ब्रह्मसूत्रम्/प्रथमः अध्यायः/तृतीयः पादः

विकिस्रोतः तः
Jump to navigation Jump to search
← द्वितीयः पादः ब्रह्मसूत्रम्
प्रथमाध्याये तृतीयः पादः
वेदव्यासः
चतुर्थः पादः →

द्युभ्वाद्यधिकरणम्[सम्पाद्यताम्]

द्युभ्वाद्यायतनं स्वशब्दात् । ( ब्रसू-१,३.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

इदं श्रूयते यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः इति। अत्र यदेतद्द्युप्रभृतीनामोतत्ववचनादायतनं किंचिदवगम्यते तत्किं परं ब्रह्म स्यात् आहोस्विदर्थान्तरमिति संदिह्यते। तत्रार्थान्तरं किमप्यायतनं स्यादिति प्राप्तम्। कस्मात् अमृतस्यैष सेतुः इति श्रवणात्। पारवान्हि लोके सेतुः प्रख्यातः। न च परस्य ब्रह्मणः पारवत्त्वं शक्यमभ्युपगन्तुम् अनन्तमपारम् इति श्रवणात्। अर्थान्तरे चायतने परिगृह्यमाणे स्मृतिप्रसिद्धं प्रधानं परिग्रहीतव्यम् तस्य कारणत्वादायतनत्वोपपत्तेः। श्रुतिप्रसिद्धो वा वायुः स्यात् वायुर्वाव गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति इति वायोरपि विधारणत्वश्रवणात्। शारीरो वा स्यात् तस्यापि भोक्तृत्वात् भोग्यं प्रपञ्चं प्रत्यायतनत्वोपपत्तेः इत्येवं प्राप्ते

इदमाह द्युभ्वाद्यायतनमिति। द्यौश्च भूश्च द्युभुवौ द्युभुवौ आदी यस्य तदिदं द्युभ्वादि। यदेतदस्मिन्वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगत् ओतत्वेन निर्दिष्टम् तस्यायतनं परं ब्रह्म भवितुमर्हति। कुतः स्वशब्दात् आत्मशब्दादित्यर्थः। आत्मशब्दो हीह भवति तमेवैकं जानथ आत्मानम् इति। आत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते नार्थान्तरपरिग्रहे। क्वचिच्च स्वशब्देनैव ब्रह्मण आयतनत्व श्रूयते सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः इति। स्वशब्देनैव चेह पुरस्तादुपरिष्टाच्च ब्रह्म संकीर्त्यते पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् इति ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण इति च। तत्र त्वायतनायतनवद्भावश्रवणात्। सर्वं ब्रह्मेति च सामानाधिकरण्यात् यथा ह्यनेकात्मको वृक्षः शाखा स्कन्धो मूलं चेति एवं नानारसो विचित्र आत्मेत्याशङ्का संभवति तां निवर्तयितुं सावधारणमाह तमेवैकं जानथ आत्मानम् इति। एतदुक्तं भवति न कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयः किं तर्हि अविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तः तमेवैकमायतनभूतमात्मानं जानथ एकरसमिति। यथा यस्मिन्नास्ते देवदत्तस्तदानय इत्युक्ते आसनमेवानयति न देवदत्तम् तद्वदायतनभूतस्यैवैकरसस्यात्मनो विज्ञेयत्वमुपदिश्यते। विकारानृताभिसंधस्य चापवादः श्रूयते मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इति। सर्वं ब्रह्म इति तु सामानाधिकरण्यं प्रपञ्चविलापनार्थम् न अनेकरसताप्रतिपादनार्थम् स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव इत्येकरसताश्रवणात्। तस्माद्द्युभ्वाद्यायतनं परं ब्रह्म। यत्तूक्तम् सेतुश्रुतेः सेतोश्च पारवत्त्वोपपत्तेः ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति अत्रोच्यते विधारणत्वमात्रमेव सेतुश्रुत्या विवक्ष्यते न पारवत्त्वादि। न हि मृद्दारुमयो लोके सेतुर्दृष्ट इत्यत्रापि मृद्दारुमय एव सेतुरभ्युपगम्यते। सेतुशब्दार्थोऽपि विधारणत्वमात्रमेव न पारवत्त्वादि षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेः। अपर आह तमेवैकं जानथ आत्मानम् इति यदेतत्संकीर्तितमात्मज्ञानम् यच्चैतत् अन्या वाचो विमुञ्चथ इति वाग्विमोचनम् तत् अत्र अमृतत्वसाधनत्वात् अमृतस्यैष सेतुः इति सेतुश्रुत्या संकीर्त्यते न तु द्युभ्वाद्यायतनम्। तत्र यदुक्तम् सेतुश्रुतेर्ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति एतदयुक्तम्।।


