ब्रह्मसूत्रम्/प्रथमः अध्यायः/प्रथमः पादः

विकिस्रोतः तः
ब्रह्मसूत्रम्
प्रथमाध्याये प्रथमः पादः
वेदव्यासः
द्वितीयः पादः →

जिज्ञासाधिकरणम्[सम्पाद्यताम्]

अथातो ब्रह्मजिज्ञासा । ( ब्रसू-१,१.१ । )

शाङ्करभाष्यम्

अत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते नाधिकारार्थः ब्रह्मजिज्ञासाया अनधिकार्यत्वात् मङ्गलस्य च वाक्यार्थे समन्वयाभावात् अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात्। सति च आनन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम्। स्वाध्यायाध्ययनानन्तर्यं तु समानम्। नन्विह कर्मावबोधानन्तर्यं विशेषः न धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः। यथा च हृदयाद्यवदानानामानन्तर्यनियमः क्रमस्य विवक्षितत्वात् न तथेह क्रमो विवक्षितः शेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात् धर्मब्रह्मजिज्ञासयोः। फलजिज्ञास्यभेदाच्च। अभ्युदयफलं धर्मज्ञानम् तच्चानुष्ठानापेक्षम् निःश्रेयसफलं तु ब्रह्मज्ञानम् न चानुष्ठानान्तरापेक्षम् भव्यश्च धर्मो जिज्ञास्यो न ज्ञानकालेऽस्ति पुरुषव्यापारतन्त्रत्वात् इह तु भूतं ब्रह्म जिज्ञास्यं नित्यवृत्तत्वान्न पुरुषव्यापारतन्त्रम्। चोदनाप्रवृत्तिभेदाच्च। या हि चोदना धर्मस्य लक्षणम् सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम् अवबोधस्य चोदनाजन्यत्वान्न पुरुषोऽवबोधे नियुज्यते यथा अक्षार्थसंनिकर्षेणार्थावबोधे तद्वत्। तस्मात्किमपि वक्तव्यम् यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति। उच्यते नित्यानित्यवस्तुविवेकः इहामुत्रार्थभोगविरागः शमदमादिसाधनसंपत् मुमुक्षुत्वं च। तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च न विपर्यये। तस्मात् अथशब्देन यथोक्तसाधनसंपत्त्यानन्तर्यमुपदिश्यते।।

अतःशब्दः हेत्वर्थः। यस्माद्वेद एव अग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयति तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते इत्यादिः तथा ब्रह्मज्ञानादपि परं पुरुषार्थं दर्शयति ब्रह्मविदाप्नोति परम् इत्यादिः तस्मात् यथोक्तसाधनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या।।

ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा। ब्रह्म च वक्ष्यमाणलक्षणम् जन्माद्यस्य यतः इति। अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम्। ब्रह्मण इति कर्मणि षष्ठी न शेषे जिज्ञास्यापेक्षत्वाज्जिज्ञासायाः जिज्ञास्यान्तरानिर्देशाच्च। ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते संबन्धसामान्यस्य विशेषनिष्ठत्वात् एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात्। न व्यर्थः ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेत् न प्रधानपरिग्रहे तदपेक्षितानामप्यर्थाक्षिप्तत्वात्। ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम्। तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति तान्यर्थाक्षिप्तान्येवेति न पृथक्सूत्रयितव्यानि। यथा राजासौ गच्छति इत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति तद्वत्। श्रुत्यनुगमाच्च। यतो वा इमानि भूतानि जायन्ते इत्याद्याः श्रुतयः तद्विजिज्ञासस्व तद्ब्रह्म इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति। तच्च कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवति। तस्माद्ब्रह्मण इति कर्मणि षष्ठी।।

ज्ञातुमिच्छा जिज्ञासा। अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म फलविषयत्वादिच्छायाः। ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म। ब्रह्मावगतिर्हि पुरुषार्थः निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात्। तस्माद्ब्रह्म जिज्ञासितव्यम्।।

तत्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात् यदि प्रसिद्धं न जिज्ञासितव्यम्। अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति। उच्यते अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम्। ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते बृंहतेर्धातोरर्थानुगमात्। सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः। सर्वो ह्यात्मास्तित्वं प्रत्येति न नाहमस्मि इति। यदि हि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोकः नाहमस्मि इति प्रतीयात्। आत्मा च ब्रह्म। यदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम् न तद्विशेषं प्रति विप्रतिपत्तेः। देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लौकायतिकाश्च प्रतिपन्नाः। इन्द्रियाण्येव चेतनान्यात्मेत्यपरे। मन इत्यन्ये। विज्ञानमात्रं क्षणिकमित्येके। शून्यमित्यपरे। अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरे। भोक्तैव केवलं न कर्तेत्येके। अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित्। आत्मा स भोक्तुरित्यपरे। एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः। तत्राविचार्य यत्किंचित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत अनर्थं चेयात्। तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते।।

ब्रह्म जिज्ञासितव्यमित्युक्तम्। किंलक्षणं पुनस्तद्बह्मेत्यत आह भगवान्सूत्रकारः

जन्माद्यधिकरणम्[सम्पाद्यताम्]

जन्माद्यस्य यतः । ( ब्रसू-१,१.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

जन्म उत्पत्तिः आदिः अस्य इति तद्गुणसंविज्ञानो बहुव्रीहिः। जन्मस्थितिभङ्गं समासार्थः। जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च। श्रुतिनिर्देशस्तावत् यतो वा इमानि भूतानि जायन्ते इति अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात्। वस्तुवृत्तमपि जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसंभवात्। अस्येति प्रत्यक्षादिसंनिधापितस्य धर्मिण इदमा निर्देशः। षष्ठी जन्मादिधर्मसंबन्धार्था। यत इति कारणनिर्देशः। अस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति तद्ब्रह्मेति वाक्यशेषः। अन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम्। यास्कपरिपठितानां तु जायतेऽस्ति इत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले संभाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशा जगतो न गृहीताः स्युरित्याशङ्क्येत तन्मा शङ्कि इति या उत्पत्तिर्ब्रह्मणः कारणात् तत्रैव स्थितिः प्रलयश्च ते गृह्यन्ते। न च यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा अन्यतः प्रधानादचेतनात् अणुभ्यो वा अभावाद्वा संसारिणो वा उत्पत्त्यादि संभावयितुं शक्यम्। न च स्वभावतः विशिष्टदेशकालनिमित्तानामिहोपादानात्। एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणवादिनः।।

नन्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे न वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम्। वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते। वाक्यार्थविचारणाध्यवसाननिर्वृत्ता हि ब्रह्मावगतिः नानुमानादिप्रमाणान्तरनिर्वृत्ता। सत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु तदर्थग्रहणदार्ढ्याय अनुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवत् न निवार्यते श्रुत्यैव च सहायत्वेन तर्कस्याप्यभ्युपेतत्वात्। तथा हि श्रोतव्यो मन्तव्यः इति श्रुतिः पण्डितो मेधावी गन्धारानेवोपसंपद्येतैवमेवेहाचार्यवान्पुरुषो वेद इति च पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति। न धर्मजिज्ञसायामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम्। किंतु श्रुत्यादयोऽनुभवादयश्च यथासंभवमिह प्रमाणम् अनुभवावसानत्वाद्भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य। कर्तव्ये हि विषये नानुभवापेक्षास्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात् पुरुषाधीनात्मलाभत्वाच्च कर्तव्यस्य। कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं लौकिकं वैदिकं च कर्म यथा अश्वेन गच्छति पद्भ्याम् अन्यथा वा न वा गच्छतीति। तथा अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति उदिते जुहोति अनुदिते जुहोति इति। विधिप्रतिषेधाश्च अत्र अर्थवन्तः स्युः विकल्पोत्सर्गापवादाश्च। न तु वस्तु एवम् नैवम् अस्ति नास्ति इति वा विकल्प्यते। विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः। न वस्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षम्। किं तर्हि वस्तुतन्त्रमेव तत्। न हि स्थाणावेकस्मिन् स्थाणुर्वा पुरुषोऽन्यो वा इति तत्त्वज्ञानं भवति। तत्र पुरुषोऽन्यो वा इति मिथ्याज्ञानम्। स्थाणुरेव इति तत्त्वज्ञानम् वस्तुतन्त्रत्वात्। एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम्। तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव भूतवस्तुविषयत्वात्। ननु भूतवस्तुविषयत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमेवेति वेदान्तवाक्यविचारणा अनर्थिकैव प्राप्ता न इन्द्रियाविषयत्वेन संबन्धाग्रहणात्। स्वभावतो विषयविषयाणीन्द्रियाणि न ब्रह्मविषयाणि। सति हीन्द्रियविषयत्वे ब्रह्मणः इदं ब्रह्मणा संबद्धं कार्यमिति गृह्येत। कार्यमात्रमेव तु गृह्यमाणम् किं ब्रह्मणा संबद्धम् किमन्येन केनचिद्वा संबद्धम् इति न शक्यं निश्चेतुम्। तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थम् किं तर्हि वेदान्तवाक्यप्रदर्शनार्थम्। किं पुनस्तद्वेदान्तवाक्यं यत् सूत्रेणेह लिलक्षयिषितम्। भृगुर्वै वारुणिः। वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति इत्युपक्रम्याह यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्मेति। तस्य च निर्णयवाक्यम् आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्यभिसंविशन्ति इति। अन्यान्यप्येवंजातीयकानि वाक्यानि नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाणि उदाहर्तव्यानि।।

जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तम् तदेव द्रढयन्नाह

शास्त्रयोनित्वाधिकरणम्[सम्पाद्यताम्]

शास्त्रयोनित्वात् । ( ब्रसू-१,१.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म। न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः संभवोऽस्ति। यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्संभवति यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके। किमु वक्तव्यम् अनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहेतोः ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्य अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवत् यस्मान्महतो भूतात् योनेः संभवः अस्य महतो भूतस्य निःश्वसितमेतत् यदृग्वेदः इत्यादिश्रुतेः तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति।।

अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमे। शास्त्रादेव प्रमाणात् जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः। शास्त्रमुदाहृतं पूर्वसूत्रे यतो वा इमानि भूतानि जायन्ते इत्यादि। किमर्थं तर्हीदं सूत्रम् यावता पूर्वसूत्रेणैव एवंजातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम्। उच्यते तत्र सूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादिसूत्रेण केवलमनुमानमुपन्यस्तमित्याशङ्क्येत तामाशङ्कां निवर्तयितुमिदं सूत्रं प्रववृते शास्त्रयोनित्वात् इति।।

कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते यावता आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् इति क्रियापरत्वं शास्त्रस्य प्रदर्शितम्। अतो वेदान्तानामानर्थक्यम् अक्रियार्थत्वात् कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वम् उपासनादिक्रियान्तरविधानार्थत्वं वा। न हि परिनिष्ठितवस्तुस्वरूपप्रतिपादनं संभवति प्रत्यक्षादिविषयत्वात्परिनिष्ठितवस्तुनः तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावात्। अत एव सोऽरोदीत् इत्येवमादीनामानर्थक्यं मा भूदिति विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः इति स्तावकत्वेनार्थवत्त्वमुक्तम्। मन्त्राणां च इषे त्वा इत्यादीनां क्रियातत्साधनाभिधायकत्वेन कर्मसमवायित्वमुक्तम्। अतो न क्वचिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टा उपपन्ना वा। न च परिनिष्ठिते वस्तुस्वरूपे विधिः संभवति क्रियाविषयत्वाद्विधेः तस्मात्कर्मापेक्षितकर्तृदेवतादिस्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम्। अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम्। तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते

समन्वयाधिकरणम्[सम्पाद्यताम्]

तत् तु समन्वयात् । ( ब्रसू-१,१.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः। तद्ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादवगम्यते। कथम् समन्वयात्। सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानि। सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् आत्मा वा इदमेक एवाग्र आसीत् तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् अयमात्मा ब्रह्म सर्वानुभूः ब्रह्मैवेदममृतं पुरस्तात् इत्यादीनि। न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वयेऽवगम्यमाने अर्थान्तरकल्पना युक्ता श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्। न च तेषां कर्तृदेवतादिस्वरूपप्रतिपादनपरता अवसीयते तत्केन कं पश्येत् इत्यादिक्रियाकारकफलनिराकरणश्रुतेः। न च परिनिष्ठितवस्तुस्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः तत्त्वमसि इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात्। यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति नैष दोषः हेयोपादेयशून्यब्रह्मात्मतावगमादेव सर्वक्लेशप्रहाणात्पुरुषार्थसिद्धेः। देवतादिप्रतिपादनपरस्य तु स्ववाक्यगतोपासनार्थत्वेऽपि न कश्चिद्विरोधः। न तु तथा ब्रह्मण उपासनाविधिशेषत्वं संभवति एकत्वे हेयोपादेयशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्दोपपत्तेः। न हि ब्रह्मैकत्वविज्ञानेनोन्मथितस्य द्वैतविज्ञानस्य पुनः संभवोऽस्ति येनोपासनाविधिशेषत्वं ब्रह्मणः प्रतिपाद्येत। यद्यप्यन्यत्र वेदवाक्यानां विधिसंस्पर्शमन्तरेण प्रमाणत्वं न दृष्टम् तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम्। न चानुमानगम्यं शास्त्रप्रामाण्यम् येनान्यत्र दृष्टं निदर्शनमपेक्ष्येत। तस्मात्सिद्धं ब्रह्मणः शास्त्रप्रमाणकत्वम्।।

अत्रापरे प्रत्यवतिष्ठन्ते यद्यपि शास्त्रप्रमाणकं ब्रह्म तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यते यथा यूपाहवनीयादीन्यलौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते तद्वत्। कुत एतत् प्रवृत्तिनिवृत्तिप्रयोजनपरत्वाच्छास्त्रस्य। तथा हि शास्त्रतात्पर्यविदामनुक्रमणम् दृष्टो हि तस्यार्थः कर्मावबोधनं नाम इति चोदनेति क्रियायाः प्रवर्तकं वचनम् तस्य ज्ञानमुपदेशः तद्भूतानां क्रियार्थेन समाम्नायः आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् इति च। अतः पुरुषं क्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम्। तच्छेषतया चान्यदुपयुक्तम्। तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात्। सति च विधिपरत्वे यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयते एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम्। नन्विह जिज्ञास्यवैलक्षण्यमुक्तम् कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति तत्र धर्मज्ञानफलादनुष्ठानसापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति। नार्हत्येवं भवितुम् कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात्। आत्मा वा अरे द्रष्टव्यः य आत्मापहतपाप्मा

ईक्षत्यधिकरणम्[सम्पाद्यताम्]

ईक्षतेर् नाशब्दम् । ( ब्रसू-१,१.५ । )


भाष्यम्

शाङ्करभाष्यम्॥

न सांख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम्। अशब्दं हि तत्। कथमशब्दत्वम् ईक्षतेः ईक्षितृत्वश्रवणात्कारणस्य। कथम् एवं हि श्रूयते सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इत्युपक्रम्य तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत इति। तत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति। तथान्यत्र आत्मा वा इदमेक एवाग्र आसीत्। नान्यत्किंचन मिषत्। स ईक्षत लोकान्नु सृजा इति। स इमा्लोकानसृजत इतीक्षापूर्विकामेव सृष्टिमाचष्टे। क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह स ईक्षांचक्रे स प्राणमसृजत इति। ईक्षतेरिति च धात्वर्थनिर्देशोऽभिप्रेतः यजतेरितिवत् न धातुनिर्देशः। तेन यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतब्रह्म नाम रूपमन्नं च जायते इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यान्युदाहर्तव्यानि।।

यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति तन्नोपपद्यते। न हि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं संभवति। ननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति तदपि नोपपद्यते। यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किंचिज्ज्ञमुच्येत। अपि च नासाक्षिका सत्त्ववृत्तिर्जानातिना अभिधीयते। न चाचेतनस्य प्रधानस्य साक्षित्वमस्ति। तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम्। योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम्। अथ पुनः साक्षिनिमित्तमीक्षितृत्वं प्रधानस्यापि कल्प्येत यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम् तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं ब्रह्म मुख्यं जगतः कारणमिति युक्तम्। यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते नित्यज्ञानक्रियत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यासंभवादिति अत्रोच्यते इदं तावद्भवान्प्रष्टव्यः कथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरिति। यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति सोऽसर्वज्ञ इति विप्रतिषिद्धम्। अनित्यत्वे हि ज्ञानस्य कदाचिज्जानाति कदाचिन्न जानातीत्यसर्वज्ञत्वमपि स्यात्। नासौ ज्ञाननित्यत्वे दोषोऽस्ति। ज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यते इति चेत् न प्रततौष्ण्यप्रकाशेऽपि सवितरि दहति प्रकाशयति इति स्वातन्त्र्यव्यपदेशदर्शनात्। ननु सवितुर्दाह्यप्रकाश्यसंयोगे सति दहति प्रकाशयति इति व्यपदेशः स्यात् न तु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमो दृष्टान्तः। न असत्यपि कर्मणि सविता प्रकाशते इति कर्तृत्वव्यपदेशदर्शनात् एवमसत्यपि ज्ञानकर्मणि ब्रह्मणः तदैक्षत इति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम्। कर्मापेक्षायां तु ब्रह्मणि ईक्षितृत्वश्रुतयः सुतरामुपपन्नाः। किं पुनस्तत्कर्म यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीति तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः। यत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीति। यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति न तच्चोद्यमवतरति सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वे ज्ञानसाधनापेक्षानुपपत्तेः। अपि चाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात् न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य। मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति। अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् इति च। ननु नास्ति तव ज्ञानप्रतिबन्धकारणरहितेश्वरादन्यः संसारी नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति विज्ञाता इत्यादिश्रुतेः तत्र किमिदमुच्यते संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः नेश्वरस्येति अत्रोच्यते सत्यं नेश्वरादन्यः संसारी तथापि देहादिसंघातोपाधिसंबन्ध इष्यत एव घटकरकगिरिगुहाद्युपाधिसंबन्ध इव व्योम्नः तत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टः घटच्छिद्रम् करकच्छिद्रम् इत्यादिः आकाशाव्यतिरेकेऽपि तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा तथेहापि देहादिसंघातोपाधिसंबन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः। दृश्यते चात्मन एव सतो देहादिसंघातेऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वपूर्वेण। सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणः। यदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम्। यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते न प्रधानादीनाम् तथा प्रपञ्चयिष्यति न विलक्षणत्वादस्य इत्येवमादिना।।

