशन्ति ततो विभुम् ।
कर्मणा सह राजेन्द्र सगुणाश्चापि वै गुणाः । । २९
तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्वयम् १ । । 1.2.३०
भूतादिमहतस्तात येन व्याप्तमिदं जगत् ।
तस्मादपि महाबाहो पुरुषाः पञ्च एव हि । । ३१
केचिदेवं परां तात सृष्टिमिच्छन्ति पण्डिताः ।
अन्येऽप्येवं महाबाहो प्रवदन्ति मनीषिणः । । ३२
योऽसावात्मा परस्तात कल्पादौ सृजते तनुम् ।
प्रजनश्च महाबाहो सिसृक्षुर्विविधाः प्रजाः । । ३३
तेन सृष्टः पुद्गलस्तु प्रधानं विशते नृप ।
प्रधानं क्षोभितं तेन विकारान्युजते बहून् । । ३४
उत्पद्यते महांस्तस्मात्ततो भूतादिरेव हि ।
उत्पद्यते विशालं च भूतादेः कुरुनन्दन । । ३५
विशालाच्च हरिस्तात हरेश्चापि वृकास्तथा ।
वृकैर्मुष्णन्ति च बुधास्तस्मात्सर्वं भवेन्नृप । । ३६
तथैषामेव राजेन्द्र प्रादुर्भवति वेगतः ।
मात्राणां कुरुशार्दूल विबोधस्तदनन्तरम् १ । । ३७
तस्मादपि हृषीकाणि विविधानि नृपोत्तम ।
तथेयं सृष्टिराख्याताऽऽराध्यतः कुरुनन्दन । । ३८
भूयो निबोध राजेन्द्र भूतानामिह विस्तरम् ।
गुणाधिकानि सर्वाणि भूतानि पृथिवीपते । । ३९
आकाशमादितः कृत्वा उत्तरोत्तरमेव हि ।
एकं द्वौ च तथा त्रीणि चत्वारश्चापि पञ्च च । । 1.2.४०
ततः स भगवान्ब्रह्मा पद्मासनगतः प्रभुः ।
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । । ४१
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ।
कर्मोद्भवानां देवानां सोऽसृजद्देहिनां प्रभुः । । ४२
तुषितानां गणं राजन्यज्ञं चैव सनातनम् ।
दत्त्वा २ वीर समानेभ्यो गुह्यं ब्रह्म सनातनम् । । ४३
दुदोह यज्ञसिद्धयर्थमृग्यजुः सामलक्षणम् ।
कालं कालविभक्तीश्च ३ ग्रहानृतूंस्तथा नृप । । ४४
सरितः सागराञ्छैलान्समानि विषमाणि च ।
कामं क्रोधं तथा वाचं रतिं चापि कुरुद्वह । । ४५
सृष्टिं ससर्ज राजेन्द्र सिसृक्षुर्विविधाः प्रजाः ।
धर्माधर्मौ विवेकाय कर्मणां च तथासृजत् । ।४ ६
सुखदुःखादिभिर्द्वन्द्वैः प्रजाश्चेमा न्ययोजयत् ।
अण्व्यो मात्राविनाशिन्यो दशार्धानां तु याः स्मृताः । । ४७
ताभिः सर्वमिदं वीर सम्भवत्यनुपूर्वशः ।
यत्कृतं तु पुरा कर्म सन्नियुक्तेन वै नृप । । ४८
स तदेव स्वयं भेजे सृज्यमानं पुनः पुनः ।
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते । । ४९
यद्यथास्याभवत्सर्गे तत्तस्य स्वयमाविशत् ।
यथा च लिङ्गान्यृतवः स्वयमेवानुपर्यये । । 1.2.५०
स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ।
लोकस्येह विवृद्ध्यर्थं मुखबाहूरुपादतः । । ५१
ब्रह्म क्षत्रं तथा चोभौ वैश्यशूद्रौ नृपोत्तम ।
मुखानि यानि चत्वारि तेभ्यो वेदा विनिःसृताः । । ५२
ऋग्वेदसहिता तात वसिष्ठेन महात्मना ।
पूर्वान्मुखान्महाबाहो दक्षिणाच्चापि वै शृणु । । ५३
यजुर्वेदो महाराज याज्ञवल्क्येन वै सह ।