मुक्तोपसृप्यव्यपदेशाच् च । ( ब्रसू-१,३.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम् यस्मान्मुक्तोपसृप्यतास्य व्यपदिश्यमाना दृश्यते। मुक्तैरुपसृप्यं मुक्तोपसृप्यम्। देहादिष्वनात्मसु अहमस्मीत्यात्मबुद्धिरविद्या ततस्तत्पूजनादौ रागः तत्परिभवादौ च द्वेषः तदुच्छेददर्शनाद्भयं मोहश्च इत्येवमयमनन्तभेदोऽनर्थव्रातः संततः सर्वेषां नः प्रत्यक्षः। तद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुपसृप्यमुपगम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति कथम् भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इत्युक्त्वा ब्रवीति तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् इति। ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते इत्येवमादौ। प्रधानादीनां तु न क्वचिन्मुक्तोपसृप्यत्वमस्ति प्रसिद्धम्। अपि च तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते। तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम् तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः। नानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत् इति। तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म।।


नानुमानम् अतच्छब्दात् प्राणभृच् च । ( ब्रसू-१,३.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तः नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादकोऽस्तीत्याह। नानुमानं सांख्यस्मृतिपरिकल्पितं प्रधानम् इह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम्। कस्मात् अतच्छब्दात्। तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः न तच्छब्दः अतच्छब्दः। न ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दोऽस्ति येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वावगम्येत। तद्विपरीतस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्ति यः सर्वज्ञः सर्ववित् इत्यादिः। अत एव न वायुरपीह द्युभ्वाद्यायतनत्वेनाश्रीयते।।


प्राणभृच्च।(ब्रसू १,३.३(१)। )

भाष्यम्

शाङ्करभाष्यम्॥

यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं च संभवति तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसंभवे सति अस्मादेवातच्छब्दात् प्राणभृदपि न द्युभ्वाद्यायतनत्वेनाश्रयितव्यः। न चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवति। पृथग्योगकरणमुत्तरार्थम्।।

कुतश्च न प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः


भेदव्यपदेशात् । ( ब्रसू-१,३.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

भेदव्यपदेशश्चेह भवति तमेवैकं जानथ आत्मानम् इति ज्ञेयज्ञातृभावेन। तत्र प्राणभृत् तावन्मुमुक्षुत्वाज्ज्ञाता परिशेषादात्मशब्दवाच्यं ब्रह्म ज्ञेयं द्युभ्वाद्यायतनमिति गम्यते न प्राणभृत्।।

कुतश्च न प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः


प्रकरणात् । ( ब्रसू-१,३.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्रकरणं चेदं परमात्मनः कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इत्येकविज्ञानेन सर्वविज्ञानापेक्षणात्। परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यात् न केवले प्राणभृति।।

कुतश्च न प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः


स्थित्यदनाभ्यां च । ( ब्रसू-१,३.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

द्युभ्वाद्यायतनं च प्रकृत्य द्वा सुपर्णा सयुजा सखाया इत्यत्र स्थित्यदने निर्दिश्येते तयोरन्यः पिप्पलं स्वाद्वत्ति इति कर्मफलाशनम् अनश्चन्नन्योऽभिचाकशीति इत्यौदासीन्येनावस्थानम्। ताभ्यां च स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येते। यदि च ईश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितः ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमवकल्पते। अन्यथा ह्यप्रकृतवचनमाकस्मिकमसंबद्धं स्यात्। ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रसज्येत न तस्याविवक्षितत्वात्। क्षेत्रज्ञो हि कर्तृत्वेन भोक्तृत्वेन च प्रतिशरीरं बुद्ध्याद्युपाधिसंबद्धः लोकत एव प्रसिद्धः नासौ श्रुत्या तात्पर्येण विवक्ष्यते ईश्वरस्तु लोकतोऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति न तस्याकस्मिकं वचनं युक्तम्। गुहां प्रविष्टावात्मानौ हि इत्यत्राप्येतद्दर्शितम् द्वा सुपर्णा इत्यस्यामृचि ईश्वरक्षेत्रज्ञावुच्येते इति। यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते तदापि न विरोधः कश्चित्। कथम् प्राणभृद्धीह घटादिच्छिद्रवत् सत्त्वाद्युपाध्यभिमानित्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वाद्यायतनं न भवतीति प्रतिषिध्यते। यस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते परएव स भवति यथा घटादिच्छिद्राणि घटादिभिरुपाधिभिर्विनोपलक्ष्यमाणानि महाकाश एव भवन्ति तद्वत् प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यते। तस्मात्सत्त्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्वप्रतिषेधः। तस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनम्। तदेतत् अदृश्यत्वादिगुणको धर्मोक्तेः इत्यनेनैव सिद्धम्। तस्यैव हि भूतयोनिवाक्यस्य मध्ये इदं पठितम् यस्मिन्द्यौः पृथिवी चान्तरिक्षम् इति। प्रपञ्चार्थं तु पुनरुपन्यस्तम्।।

भूमाधिकरणम्[सम्पाद्यताम्]

