ब्रह्मसूत्रम्/प्रथमः अध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः ब्रह्मसूत्रम्
प्रथमाध्याये द्वितीयः पादः
वेदव्यासः
तृतीयः पादः →

प्रथमे पादे जन्माद्यस्य यतः इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम्। तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वात्मकत्वमित्येवं जातीयका धर्मा उक्ता एव भवन्ति। अर्थान्तरप्रसिद्धानां च केषांचिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि संदिह्यमानानि ब्रह्मपरतया निर्णीतानि। पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि संदिह्यन्ते किं परं ब्रह्म प्रतिपादयन्ति आहोस्विदर्थान्तरं किंचिदिति। तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते

सर्वत्रप्रसिद्ध्यधिकरणम्[सम्पाद्यताम्]

सर्वत्र प्रसिद्धोपदेशात् । ( ब्रसू-१,२.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

इदमाम्नायते सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत। अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्िम्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीरः इत्यादि। तत्र संशयः किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते आहोस्वित्परं ब्रह्मेति। किं तावत्प्राप्तम् शारीर इति। कुतः तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः संबन्धः न परस्य ब्रह्मणः अप्राणो ह्यमनाः शुभ्रः इत्यादिश्रुतिभ्यः। ननु सर्वं खल्विदं ब्रह्म इति स्वशब्देनैव ब्रह्मोपात्तम् कथमिह शारीर आत्मोपास्यत्वेनाशङ्क्यते नैष दोषः नेदं वाक्यं ब्रह्मोपासनविधिपरम् किं तर्हि शमविधिपरम् यत्कारणम् सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत इत्याह। एतदुक्तं भवति यस्मात्सर्वमिदं विकारजातं ब्रह्मैव तज्जत्वात् तल्लत्वात् तदनत्वाच्च न च सर्वस्यैकात्मत्वे रागादयः संभवन्ति तस्मात् शान्त उपासीतेति। न च शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते। उपासनं तु स क्रतुं कुर्वीत इत्यनेन विधीयते। क्रतुः संकल्पो ध्यानमित्यर्थः। तस्य च विषयत्वेन श्रूयते मनोमयः प्राणशरीरः इति जीवलिङ्गम्। अतो ब्रूमः जीवविषयमेतदुपासनमिति। सर्वकर्मा सर्वकामः इत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते। एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते नापरिच्छिन्नस्य ब्रह्मणः। ननु ज्यायान्पृथिव्याः इत्याद्यपि न परिच्छिन्नेऽवकल्पत इति। अत्र ब्रूमः न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम् विरोधात् अन्यतराश्रयणे च प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुम् ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति। निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसंकीर्तनम् एतद्ब्रह्म इति तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव। तस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते

ब्रूमः परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम्। कुतः सर्वत्र प्रसिद्धोपदेशात्। यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम् इह च सर्वं खल्विदं ब्रह्म इति वाक्योपक्रमे श्रुतम् तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम्। एवं च सति प्रकृतहानाप्रकृतप्रक्रिये न भविष्यतः। ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं न स्वविवक्षयेत्युक्तम् अत्रोच्यते यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम् तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म संनिहितं भवति जीवस्तु न संनिहितः न च स्वशब्देनोपात्त इति वैषम्यम्।।


विवक्षितगुणोपपत्तेश् च । ( ब्रसू-१,२.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

वक्तुमिष्टा विवक्षिताः। यद्यप्यपौरुषेये वेदे वक्तुरभावात् नेच्छार्थः संभवति तथाप्युपादानेन फलेनोपचर्यते। लोकेऽपि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते यदनुपादेयं तदविवक्षितमिति। तद्वद्वेदेऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति इतरदविवक्षितम्। उपादानानुपादाने तु वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते। तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसंकल्पप्रभृतयः ते परस्मिन्ब्रह्मण्युपपद्यन्ते। सत्यसंकल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पते। परमात्मगुणत्वेन च य आत्मापहतपाप्मा इत्यत्र सत्यकामः सत्यसंकल्पः इति श्रुतम् आकाशात्मा इति च। आकाशवदात्मा अस्येत्यर्थः। सर्वगतत्वादिभिर्धर्मैः संभवत्याकाशेन साम्यं ब्रह्मणः। ज्यायान्पृथिव्याः इत्यादिना चैतदेव दर्शयति। यदपि आकाश आत्मा अस्येति व्याख्यायते तदपि संभवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम्। अत एव सर्वकर्मा इत्यादि। एवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते। यत्तूक्तम् मनोमयः प्राणशरीरः इति जीवलिङ्गम् न तद्ब्रह्मण्युपपद्यत इति तदपि ब्रह्मण्युपपद्यत इति ब्रूमः। सर्वात्मत्वाद्धि ब्रह्मणो जीवसंबन्धीनि मनोमयत्वादीनि ब्रह्मसंबन्धीनि भवन्ति। तथा च ब्रह्मविषये श्रुतिस्मृती भवतः त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी। त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः इति सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति इति च। अप्राणो ह्यमनाः शुभ्रः इति श्रुतिः शुद्धब्रह्मविषया इयं तु श्रुतिः मनोमयः प्राणशरीरः इति सगुणब्रह्मविषयेति विशेषः। अतो विवक्षितगुणोपपत्तेः परमेव ब्रह्म इहोपास्यत्वेनोपदिष्टमिति गम्यते।।

अनुपपत्तेस् तु न शारीरः । ( ब्रसू-१,२.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ता। अनेन शारीरे तेषामनुपपत्तिरुच्यते। तुशब्दोऽवधारणार्थः। ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणम् न तु शारीरो जीवो मनोमयत्वादिगुणः यत्कारणम् सत्यसंकल्पः आकाशात्मा अवाकी अनादरः ज्यायान्पृथिव्याः इति चैवंजातीयका गुणा न शारीरे आञ्जस्येनोपपद्यन्ते। शारीर इति शरीरे भव इत्यर्थः। नन्वीश्वरोऽपि शरीरे भवति सत्यम् शरीरे भवति न तु शरीर एव भवति ज्यायान्पृथिव्या ज्यायानन्तरिक्षात् आकाशवत्सर्वगतश्च नित्यः इति च व्यापित्वश्रवणात्। जीवस्तु शरीर एव भवति तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात्।।

कर्मकर्तृव्यपदेशाच् च । ( ब्रसू-१,२.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च न शारीरो मनोमयत्वादिगुणः यस्मात्कर्मकर्तृव्यपदेशो भवति एतमितः प्रेत्याभिसंभव़ितास्मि इति। एतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति अभिसंभवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेन। अभिसंभवितास्मीति प्राप्तास्मीत्यर्थः। न च सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः। तथोपास्योपासकभावोऽपि भेदाधिष्ठान एव। तस्मादपि न शारीरो मनोमयत्वादिविशिष्टः।।

शब्दविशेषात् । ( ब्रसू-१,२.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च शारीरादन्यो मनोमयत्वादिगुणः यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरे यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयः इति। शारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तः अन्तरात्मन्निति तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकः। तस्मात्तयोर्भेदोऽधिगम्यते।।