सामानि पश्चिमात्तात गौतमश्च महानृषिः । । ५४
अथर्ववेदो राजेन्द्र मुखाच्चाप्युत्तरान्नृप ।
ऋषिश्चापि तथा राजञ्छौनको लोकपूजितः । । ५५
यत्तन्मुखं महाबाहो पञ्चमं लोकविश्रुतम् ।
अष्टादशपुराणानि सेतिहासानि भारत । । ५६
निर्गतानि ततस्तस्मान्मुखात्कुरुकुलोद्वह ।
तथान्याः स्मृतयश्चापि यमाद्या लोकपूजिताः । । ५७
ततः स भगवान्देवो द्विधा देहमकारयत् ।
द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । । ५८
अर्धेन नारी तस्यां च विराजमसृजत्प्रभुः ।
तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् । । ५९
स चकार तपो राजन्सिसृक्षुर्विविधाः प्रजाः ।
पतीन्प्रजानामसृजन्महर्षीनादितो दश । । 1.2.६०
नारदं च भृगुं तात कं प्रचेतसमेव हि ।
पुलहं क्रतुं पुलस्त्यं च अत्रिमङ्गिरसं तथा । । ६१
मरीचिं चापि राजेन्द्र योऽसावाद्यः प्रजापतिः ।
एतांश्चान्यांश्च राजेन्द्र असृजद् भूरितेजसः । । ६२
अथ देवानृषीन्दैत्यान्सोऽसृजत्कुरुनन्दन ।
यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । । ६३
मनुष्याणां पितॄणां च सर्पाणां चैव भारत ।
नागानां च महाबाहो ससर्ज विविधान्गणान् । । ६४
क्षणरुचोऽशनिगणान्रोहितेन्द्रधनूंषि च ।
धूमकेतूंस्तथा चोल्का निर्याताञ्ज्योतिषां गणान् । । ६५
मनुष्यान्किन्नरान्मत्स्यान्वराहांश्च विहङ्गमान् ।
गजानश्वानथ पशून्मृगान्व्यालांश्च भारत । । ६६
कृमिकीटपतङ्गांश्च यूकालिक्षकमत्कुणान् ।
सर्वं च दंशमशकं स्थावरं१ च पृथग्विधम् । । ६७
एवं स भास्करो देवः ससर्ज भुवनत्रयम् ।
येषां तु यादृशं कर्म भूतानामिह कीर्तितम् । । ६८
कथयिष्यामि तत्सर्वं क्रमयोगं च जन्मनि ।
गजा व्याला मृगास्तात पशवश्च पृथग्विधाः । । ६९
पिशाचा मानुषास्तात रक्षांसि च जरायुजाः ।
द्विजास्तु अण्डजाः सर्पा नक्रा मत्स्याः सकच्छपाः । । 1.2.७०
एवंविधानि यानीह स्थलजान्यौदकानि च ।
स्वेदजं दंशमशकं यूकालिक्षकमत्कुणाः । । ७१
ऊष्मणा चोपजायन्ते यच्चान्यत्किञ्चिदीदृशम् ।
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । । ७२
ओषध्यः फलपाकान्ता नानाविधफलोपगाः ।
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । । ७३
पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ।
गुच्छगुल्मं तु विविधं तथैव तृणजातयः । । ७४
बीजकाण्डरुहाण्येव प्रताना १ वल्ल्य एव च ।
तमसा बहुरूपेण वेष्टिताः कर्महेतुना । । ७५
अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ।
एतावत्यस्तु गतयः प्रोद्भूताः कुरुनन्दन । । ७६
तस्माद्देवाद्दीप्तिमन्तो भास्कराच्य महात्मनः ।
घोरेऽस्मिंस्तात संसारे नित्यं सततयायिनि । । ७७
एवं सर्वं स सृष्ट्वेदं राजँल्लोकगुरुं परम् ।
तिरोभूतः स भूतात्मा कालं कालेन पीडयन् । । ७८
यदा स देवो जागर्ति तदेदं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति । । ७९
