भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ००१

विकिस्रोतः तः
Jump to navigation Jump to search

। । श्री गणेशाय नमः । ।

ऽ नमो भगवते वासुदेवाय

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् । । १
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः ।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति । । २
मूकङ्करोति वाचालं पङ्गु लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् । । ३
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं,
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा,
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे । । ४
यो गोशतं कनकशृङ्गमयं ददाति,
विप्राय वेदविदुषे च बहुश्रुताय ।
पुण्यां भविष्यसुकथां शृणुयात्समग्रां,
पुण्यं समं भवति तस्य च तस्य चैव । । ५
कृत्वा पुराणानि पराशरात्मजः सर्वाण्यनेकानि सुखावहानि ।
तत्रात्मसौख्याय भविष्यधर्मान् कलौ युगे भावि लिलेख सर्वम् । । ६
तत्रापि सर्वर्षिवरप्रमुख्यैः पराशराद्यैर्मुनिभिः प्रणीतान् ।
स्मृत्युक्तधर्मागमसंहितार्थान् व्यासः समासादवदद्भविष्यम् । । ७
अल्पायुषो लोकजनान्समीक्ष्य विद्याविहीनान्पशुवत्सुचेष्टान् ।
तेषां सुखार्थं प्रतिबोधनाय व्यासः पुराणं प्रथितं चकार । । ८
जयति भुवनदीपो भास्करो लोककर्त्ता,
जयति च शितिदेहः शार्ङ्गःधन्वा मुरारिः । ।
जयति च शशिमौली रुद्रनामाभिधेयो,
जयति च स तु देवो भानुमांश्चित्रभानुः । । १
श्रियावृतं तु राजानं शतानीकं महाबलम् ।
अभिजग्मुर्महात्मानः सर्वे द्रष्टुं महर्षयः । । २
भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ।
पराशरस्तथा व्यासः सुमन्तुर्जैमिनिस्तथा । । ३
मुनिः पैलो याज्ञवल्क्यो गौतमस्तु महातपाः ।
भारद्वाजो मुनिर्धीमांस्तथा नारदपर्वतौ । । ४
वैशम्पायनो महात्मा शौनकश्च महातपाः ।
दक्षोऽङ्गिरास्तथा गर्गो गालवश्च महातपाः । । ५
तानागतानृषीन्दृष्ट्वा शतानीको महीपतिः ।
विधिवत्पूजयामास अभिगम्य महामतिः । । ६
पुरोहितं पुरस्कृत्य अर्ध्यं गां स्वागतेन च ।
पूजयित्वा ततः सर्वान्प्रणम्य शिरसा भृशम् । । ७
सुखासीनांस्ततो राजा निरातङ्कान् गतक्लमान् ।
उवाच प्रणतो भूत्वा बाहुमुद्धृत्य दक्षिणम् । । ८
इदानीं सफलं जन्म मन्येऽहं भुवि सत्तमाः ।
आत्मनो द्विजशार्दूला! तथा कीर्तिर्यशो बलम् । । ९
धन्योऽहं पुण्यकर्मा च यतो मां द्रष्टुमागताः ।
येषां स्मरणमात्रेण युष्माकं पूयते नरः । । 1.1.१०
श्रोतुमिच्छाम्यहं किञ्चिद्धर्मशास्त्रमनुत्तमम् ।
आनृशंस्यं समाश्रित्य कथयध्वम् महाबलाः! । । ११
येनाहं धर्मशास्त्रं तु श्रुत्वा गच्छे परां गतिम् ।
यथागतो मम पिता श्रुत्वा वै भारतं पुरा । । १२
तथोक्तास्तेन राज्ञा वै ब्राह्मणास्ते समन्ततः ।