अत्राह यदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वश्रवणादिति तदन्यथाप्युपपद्यते अचेतनेऽपि चेतनवदुपचारदर्शनात्। यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्य कूलं पिपतिषति इत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्टः तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यति तदैक्षत इति। यथा लोके कश्चिच्चेतनः स्नात्वा भुक्त्वा चापराह्णे ग्रामं रथेन गमिष्यामि इतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते तस्माच्चेतनवदुपचर्यते। कस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं कल्प्यते तत्तेज ऐक्षत ता आप ऐक्षन्त इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात् तस्मात्सत्कर्तृकमपीक्षणमौपचारिकमिति गम्यते उपचारप्राये वचनात् इत्येवं प्राप्ते इदं सूत्रमारभ्यते


गौणश् चेन् नात्मशब्दात् । ( ब्रसू-१,१.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन्नौपचारिकमीक्षितृत्वम् अप्तेजसोरिवेति तदसत्। कस्मात् आत्मशब्दात् सदेव सोम्येदमग्र आसीत् इत्युपक्रम्य तदैक्षत तत्तेजोऽसृजत इति च तेजोबन्नानां सृष्टिमुक्त्वा तदेव प्रकृतं सदीक्षितृ तानि च तेजोबन्नानि देवताशब्देन परामृश्याह सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति। तत्र यदि प्रधानमचेतनं गुणवृत्त्येक्षितृ कल्प्येत तदेव प्रकृतत्वात् सेयं देवता इति परामृश्येत न तदा देवता जीवमात्मशब्देनाभिदध्यात्। जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता तत्प्रसिद्धेर्निर्वचनाच्च। स कथमचेतनस्य प्रधानस्यात्मा भवेत्। आत्मा हि नाम स्वरूपम्। नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति। अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्येत तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते। तथा स य एषोऽणिमैतदात्म्यमिद्र्वं तत्सत्य् आत्मा तत्त्वमसि श्वेतकेतो इत्यत्र स आत्मा इति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य तत्त्वमसि श्वेतकेतो इति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति। अप्तेजसोस्तु विषयत्वादचेतनत्वम् नामरूपव्याकरणादौ च प्रयोज्यत्वेनैव निर्देशात् न चात्मशब्दवत्किंचिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवद्गौणत्वमीक्षितृत्वस्य। तयोरपि सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम्। सतस्त्वात्मशब्दान्न गौणमीक्षितृत्वमित्युक्तम्।।

अथोच्येत अचेतनेऽपि प्रधाने भवत्यात्मशब्दः आत्मनः सर्वार्थकारित्वात् यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दः ममात्मा भद्रसेनः इति। प्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति राज्ञ इव भृत्यः संधिविग्रहादिषु वर्तमानः। अथवैक एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति भूतात्मा इन्द्रियात्मा इति च प्रयोगदर्शनात् यथैक एव ज्योतिःशब्दः क्रतुज्वलनविषयः। तत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति


तन्निष्ठस्य मोक्षोपदेशात् । ( ब्रसू-१,१.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

न प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति स आत्मा इति प्रकृतं सदणिमानमादाय तत्त्वमसि श्वेतकेतो इति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठामुपदिश्य आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये इति मोक्षोपदेशात्। यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यम् तत् असि इति ग्राहयेत् मुमुक्षुं चेतनं सन्तमचेतनोऽसीति तदा विपरीतवादि शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात्। न तु निर्दोषमिदं शास्त्रमप्रमाणं कल्पयितुं युक्तम्। यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रम् स श्रद्दधानतया अन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत् तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत तथा सति पुरुषार्थाद्विहन्येत अनर्थं वा ऋच्छेत्। तस्माद्यथा स्वर्गाद्यर्थिनोऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति तथा मुमुक्षोरपि स आत्मा तत्त्वमसि श्वेतकेतो इति यथाभूतमेवात्मानमुपदिशतीति युक्तम्। एवं च सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसंधस्य मोक्षोपदेश उपपद्यते। अन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे अहमुक्थमस्मीति विद्यात् इतिवत्संपन्मात्रमिदमनित्यफलं स्यात् तत्र मोक्षोपदेशो नोपपद्येत। तस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम्। भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दः ममात्मा भद्रसेनः इति। अपि च क्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेऽर्थे गौणीकल्पना न्याय्या सर्वत्रानाश्वासप्रसङ्गात्। यत्तूक्तं चेतनाचेतनयोः साधारण आत्मशब्दः क्रतुज्वलनयोरिव ज्योतिःशब्द इति तन्न अनेकार्थत्वस्यान्याय्यत्वात्। तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते भूतात्मा इन्द्रियात्मा इति च। साधारणत्वेऽप्यात्मशब्दस्य न प्रकरणमुपपदं वा किंचिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते। न चात्राचेतनस्य निश्चायकं किंचित्कारणमस्ति। प्रकृतं तु सदीक्षितृ संनिहितश्च चेतनः श्वेतकेतुः। न हि चेतनस्य श्वेतकेतोरचेतन आत्मा संभवतीत्यवोचाम। तस्माच्चेतनविषय इहात्मशब्द इति निश्चीयते। ज्योतिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढः अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तः। अथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वाशङ्कतया व्याख्याय ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः तन्निष्ठस्य मोक्षोपदेशात् इति। तस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम्।। कुतश्च न प्रधानं सच्छब्दवाच्यम्

हेयत्वावचनाच् च । ( ब्रसू-१,१.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

यद्यनात्मैव प्रधानं सच्छब्दवाच्यम् स आत्मा तत्त्वमसि इतीहोपदिष्टं स्यात् स तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति मुख्यमात्मानमुपदिदिक्षु शास्त्रं तस्य हेयत्वं ब्रूयात्। यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतीति ग्राहयित्वा तां प्रत्याख्याय पश्चादरुन्धतीमेव ग्राहयति तद्वन्नायमात्मेति ब्रूयात्। न चैवमवोचत्। सन्मात्रात्मावगतिनिष्ठैव हि षष्ठप्रपाठके परिसमाप्तिर्दृश्यते। चशब्दः प्रतिज्ञाविरोधाभ्युच्चयप्रदर्शनार्थः। सत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येत। कारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम् उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् एवं सोम्य स आदेशो भवति इति वाक्योपक्रमे श्रवणात्। न च सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति अप्रधानविकारत्वाद्भोक्तृवर्गस्य। तस्मान्न प्रधानं सच्छब्दवाच्यम्।।

कुतश्च न प्रधानं सच्छब्दवाच्यम्

प्रतिज्ञाविरोधात् । ( ब्रसू-१,१.९ । )


स्वाप्ययात् । ( ब्रसू-१,१.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति इति। एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति। स्वशब्देनेहात्मोच्यते। यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थः। अपिपूर्वस्यैतेर्लयार्थत्वं प्रसिद्धम् प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात्। मनःप्रचारोपाधिविशेषसंबन्धादिन्द्रियार्थान्गृह्णंस्तद्विशेषापन्नो जीवो जागर्ति तद्वासनाविशिष्टः स्वप्नान्पश्यन्मनःशब्दवाच्यो भवति स उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति स्वं ह्यपीतो भवति इत्युच्यते। यथा हृदयशब्दनिर्वचनं श्रुत्या दर्शितम् स वा एष आत्मा हृदि तस्यैतदेव निरुक्तम् हृद्ययमिति तस्माद्धृदयमिति यथा वाशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिः आप एव तदशितं नयन्ते तेज एव तत्पीतं नयते इति च एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवति इतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति। न च चेतन आत्मा अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत। यदि पुनः प्रधानमेवात्मीयत्वात्स्वशब्देनैवोच्येत एवमपि चेतनोऽचेतनमप्येतीति विरुद्धमापद्येत। श्रुत्यन्तरं च प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् इति सुषुप्तावस्थायां चेतने अप्ययं दर्शयति। अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं स्यात् नाचेतनं प्रधानम्।।

कुतश्च न प्रधानं जगतः कारणम्

गतिसामान्यात् । ( ब्रसू-१,१.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति इति। एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति। स्वशब्देनेहात्मोच्यते। यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थः। अपिपूर्वस्यैतेर्लयार्थत्वं प्रसिद्धम् प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात्। मनःप्रचारोपाधिविशेषसंबन्धादिन्द्रियार्थान्गृह्णंस्तद्विशेषापन्नो जीवो जागर्ति तद्वासनाविशिष्टः स्वप्नान्पश्यन्मनःशब्दवाच्यो भवति स उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति स्वं ह्यपीतो भवति इत्युच्यते। यथा हृदयशब्दनिर्वचनं श्रुत्या दर्शितम् स वा एष आत्मा हृदि तस्यैतदेव निरुक्तम् हृद्ययमिति तस्माद्धृदयमिति यथा वाशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिः आप एव तदशितं नयन्ते तेज एव तत्पीतं नयते इति च एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवति इतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति। न च चेतन आत्मा अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत। यदि पुनः प्रधानमेवात्मीयत्वात्स्वशब्देनैवोच्येत एवमपि चेतनोऽचेतनमप्येतीति विरुद्धमापद्येत। श्रुत्यन्तरं च प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् इति सुषुप्तावस्थायां चेतने अप्ययं दर्शयति। अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं स्यात् नाचेतनं प्रधानम्।।

कुतश्च न प्रधानं जगतः कारणम्

श्रुतत्वाच् च । ( ब्रसू-१,१.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः इति। तस्मात्सर्वज्ञं ब्रह्म जगतः कारणम् नाचेतनं प्रधानमन्यद्वेति सिद्धम्।।