तस्मिन्स्वपिति राजेन्द्र जन्तवः कर्मबन्धनाः ।
स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति । । 1.2.८०
युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि ।
तदायं सर्वभूतात्मा सुखं स्वपिति भारत । । ८१
तमो यदा समाश्रित्य चिरं तिष्ठति सेन्द्रियः ।
न नवं कुरुते कर्म तदोत्क्रामति मूर्तितः । । ८२
यदाहंमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।
समाविशति संसृष्टस्तदा मूतिं विमुञ्चति । । ८३
एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं जगत्प्रभुः ।
संजीवयति चाजस्रं प्रमापयति चाव्ययः । । ८४
कल्पादौ सृजते तात अन्ते कल्पस्य संहरेत् ।
दिनं तस्येह यत्तात कल्पान्तमिति कथ्यते । । ८५
कालसंख्यां ततस्तस्य १ कल्पस्य शृणु भारत ।
निमेषा दश चाष्टौ च अक्ष्णः काष्ठा निगद्यते । । ८६
त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलाः स्मृताः ।
मुहूर्तमथ मौहूर्ता वदन्ति द्वादश क्षणम् । । ८७
त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः ।
मासस्त्रिंशदहोरात्रं द्वौ द्वौ मासावृतुः स्मृतः । । ८८
ऋतुत्रयमप्ययनमयने द्वे तु वत्सरः ।
अहोरात्रे विभजते सूर्यो मानुषदैविके । । ८९
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ।
पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । । 1.2.९०
कर्म चेष्टास्वहः कृष्णः मुक्तः स्वप्नाय शर्वरी ।
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । । ९१
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ।
ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं महीपते । । ९२
एकैकशो युगानां तु क्रमशस्तन्तिबोध मे ।
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । । ९३
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ।
त्रेता त्रीणि सहस्राणि वर्षाणि च विदुर्बुधाः । । ९४
शतानि षट् च राजेन्द्र सन्ध्यासन्ध्यांशयोः पृथक् ।
वर्षाणां द्वे सहस्रे तु द्वापरे परिकीर्तिते । । ९५
चत्वारि च शतान्याहुः सन्ध्यासन्ध्यांशयोर्बुधः ।
सहस्रं कथितं तिष्ये शतद्वयसमन्वितम् । । ९६
एषा चतुर्युगस्यापि संख्या प्रोक्ता नृपोत्तम ।
यदेतत्परिसंख्या तमादावेव चतुर्युगम् । । ९७
एतद्द्वादशसाहस्रं देवानां युगमुच्यते ।
दैविकानां युगानां तु सहस्रपरिसंख्यया । । ९८
ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरुच्यते ।
एतद्युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः । । ९९
रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ।
ततोऽसौ युगपर्यन्ते प्रसुप्तः प्रतिबुध्यते । । 1.2.१००
प्रतिबुद्धस्तु सृजति मनः सदसदात्मकम् ।
मनः सृष्टिं विकुरुते चोद्यमानं १ सिसृक्षया । । १०१
विपुलं जायते तस्मात्तस्य शब्दं गुणं विदुः ।