स्मृतेश् च । ( ब्रसू-१,२.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयति ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया इत्याद्या। अत्राह कः पुनरयं शारीरो नाम परमात्मनोऽन्यः यः प्रतिषिध्यते अनुपपत्तेस्तु न शारीरः इत्यादिना श्रुतिस्तु नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता इत्येवंजातीयका परमात्मनोऽन्यमात्मानं वारयति। तथा स्मृतिरपि क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत इत्येवंजातीयकेति।।

अत्रोच्यते सत्यमेवैतत् पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते तद्वत्। तदपेक्षया च कर्मकर्तृत्वादिभेदव्यवहारो न विरुध्यते प्राक् तत्त्वमसि इत्यात्मैकत्वोपदेशग्रहणात्। गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्तिरेव स्यात्।।

अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च । ( ब्रसू-१,२.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

अर्भकमल्पम् ओको नीडम् एष म आत्मान्तर्हृदये इति परिच्छिन्नायतनत्वात् स्वशब्देन च अणीयान्व्रीहेर्वा यवाद्वा इत्यणीयस्त्वव्यपदेशात् शारीर एवाराग्रमात्रो जीव इहोपदिश्यते न सर्वगतः परमात्मा इति यदुक्तं तत्परिहर्तव्यम्। अत्रोच्यते नायं दोषः। न तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यते। सर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशोऽपि कयाचिदपेक्षया संभवति। यथा समस्तवसुधाधिपतिरपि हि सन् अयोध्याधिपतिरिति व्यपदिश्यते। कया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इति। निचाय्यत्वादेवमिति ब्रूमः। एवम् अणीयस्त्वादिगुणगणोपेत ईश्वरः तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते यथा सालग्रामे हरिः। तत्रास्य बुद्धिविज्ञानं ग्राहकम् सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदति। व्योमवच्चैतद्द्रष्टव्यम्। यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयार्भकौकोऽणीयश्चेति व्यपदिश्यते एवं ब्रह्मापि। तदेवं निचाय्यत्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणीयस्त्वं च न पारमार्थिकम्। तत्र यदाशङ्क्यते हृदयायतनत्वाद्ब्रह्मणो हृदयानां च प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां च शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणोऽपि तद्वत्प्रसङ्ग इति तदपि परिहृतं भवति।।

संभोगप्राप्तिर् इति चेन् न वैशेष्यात् । ( ब्रसू-१,२.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

व्योमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसंबन्धात् चिद्रूपतया च शारीरादविशिष्टत्वात् सुखदुःखादिसंभोगोऽप्यविशिष्टः प्रसज्येत एकत्वाच्च न हि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी विद्यते नान्योऽतोऽस्ति विज्ञाता इत्यादिश्रुतिभ्यः। तस्मात्परस्यैव ब्रह्मणः संभोगप्राप्तिरिति चेत् न वैशेष्यात्। न तावत्सर्वप्राणिहृदयसंबन्धात् चिद्रूपतया च शारीरवद्ब्रह्मणः संभोगप्रसङ्गः वैशेष्यात्। विशेषो हि भवति शारीरपरमेश्वरयोः। एकः कर्ता भोक्ता धर्माधर्मादिसाधनः सुखदुःखादिमांश्च। एकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणः। एतस्मादनयोर्विशेषादेकस्य भोगः नेतरस्य। यदि च संनिधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसंबन्धोऽभ्युपगम्येत आकाशादीनामपि दाहादिप्रसङ्गः। सर्वगतानेकात्मवादिनामपि समावेतौ चोद्यपरिहारौ। यदप्येकत्वाद्ब्रह्मण आत्मान्तराभावाच्छारीरस्य भोगेन ब्रह्मणो भोगप्रसङ्गः इति अत्र वदामः इदं तावद्देवानांप्रियः प्रष्टव्यः कथमयं त्वयात्मान्तराभावोऽध्यवसित इति। तत्त्वमसि अहं ब्रह्मास्मि नान्योऽतोऽस्ति विज्ञाता इत्यादिशास्त्रेभ्य इति चेत् यथाशास्त्रं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यः न तत्रार्धजरतीयं लभ्यम्। शास्त्रं च तत्त्वमसि इत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वारयति। कुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गः। अथागृहीतं शारीरस्य ब्रह्मणैकत्वम् तदा मिथ्याज्ञाननिमित्तः शारीरस्योपभोगः न तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः। न हि बालैस्तलमलिनतादिभिर्व्योम्नि विकल्प्यमाने तलमलिनतादिविशिष्टमेव परमार्थतो व्योम भवति। तदाह न वैशेष्यादिति। नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः वैशेष्यात्। विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञानयोः। मिथ्याज्ञानकल्पित उपभोगः सम्यग्ज्ञानदृष्टमेकत्वम्। न च मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यते। तस्मान्नोपभोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम्।।

अत्ताधिकरणम्।[सम्पाद्यताम्]

अत्ता चराचरग्रहणात् । ( ब्रसू-१,२.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

कठवल्लीषु पठ्यते यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः इति। अत्र कश्चिदोदनोपसेचनसूचितोऽत्ता प्रतीयते। तत्र किमग्निरत्ता स्यात् उत जीवः अथवा परमात्मा इति संशयः विशेषानवधारणात् त्रयाणां चाग्निजीवपरमात्मनामस्मिन्ग्रन्थे प्रश्नोपन्यासोपलब्धेः। किं तावत्प्राप्तम् अग्निरत्तेति। कुतः अग्निरन्नादः इति श्रुतिप्रसिद्धिभ्याम्। जीवो वा अत्ता स्यात् तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात् न परमात्मा अनश्चन्नन्योऽभिचाकशीति इति दर्शनादित्येवं प्राप्ते

ब्रूमः अत्तात्र परमात्मा भवितुमर्हति। कुतः चराचरग्रहणात्। चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते तादृशस्य चाद्यस्य न परमात्मनोऽन्यः कात्स्न्र्येनात्ता संभवति। परमात्मा तु विकारजातमुपसंहरन्सर्वमत्तीत्युपपद्यते। नन्विह चराचरग्रहणं नोपलभ्यते कथं सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादीयते नैष दोषः मृत्यूपसेचनत्वेनेहाद्यत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात् ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेः। यत्तु परमात्मनोऽपि नात्तृत्वं संभवति अनश्नन्नन्योऽभिचाकशीति इति दर्शनादिति अत्रोच्यते कर्मफलभोगस्य प्रतिषेधकमेतद्दर्शनम् तस्य संनिहितत्वात्। न विकारसंहारस्य प्रतिषेधकम् सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्रसिद्धत्वात्। तस्मात्परमात्मैवेहात्ता भवितुमर्हति।।

प्रकरणाच् च । ( ब्रसू-१,२.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च परमात्मैवेहात्ता भवितुमर्हति यत्कारणं प्रकरणमिदं परमात्मनः न जायते म्रियते वा विपश्चित् इत्यादि। प्रकृतग्रहणं च न्याय्यम्। क इत्था वेद यत्र सः इति च दुर्विज्ञानत्वं परमात्मलिङ्गम्।।

गुहाप्रविष्टाधिकरणम्[सम्पाद्यताम्]

गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् । ( ब्रसू-१,२.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