जन्माद्यस्य यतः इत्यारभ्य श्रुतत्वाच्च इत्येतदन्तैः सूत्रैर्यान्युदाहृतानि वेदान्तवाक्यानि तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिप्रलयकारणमित्येतस्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम्। गतिसामान्योपन्यासेन च सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम्। अतः परस्य ग्रन्थस्य किमुत्थानमिति उच्यते द्विरूपं हि ब्रह्मावगम्यते नामरूपविकारभेदोपाधिविशिष्टम् तद्विपरीतं च सर्वोपाधिविवर्जितम्। यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् यो वै भूमा तदमृतम् अथ यदल्पं तन्मर्त्यम् सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्। अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् नेति नेति अस्थूलमनण्वह्रस्वमदीर्घम् इति न्यूनमन्यत्स्थानं संपूर्णमन्यत् इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वेदान्तवाक्यानि। तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः। तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि कानिचित्क्रममुक्त्यर्थानि कानिचित्कर्मसमृद्ध्यर्थानि। तेषां गुणविशेषोपाधिभेदेन भेदः। एक एव तु पर आत्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति तथापि यथागुणोपासनमेव फलानि भिद्यन्ते तं यथा यथोपासते तदेव भवति इति श्रुतेः यथाक्रतुरस्िम्लोके पुरुषो भवति तथेतः प्रेत्य भवति इति च स्मृतेश्च यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः इति। यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते तस्य य आत्मानमाविस्तरां वेद इत्यत्र स्मृतावपि यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् इति यत्र यत्र विभूत्याद्यतिशयः स स ईश्वर इत्युपास्यतया चोद्यते। एवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यति। एवम् आकाशस्तल्लिङ्गात् इत्यादिषु द्रष्टव्यम्। एवं सद्योमुक्तिकारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसंबन्धविशेषं परापरविषयत्वेन संदिह्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवति यथेहैव तावत् आनन्दमयोऽभ्यासात् इति। एवमेकमपि ब्रह्मापेक्षितोपाधिसंबन्धं निरस्तोपाधिसंबन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते। यच्च गतिसामान्यात् इत्यचेतनकारणनिराकरणमुक्तम् तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते



आनन्दमयाधिकरणम्[सम्पाद्यताम्]

आनन्दमयोऽभ्यासात् । ( ब्रसू-१,१.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायते तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः इति। तत्र संशयः किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते यत्प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म इति किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमिति। किं तावत्प्राप्तम् ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात्। कस्मात् अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात्। अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च। मुख्यश्चेदात्मा स्यान्न प्रियादिसंस्पर्शः स्यात्। इह तु तस्य प्रियमेव शिरः इत्यादि श्रूयते। शारीरत्वं च श्रूयते तस्यैष एव शारीर आत्मा यः पूर्वस्य इति। तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः। न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः। तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते इदमुच्यते

आनन्दमयोऽभ्यासात्। पर एवात्मानन्दमयो भवितुमर्हति। कुतः अभ्यासात्। परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते। आनन्दमयं प्रस्तुत्य रसो वै सः इति तस्यैव रसत्वमुक्त्वा उच्यते रस््येवायं लब्ध्वानन्दीभवति। को ह्येवान्यात्कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्येवानन्दयाति सैषानन्दस्य मीमा्ा भवति एतमानन्दमयमात्मानमुपसंक्रामति आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन इति आनन्दो ब्रह्मेति व्यजानात् इति च। श्रुत्यन्तरे च विज्ञानमानन्दं ब्रह्म इति ब्रह्मण्येवानन्दशब्दो दृष्टः। एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते। यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति नासौ दोषः आनन्दमयस्य सर्वान्तरत्वात्। मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिमनुसरत् अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत् प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम्। यथारुन्धतीदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु या अन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम्। यत्तु ब्रूषे प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इति अतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्यदोषः। शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात् न पुनः साक्षादेव शारीरत्वं संसारिवत्। तस्मादानन्दमयः पर एवात्मा।।

विकारशब्दान् नेति चेन् न प्राचुर्यात् । ( ब्रसू-१,१.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायते तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः इति। तत्र संशयः किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते यत्प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म इति किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमिति। किं तावत्प्राप्तम् ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात्। कस्मात् अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात्। अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च। मुख्यश्चेदात्मा स्यान्न प्रियादिसंस्पर्शः स्यात्। इह तु तस्य प्रियमेव शिरः इत्यादि श्रूयते। शारीरत्वं च श्रूयते तस्यैष एव शारीर आत्मा यः पूर्वस्य इति। तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः। न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः। तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते इदमुच्यते

आनन्दमयोऽभ्यासात्। पर एवात्मानन्दमयो भवितुमर्हति। कुतः अभ्यासात्। परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते। आनन्दमयं प्रस्तुत्य रसो वै सः इति तस्यैव रसत्वमुक्त्वा उच्यते रस््येवायं लब्ध्वानन्दीभवति। को ह्येवान्यात्कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्येवानन्दयाति सैषानन्दस्य मीमा्ा भवति एतमानन्दमयमात्मानमुपसंक्रामति आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन इति आनन्दो ब्रह्मेति व्यजानात् इति च। श्रुत्यन्तरे च विज्ञानमानन्दं ब्रह्म इति ब्रह्मण्येवानन्दशब्दो दृष्टः। एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते। यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति नासौ दोषः आनन्दमयस्य सर्वान्तरत्वात्। मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिमनुसरत् अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत् प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम्। यथारुन्धतीदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु या अन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम्। यत्तु ब्रूषे प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इति अतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्यदोषः। शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात् न पुनः साक्षादेव शारीरत्वं संसारिवत्। तस्मादानन्दमयः पर एवात्मा।।

तद्धेतुव्यपदेशाच् च । ( ब्रसू-१,१.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च प्राचुर्यार्थे मयट् यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः एष ह्येवानन्दयाति इति आनन्दयतीत्यर्थः। यो ह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति यथा लोके योऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते तद्वत्। तस्मात्प्राचुर्यार्थेऽपि मयटः संभवादानन्दमयः पर एवात्मा।।


मान्त्रवर्णिकमेव च गीयते । ( ब्रसू-१,१.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्चानन्दमयः पर एवात्मा यस्मात् ब्रह्मविदाप्नोति परम् इत्युपक्रम्य सत्यं ज्ञानमनन्तं ब्रह्म इत्यस्मिन्मन्त्रे यत् ब्रह्म प्रकृतं सत्यज्ञानानन्तविशेषणैर्निर्धारितम् यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरम् यस्य विज्ञानाय अन्योऽन्तर आत्मा अन्योऽन्तर आत्मा इति प्रक्रान्तम् तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते अन्योऽन्तर आत्मानन्दमयः इति। मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम् अविरोधात्। अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम्। न चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्माभिधीयते। एतन्निष्ठैव च भार्गवी वारुणी विद्या आनन्दो ब्रह्मेति व्यजानात् इति। तस्मादानन्दमयः पर एवात्मा।।

नेतरोऽनुपपत्तेः । ( ब्रसू-१,१.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्चानन्दमयः पर एवात्मा नेतरः इतर ईश्वरादन्यः संसारी जीव इत्यर्थः। न जीव आनन्दमयशब्देनाभिधीयते कस्मात् अनुपपत्तेः। आनन्दमयं हि प्रकृत्य श्रूयते सोऽकामयत। बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तप्त्वा। इद्र्वमसृजत। यदिदं किंच इति। तत्र प्राक्शरीराद्युत्पत्तेरभिध्यानम् सृज्यमानानां च विकाराणां स्रष्टुरव्यतिरेकः सर्वविकारसृष्टिश्च न परस्मादात्मनोऽन्यत्रोपपद्यते।।

भेदव्यपदेशाच् च । ( ब्रसू-१,१.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च नानन्दमयः संसारी यस्मादानन्दमयाधिकारे रसो वै सः। रस््येवायं लब्ध्वानन्दी भवति इति जीवानन्दमयौ भेदेन व्यपदिशति। न हि लब्धैव लब्धव्यो भवति। कथं तर्हि आत्मान्वेष्टव्यः आत्मलाभान्न परं विद्यते इति श्रुतिस्मृती यावता न लब्धैव लब्धव्यो भवतीत्युक्तम् बाढम् तथाप्यात्मनोऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्वनिश्चयो लौकिको दृष्टः। तेन देहादिभूतस्यात्मनोऽपि आत्मा अनन्विष्टः अन्वेष्टव्यः अलब्धः लब्धव्यः अश्रुतः श्रोतव्यः अमतः मन्तव्यः अविज्ञातः विज्ञातव्यः इत्यादिभेदव्यपदेश उपपद्यते। प्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा नान्योऽतोऽस्ति द्रष्टा इत्यादिना। परमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यः यथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः यथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यः। ईदृशं च विज्ञानात्मपरमात्मभेदमाश्रित्य नेतरोऽनुपपत्तेः भेदव्यपदेशाच्च इत्युक्तम्।।

कामाच् च नानुमानापेक्षा । ( ब्रसू-१,१.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

आनन्दमयाधिकारे च सोऽकामयत बहु स्यां प्रजायेयेति इति कामयितृत्वनिर्देशाच्च नानुमानिकमपि सांख्यपरिकल्पितमचेतनं प्रधानमानन्दमयत्वेन कारणत्वेन वा अपेक्षितव्यम्। ईक्षतेर्नाशब्दम् इति निराकृतमपि प्रधानं पूर्वसूत्रोदाहृतां कामयितृत्वश्रुतिमाश्रित्य प्रसङ्गात्पुनर्निराक्रियते गतिसामान्यप्रपञ्चनाय।।