विपुलात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः । । १०२
बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ।
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । । १०३
उत्पद्यते विचित्रांशुस्तस्य रूपं गुणं विदुः ।
तस्मादपि विकुर्वाणादापो जाताः स्मृता बुधैः । । १०४
तासां गुणो रसो ज्ञेयः सर्वलोकस्य भावनः २ ।
अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः । । १०५
यत्प्राग्द्वादशसाहस्रमुक्तं सौमनसं युगम् ।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते । । १०६
मन्वन्तराण्यसंख्यानि सर्गः संहार एव च ।
तथाप्यहे सदा ब्राह्मे मनवस्तु चतुर्दश । । १०७
कथ्यन्ते कुरुशार्दूल ३ संख्यया पण्डितैः सदा ।
मनोः स्वायम्भुवस्येह षड्वंश्या ४ मनवोऽपरे । । १०८
सृष्टवन्तः प्रजाः स्वाःस्वाः महात्मानो महौजसः ।
सावर्णेयस्तथा पञ्चभौत्यो रौच्यस्तथापरः । । १०९
एते भविष्या मनवः सप्त प्रोक्ता नृपोत्तम ।
स्वस्वेऽन्तरे सर्वमिदं पालयन्ति चराचरम् । । 1.2.११०
एवंविधं दिनं तस्य विरिञ्चेस्तु महात्मनः ।
तस्यान्ते कुरुते सर्गं यथेदं कथितं तव । । १११
क्रीडन्निवैतत्कुरुते परमेष्ठी नराधिप ।
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे । । ११२
नाधर्मेणागमः कश्चिन्मनुष्याणां प्रवर्तते ।
इतरेष्वागमास्तात धर्मश्च कुरुनन्दन । । ११३
यादृशाः परिहीयन्ते यथाह भगवान्मनुः १ ।
चौर्याच्चाप्यनृताद्राजन्मायाभिरमितद्युते । । ११४
पादेन हीयते धर्मस्त्रेतादिषु युगेषु वै ।
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । । ११५
कृतत्रेतादिषु त्वेषां वयो ह्रसति पादशः ।
वेदोक्तमायुराशीश्च मर्त्यानां कुरुनन्दन । । ११६
कर्मणां तु फलं तात फलत्यनुयुगं सदा ।
प्रभावश्च तथा लोके फलत्येव शरीरिणाम् । । ११७
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे ।
अन्ये कलियुगे नृणां युगधर्मानुरूपतः । । ११८
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे । । ११९
सर्वस्य राजन्सर्गस्य गुप्त्यर्थं च महाद्युते ।
मुखबाहूरुपादानां पृथक्कर्माण्यकल्पयत् । । 1.2.१२०
अध्यापनमध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् । । १२१
प्रजानां पालनं राजन्दानमध्ययनं तथा ।
विषयेषु प्रसक्तिं च तथेज्यां क्षत्रियस्य तु । । १२२
पशूनां रक्षणं दानमिज्याध्ययनमेव च ।
वणिक्पथं १ कुसीदं च वैश्यस्य कृषिरेव च । । १२३
एकमेव तु शूद्रस्य कर्म लोके प्रकीर्तितम् ।
एतेषामेव वर्णानां शुश्रूषामनुपूर्वशः । । १२४
पुरुषस्य सदा श्रेष्ठं नाभेरूर्ध्वं नृपोत्तम ।
तस्मादपि शुचितरं मुखं तात स्वयम्भुवः । । १२५
तस्मान्मुखाद्द्विजो जात इतीयं वैदिकी श्रुतिः ।
सर्वस्यैवास्य धर्मस्य धर्मतो ब्राह्मणः प्रभुः । । १२६