कठवल्लीष्वेव पठ्यते ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः इति। तत्र संशयः किमिह बुद्धिजीवौ निर्दिष्टौ उत जीवपरमात्मानामिति। यदि बुद्धिजीवौ ततो बुद्धिप्रधानात्कार्यकरणसंघाताद्विलक्षणो जीवः प्रतिपादितो भवति। तदपीह प्रतिपादयितव्यम् येयं प्रेते विचिकिसा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः इति पृष्टत्वात्। अथ जीवपरमात्मानौ ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति। तदपीह प्रतिपादयितव्यम् अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद इति पृष्टत्वात्। अत्राहाक्षेप्ता उभावप्येतौ पक्षौ न संभवतः। कस्मात् ऋतपानं हि कर्मफलोपभोगः सुकृतस्य लोके इति लिङ्गात्। तच्च चेतनस्य क्षेत्रज्ञस्य संभवति नाचेतनाया बुद्धेः। पिबन्तौ इति द्विवचनेन द्वयोः पानं दर्शयति श्रुतिः। अतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न संभवति। अत एव क्षेत्रज्ञपरमात्मपक्षोऽपि न संभवति चेतनेऽपि परमात्मनि ऋतपानासंभवात् अनश्नन्नन्योऽभिचाकशीति इति मन्त्रवर्णादिति। अत्रोच्यते नैष दोषः छत्रिणो गच्छन्तीत्येकेनापि च्छत्रिणा बहूनामच्छत्रिणां छत्रित्वोपचारदर्शनात्। एवमेकेनापि पिबता द्वौ पिबन्तावुच्येयाताम्। यद्वा जीवस्तावत्पिबति ईश्वरस्तु पाययति पाययन्नपि पिबतीत्युच्यते पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्शनात्। बुद्धिक्षेत्रज्ञपरिग्रहोऽपि संभवति करणे कर्तृत्वोपचारात् एधांसि पचन्ति इति प्रयोगदर्शनात्। न चाध्यात्माधिकारेऽन्यौ कौचिद्द्वावृतं पिबन्तौ संभवतः। तस्माद्बुद्धिजीवौ स्यातां जीवपरमात्मानौ वेति संशयः।।

किं तावत्प्राप्तम् बुद्धिक्षेत्रज्ञाविति। कुतः गुहां प्रविष्टौ इति विशेषणात्। यदि शरीरं गुहा यदि वा हृदयम् उभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते। न च सति संभवे सर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं कल्पयितुम्। सुकृतस्य लोके इति च कर्मगोचरानतिक्रमं दर्शयति। परमात्मा तु न सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते न कर्मणा वर्धते नो कनीयान् इति श्रुतेः। छायातपौ इति च चेतनाचेतनयोर्निर्देश उपपद्यते छायातपवत्परस्परविलक्षणत्वात्। तस्माद्बुद्धिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते

ब्रूमः विज्ञानात्मपरमात्मानाविहोच्येयाताम्। कस्मात् आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ। संख्याश्रवणे च समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते। अस्य गोर्द्वितीयोऽन्वेष्टव्यः इत्युक्ते गौरेव द्वितीयोऽन्विष्यते नाश्वः पुरुषो वा। तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयते। ननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामः। गुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यते गुहाहितं गह्वरेष्ठं पुराणम् यो वेद निहितं गुहायां परमे व्योमन् आत्मानमन्विच्छ गुहां प्रविष्टम् इत्याद्यासु। सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो न विरुध्यत इत्येतदप्युक्तमेव। सुकृतलोकवर्तित्वं तु च्छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम्। छायातपौ इत्यप्यविरुद्धम् छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः अविद्याकृतत्वात्संसारित्वस्य पारमार्थिकत्वाच्चासंसारित्वस्य। तस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते।।

कुतश्च विज्ञानात्मपरमात्मानौ गृह्येते

विशेषणाच् च । ( ब्रसू-१,२.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

विशेषणं च विज्ञानात्मपरमात्मनोरेव भवति। आत्मानं रथिनं विद्धि शरीरं रथमेव तु इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयोर्गन्तारं कल्पयति। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इति परमात्मानं गन्तव्यं कल्पयति। तथा तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ। प्रकरणं चेदं परमात्मनः। ब्रह्मविदो वदन्ति इति च वक्तृविशेषोपादानं परमात्मपरिग्रहे घटते। तस्मादिह जीवपरमात्मानावुच्येयाताम्। एष एव न्यायः द्वा सुपर्णा सयुजा सखाया इत्येवमादिष्वपि। तत्रापि ह्यध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते। तयोरन्यः पिप्पलं स्वाद्वत्ति इत्यदनलिङ्गाद्विज्ञानात्मा भवति। अनश्चन्नन्योऽभिचाकशीति इत्यनशनचेतनत्वाभ्यां परमात्मा। अनन्तरे च मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टि समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः इति।।

अपर आह द्वा सुपर्णा इति नेयमृगस्याधिकरणस्य सिद्धान्तं भजते पैङ्गिरहस्यब्राह्मणेनान्यथा व्याख्यातत्वात् तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्चन्नन्योऽभिचाकशीतीत्यनश्चन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ इति। सत्त्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते तन्न सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वात्। तत्रैव च व्याख्यातत्वात् तदेतत्सत्त्वं येन स्वप्नं पश्यति अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ इति। नाप्यस्याधिकरणस्य पूर्वपक्षभावं भजते। न ह्यत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिना संसारधर्मेणोपेतो विवक्ष्यते। कथं तर्हि सर्वसंसारधर्मातीतो ब्रह्मस्वभावश्चैतन्यमात्रस्वरूपः अनश्चन्नन्योऽभिचाकशीतीत्यनश्चन्नन्योऽभिपश्यति ज्ञः इति वचनात् तत्त्वमसि क्षेत्रज्ञं चापि मां विद्धि इत्यादिश्रुतिस्मृतिभ्यश्च। तावता च विद्योपसंहारदर्शनमेवमेवावकल्पते तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किंचन रज आध्वंसते इत्यादि। कथं पुनरस्मिन्पक्षे तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् इत्यचेतने सत्त्वे भोक्तृत्ववचनमिति उच्यते नेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता किं तर्हि चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां च वक्ष्यामीति। तदर्थं सुखदुःखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयति। इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यते। परमार्थतस्तु नान्यतरस्यापि संभवति अचेतनत्वात्सत्त्वस्य अविक्रियत्वाच्च क्षेत्रज्ञस्य। अविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां न संभवति। तथा च श्रुतिः यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत् इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयति। यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिना च विवेकिनः कर्तृत्वादिव्यवहारं निवारयति।।

अन्तराधिकरणम्[सम्पाद्यताम्]

अन्तर उपपत्तेः । ( ब्रसू-१,२.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति। तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति इत्यादि श्रूयते। तत्र संशयः किमयं प्रतिबिम्बात्माक्ष्यधिकरणो निर्दिश्यते अथ विज्ञानात्मा उत देवतात्मेन्द्रियस्याधिष्ठाता अथवेश्वर इति। किं तावत्प्राप्तम् छायात्मा पुरुषप्रतिरूप इति। कुतः तस्य दृश्यमानत्वप्रसिद्धेः य एषोऽक्षिणि पुरुषो दृश्यते इति च प्रसिद्धवदुपदेशात्। विज्ञानात्मनो वायं निर्देश इति युक्तम्। स हि चक्षुषा रूपं पश्यंश्चक्षुषि संनिहितो भवति। आत्मशब्दश्चास्मिन्पक्षेऽनुकूलो भवति। आदित्यपुरुषो वा चक्षुषोऽनुग्राहकः प्रतीयते रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः इति श्रुतेः अमृतत्वादीनां च देवतात्मन्यपि कथंचित्संभवात्। नेश्वरः स्थानविशेषनिर्देशात् इत्येवं प्राप्ते