समागम्य मिथस्ते तु विमृश्य च १ भृशम् तदा । । १३
पूजयित्वा ततो व्यासमिदं वचनमब्रुवन् ।
व्यासं प्रसादय विभो! एष ते कथयिष्यति । । १४
तिष्ठत्यस्मिन्महाबाहो! वयं वक्तुं न शक्नुमः ।
तिष्ठमाने गुरौ शिष्यः कथं वक्ति महामते! । । १५
२अयं गुरुः सदास्माकं साक्षान्नारायणस्तथा ।
कृपालुश्च तथा चायं तथा दिव्यविधानवित् । । १६
चतुर्णामपि वर्णानां पावनाय महात्मनाम् ।
धर्मशास्त्रमनेनोक्तं धर्माद्यैः सुसमन्वितम् । । १७
बिभेति गहनाच्छास्त्राल्लोको व्याधिरिवौषधात् ।
भारतस्य च विस्तारो मुनिना व्याहृतः स्वयम् । । १८
यथा स्वादु च पथ्यं च दद्यास्त्वं भिषगौषधम् ।
तथा रम्यं च शास्त्रं च भारतं कृतवान्मुनिः । । १९
आस्तिक्यारोहसोपानमेतद्भारतमुच्यते ।
तच्छ्रुत्वा स्वर्गनरकौ लोकः साक्षादवेक्षते । । 1.1.२०
देवतातीर्थतपसां भारतादेव निश्चयः ।
न जन्यते नास्तिकता तस्य मीमांसकैरपि । । २१
विष्णौ १ देवेषु वेदेषु गुरुषु ब्राह्मणेषु च ।
भक्तिर्भवति कल्याणी भारतादेव धीमताम् । । २२
धर्मार्थकाममोक्षाणां भरतात्सिद्धिरेव हि ।
अजिह्मो भारतः पन्था निर्वाणपदगामिनाम् । । २३
मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः ।
अनित्यतापसन्तप्ता भवन्ति तस्य मुक्तये । । २४
विपत्तिं भारताच्छ्रुत्वा वृष्णिपाण्डवसम्पदाम् ।
दुःखावसानाद्राजेन्द्र! पुण्यं च संश्रयेद्बुधः । । २५
एवंविधं भारतं वै प्रोक्तं येन महात्मना ।
सोऽयं नारायणः साक्षात् व्यासरूपी महामुनिः । । २६
स तेषां वचनं श्रुत्वा प्रतापी यो महीपतिः ।
प्रसादयामास मुनिं व्यासं शास्त्रविशारदम् । । २७
शतानीक उवाच
अञ्जलिः शिरसा ब्रह्मन्! कृतोऽयं पादयोस्तव ।
ब्रूहि मे धर्मशास्त्रं ५ तु येना पूततां व्रजे । । २८
समुद्धर भवादस्मात्कीर्तयित्वा कथां शुभाम् ।
यथा मम पिता पूर्वं कीर्तयित्वा तु भारतम् । । २९
व्यास उवाच
तस्यैतद्वचनं श्रुत्वा व्यासो वचनमब्रवीत् ।
एष शिष्यः सुमन्तुर्मे कथयिष्यति ते प्रभो! । । 1.1.३०
यदिच्छसि महाबाहो! प्रीतिदं चाद्भुतं शुभम् ।
श्रव्यं भरतशार्दूल! सर्वपापभयापहम् । । ३१
यथा वैशम्पायनेन पुरा प्रोक्तं पितुस्तव ।
महाभारतव्याख्यानं ब्रह्महत्याव्यपोहनम् । । ३२
अथ तमृषयः सर्वे राजानमिदमब्रुवन् ।
साधु प्रोक्तं महाबाहो! व्यासेनामितबुद्धिना । । ३३
सुमन्तुं पृच्छ राजर्षे! सर्वशास्त्रविशारदम् ।
अस्माकमपि राजेन्द्र! श्रवणे जायते मतिः ।
अथ व्यासो महातेजाः सुमन्तुमृषिमब्रवीत् । । ३४
कथयास्मै कथास्तात! याः श्रुत्वा मोदते नृपः ।
भारतादिकथानां तु यत्रास्य रमते मनः । । ३५
असावपि महातेजाः श्रुत्वा भावं महामतेः ।
व्यासस्य द्विजशार्दूल! ऋषीणां चापि सर्वशः । । ३६
चकार वक्तुं स मनस्तस्मै राज्ञे महामतिः ।
व्यासस्य शासनाद्विप्र! ऋषीणां चैव सर्वशः । । ३७
अथ राजा महातेजा आजमीढो द्विजोत्तमम् ।