स सृष्टो ब्रह्मणा पूर्वं तपस्तप्त्वा कुरूद्वह ।
हव्यानामिव कव्यानां सर्वस्यापि च गुप्तये । । १२७
अश्नन्ति च मुखेनास्य हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किम्भूतमधिकं ततः । । १२८
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः । । १२९
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । । 1.2.१३०
जन्म विप्रस्य राजेन्द्र धमार्थमिह कथ्यते ।
उत्पन्नः सर्वसिद्धयर्थं४ याति ब्रह्मसदो नृप । । १३१
स चापि जायमानस्तु पृथिव्यामिह जायते ।
भूतानां प्रभवायैव धर्मकोशस्य गुप्तये । । १३२
सर्वं हि ब्राह्मणस्येदं यत्किञ्चित्पृथिवीगतम् ।
जन्मना चोत्तमेनेदं सर्वं वै ब्राह्मणोऽर्हति । । १३३
स्वकीयं ब्राह्मणो भुङ्क्ते विदधाति च सुव्रत ।
करुणां कुर्वतस्तस्य भुञ्जन्ती हेतरे जनाः । । १३४
त्रयाणामिह वर्णानां भावाभावाय वै द्विजः ।
भवेद्राजन्न सन्देहस्तुष्टो भावाय वै द्विजः । । १३५
अभावाय भवेत्क्रुद्धस्तस्मात्पूज्यतमो हि सः ।
ब्राह्मणे सति नान्यस्य प्रभुत्वं विद्यते नृप । .। १३६
कामात्करोत्यसौ कर्म कामगश्च नृपोत्तम ।
तस्माद्वृन्दारकपुरी तस्मादपि महः पुनः । । १३७
महर्लोकाज्जनोलोकं ब्रह्मलोकं च गच्छति ।
ब्रह्मत्वं च महाबाहो याति विप्रो न संशयः । । १३८
शतानीक उवाच
ब्रह्मत्वं नाम दुष्प्रापं ब्रह्मलोकेषु सुव्रत । । १३९
ब्रह्मत्वं कीदृशं विप्रो ब्रह्मलोकं च गच्छति ।
नाममात्रोऽथ किं विप्रो ब्रह्मत्वं ब्रह्मणः सदा । ।
याति ब्रह्मन्गुणाः के स्युर्ब्रह्मप्राप्तौ ममोच्यताम् । । 1.2.१४०
सुमन्तुरुवाच
साधुसाधु महाबाहो शृणु मे परमं वचः । । १४१
ये प्रोक्ता वेदशास्त्रेषु संस्कारा ब्राह्मणस्य तु ।
गर्भाधानादयो ये च १ संस्कारा यस्य पार्थिव । । १४२
चत्वारिंशतथाष्टौ च निर्वृत्ताः शास्त्रतो नृप ।
स याति ब्रह्मणः स्थानं ब्राह्मणत्वं च मानद १ ।।
संस्काराः सर्वथा हेतुर्ब्रह्मत्वे नात्र संशयः ।। १४३
शतानीक उवाच
संस्काराः के मता ब्रह्मन्ब्रह्मत्वे ब्राह्मणस्य तु ।
शंस मे द्विजशार्दूलं कौतुकं हि महन्मम ।। १४४
सुमन्तुरुवाच
साधुसाधु महाबाहो शृणु मे परमं वचः ।
ये प्रोक्ता वेदशास्त्रेषु संस्कारा ब्राह्मणस्य तु ।।
मनीषिभिर्महाबाहो शृणु सर्वानशेषतः ।। १४५
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।
जातकर्मान्नाशनं च चूडोपनयनं २ नृप ।। १४६
ब्रह्मव्रतानि चत्वारि स्नानं च तदनन्तरम् ।
सधर्मचारिणीयोगो यज्ञानां ३ कर्म मानद ।। १४७
पञ्चानां कार्यमित्याहुरात्मनः श्रेयसे नृप ।
देवपितृमनुष्याणां भूतानां ब्राह्मणस्तथा ।। १४८
एतेषां चाष्टकाकर्म पार्वणश्राद्धमेव हि ।
श्रावणी चाग्रहायणी चैत्री चाश्वयुजी तथा ।। १४९
पाकयज्ञास्तथा सप्त अग्न्याधानं च सत्क्रिया ।
अग्निहोत्रं तथा राजन्दर्शं च विधुसञ्क्षये ।। 1.2.१५०