ब्रूमः परमेश्वर एवाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट इति। कस्मात् उपपत्तेः। उपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम्। आत्मत्वं तावन्मुख्यया वृत्त्या परमेश्वरे उपपद्यते स आत्मा तत्त्वमसि इति श्रुतेः। अमृतत्वाभयत्वे च तस्मिन्नसकृच्छ्रूयेते। तथा परमेश्वरानुरूपमेतदक्षिस्थानम्। यथा हि परमेश्वरः सर्वदोषैरलिप्तः अपहतपाप्मत्वादिश्रवणात् तथाक्षिस्थानं सर्वलेपरहितमुपदिष्टम् तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति इति श्रुतेः। संयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पते। एतं संयद्वाम इत्याचक्षते। एतं हि सर्वाणि वामान्यभिसंयन्ति एष उ एव वामनीरेष हि सर्वाणि वामानि नयति। एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति इति च। अत उपपत्तेरन्तरः परमेश्वरः।


स्थानादिव्यपदेशाच् च । ( ब्रसू-१,२.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

कथं पुनराकाशवत्सर्वगतस्य ब्रह्मणोऽक्ष्यल्पं स्थानमुपपद्यत इति अत्रोच्यते भवेदेषानवक्लृप्तिः यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत्। सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानि यः पृथिव्यां तिष्ठन् इत्यादिना। तेषु हि चक्षुरपि निर्दिष्टम् यश्चक्षुषि तिष्ठन् इति। स्थानादिव्यपदेशादित्यादिग्रहणेनैतद्दर्शयति न केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यते किं तर्हि नाम रूपमित्येवंजातीयकमप्यनामरूपस्य ब्रह्मणोऽनुचितं निर्दिश्यमानं दृश्यते तस्योदिति नाम हिरण्यश्मश्रुः इत्यादि। निर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेव। सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते सालग्राम इव विष्णोरित्येतदप्युक्तमेव।।


सुखविशिष्टाभिधानाद् एव च । ( ब्रसू-१,२.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च नैवात्र विवदितव्यम् किं ब्रह्मास्मिन्वांक्येऽभिधीयते न वेति। सुखविशिष्टाभिधानादेव ब्रह्मत्वं सिद्धम्। सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तम् प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इति तदेवेहाभिहितम् प्रकृतपरिग्रहस्य न्याय्यत्वात् आचार्यस्तु ते गतिं वक्ता इति च गतिमात्राभिधानप्रतिज्ञानात्। कथं पुनर्वाक्योपक्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति उच्यते प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इत्येतदग्नीनां वचनं श्रुत्वोपकोसल उवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च खं च तु न विजानामि इति। तत्रेदं प्रतिवचनम् यद्वाव कं तदेव खं यदेव खं तदेव कम् इति। तत्र खंशब्दो भूताकाशे निरूढो लोके। यदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत तथा सति केवले भूताकाशे ब्रह्मशब्दो नामादिष्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीतिः स्यात्। तथा कंशब्दस्य विषयेन्द्रियसंपर्कजनिते सामये सुखे प्रसिद्धत्वात् यदि तस्य खंशब्दो विशेषणत्वेन नोपादीयेत लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात्। इतरेतरविशेषितौ तु कंखंशब्दौ सुखात्मकं ब्रह्म गमयतः। तत्र द्वितीये ब्रह्मशब्देऽनुपादीयमाने कं खं ब्रह्म इत्येवोच्यमाने कंशब्दस्य विशेषणत्वेनैवोपयुक्तत्वात्सुखस्य गुणस्याध्येयत्वं स्यात् तन्मा भूत् इत्युभयोः कंखंशब्दयोर्ब्रह्मशब्दशिरस्त्वम् कं ब्रह्म खं ब्रह्म इति। इष्टं हि सुखस्यापि गुणस्य गुणिवद्ध्येयत्वम्। तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम्। प्रत्येकं च गार्हपत्यादयोऽग्नयः स्वं स्वं महिमानमुपदिश्य एषा सोम्य तेऽस्मद्विद्यात्मविद्या च इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दिष्टमिति ज्ञापयन्ति। आचार्यस्तु ते गतिं वक्ता इति च गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वारयति। यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते इति चाक्षिस्थानं पुरुषं विजानतः पाप्मनानुपघातं ब्रुवन्नक्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्शयति। तस्मात्प्रकृतस्यैव ब्रह्मणोऽक्षिस्थानतां संयद्वामत्वादिगुणतां चोक्त्वा अर्चिरादिकां तद्विदो गतिं वक्ष्यामीत्युपक्रमते य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच इति।।


अत एव च स ब्रह्म । ( ब्रसू-१,२.१६ । )


श्रुतोपनिषत्कगत्यभिधानाच् च । ( ब्रसू-१,२.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्चाक्षिस्थानः पुरुषः परमेश्वरः यस्माच्छ्रुतोपनिषत्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते। एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्ते इति स्मृतावपि अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः इति सैवेहाक्षिपुरुषविदोऽभिधीयमाना दृश्यते। अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवन्ति इत्युपक्रम्य आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इति। तदिह ब्रह्मविद्विषयया प्रसिद्धया गत्या अक्षिस्थानस्य ब्रह्मत्वं निश्चीयते।।


अनवस्थितेर् असंभवाच् च नेतरः । ( ब्रसू-१,२.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

यत्पुनरुक्तं छायात्मा विज्ञानात्मा देवतात्मा वा स्यादक्षिस्थान इति अत्रोच्यते न च्छायात्मादिरितर इह ग्रहणमर्हति। कस्मात् अनवस्थितेः। न तावच्छायात्मनश्चक्षुषि नित्यमवस्थानं संभवति। यदैव हि कश्चित्पुरुषश्चक्षुरासीदति तदा चक्षुषि पुरुषच्छाया दृश्यते अपगते तस्मिन्न दृश्यते। य एषोऽक्षिणि पुरुषः इति च श्रुतिः संनिधानात्स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति। न चोपासनाकाले च्छायाकरं कंचित्पुरुषं चक्षुःसमीपे संनिधाप्योपास्त इति युक्तं कल्पयितुम्। अस्यैव शरीरस्य नाशमन्वेष नश्यति इति श्रुतिश्छायात्मनोऽप्यनवस्थितत्वं दर्शयति। असंभावच्च। तस्मिन्नमृतत्वादीनां गुणानां न च्छायात्मनि प्रतीतिः। तथा विज्ञानात्मनोऽपि साधारणे कृत्स्नशरीरेन्द्रियसंबन्धे सति न चक्षुष्येवावस्थितत्वं शक्यं वक्तुम्। ब्रह्मणस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हृदयादिदेशविशेषसंबन्धः। समानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानामसंभवः। यद्यपि विज्ञानात्मा परमात्मनोऽनन्य एव तथाप्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं भयं चेत्यमृतत्वाभयत्वे नोपपद्येते। संयद्वामत्वादयश्चैतस्मिन्ननैश्वर्यादनुपपन्ना एव। देवतात्मनस्तु रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः इति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात् तथाप्यात्मत्वं तावन्न संभवति पराग्रूपत्वात्। अमृतत्वादयोऽपि न संभवन्ति उत्पत्तिप्रलयश्रवणात्। अमरत्वमपि देवानां चिरकालावस्थानापेक्षम्। ऐश्वर्यमपि परमेश्वरायत्तम् न स्वाभाविकम् भीषास्माद्वातः पवते भीषोदेति सूर्यः। भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः इति मन्त्रवर्णात्। तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यः। अस्मिंश्च पक्षे दृश्यते इति प्रसिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम्।।