अस्मिन्न् अस्य च तद्योगं शास्ति । ( ब्रसू-१,१.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च न प्रधाने जीवे वानन्दमयशब्दः यस्मादस्मिन्नानन्दमये प्रकृत आत्मनि प्रतिबुद्धस्यास्य जीवस्य तद्योगं शास्ति तदात्मना योगस्तद्योगः तद्भावापत्तिः मुक्तिरित्यर्थः तद्योगं शास्ति शास्त्रम् यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति। यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति इति। एतदुक्तं भवति यदैतस्मिन्नानन्दमयेऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति तदा संसारभयान्न निवर्तते यदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति तदा संसारभयान्निवर्तत इति। तच्च परमात्मपरिग्रहे घटते न प्रधानपरिग्रहे जीवपरिग्रहे वा। तस्मादानन्दमयः परमात्मेति सिद्धम्।।

इदं त्विह वक्तव्यम् स वा एष पुरुषोऽन्नरसमयः तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः तस्मात् अन्योऽन्तर आत्मा मनोमयः तस्मात् अन्योऽन्तर आत्मा विज्ञानमयः इति च विकारार्थे मयट्प्रवाहे सति आनन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इति। मान्त्रवर्णिकब्रह्माधिकारादिति चेत् न अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः। अत्राह युक्तमन्नमयादीनामब्रह्मत्वम् तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात् आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मोच्यते तेनानन्दमयस्य ब्रह्मत्वम् अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति। अत्रोच्यते यद्यप्यन्नमयादिभ्य इवानन्दमयात् अन्योऽन्तर आत्मा इति न श्रूयते तथापि नानन्दमयस्य ब्रह्मत्वम् यत आनन्दमयं प्रकृत्य श्रूयते तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठा इति। तत्र यद्ब्रह्मेह मन्त्रवर्णे प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म इति तदिह ब्रह्म पुच्छं प्रतिष्ठा इत्युच्यते। तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्ते। तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गः। नन्वानन्दमयस्यावयवत्वेन ब्रह्म पुच्छं प्रतिष्ठा इत्युच्यते अन्नमयादीनामिव इदं पुच्छं प्रतिष्ठा इत्यादि तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् प्रकृतत्वादिति ब्रूमः। नन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते आनन्दमयस्य ब्रह्मत्वादिति अत्रोच्यते तथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी तदेव च ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्जस्यं स्यात्। अन्यतरपरिग्रहे तु युक्तम् ब्रह्म पुच्छं प्रतिष्ठा इत्यत्रैव ब्रह्मनिर्देश आश्रयितुम् ब्रह्मशब्दसंयोगात् नानन्दमयवाक्ये ब्रह्मशब्दसंयोगाभावादिति। अपि च ब्रह्म पुच्छं प्रतिष्ठेत्युक्त्वेदमुच्यते तदप्येष श्लोको भवति। असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुः इति। अस्मिंश्च श्लोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते ब्रह्म पुच्छं प्रतिष्ठा इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति। न चानन्दमयस्यात्मनो भावाभावाशङ्का युक्ता प्रियमोदादिविशिष्टस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात्। कथं पुनः स्वप्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते ब्रह्म पुच्छं प्रतिष्ठा इति नैष दोषः। पुच्छवत्पुच्छम् प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते नावयवत्वम् एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुत्यन्तरात्। अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम् निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते वाङ्मनसयोरगोचरत्वाभिधानात् यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कुतश्चन इति। अपि चानन्दप्रचुर इत्युक्ते दुःखाल्पीयस्त्वमपि गम्यते प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात्। तथा च सति यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येत। प्रतिशरीरं च प्रियादिभेदादानन्दमयस्य भिन्नत्वम् ब्रह्म तु न प्रतिशरीरं भिद्यते सत्यं ज्ञानमनन्तं ब्रह्म इत्यानन्त्यश्रुतेः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा इति च श्रुत्यन्तरात्। न चानन्दमयाभ्यासः श्रूयते। प्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यते रसो वै सः। रस््येवायं लब्ध्वानन्दी भवति। को ह्येवान्यात्कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात् सैषानन्दस्य मीमा्ा भवति आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन इति आनन्दो ब्रह्मेति व्यजानात् इति च। यदि चानन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत् तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत न त्वानन्दमयस्य ब्रह्मत्वमस्ति प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम तस्माच्छ्रुत्यन्तरे विज्ञानमानन्दं ब्रह्म इत्यानन्दपदप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात् यदेष आकाश आनन्दो न स्यात् इति ब्रह्मविषयः प्रयोगो न त्वानन्दमयाभ्यास इत्यवगन्तव्यम्। यस्त्वयं मयडन्तस्यैवानन्दमयशब्दस्याभ्यासः एतमानन्दमयमात्मानमुपसंक्रामति इति न तस्य ब्रह्मविषयत्वमस्ति विकारात्मनामेवान्नमयादीनामनात्मनामुपसंक्रमितव्यानां प्रवाहे पतितत्वात्। नन्वानन्दमयस्योपसंक्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत्। नैष दोषः आनन्दमयोपसंक्रमणनिर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्टत्वात् तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते इत्यादिना च प्रपञ्च्यमानत्वात्। या त्वानन्दमयसंनिधाने सोऽकामयत बहु स्यां प्रजायेयेति इतीयं श्रुतिरुदाहृता सा ब्रह्म पुच्छं प्रतिष्ठा इत्यनेन संनिहिततरेण ब्रह्मणा संबध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति। तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य रसो वै सः इत्यादेर्नानन्दमयविषयता। ननु सोऽकामयत इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते। नायं दोषः तस्माद्वा एतस्मादात्मन आकाशः संभूतः इत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात्। यत्तु भार्गवी वारुणी विद्या आनन्दो ब्रह्मेति व्यजानात् इति तस्यां मयडश्रवणात्प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्। तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते। न चेह सविशेषं ब्रह्म प्रतिपिपादयिषितम् वाङ्मनसगोचरातिक्रमणश्रुतेः। तस्मादन्नमयादिष्विवानन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयः न प्राचुर्यार्थः।।

सूत्राणि त्वेवं व्याख्येयानि ब्रह्म पुच्छं प्रतिष्ठा इत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यते उत स्वप्रधानत्वेनेति। पुच्छशब्दादवयवत्वेनेति प्राप्ते उच्यते आनन्दमयोऽभ्यासात् आनन्दमय आत्मा इत्यत्र ब्रह्म पुच्छं प्रतिष्ठा इति स्वप्रधानमेव ब्रह्मोपदिश्यते अभ्यासात् असन्नेव स भवति इत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात्। विकारशब्दान्नेति चेन्न प्राचुर्यात् विकारशब्दोऽवयवशब्दोऽभिप्रेतः पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम् तस्य परिहारो वक्तव्यः अत्रोच्यते नायं दोषः प्राचुर्यादप्यवयवशब्दोपपत्तेः प्राचुर्यं प्रायापत्तिः अवयवप्राये वचनमित्यर्थः अन्नमयादीनां हि शिरआदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वा अवयवप्रायापत्त्या ब्रह्म पुच्छं प्रतिष्ठा इत्याह नावयवविवक्षया यत्कारणम् अभ्यासात् इति स्वप्रधानत्वं ब्रह्मणः समर्थितम्। तद्धेतुव्यपदेशाच्च सर्वस्य हि विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यते इद्र्वमसृजत यदिदं किंच इति। न च कारणं सद्ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यते। अपराण्यपि सूत्राणि यथासंभवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि।।

अन्तरधिकरणम्[सम्पाद्यताम्]

अन्तस् तद्धर्मोपदेशात् । ( ब्रसू-१,१.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

इदमाम्नायते अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्वएव सुवर्णः तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद इत्यधिदैवतम्। अथाध्यात्ममपि अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते इत्यादि। तत्र संशयः किं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यत्वेन श्रूयते किं वा नित्यसिद्धः परमेश्वरः इति। किं तावत्प्राप्तम् संसारीति। कुतः रूपवत्त्वश्रवणात्। आदित्यपुरुषे तावत् हिरण्यश्मश्रुः इत्यादि रूपमुदाहृतम् अक्षिपुरुषेऽपि तदेवातिदेशेन प्राप्यते तस्यैतस्य तदेव रूपं यदमुष्य रूपम् इति। न च परमेश्वरस्य रूपवत्त्वं युक्तम् अशब्दमस्पर्शमरूपमव्ययम् इति श्रुतेः आधारश्रवणाच्च य एषोऽन्तरादित्ये य एषोऽन्तरक्षिणि इति। न ह्यनाधारस्य स्वमहिमप्रतिष्ठितस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत। स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि इति आकाशवत्सर्वगतश्च नित्यः इति च श्रुती भवतः। ऐश्वर्यमर्यादाश्रुतेश्च स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च इत्यादित्यपुरुषस्य ऐश्वर्यमर्यादा स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च इत्यक्षिपुरुषस्य। न च परमेश्वरस्य मर्यादावदैश्वर्यं युक्तम् एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय इत्यविशेषश्रुतेः। तस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते

ब्रूमः अन्तस्तद्धर्मोपदेशात् इति। य एषोऽन्तरादित्ये य एषोऽन्तरक्षिणि इति च श्रूयमाणः पुरुषः परमेश्वर एव न संसारी। कुतः तद्धर्मोपदेशात्। तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः। तद्यथा तस्योदिति नाम इति श्रावयित्वा तस्यादित्यपुरुषस्य नाम स एष सर्वेभ्यः पाप्मभ्य उदितः इति सर्वपाप्मापगमेन निर्वक्ति। तदेव च कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति यन्नाम तन्नाम इति। सर्वपाप्मापगमश्च परमात्मन एव श्रूयते य आत्मापहतपाप्मा इत्यादौ। तथा चाक्षुषे पुरुषे सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म इति ऋक्सामाद्यात्मकतां निर्धारयति। सा च परमेश्वरस्योपपद्यते सर्वकारणत्वात्सर्वात्मकत्वोपपत्तेः। पृथिव्यग्न्याद्यात्मके चाधिदैवतमृक्सामे वाक्प्राणाद्यात्मके चाध्यात्ममनुक्रम्याह तस्यर्क्च साम च गेष्णौ इत्यधिदैवतम्। तथाध्यात्ममपि यावमुष्य गेष्णौ तौ गेष्णौ इति। तच्च सर्वात्मकत्वे सत्येवोपपद्यते। तद्य इमे वीणायां गायन्त्येतं त्वेव ते गायन्ति तस्मात्ते धनसनयः इति च लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति। तच्च परमेश्वरपरिग्रह एव घटते यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् इति भगवद्गीतादर्शनात्। लोककामेशितृत्वमपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति। यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपवत्त्वश्रवणं परमेश्वरे नोपपद्यत इति अत्र ब्रूमः स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि इति स्मरणात्। अपि च यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते भवति तत्र शास्त्रम् अशब्दमस्पर्शमरूपमव्ययम् इत्यादि। सर्वकारणत्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः इत्यादिना। तथा हिरण्यश्मश्रुत्वादिनिर्देशोऽपि भविष्यति। यदप्याधारश्रवणान्न परमेश्वर इति अत्रोच्यते स्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो भविष्यति सर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेः। ऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमुपासनार्थमेव। तस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते।। इदमाम्नायते अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्वएव सुवर्णः तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद इत्यधिदैवतम्। अथाध्यात्ममपि अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते इत्यादि। तत्र संशयः किं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यत्वेन श्रूयते किं वा नित्यसिद्धः परमेश्वरः इति। किं तावत्प्राप्तम् संसारीति। कुतः रूपवत्त्वश्रवणात्। आदित्यपुरुषे तावत् हिरण्यश्मश्रुः इत्यादि रूपमुदाहृतम् अक्षिपुरुषेऽपि तदेवातिदेशेन प्राप्यते तस्यैतस्य तदेव रूपं यदमुष्य रूपम् इति। न च परमेश्वरस्य रूपवत्त्वं युक्तम् अशब्दमस्पर्शमरूपमव्ययम् इति श्रुतेः आधारश्रवणाच्च य एषोऽन्तरादित्ये य एषोऽन्तरक्षिणि इति। न ह्यनाधारस्य स्वमहिमप्रतिष्ठितस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत। स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि इति आकाशवत्सर्वगतश्च नित्यः इति च श्रुती भवतः। ऐश्वर्यमर्यादाश्रुतेश्च स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च इत्यादित्यपुरुषस्य ऐश्वर्यमर्यादा स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च इत्यक्षिपुरुषस्य। न च परमेश्वरस्य मर्यादावदैश्वर्यं युक्तम् एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय इत्यविशेषश्रुतेः। तस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते

ब्रूमः अन्तस्तद्धर्मोपदेशात् इति। य एषोऽन्तरादित्ये य एषोऽन्तरक्षिणि इति च श्रूयमाणः पुरुषः परमेश्वर एव न संसारी। कुतः तद्धर्मोपदेशात्। तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः। तद्यथा तस्योदिति नाम इति श्रावयित्वा तस्यादित्यपुरुषस्य नाम स एष सर्वेभ्यः पाप्मभ्य उदितः इति सर्वपाप्मापगमेन निर्वक्ति। तदेव च कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति यन्नाम तन्नाम इति। सर्वपाप्मापगमश्च परमात्मन एव श्रूयते य आत्मापहतपाप्मा इत्यादौ। तथा चाक्षुषे पुरुषे सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म इति ऋक्सामाद्यात्मकतां निर्धारयति। सा च परमेश्वरस्योपपद्यते सर्वकारणत्वात्सर्वात्मकत्वोपपत्तेः। पृथिव्यग्न्याद्यात्मके चाधिदैवतमृक्सामे वाक्प्राणाद्यात्मके चाध्यात्ममनुक्रम्याह तस्यर्क्च साम च गेष्णौ इत्यधिदैवतम्। तथाध्यात्ममपि यावमुष्य गेष्णौ तौ गेष्णौ इति। तच्च सर्वात्मकत्वे सत्येवोपपद्यते। तद्य इमे वीणायां गायन्त्येतं त्वेव ते गायन्ति तस्मात्ते धनसनयः इति च लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति। तच्च परमेश्वरपरिग्रह एव घटते यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् इति भगवद्गीतादर्शनात्। लोककामेशितृत्वमपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति। यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपवत्त्वश्रवणं परमेश्वरे नोपपद्यत इति अत्र ब्रूमः स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि इति स्मरणात्। अपि च यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते भवति तत्र शास्त्रम् अशब्दमस्पर्शमरूपमव्ययम् इत्यादि। सर्वकारणत्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः इत्यादिना। तथा हिरण्यश्मश्रुत्वादिनिर्देशोऽपि भविष्यति। यदप्याधारश्रवणान्न परमेश्वर इति अत्रोच्यते स्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो भविष्यति सर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेः। ऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमुपासनार्थमेव। तस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते।।

भेदव्यपदेशाच् चान्यः । ( ब्रसू-१,१.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः इति श्रुत्यन्तरे भेदव्यपदेशात्। तत्र हि आदित्यादन्तरो यमादित्यो न वेद इति वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते। स एवेहाप्यन्तरादित्ये पुरुषो भवितुमर्हति श्रुतिसामान्यात्। तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम्।।

आकाशाधिकरणम्[सम्पाद्यताम्]

आकाशस् तल्लिङ्गात् । ( ब्रसू-१,१.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

इदमामनन्ति अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम् इति। तत्र संशयः किमाकाशशब्देन परं ब्रह्माभिधीयते उत भूताकाशमिति। कुतः संशयः उभयत्र प्रयोगदर्शनात्। भूतविशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दः। ब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते यत्र वाक्यशेषवशादसाधारणगुणश्रवणाद्वा निर्धारितं ब्रह्म भवति यथा यदेष आकाश आनन्दो न स्यात् इति आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म इति चैवमादौ। अतः संशयः। किं पुनरत्र युक्तम् भूताकाशमिति। कुतः तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति। न चायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुम् अनेकार्थत्वप्रसङ्गात्। तस्माद्ब्रह्मणि गौण एव आकाशशब्दो भवितुमर्हति। विभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति। न च मुख्यसंभवे गौणोऽर्थो ग्रहणमर्हति। संभवति चेह मुख्यस्यैवाकाशस्य ग्रहणम्। ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यादिः नैष दोषः भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेः। विज्ञायते हि तस्माद्वा एतस्मादात्मन आकाशः संभूत आकाशाद्वायुर्वायोरग्निः इत्यादि। ज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापि। तस्मादाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते

ब्रूमः आकाशस्तल्लिङ्गात्। आकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम्। कुतः तल्लिङ्गात्। परस्य हि ब्रह्मण इदं लिङ्गम् सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इति। परस्माद्धि ब्रह्मणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा। ननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम्। सत्यं दर्शितम्। तथापि मूलकारणस्य ब्रह्मणोऽपरिग्रहात् आकाशादेवेत्यवधारणं सर्वाणीति च भूतविशेषणं नानुकूलं स्यात्। तथा आकाशं प्रत्यस्तं यन्ति इति ब्रह्मलिङ्गम् आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम् इति च ज्यायस्त्वपरायणत्वे। ज्यायस्त्वं ह्यनापेक्षिकं परमात्मन्येवैकस्मिन्नाम्नातम् ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः इति। तथा परायणत्वमपि परमकारणत्वात्परमात्मन्येव उपपन्नतरं भवति। श्रुतिश्च विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् इति। अपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं निन्दित्वा अनन्तं किंचिद्वक्तुकामेन जैवलिनाकाशः परिगृहीतः तं चाकाशमुद्गीथे संपाद्योपसंहरति स एष परोवरीयानुद्गीथः स एषोऽनन्तः इति। तच्चानन्त्यं ब्रह्मलिङ्गम्। यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति अत्र ब्रूमः प्रथमतरं प्रतीतमपि तद्वाक्यशेषगतान्ब्रह्मगुणान्दृष्ट्वा न परिगृह्यते। दर्शितश्च ब्रह्मण्यप्याकाशशब्दः आकाशो ह वै नाम नामरूपयोर्निर्वहिता इत्यादौ। तथाकाशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यते ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता ॐ कं ब्रह्म खं ब्रह्म खं पुराणम् इति चैवमादौ। वाक्योपक्रमेऽपि वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वावधारणा। अग्निरधीतेऽनुवाकम् इति हि वाक्योपक्रमगतोऽप्यग्निशब्दो माणवकविषयो दृश्यते। तस्मादाकाशशब्दं ब्रह्मेति सिद्धम्।। इदमामनन्ति अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम् इति। तत्र संशयः किमाकाशशब्देन परं ब्रह्माभिधीयते उत भूताकाशमिति। कुतः संशयः उभयत्र प्रयोगदर्शनात्। भूतविशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दः। ब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते यत्र वाक्यशेषवशादसाधारणगुणश्रवणाद्वा निर्धारितं ब्रह्म भवति यथा यदेष आकाश आनन्दो न स्यात् इति आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म इति चैवमादौ। अतः संशयः। किं पुनरत्र युक्तम् भूताकाशमिति। कुतः तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति। न चायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुम् अनेकार्थत्वप्रसङ्गात्। तस्माद्ब्रह्मणि गौण एव आकाशशब्दो भवितुमर्हति। विभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति। न च मुख्यसंभवे गौणोऽर्थो ग्रहणमर्हति। संभवति चेह मुख्यस्यैवाकाशस्य ग्रहणम्। ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यादिः नैष दोषः भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेः। विज्ञायते हि तस्माद्वा एतस्मादात्मन आकाशः संभूत आकाशाद्वायुर्वायोरग्निः इत्यादि। ज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापि। तस्मादाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते

ब्रूमः आकाशस्तल्लिङ्गात्। आकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम्। कुतः तल्लिङ्गात्। परस्य हि ब्रह्मण इदं लिङ्गम् सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इति। परस्माद्धि ब्रह्मणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा। ननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम्। सत्यं दर्शितम्। तथापि मूलकारणस्य ब्रह्मणोऽपरिग्रहात् आकाशादेवेत्यवधारणं सर्वाणीति च भूतविशेषणं नानुकूलं स्यात्। तथा आकाशं प्रत्यस्तं यन्ति इति ब्रह्मलिङ्गम् आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम् इति च ज्यायस्त्वपरायणत्वे। ज्यायस्त्वं ह्यनापेक्षिकं परमात्मन्येवैकस्मिन्नाम्नातम् ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः इति। तथा परायणत्वमपि परमकारणत्वात्परमात्मन्येव उपपन्नतरं भवति। श्रुतिश्च विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् इति। अपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं निन्दित्वा अनन्तं किंचिद्वक्तुकामेन जैवलिनाकाशः परिगृहीतः तं चाकाशमुद्गीथे संपाद्योपसंहरति स एष परोवरीयानुद्गीथः स एषोऽनन्तः इति। तच्चानन्त्यं ब्रह्मलिङ्गम्। यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति अत्र ब्रूमः प्रथमतरं प्रतीतमपि तद्वाक्यशेषगतान्ब्रह्मगुणान्दृष्ट्वा न परिगृह्यते। दर्शितश्च ब्रह्मण्यप्याकाशशब्दः आकाशो ह वै नाम नामरूपयोर्निर्वहिता इत्यादौ। तथाकाशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यते ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता ॐ कं ब्रह्म खं ब्रह्म खं पुराणम् इति चैवमादौ। वाक्योपक्रमेऽपि वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वावधारणा। अग्निरधीतेऽनुवाकम् इति हि वाक्योपक्रमगतोऽप्यग्निशब्दो माणवकविषयो दृश्यते। तस्मादाकाशशब्दं ब्रह्मेति सिद्धम्।।

प्राणाधिकरणम्[सम्पाद्यताम्]

अत एव प्राणः । ( ब्रसू-१,१.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

उद्गीथे प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता इत्युपक्रम्य श्रूयते कतमा सा देवतेति प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता इति। तत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौ। प्राणबन्धन्ि सोम्य मनः प्राणस्य प्राणम् इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते वायुविकारे तु प्रसिद्धतरो लोकवेदयोः अत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयः। किं पुनरत्र युक्तम् वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम्। तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचाम। ननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम्। इहापि हि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते। न मुख्येऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात्। एवं ह्याम्नायते यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः स यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते इति। प्रत्यक्षं चैतत् स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते प्रबोधकाले च पुनः प्रादुर्भवन्तीति। इन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषः। अपि चादित्योऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यानन्तरं निर्दिश्येत न च तयोर्ब्रह्मत्वमस्ति तत्सामान्याच्च प्राणस्यापि न ब्रह्मत्वमित्येवं प्राप्ते

सूत्रकार आह अत एव प्राणः इति। तल्लिङ्गादिति पूर्वसूत्रे निर्दिष्टम्। अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हति। प्राणस्यापि हि ब्रह्मलिङ्गसंबन्धः श्रूयते सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते इति। प्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः। ननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्शनमविरुद्धम् स्वापप्रबोधयोर्दर्शनादिति। अत्रोच्यते स्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते न सर्वेषां भूतानाम् इह तु सेन्द्रियाणां सशरीराणां च जीवाविष्टानां भूतानाम् सर्वाणि ह वा इमानि भूतानि इति श्रुतेः। यदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते तदापि ब्रह्मलिङ्गत्वमविरुद्धम्। ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणेऽप्ययं प्राणाच्च प्रभवं श्रृणुमः यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति इति। तत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मेव। यत्पुनरुक्तमन्नादित्यसंनिधानात्प्राणस्याब्रह्मत्वमिति तदयुक्तम् वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतायां प्रतीयमानायां संनिधानस्याकिंचित्करत्वात्। यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वम् तदाकाशशब्दस्येव प्रतिविधेयम्। तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम्।।

अत्र केचिदुदाहरन्ति प्राणस्य प्राणम् प्राणबन्धनं हि सोम्य मनः इति च। तदयुक्तम् शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेः। यथा पितुः पितेति प्रयोगे अन्यः पिता षष्ठीनिर्दिष्टात् प्रथमानिर्दिष्टः पितुः पिता इति गम्यते तद्वत् प्राणस्य प्राणम् इति शब्दभेदात्प्रसिद्धात्प्राणात् अन्यः प्राणस्य प्राण इति निश्चीयते। न हि स एव तस्येति भेदनिर्देशार्हो भवति। यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकरणी निर्दिष्ट इति गम्यते यथा ज्योतिष्टोमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेत इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति तथा परस्य ब्रह्मणः प्रकरणे प्राणबन्धनं हि सोम्य मनः इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत्। अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम्। प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः।।


ज्योतिश्चरणाधिकरणम्[सम्पाद्यताम्]

ज्योतिश् चरणाभिधानात् । ( ब्रसू-१,१.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

उद्गीथे प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता इत्युपक्रम्य श्रूयते कतमा सा देवतेति प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता इति। तत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौ। प्राणबन्धन्ि सोम्य मनः प्राणस्य प्राणम् इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते वायुविकारे तु प्रसिद्धतरो लोकवेदयोः अत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयः। किं पुनरत्र युक्तम् वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम्। तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचाम। ननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम्। इहापि हि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते। न मुख्येऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात्। एवं ह्याम्नायते यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः स यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते इति। प्रत्यक्षं चैतत् स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते प्रबोधकाले च पुनः प्रादुर्भवन्तीति। इन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषः। अपि चादित्योऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यानन्तरं निर्दिश्येत न च तयोर्ब्रह्मत्वमस्ति तत्सामान्याच्च प्राणस्यापि न ब्रह्मत्वमित्येवं प्राप्ते

सूत्रकार आह अत एव प्राणः इति। तल्लिङ्गादिति पूर्वसूत्रे निर्दिष्टम्। अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हति। प्राणस्यापि हि ब्रह्मलिङ्गसंबन्धः श्रूयते सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते इति। प्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः। ननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्शनमविरुद्धम् स्वापप्रबोधयोर्दर्शनादिति। अत्रोच्यते स्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते न सर्वेषां भूतानाम् इह तु सेन्द्रियाणां सशरीराणां च जीवाविष्टानां भूतानाम् सर्वाणि ह वा इमानि भूतानि इति श्रुतेः। यदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते तदापि ब्रह्मलिङ्गत्वमविरुद्धम्। ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणेऽप्ययं प्राणाच्च प्रभवं श्रृणुमः यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति इति। तत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मेव। यत्पुनरुक्तमन्नादित्यसंनिधानात्प्राणस्याब्रह्मत्वमिति तदयुक्तम् वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतायां प्रतीयमानायां संनिधानस्याकिंचित्करत्वात्। यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वम् तदाकाशशब्दस्येव प्रतिविधेयम्। तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम्।।

अत्र केचिदुदाहरन्ति प्राणस्य प्राणम् प्राणबन्धनं हि सोम्य मनः इति च। तदयुक्तम् शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेः। यथा पितुः पितेति प्रयोगे अन्यः पिता षष्ठीनिर्दिष्टात् प्रथमानिर्दिष्टः पितुः पिता इति गम्यते तद्वत् प्राणस्य प्राणम् इति शब्दभेदात्प्रसिद्धात्प्राणात् अन्यः प्राणस्य प्राण इति निश्चीयते। न हि स एव तस्येति भेदनिर्देशार्हो भवति। यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकरणी निर्दिष्ट इति गम्यते यथा ज्योतिष्टोमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेत इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति तथा परस्य ब्रह्मणः प्रकरणे प्राणबन्धनं हि सोम्य मनः इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत्। अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम्। प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः।।


छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । ( ब्रसू-१,१.२६ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्माभिहितमस्ति गायत्री वा इद्र्वं भूतं यदिदं किंच इति गायत्र्याख्यस्य च्छन्दसोऽभिहितत्वादिति तत्परिहर्तव्यम्। कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुम् यावता तावानस्य महिमा इत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम्। नैतदस्ति। गायत्री वा इद्र्वम् इति गायत्रीमुपक्रम्य तामेव भूतपृथिवीशरीरहृदयवाक्प्राणप्रभेदैर्व्याख्याय सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तं तावानस्य महिमा इति तस्यामेव व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात्। योऽपि तत्र यद्वै तद्ब्रह्म इति ब्रह्मशब्दः सोऽपि च्छन्दसः प्रकृतत्वाच्छन्दोविषय एव। य एतामेवं ब्रह्मोपनिषदं वेद इत्यत्र हि वेदोपनिषदमिति व्याचक्षते। तस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमिति चेत् नैष दोषः। तथा चेतोर्पणनिगदात् तथा गायत्र्याख्यच्छन्दोद्वारेण तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्तसमाधानम् अनेन ब्राह्मणवाक्येन निगद्यते गायत्री वा इद्र्वम् इति। न ह्यक्षरसंनिवेशमात्राया गायत्र्याः सर्वात्मकत्वं संभवति। तस्माद्यद्गायत्र्याख्यविकारेऽनुगतं जगत्कारणं ब्रह्म निर्दिष्टम् तदिह सर्वमित्युच्यते यथा सर्वं खल्विदं ब्रह्म इति। कार्यं च कारणादव्यतिरिक्तमिति वक्ष्यामः तदनन्यत्वमारम्भणशब्दादिभ्यः इत्यत्र। तथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यते एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते च्छन्दोगाः इति। तस्मादस्ति च्छन्दोभिधानेऽपि पूर्वस्मिन्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्। तदेव ज्योतिर्वाक्येऽपि परामृश्यत उपासनान्तरविधानाय। अपर आह। साक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते संख्यासामान्यात्। यथा गायत्री चतुष्पदा षडक्षरैः पादैः तथा ब्रह्म चतुष्पात्। तथान्यत्रापि च्छन्दोभिधायी शब्दोऽर्थान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यते। तद्यथा ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम् इत्युपक्रम्याह सैषा विराडन्नादी इति। अस्मिन्पक्षे ब्रह्मैवाभिहितमिति न च्छन्दोभिधानम्। सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म इति।।

भूतादिपादव्यपदेशोपपत्तेश् चैवम् । ( ब्रसू-१,१.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति यतो भूतादीन्पादान्व्यपदिशति श्रुतिः। भूतपृथिवीशरीरहृदयानि हि निर्दिश्याह सैषा चतुष्पदा षड्विधा गायत्री इति। न हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्ते। अपि च ब्रह्मानाश्रयणे नेयमृक् संबध्येत तावानस्य महिमा इति। अनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि इति सर्वात्मत्वोपपत्तेः। पुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव समाम्नायते। स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयति विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति। यद्वै तद्ब्रह्म इति च निर्देशः। एवं सति मुख्यार्थ उपपद्यते। ते वा एते पञ्च ब्रह्मपुरुषाः इति च हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसंबन्धितायां विवक्षितायां संभवति। तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम्। तदेव ब्रह्म ज्योतिर्वाक्ये द्युसंबन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम्।।

उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । ( ब्रसू-१,१.२८ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदप्येतदुक्तम् पूर्वत्र त्रिपादस्यामृतं दिवि इति सप्तम्या द्यौः आधारत्वेनोपदिष्टा इह पुनः अथ यदतः परो दिवः इति पञ्चम्या मर्यादात्वेन तस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीति तत्परिहर्तव्यम्। अत्रोच्यते नायं दोषः उभयस्मिन्नप्यविरोधात्। उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे न प्रत्यभिज्ञानं विरुध्यते। यथा लोके वृक्षाग्रेण संबद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते। अपर आह यथा लोके वृक्षाग्रेणासंबद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यते। तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम्। अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम्।।

प्रतर्दनाधिकरणम्[सम्पाद्यताम्]

प्राणस् तथानुगमात् । ( ब्रसू-१,१.२९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिका प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च इत्यारभ्याम्नाता। तस्यां श्रूयते स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व इति। तथोत्तरत्रापि अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति इति। तथा न वाचं विजिज्ञासीत वक्तारं विद्यात् इति। अन्ते च स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः इत्यादि। तत्र संशयः किमिह प्राणशब्देन वायुमात्रमभिधीयते उत देवतात्मा उत जीवः अथवा परं ब्रह्मेति। ननु अत एव प्राणः इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम् इहापि च ब्रह्मलिङ्गमस्ति आनन्दोऽजरोऽमृतः इत्यादि कथमिह पुनः संशयः संभवति अनेकलिङ्गदर्शनादिति ब्रूमः। न केवलमिह ब्रह्मलिङ्गमेवोपलभ्यते। सन्ति हीतरलिङ्गान्यपि मामेव विजानीहि इतीन्द्रस्य वचनं देवतात्मलिङ्गम्। इदं शरीरं परिगृह्योत्थापयति इति प्राणलिङ्गम्। न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादि जीवलिङ्गम। अत उपपन्नः संशयः। तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते

इदमुच्यते प्राणशब्दं ब्रह्म विज्ञेयम्। कुतः तथानुगमात्। तथाहि पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते। उपक्रमे तावत् वरं वृणीष्व इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे इति। तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात्। न ह्यन्यत्र परमात्मविज्ञानाद्धिततमप्राप्तिरस्ति तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय इत्यादिश्रुतिभ्यः। तथा स यो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्यया इत्यादि च ब्रह्मपरिग्रहे घटते। ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इत्याद्यासु श्रुतिषु। प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते। न ह्यचेतनस्य वायोः प्रज्ञात्मत्वं संभवति। तथोपसंहारेऽपि आनन्दोऽजरोऽमृतः इत्यानन्दत्वादीनि च न ब्रह्मणोऽन्यत्र सम्यक् संभवन्ति। स न साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते। एष उ एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषते इति एष लोकाधिपतिरेष लोकपाल एष लोकेशः इति च। सर्वमेतत्परस्मिन्ब्रह्मण्याश्रीयमाणेऽनुगन्तुं शक्यते न मुख्ये प्राणे। तस्मात्प्राणो ब्रह्म।।

न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् । ( ब्रसू-१,१.३० । )


शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ( ब्रसू-१,१.३१ । )

जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् । ( ब्रसू-१,१.३२ । )

भाष्यम्

शाङ्करभाष्यम्॥

यद्यप्यध्यात्मसंबन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः तथापि न ब्रह्मवाक्यं भवितुमर्हति। कुतः जीवलिङ्गात् मुख्यप्राणलिङ्गाच्च। जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादि। अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते। तथा मुख्यप्राणलिङ्गमपि अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति इति। शरीरधारणं च मुख्यप्राणस्य धर्मः प्राणसंवादे वागादीन्प्राणान्प्रकृत्य तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि इति श्रवणात्। ये तु इमं शरीरं परिगृह्य इति पठन्ति तेषाम् इमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम्। प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम्। मुख्येऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव। एवं जीवमुख्यप्राणपरिग्रहे च प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः स्वरूपेण च भेदर्निदेशः इत्युभयथापि निर्देश उपपद्यते यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतः इति। ब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत् नैतदेवम् उपासात्रैविध्यात्। एवं सति त्रिविधमुपासनं प्रसज्येत जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति। न चैतदेकस्मिन्वाक्येऽभ्युपगन्तुं युक्तम्। उपक्रमोपसंहाराभ्यां हि वाक्यैकवाक्यत्वमवगम्यते। मामेव विजानीहि इत्युपक्रम्य प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व इत्युक्त्वा अन्ते स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः इत्येकरूपावुपक्रमोपसंहारौ दृश्येते। तत्रार्थैकत्वं युक्तमाश्रयितुम्। न च ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम् दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणोऽन्यत्र अर्पणानुपपत्तेः। आश्रितत्वाच्च अन्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि प्रवृत्तेः इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगात् ब्रह्मोपदेश एवायमिति गम्यते। यत्तु मुख्यप्राणलिङ्गं दर्शितम् इदं शरीरं परिगृह्योत्थापयति इति तदसत् प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इति श्रुतेः। यदपि न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादि जीवलिङ्गं दर्शितम् तदपि न ब्रह्मपक्षं निवारयति। न हि जीवो नामात्यन्तभिन्नो ब्रह्मणः तत्त्वमसि अहं ब्रह्मास्मि इत्यादिश्रुतिभ्यः। बुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन् जीवः कर्ता भोक्ता चेत्युच्यते। तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुम् न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादिना प्रत्यगात्माभिमुखीकरणार्थ उपदेशो न विरुध्यते। यद्वाचानभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति। यत्पुनरेतदुक्तम् सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतः इति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादिनो नोपपद्यत इति नैष दोषः ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्देशोपपत्तेः। उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मा इत्येकीकरणमविरुद्धम्।।

अथवा नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् इत्यस्यायमन्योऽर्थः न ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते कथम् उपासात्रैविध्यात्। त्रिविधमिह ब्रह्मण उपासनं विवक्षितम् प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च। तत्र आयुरमृतमित्युपास्स्वायुः प्राणः इति इदं शरीरं परिगृह्योत्थापयति इति तस्मादेतदेवोक्थमुपासीत इति च प्राणधर्मः। अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामः इत्युपक्रम्य वागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति इत्यादिः प्रज्ञाधर्मः। ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम्। यदि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः। यदि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः। न ह्यन्यतरतो रूपं किंचन सिध्येत्। नो एतन्नाना। तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा इत्यादिर्ब्रह्मधर्मः। तस्माद्ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम्। अन्यत्रापि मनोमयः प्राणशरीरः इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम् इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राणप्रज्ञात्मब्रह्मलिङ्गावगमाच्च। तस्माद्ब्रह्मवाक्यमेवैतदिति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य प्रथमः पादः।।