प्रणम्य शिरसात्यर्थं प्रवक्तुमुपचक्रमे । । ३८
शतानीक उवाच
पुण्याख्यानं मम ब्रह्मन्! पावनाय प्रकीर्तय ।
श्रुत्वा यद्ब्राह्मणश्रेष्ठ! मुच्येऽहं सर्वपातकात् । । ३९
सुमन्तुरुवाच
नानाविधानि शास्त्राणि सन्ति पुष्पानि भारत ।
यानि श्रुत्वा नरो राजन्! मुच्यते सर्वकिल्बिषैः । । 1.1.४०
किमिच्छसि महाबाहो! श्रोतुं यत्त्वां ब्रवीमि वै ।
भारतादिकथानां तु यासु धर्मादयः स्थिताः । । ४१
शतानीक उवाच
मतानि कानि विप्रेन्द्र १! धर्मशास्त्राणि सुव्रत! ।
यानि श्रुत्वा नरो विप्र! मुच्यते सर्वकिल्बिषैः । । ४२
सुमन्तुरुवाच
श्रूयन्तां धर्मशास्त्राणि मनुर्विष्णुर्यमोऽङ्गिराः ।
वसिष्ठदक्षसंवर्तशातातपपराशराः । । ४३
आपस्तम्बोऽथ उशना कात्यायनबृहस्पती ।
गौतमःशङ्खलिखितौ हारीतोऽत्रिरथापि वा । । ४४
एतानि धर्मशास्त्राणि श्रुत्वा ज्ञात्वा च भारत! ।
वृन्दारकपुरं गत्वा मोदते नात्र संशयः । । ४५
शतानीक उवाच
यान्येतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत! ।
नेच्छामि श्रोतुं विप्रेन्द्र! ३ श्रुतान्येतानि हि द्विज! । । ४६
त्रयाणामपि वर्णानां प्रोक्तानामपि पण्डितैः ।
श्रेयसे न तु शूद्राणां तत्र मे वचनं शृणु । । ४७
चतुर्णामिह वर्णानां श्रेयसे यानि सुव्रत! ।
भवन्ति द्विजशार्दूल! श्रुतानि भुवनत्रये । । ४८
विशेषतश्चतुर्थस्य वर्णस्य द्विजसत्तम! । । ४९
ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः प्रकल्पिताः ।
मन्वादीनि च शास्त्राणि तथाङ्गानि समन्ततः । । 1.1.५०
शूद्राश्चैव भृशं दीनाः प्रतिभान्ति द्विजप्रभो ।
धर्मार्थकाममोक्षस्य शस्ताः स्युरवने कथम् । । ५१
आगमेन विहीना हि अहो कष्टं मतं मम् ।
कश्चैषामागमः प्रोक्तः पुरा द्विजमनीषिभिः । ।
त्रिवर्गप्राप्तये ब्रह्मञ्छ्रेयसे च तथोभयोः । । ५२
सुमन्तुरुवाच
साधु साधु महाबाहो! शृणु मे परमं वचः ।
चतुर्णामपि वर्णानां यानि प्रोक्तानि श्रेयसे । । ५३
धर्मशास्त्राणि १ राजेन्द्र! शृणु तानि नृपोत्तम ।
विशेषतश्च शूद्राणां पावनानि मनीषिभिः । । ५४
अष्टादशपुराणानि चरितं राघवस्य च ।
रामस्य कुरुशार्दूल! धर्मकामार्थसिद्धये । । ५५
तथोक्तं भारतं वीर! पाराशर्येण धीमता ।
वेदार्थसकलं योज्य३ धर्मशास्त्राणि च प्रभो! । । ५६
कृपालुना कृतं शास्त्रं चतुर्णामिह श्रेयसे ।
वर्णानां भवमग्नानां कृतं पोतो ह्यनुत्तमम् । । ५७
अष्टादशपुराणानि अष्टौ व्याकरणानि च ।
ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् । । ५८
यां श्रुत्वा पुरुषो राजन्! मुच्यते ब्रह्महत्यया ।
प्रथमं प्रोच्यते ब्राह्मं द्वितीयं चैन्द्रमुच्यते । । ५९
याम्यं प्रोक्तं ततो रौद्रं वायव्यं वारुणं तथा ।
सावित्रं च तथा प्रोक्तमष्टमं वैष्णवं तथा । । 1.1.६०
एतानि व्याकरणानि पुराणानि निबोध मे ।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । । ६१
तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् ।
आग्नेयमष्टमं वीर भविष्यं नवमं स्मृतम् । । ६२
दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् ।
वाराहं द्वादशं प्रोक्तं स्कान्दं चैव त्रयोदशम् । । ६३
चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् ।
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । । ६४
एतानि कुरुशार्दूल धर्मशास्त्राणि पण्डितैः ।
साधारणानि प्रोक्तानि वर्णानां श्रेयसे सदा । । ६५
चतुर्णामिह राजेन्द्र श्रोतुमर्हाणि सुव्रत ।
किमिच्छसि महाबाहो श्रोतुमेषां नृपोत्तम । । ६६
शतानीक उवाच
भारतं तु श्रुतं विप्र तातस्याङ्कगतेन तु ।
रामस्य चरितं चापि श्रुतं ब्रह्मन्समन्ततः । । ६७
पुराणानि च विप्रेन्द्र भविष्यं न तु सुव्रत ।
पुराणं वद विप्रेन्द्र! भविष्यं कौतुकं हि मे । । ६८
सुमन्तुरुवाच
साधु साधु महाबाहो साधु पृष्टोऽस्मि ४ मानद ।
शृणु मे वदतो राजन् पुराणं नवमं महत् । । ६९
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो नृप ।
अश्वमेधफलं प्राप्य गच्छेद् भानौ न संशयः । । 1.1.७०
इदं तु ब्रह्मणा प्रोक्तं धर्मशास्त्रमनुत्तमम् ।
विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः ५ । । ७१
शिष्येभ्यश्चैव वक्तव्यं चातुर्वर्ण्येभ्य एव हि ।
अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना । ।
श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन ६ । । ७२
देवार्चां पुरतः १ कृत्वा ब्राह्मणैश्च नृपोत्तम ।
श्रोतव्यमेव शूद्रैश्च तथान्यैश्च द्विजातिभिः । । ७३
श्रौतं स्मार्तं हि वै धर्मं प्रोक्तमस्मिन्नृपोत्तम ।
तस्माच्छूद्रैर्विना विप्रान्न श्रोतव्यं कथञ्चन । ७४
इदं शास्त्रमधीयानो ब्राह्मणः संशितव्रतः ।
मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिम्पते । । ७५
शृण्वन्ति चापि ये राजन् भक्त्या वै ब्राह्मणादयः ।
मुच्यन्ते पातकैः सर्वैर्गच्छन्ति च दिवं प्रभो । । ७६
श्रावयेच्चापि यो विप्रः सर्वान्वर्णान्नृपोत्तम ।
स गुरुः प्रोच्यते तात वर्णानामिह सर्वशः । । ७७
स पूज्यः सर्वकालेषु सर्वैर्वर्णैर्नराधिप ।
पृथिवीं च तथैवेमां कृत्स्नामेकोऽपि सोऽर्हति । । ७८
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् ।
इदं यशस्यं सततमिदं निःश्रेयसं परम् । । ७९
अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् ।
चतुर्णामपि वर्णानामाचारश्चापि शाश्वतः । । 1.1.८०
आचारः प्रथमो धर्मः श्रुत्युक्तश्च नरोत्तम ।
तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मवान्द्विजः । । ८१
आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।
आचारेण च संयुक्तः सम्पूर्णफलभाक्स्मृतः । । ८२
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो मूलमाचारं जगृहुः परम् । । ८३