अन्तर्याम्यधिकरणम्[सम्पाद्यताम्]

अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । ( ब्रसू-१,२.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति इत्युपक्रम्य श्रूयते यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः इत्यादि। अत्राधिदैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मं च कश्चिदन्तरवस्थितो यमयिता अन्तर्यामीति श्रूयते। स किमधिदैवाद्यभिमानी देवतात्मा कश्चित् किं वा प्राप्ताणिमाद्यैश्वर्यः कश्चिद्योगी किं वा परमात्मा किं वार्थान्तरं किंचित इत्यपूर्वसंज्ञादर्शनात्संशयः। किं तावन्नः प्रतिभाति संज्ञाया अप्रसिद्धत्वात्संज्ञिनाप्यप्रसिद्धेनार्थान्तरेण केनचिद्भवितव्यमिति। अथवा नानिरूपितरूपमर्थान्तरं किंचिदपि शक्यमस्तीत्यभ्युपगन्तुम्। अन्तर्यामिशब्दश्चान्तर्यमनयोगेन प्रवृत्तो नात्यन्तमप्रसिद्धः। तस्मात्पृथिव्याद्यभिमानी कश्चिद्देवोऽन्तर्यामी स्यात्। तथा च श्रूयते पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिः इत्यादि। स च कार्यकरणवत्त्वात्पृथिव्यादीनन्तस्तिष्ठन्यमयतीति युक्तं देवतात्मनो यमयितृत्वम्। योगिनो वा कस्यचित्सिद्धस्य सर्वानुप्रवेशेन यमयितृत्वं स्यात्। न तु परमात्मा प्रतीयते अकार्यकरणत्वात् इत्येवं प्राप्ते

इदमुच्यते योऽन्तर्याम्यधिदैवादिषु श्रूयते स परमात्मैव स्यात् नान्य इति। कुतः तद्धर्मव्यपदेशात्। तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्ते। पृथिव्यादि तावदधिदैवादिभेदभिन्नं समस्तं विकारजातमन्तस्तिष्ठन्यमयतीति परमात्मनो यमयितृत्वं धर्म उपपद्यते सर्वविकारकारणत्वे सति सर्वशक्त्युपपत्तेः। एष त आत्मान्तर्याम्यमृतः इति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते। यं पृथिवी न वेद इति च पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन्देवतात्मनोऽन्यमन्तर्यामिणं दर्शयति। पृथिवी देवता ह्यहमस्मि पृथिवीत्यात्मानं विजानीयात्। तथा अदृष्टोऽश्रुतः इत्यादिव्यपदेशो रूपादिविहीनत्वात्परमात्मन उपपद्यत इति। यत्त्वकार्यकरणस्य परमात्मनो यमयितृत्वं नोपपद्यत इति नैष दोषः यान्नियच्छति तत्कार्यकरणैरेव तस्य कार्यकरणवत्त्वोपपत्तेः। तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न संभवति भेदाभावात्। भेदे हि सत्यनवस्थादोषोपपत्तिः। तस्मात्परमात्मैवान्तर्यामी।।


न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च । ( ब्रसू-१,२.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् अदृष्टत्वादयो धर्माः सांख्यस्मृतिकल्पितस्य प्रधानस्याप्युपपद्यन्ते रूपादिहीनतया तस्य तैरभ्युपगमात्। अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः इति हि स्मरन्ति। तस्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्यते। तस्मात्प्रधानमन्तर्यामिशब्दं स्यात्। ईक्षतेर्नाशब्दम् इत्यत्र निराकृतमपि सत् प्रधानमिहादृष्टत्वादिव्यपदेशसंभवेन पुनराशङ्क्यते। अत उत्तरमुच्यते न च स्मार्तं प्रधानमन्तर्यामिशब्दं भवितुमर्हति। कस्मात् अतद्धर्माभिलापात्। यद्यप्यदृष्टत्वादिव्यपदेशः प्रधानस्य संभवति तथापि न द्रष्टृत्वादिव्यपदेशः संभवति प्रधानस्याचेतनत्वेन तैरभ्युपगमात्। अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता इति हि वाक्यशेष इह भवति। आत्मत्वमपि न प्रधानस्योपपद्यते।।

यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसंभवान्नान्तर्याम्यभ्युपगम्यते शारीरस्तर्ह्यन्तर्यामी भवतु। शारीरो हि चेतनत्वाद्द्रष्टा श्रोता मन्ता विज्ञाता च भवति आत्मा च प्रत्यक्त्वात्। अमृतश्च धर्माधर्मफलोपभोगोपपत्तेः। अदृष्टत्वादयश्च धर्माः शारीरे सुप्रसिद्धाः दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् न दृष्टेर्द्रष्टारं पश्येः इत्यादिश्रुतिभ्यश्च। तस्य च कार्यकरणसंघातमन्तर्यमयितुं शीलम् भोक्तृत्वात्। तस्माच्छारीरोऽन्तर्यामीत्यत उत्तरं पठति


शारीरश्चोभयेऽपि हि भेदेनैनमधीयते।(ब्रसू १,२.२१।)

भाष्यम्

शाङ्करभाष्यम्॥

नेति पूर्वसूत्रादनुवर्तते। शारीरश्च नान्तर्यामी स्यात्। कस्मात् यद्यपि द्रष्टृत्वादयो धर्मास्तस्य संभवन्ति तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न कात्स्न्र्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं च शक्नोति। अपि चोभयेऽपि हि शाखिनः काण्वा माध्यंदिनाश्चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयते यो विज्ञाने तिष्ठन् इति काण्वाः। य आत्मनि तिष्ठन् इति माध्यंदिनाः। य आत्मनि तिष्ठन् इत्यस्मिंस्तावत् पाठे भवत्यात्मशब्दः शारीरस्य वाचकः। यो विज्ञाने तिष्ठन् इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते विज्ञानमयो हि शारीर इति। तस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम्। कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारावुपपद्येते यश्चायमीश्वरोऽन्तर्यामी यश्चायमितरः शारीरः का पुनरिहानुपपत्तिः नान्योऽतोऽस्ति द्रष्टा इत्यादिश्रुतिवचनं विरुध्येत। अत्र हि प्रकृतादन्तर्यामिणोऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधति। नियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमिति चेत् न नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्च। अत्रोच्यते अविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तोऽयं शारीरान्तर्यामिणोर्भेदव्यपदेशः न पारमार्थिकः। एको हि प्रत्यगात्मा भवति न द्वौ प्रत्यगात्मानौ संभवतः। एकस्यैव तु भेदव्यवहार उपाधिकृतः यथा घटाकाशो महाकाश इति। ततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते। तथा च श्रुतिः यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति इत्यविद्याविषये सर्वं व्यवहारं दर्शयति। यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इति विद्याविषये सर्वं व्यवहारं वारयति।।