पौर्णमासं च राजेन्द्र चातुर्मास्यानि चापि हि ।
निरूपणं ५ पशुवधं तथा सौत्रामणीति च ।। १५१
हविर्यज्ञास्तथा सप्त तेषां चापि हि सत्क्रिया ।
अग्निष्टोमोऽत्यग्निष्टोमस्तथोक्थ्यः षोडशीं विदुः ।।१५२
वाजपेयोऽतिरात्रश्च आप्तोर्यामेति वै स्मृतः १ ।
संस्कारेषु स्थिताः सप्त सोमाः कुरुकुलोद्वह ।। १५३
इत्येते द्विजसंस्काराश्चत्वारिंशन्नृपोत्तम ।
अष्टौ चात्मगुणास्तात शृणु तानपि भारत ।। १५४
अनसूया दया क्षान्तिरनायासं च मङ्गलम् ।
अकार्पण्यं तथा शौचमस्पृहा च कुरूद्वह ।। १५५
य एतेऽष्टगुणास्तात कीर्त्यन्ते वै मनीषिभिः ।
एतेषां लक्षणं वीर शृणु सर्वमशेषतः ।। १५६
न गुणान्गुणिनो हन्ति न स्तौत्यात्मगुणानपि ।
प्रहष्यन्ते नान्यदोषैरनसूया प्रकीर्तिता ।। १५७
अपरे बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा ।
आत्मवद्वर्तनं यत्स्यात्सा दया परिकीर्तिता ।। १५८
वाचा मनसि काये च दुःखेनोत्पादितेन च ।
न कुप्यति न चाप्रीतिः सा क्षमा परिकीर्तिता ।। १५९
अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः ।
आचारे च व्यवस्थानं शौचमेतत्प्रकीर्तितम् ।। 1.2.१६०
शरीरं पीड्यते येन शुभेनापि च कर्मणा ।
अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते ।। १६१
प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् ।
एतद्धि मङ्गलं प्रोक्तं मुनिभिर्ब्रह्मवादिभिः ।। १६२
स्तोकादपि प्रदातव्यमदीनेनान्तरात्मना ।
अहन्यहनि यत्किंचिदकार्पण्यं तदुच्यते ।। १६३
यथोत्पन्नेन सन्तुष्टः स्वल्पेनाप्यथ वस्तुना ।
अहिंसया परस्वेषु ३ साऽस्पृहा परिकीर्तिता ।। १६४
वपुर्यस्य तु इत्येतैः संस्कारैः संस्कृतं द्विजः ।
ब्रह्मत्वमिह सम्प्राप्य ब्रह्मलोकं च गच्छति ।। १६५
वैदिकैः कर्मभिः पुण्यैर्निषेकाद्यैर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च । । १६६
गर्भशुद्धिं ततः प्राप्य धर्मं चाश्रमलक्षणम् ।
याति मुक्तिं न सन्देहः पुराणेऽस्मिन्नृपोत्तम । । १६७
उशन्ति कुरुशार्दूल ब्राह्मणा नात्र संशयः ।
१आश्रितानां विशेषेण ये नित्यं स्वस्तिवादिनः । । १६८
निकटस्थान्द्विजान्हित्वा योऽन्यान्पूजयति द्विजान् ।
सिद्धं पापं तदपमानात्तद्वक्तुं नैव शक्यते । । १६९
तस्मात्सदा समीपस्थः सम्पूज्यो विधिवन्नृप ।
पूजयेदतिथींस्तद्वदन्नपानादिदानतः । । 1.2.१७०
ब्राह्मणः सर्ववर्णानां ज्येष्ठः श्रेष्ठस्तथोत्तमः ।
एवमस्मिन्पुराणे तु संस्कारान्ब्राह्मणस्य तु । । १७१
शृणोति यश्च जानाति यश्चापि पठते सदा ।
ऋद्धिं वृद्धिं तथा कीर्तिं प्राप्येह श्रियमुत्तमाम् । । १७२
धनं धान्यं यशश्चापि पुत्रान्बन्धून्सुरूपताम् ।
सावित्रं लोकमासाद्य ब्रह्मलोकमवाप्नुयात् । । १७३

इति श्रीभविष्य महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि द्वितीयोऽध्यायः । २ ।