अन्ये च मानवा राजन्नाचारं संश्रिता सदा ।
एवमस्मिन्पुराणे तु आचारस्य तु कीर्तनम् । । ८४
वृत्तान्तानि च राजेन्द्र तथा चोक्तानि पण्डितैः ।
त्रिलोक्यास्तु समुत्पत्तिः संस्कारविधिरुत्तमः । ।
श्रवणं चेतिहासस्य विधानं कथ्यते नृप । । ८५
तथास्मिन्कथ्यते राजन्माहात्म्यं वाचकस्य तु ।
व्रतचर्याश्रमाचाराः स्नातकस्य परो विधिः । । ८६
दारादिगमनं चैव विवाहानां च लक्षणम् ।
पुंसां च लक्षणं राजन्योषितां चात्र कथ्यते । । ८७
महायज्ञविधानं च शास्त्रकल्पं च शाश्वतम् ।
पृथिव्या लक्षणं तात देवार्चायाः सुलक्षणम् । । ८८
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिरेव च । । ८९
स्त्रीधर्मयोगस्तापस्यं मोक्षः संन्यास एव च ।
राज्ञश्च धर्मो ह्यखिलः कार्याणां च विनिर्णयः । । 1.1.९०
माहात्म्यं सवितुश्चात्र तीर्थानां च विशाम्पते ।
नारायणस्य माहात्म्यं तथा रुद्रस्य कथ्यते । । ९१
महाभाग्यं च विप्राणां माहात्म्यं पुस्तकस्य च ।
दुर्गादेव्यास्तथा चोक्तं सत्यस्य च महामते । । ९२
संक्षिप्तं १ संविधानं च धर्मं स्त्रीपुंसयोरपि ।
विभागं धर्मद्यूतं च कथकानां च शोधनम् । । ९३
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् ।
आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा । । ९४
संध्याविधिं प्रेतशुद्धिं स्नानतर्पणयोर्विधिम् ।
वैश्वदेवविधिं चापि तथा भोज्यविधिं नृप । । ९५
लक्षणं दन्तकाष्ठस्य चरणव्यूहमुत्तमम् ।
संसारगमनं चैव त्रिविधं कर्मसम्भवम् । । ९६
नैःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ।
दाराणां लक्षणं प्रोक्तं तथा पात्रपरीक्षणम् । । ९७
प्रसूतिं चापि गर्भस्य तथा कर्मफलं नृप ।
जातिधर्मान्कुलधर्मान्वेदधर्मांश्च १ पार्थिव । । ९८
वैतानव्रतिकानां च तथासौ प्रोक्तवान्विभुः ।
ब्रह्मा कुरुकुलश्रेष्ठ शंकराय महात्मने । । ९९
शंकरेण तथा विष्णोः कथितं कुरुनन्दन ।
विष्णुनापि पुनः प्रोक्तं नारदाय महीपते । । 1.1.१००
नारदात्प्राप्तवाञ्छक्रः शक्रादपि पराशरः ।
पराशरात्ततो व्यासो व्यासादपि मया विभो । । १०१
एवं परम्पराप्राप्तं पुराणमिदमुत्तमम् ।
शृणु त्वमपि राजेन्द्र मत्सकाशात्परं हितम् । । १०२
सर्वाण्येव पुराणानि संज्ञेयानि नरर्षभ ।
द्वादशैव सहस्राणि प्रोक्तानीह मनीषिभिः । । १०३
पुनर्वृद्धिं गतानीह आख्यानैर्विविधैर्वृष ।
यथा स्कान्दं तथा चेदं भविष्यं कुरुनन्दन । । १०४
स्कान्दं शतसहस्रं तु लोकानां ज्ञातमेव हि ।
भविष्यमेतदृषिणा लक्षार्द्धं संख्यया कृतम् २ । । १०५
तच्छ्रुत्वा पुरुषो भक्त्या इदं फलमवाप्नुयात् ।
ऋद्धिर्वृद्धिस्तथा श्रीश्च भवन्ति तस्य निश्चितम् । । १०६

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राहमे पर्वणि कथाप्रस्तावने प्रथमोऽध्यायः । १ ।