अदृश्यत्वाद्यधिकरणम्[सम्पाद्यताम्]

अदृश्यत्वादिगुणको धर्मोक्तेः । ( ब्रसू-१,२.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः इति श्रूयते। तत्र संशयः किमयमदृश्यत्वादिगुणको भूतयोनिः प्रधानं स्यात् उत शारीरः आहोस्वित्परमेश्वर इति। तत्र प्रधानमचेतनं भूतयोनिरिति युक्तम् अचेतनानामेव तत्र दृष्टान्तत्वेनोपादानात्। यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति। यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् इति। ननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टान्तत्वेनोपात्तौ नेति ब्रूमः। न हि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं वास्ति। चेतनाधिष्ठितं ह्यचेतनमूर्णनाभिशरीरं सूत्रस्य योनिः पुरुषशरीरं च केशलोम्नामिति प्रसिद्धम्। अपि च पूर्वत्रादृष्टत्वाद्यभिलापसंभवेऽपि द्रष्टृत्वाद्यभिलापासंभवान्न प्रधानमभ्युपगतम्। इह त्वदृश्यत्वादयो धर्माः प्रधाने संभवन्ति। न चात्र विरुध्यमानो धर्मः कश्चिदभिलप्यते। ननु यः सर्वज्ञः सर्ववित् इत्ययं वाक्यशेषोऽचेतने प्रधाने न संभवति कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति अत्रोच्यते यया तदक्षरमधिगम्यते यत्तदद्रेश्यम् इत्यक्षरशब्देनादृश्यत्वादिगुणकं भूतयोनिं श्रावयित्वा पुनरन्ते श्रावयिष्यति अक्षरात्परतः परः इति। तत्र यः परोऽक्षराच्छ्रुतः स सर्वज्ञः सर्ववित्संभविष्यति। प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः। यदा तु योनिशब्दो निमित्तवाची तदा शारीरोऽपि भूतयोनिः स्यात् धर्माधर्माभ्यां भूतजातस्योपार्जनादिति। एवं प्राप्ते

अभिधीयते योऽयमदृश्यत्वादिगुणको भूतयोनिः स परमेश्वर एव स्यात् नान्य इति। कथमेतदवगम्यते धर्मोक्तेः। परमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते यः सर्वज्ञः सर्ववित् इति। न हि प्रधानस्याचेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा संभवति। नन्वक्षरशब्दनिर्दिष्टाद्भूतयोनेः परस्यैव एतत्सर्वज्ञत्वं सर्ववित्त्वं च न भूतयोनिविषयमित्युक्तम् अत्रोच्यते नैवं संभवति यत्कारणम् अक्षरात्संभवतीह विश्वम् इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्य अनन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दिशति यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते इति। तस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं च धर्म उच्यत इति गम्यते। अक्षरात्परतः परः इत्यत्रापि च प्रकृताद्भूतयोनेक्षरात्परः कश्चिदभिधीयते कथमेतदवगम्यते येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वत्तो बह्मविद्याम् इति प्रकृतस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात्। कथं तर्हि अक्षरात्परतः परः इति व्यपदिश्यत इति उत्तरसूत्रे तद्वक्ष्यामः। अपि चात्र द्वे विद्ये वेदितव्ये उक्ते परा चैवापरा च इति। तत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीति अथ परा यया तदक्षरमधिगम्यते इत्यादि। तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम्। यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं परिकल्प्येत नेयं परा विद्या स्यात्। परापरविभागो ह्ययं विद्ययोः अभ्युदयनिःश्रेयसफलतया परिकल्प्यते। न च प्रधानस्य विद्या निःश्रेयसफला केनचिदभ्युपगम्यते। तिस्रश्च विद्याः प्रतिज्ञायेरन् त्वत्पक्षेऽक्षराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात्। द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टे। कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि विवक्ष्यमाणेऽवकल्पते नाचेतनमात्रैकायतने प्रधाने भोग्यव्यतिरिक्ते वा भोक्तरि। अपि च स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्यामक्षराधिगमनीं दर्शयन् तस्या ब्रह्मविद्यात्वं दर्शयति। सा च ब्रह्मविद्यासमाख्या तदधिगम्यस्य अक्षरस्याब्रह्मत्वे बाधिता स्यात्। अपरा ऋग्वेदादिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रमे उपन्यस्यते ब्रह्मविद्याप्रशंसायै प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरां मृत्युं ते पुनरेवापि यन्ति इत्येवमादिनिन्दावचनात्। निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयति परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इति। यत्तूक्तम् अचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्दार्ष्टान्तिकेनाप्यचेतनेनैव भूतयोनिना भवितव्यमिति तदयुक्तम् न हि दृष्टान्तदार्ष्टान्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमोऽस्ति अपि च स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति न स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्यते। तस्माददृश्यत्वादिगुणको भूतयोनिः परमेश्वर एव।।


विशेषणभेदव्यपदेशाभ्यां च नेतरौ । ( ब्रसू-१,२.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च परमेश्वर एव भूतयोनिः नेतरौ शारीरः प्रधानं वा। कस्मात् विशेषणभेदव्यपदेशाभ्याम्। विशिनष्टि हि प्रकृतं भूतयोनिं शारीराद्विलक्षणत्वेन दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः। अप्राणो ह्यमनाः शुभ्रः इति। न ह्येतद्दिव्यत्वादिविशेषणम् अविद्याप्रत्युपस्थापितनामरूपपरिच्छेदाभिमानिनः तद्धर्मान्स्वात्मनि कल्पयतः शारीरस्योपपद्यते। तस्मात्साक्षादौपनिषदः पुरुष इहोच्यते। तथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यपदिशति अक्षरात्परतः परः इति। अक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतम् सर्वस्माद्विकारात्परो योऽविकारः तस्मात्परतः परः इति भेदेन व्यपदिशन् परमात्मानमिह विवक्षितं दर्शयति। नात्र प्रधानं नाम किंचित्स्वतन्त्रं तत्त्वमभ्युपगम्य तस्माद्भेदव्यपदेश उच्यते। किं तर्हि यदि प्रधानमपि कल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्दवाच्यं भूतसूक्ष्मं परिकल्प्येत कल्प्यताम्। तस्माद्भेदव्यपदेशात् परमेश्वरो भूतयोनिरित्येतदिह प्रतिपाद्यते।।

कुतश्च परमेश्वरो भूतयोनिः


रूपोपन्यासाच् च । ( ब्रसू-१,२.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च अक्षरात्परतः परः इत्यस्यानन्तरम् एतस्माज्जायते प्राणः इति प्राणप्रभृतीनां पृथिवीपर्यन्तानां तत्त्वानां सर्गमुक्त्वा तस्यैव भूतयोनेः सर्वविकारात्मकं रूपमुपन्यस्यमानं पश्यामः अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा इति। तच्च परमेश्वरस्यैवोचितम् सर्वविकारकारणत्वात् न शारीरस्य तनुमहिम्नः नापि प्रधानस्य अयं रूपोपन्यासः संभवति सर्वभूतान्तरात्मत्वासंभवात्। तस्मात्परमेश्वर एव भूतयोनिः नेतराविति गम्यते। कथं पुनर्भूतयोनेरयं रूपोपन्यास इति गम्यते प्रकरणात् एषः इति च प्रकृतानुकर्षणात्। भूतयोनिं हि प्रकृत्य एतस्माज्जायते प्राणः एष सर्वभूतान्तरात्मा इति वचनं भूतयोनिविषयमेव भवति यथा उपाध्यायं प्रकृत्य एतस्मादधीष्व एष वेदवेदाङ्गपारगः इति वचनमुपाध्यायविषयं भवति तद्वत्। कथं पुनरदृश्यत्वादिगुणकस्य भूतयोनेर्विग्रहवद्रूपं संभवति सर्वात्मत्वविवक्षयेदमुच्यते न तु विग्रहवत्त्वविवक्षया इत्यदोषः अहमन्नमहमन्नमहमन्नम् अहमन्नादः इत्यादिवत्।

अन्ये पुनर्मन्यन्ते नायं भूतयोनेः रूपोपन्यासः जायमानत्वेनोपन्यासात्। एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी इति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत्। उत्तरत्रापि च तस्मादग्निः समिधो यस्य सूर्यः इन्येवमादि अतश्च सर्वा ओषधयो रसाश्च इत्येवमन्तं जामानत्वेनैव निर्देक्ष्यति। इहैव कथमकस्मादन्तराले भूतयोनेः रूपमुपन्यस्येत् सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यति पुरुष एवेदं विश्वं कर्म इत्यादिना। श्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहे हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम इति समवर्ततेति अजायतेत्यर्थः तथा स वै शरीरी प्रथमः स वै पुरुष उच्यते। आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत इति च। विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं संभवति प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात्। अस्मिन्पक्षे पुरुष एवेदं विश्वं कर्म इत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम्।।

वैश्वानराधिकरणम्[सम्पाद्यताम्]

वैश्वानरः साधारणशब्दविशेषात् । ( ब्रसू-१,२.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

को न आत्मा किं ब्रह्म इति आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहि इति चोपक्रम्य द्युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोगमेकैकोपासननिन्दया च वैश्वानरं प्रत्येषां मूर्धादिभावमुपदिश्याम्नायते यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपो वायुः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः इत्यादि। तत्र संशयः किं वैश्वानरशब्देन जाठरोऽग्निरुपदिश्यते उत भूताग्निः अथ तदभिमानिनी देवता अथवा शारीरः आहोस्वित्परमेश्वरः इति। किं पुनरत्र संशयकारणम् वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगात् आत्मेति च शारीरपरमेश्वरयोः। तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः। किं तावत्प्राप्तम् जाठरोऽग्निरिति कुतः तत्र हि विशेषेण क्वचित्प्रयोगो दृश्यते अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते इत्यादौ। अग्निमात्रं वा स्यात् तत्सामान्येनापि प्रयोगदर्शनात् विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् इत्यादौ अग्निशरीरा वा देवता स्यात् तस्यामपि प्रयोगदर्शनात् वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेतायां संभवात्। अथात्मशब्दसामानाधिकरण्यादुपक्रमे च को न आत्मा किं ब्रह्म इति केवलात्मशब्दप्रयोगादात्मशब्दवशेन वैश्वानरशब्दः परिणेय इत्युच्यते तथापि शारीर आत्मा स्यात् तस्य भोक्तृत्वेन वैश्वानरसंनिकर्षात् प्रादेशमात्रमिति च विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने संभवात्। तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्तम्।।

तत्रेदमुच्यते वैश्वानरः परमात्मा भवितुमर्हति। कुतः साधारणशब्दविशेषात् साधारणशब्दयोर्विशेषः साधारणशब्दविशेषः यद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौ वैश्वानरशब्दस्तु त्रयाणां साधारणः आत्मशब्दश्च द्वयोः तथापि विशेषो दृश्यते येन परमेश्वरपरत्वं तयोरभ्युपगम्यते तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः इत्यादिः। अत्र हि परमेश्वर एव द्युमूर्धत्वादिविशिष्टोऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते कारणत्वात्। कारणस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्त्वात् द्युलोकाद्यवयवत्वमुपपद्यते। स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति इति च सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे संभवति एव्ास्य सर्वे पाप्मानः प्रदूयन्ते इति च तद्विदः सर्वपाप्मप्रदाहश्रवणम् को न आत्मा किं ब्रह्म इति चात्मब्रह्मशब्दाभ्यामुपक्रमः इत्येवमन्तानि ब्रह्मलिङ्गानि परमेश्वरमेव गमयन्ति। तस्मात्परमेश्वर एव वैश्वानरः।।


स्मर्यमाणम् अनुमानं स्याद् इति । ( ब्रसू-१,२.२६ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च परमेश्वर एव वैश्वानरः यस्मात्परमेश्वरस्यैव अग्निरास्यं द्यौर्मूर्धा इतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः। सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः इति। तत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य परमेश्वरपरत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थः। इतिशब्दो हेत्वर्थे यस्मादिदं गमकम् तस्मादपि वैश्वानरः परमात्मैवेत्यर्थः। यद्यपि स्तुतिरियम् तस्मै लोकात्मने नमः इति तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण संभवति। द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे। दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता इत्येवंजातीयका च स्मृतिरिहोदाहर्तव्या।।


शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते । ( ब्रसू-१,२.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

अत्राह न परमेश्वरो वैश्वानरो भवितुमर्हति। कुतः शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च। शब्दस्तावत् वैश्वानरशब्दो न परमेश्वरे संभवति अर्थान्तरे रूढत्वात् तथाग्निशब्दः स एषोऽग्निर्वैश्वानरः इति। आदिशब्दात् हृदयं गार्हपत्यः इत्याद्यग्नित्रेताप्रकल्पनम् तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम् इत्यादिना च प्राणाहुत्यधिकरणतासंकीर्तनम्। एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यः। तथान्तःप्रतिष्ठानमपि श्रूयते पुरुषेऽन्तः प्रतिष्ठितं वेद इति। तच्च जाठरे संभवति। यदप्युक्तम् मूर्धैव सुतेजाः इत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति अत्र ब्रूमः कुतो न्वेष निर्णयः यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो न जाठरविषय इति। अथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यति। तस्यापि हि द्युलोकादिसंबन्धो मन्त्रवर्णे अवगम्यते यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् इत्यादौ। अथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलोकाद्यवयवत्वं भविष्यति। तस्मान्न परमेश्वरो वैश्वानर इति।।

अत्रोच्यते न तथादृष्ट्युपदेशादिति। न शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम्। कुतः तथा जाठरापरित्यागेन दृष्ट्युपदेशात्। परमेश्वरदृष्टिर्हि जाठरे वैश्वानरे इहोपदिश्यते मनो ब्रह्मेत्युपासीत इत्यादिवत्। अथवा जाठरवैश्वानरोपाधिः परमेश्वर इह द्रष्टव्यत्वेनोपदिश्यते मनोमयः प्राणशरीरो भारूपः इत्यादिवत्। यदि चेह परमेश्वरो न विवक्ष्येत केवल एव जाठरोऽग्निर्विवक्ष्येत ततः मूर्धैव सुतेजाः इत्यादेर्विशेषस्यासंभव एव स्यात्। यथा तु देवताभूताग्निव्यपाश्रयेणाप्ययं विशेष उपपादयितुं न शक्यते तथोत्तरसूत्रे वक्ष्यामः। यदि च केवल एव जाठरो विवक्ष्येत पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यात् न तु पुरुषत्वम् पुरुषमपि चैनमधीयते वाजसनेयिनः स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषेऽन्तः प्रतिष्ठितं वेद इति। परमेश्वरस्य तु सर्वात्मत्वात्पुरुषत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चोभयमुपपद्यते। ये तु पुरुषविधमपि चैनमधीयते इति सूत्रावयवं पठन्ति तेषामेषोऽर्थः केवलजाठरपरिग्रहे पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं स्यात् न तु पुरुषविधत्वम् पुरुषविधमपि चैनमधीयते वाजसनेयिनः पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद इति। पुरुषविधत्वं च प्रकरणात् यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तम् यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तम् तत्परिगृह्यते।।


अत एव न देवता भूतं च । ( ब्रसू-१,२.२८ । )

भाष्यम्

शाङ्करभाष्यम्॥

यत्पुनरुक्तम् भूताग्नेरपि मन्त्रवर्णे द्युलोकादिसंबन्धदर्शनात् मूर्धैव सुतेजाः इत्याद्यवयवकल्पनं तस्यैव भविष्यतीति तच्छरीराया देवताया वा ए्ैश्वर्ययोगादिति तत्परिहर्तव्यम्। अत्रोच्यते अत एवोक्तेभ्यो हेतुभ्यो न देवता वैश्वानरः। तथा भूताग्निरपि न वैश्वानरः न हि भूताग्नेरौष्ण्यप्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते विकारस्य विकारान्तरात्मत्वासंभवात्। तथा देवतायाः सत्यप्यैश्वर्ययोगे न द्युमूर्धत्वादिकल्पना संभवति अकारणत्वात् परमेश्वराधीनैश्वर्यत्वाच्च। आत्मशब्दासंभवश्च सर्वेष्वेषु पक्षेषु स्थित एव।।


साक्षाद् अप्य् अविरोधं जैमिनिः । ( ब्रसू-१,२.२९ । )

भाष्यम्

शाङ्करभाष्यम्॥

पूर्वं जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तम् अन्तःप्रतिष्ठितत्वाद्यनुरोधेन। इदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे न कश्चिद्विरोध इति जैमिनिराचार्यो मन्यते। ननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचनं शब्दादीनि च कारणानि विरुध्येरन्निति अत्रोच्यते अन्तःप्रतिष्ठितत्ववचनं तावन्न विरुध्यते। न हीह पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद इति जाठराग्न्यभिप्रायेणेदमुच्यते तस्याप्रकृतत्वादसंशब्दितत्वाच्च कथं तर्हि यत्प्रकृतं मूर्धादिचुबुकान्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितम् तदभिप्रायेणेदमुच्यते पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद इति यथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति तद्वत्। अथवा यः प्रकृतः परमात्माध्यात्ममधिदैवतं च पुरुषविधत्वोपाधिः तस्य यत्केवलं साक्षिरूपम् तदभिप्रायेणेदमुच्यते पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद इति। निश्चिते च पूर्वापरालोचनवशेन परमात्मपरिग्रहे तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यते विश्वश्चायं नरश्चेति विश्वेषां वायं नरः विश्वे वा नरा अस्येति विश्वानरः परमात्मा सर्वात्मत्वात् विश्वानर एव वैश्वानरः तद्धितोऽनन्यार्थः राक्षसवायसादिवत्। अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयणेन परमात्मविषय एव भविष्यति। गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं च परमात्मनोऽपि सर्वात्मत्वादुपपद्यते।।

कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यत इति तां व्याख्यातुमारभते


अभिव्यक्तेर् इत्य् आश्मरथ्यः । ( ब्रसू-१,२.३० । )

भाष्यम्

शाङ्करभाष्यम्॥

अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात्। अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृते। प्रदेशविशेषेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषेणाभिव्यज्यते। अतः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते।।


अनुस्मृतेर् बादरिः । ( ब्रसू-१,२.३१ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्रादेशमात्रहृदयप्रतिष्ठितेन वायं मनसानुस्मर्यते तेन प्रादेशमात्रः इत्युच्यते यथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते तद्वत्। यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थसंबन्धाद्व्यज्यते न चेह परमेश्वरगतं किंचित्परिमाणमस्ति यद्धृदयसंबन्धाद्व्यज्येत तथापि प्रयुक्तायाः प्रादेशमात्रश्रुतेः संभवति यथाकथंचिदनुस्मरणमालम्बनमित्युच्यते। प्रादेशमात्रत्वेन वायमप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्तायै। एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति बादरिराचार्यो मन्यते।।


संपत्तेर् इति जैमिनिस् तथा हि दर्शयति । ( ब्रसू-१,२.३२ । )

भाष्यम्

शाङ्करभाष्यम्॥

संपत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिः। कुतः तथाहि समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु संपादयत्प्रादेशमात्रसंपत्तिं परमेश्वरस्य दर्शयति प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसंपन्नास्तथा तु व एवान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसंपादयिष्यामीति। स होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इति। चक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति। नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इति। मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इति। मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इति। चुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानरः इति। चुबुकमित्यधरं मुखफलकमुच्यते। यद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणा समाम्नायते आदित्यश्च सुतेजस्त्वगुणः छान्दोग्ये पुनः द्यौः सुतेजस्त्वगुणा समाम्नायते आदित्यश्च विश्वरूपत्वगुणः तथापि नैतावता विशेषेण किंचिद्धीयते प्रादेशमात्रश्रुतेरविशेषात् सर्वशाखाप्रत्ययत्वाच्च। संपत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते।।


आमनन्ति चैनम् अस्मिन् । ( ब्रसू-१,२.३३ । )

भाष्यम्

शाङ्करभाष्यम्॥

आत्मनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति। सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति। वरणायां नास्यां च मध्ये प्रतिष्ठित इति। का वै वरणा का च नासीति। तत्र चेमामेव नासिकाम् सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासी इति वरणानासीति निरुच्य पुनरप्यामनन्ति कतमच्चास्य स्थानं भवतीति। भ्रुवोर्घ्राणस्य च यः संधिः स एष द्युलोकस्य परस्य च संधिर्भवति इति। तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः। अभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्राया। प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानः अभिगतो वायं प्रत्यगात्मत्वात् विमानश्च मानवियोगात् इत्यभिविमानः। अभिविमिमीते वा सर्वं जगत् कारणत्वादित्यभिविमानः तस्मात्परमेश्वरो वैश्वानर इति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः।।