भूमा संप्रसादाद् अध्युपदेशात् । ( ब्रसू-१,३.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

इदं समामनन्ति भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति। यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् इत्यादि। तत्र संशयः किं प्राणो भूमा स्यात् आहोस्वित्परमात्मेति। कुतः संशयः भूमेति तावद्बहुत्वमभिधीयते बहोर्लोपो भू च बहोः इति भूमशब्दस्य भावप्रत्ययान्ततास्मरणात्। किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायाम् प्राणो वा आशाया भूयान् इति संनिधानात् प्राणो भूमेति प्रतिभाति। तथा श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति। सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति। तत्र कस्योपादानं न्याय्यम् कस्य वा हानमिति भवति संशयः। किं तावत्प्राप्तम् प्राणो भूमेति। कस्मात् भूयःप्रश्नप्रतिवचनपरंपरादर्शनात्। यथा हि अस्ति भगवो नाम्नो भूयः इति वाग्वाव नाम्नो भूयसी इति तथा अस्ति भगवो वाचो भूयः इति मनो वाव वाचो भूयः इति च नामादिभ्यो हि आ प्राणात् भूयःप्रश्नप्रतिवचनप्रवाहः प्रवृत्तः। नैवं प्राणात्परं भूयःप्रश्नप्रतिवचनं दृश्यते अस्ति भगवः प्राणाद्भूयः इति अदो वाव प्राणाद्भूयः इति। प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसम् प्राणो वा आशाया भूयान् इत्यादिना सप्रपञ्चमुक्त्वा प्राणदर्शिनश्चातिवादित्वम् अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत इत्यभ्यनुज्ञाय एष तु वा अतिवदति यः सत्येनातिवदति इति प्राणव्रतमतिवादित्वमनुकृष्य अपरित्यज्यैव प्राणं सत्यादिपरंपरया भूमानमवतारयन् प्राणमेव भूमानं मन्यत इति गम्यते। कथं पुनः प्राणे भूमनि व्याख्यायमाने यत्र नान्यत्पश्यति इत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति उच्यते सुषुप्तावस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्संभवति प्राणस्यापि यत्र नान्यत्पश्यतीति एतल्लक्षणम्। तथा च श्रुतिः न श्रृणोति न पश्यति इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा प्राणाग्नय एवैतस्मिन्पुरे जाग्रति इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती प्राणप्रधानां सुषुप्त्यवस्थां दर्शयति। यच्चैतद्भूम्नः सुखत्वं श्रुतम् यो वै भूमा तत्सुखम् इति तदप्यविरुद्धम् अत्रैष देवः स्वप्नान्न पश्यत्यथ यदेतस्मिञ्शरीरे सुखं भवति इति सुषुप्त्यवस्थायामेव सुखश्रवणात्। यच्च यो वै भूमा तदमृतम् इति तदपि प्राणस्याविरुद्धम् प्राणो वा अमृतम् इति श्रुतेः। कथं पुनः प्राणं भूमानं मन्यमानस्य तरति शोकमात्मवित् इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते प्राण एवेहात्मा विवक्षित इति ब्रूमः। तथाहि प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः इति प्राणमेव सर्वात्मानं करोति यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम् इति च सर्वात्मत्वारनाभिनिदर्शनाभ्यां च संभवति वैपुल्यात्मिका भूमरूपता प्राणस्य। तस्मात्प्राणो भूमेत्येवं प्राप्तम्।।

तत इदमुच्यते परमात्मैवेह भूमा भवितुमर्हति न प्राणः। कस्मात् संप्रसादादध्युपदेशात्। संप्रसाद इति सुषुप्तं स्थानमुच्यते सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात् बृहदारण्यके च स्वप्नजागरितस्थानाभ्यां सह पाठात्। तस्यां च संप्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र संप्रसादोऽभिप्रेयते। प्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थः। प्राण एव चेद्भूमा स्यात् स एव तस्मादूर्ध्वमुपदिश्येतेत्याश्लिष्टमेतत्स्यात्। न हि नामैव नाम्नो भूयः इति नाम्न ऊर्ध्वमुपदिष्टम् किं तर्हि नाम्नोऽन्यदर्थान्तरमुपदिष्टं वागाख्यम् वाग्वाव नाम्नो भूयसी इति। तथा वागादिभ्योऽपि आ प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम्। तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हति। नन्विह नास्ति प्रश्नः अस्ति भगवः प्राणाद्भूयः इति नापि प्रतिवचनमस्ति प्राणाद्वाव भूयोऽस्ति इति कथं प्राणादधि भूमोपदिश्यत इत्युच्यते प्राणविषयमेव चातिवादित्वमुत्तरत्रानुकृष्यमाणं पश्यामः एष तु वा अतिवदति यः सत्येनातिवदति इति तस्मान्नास्ति प्राणादध्युपदेश इति अत्रोच्यते न तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुम् विशेषवादात् यः सत्येनातिवदति इति। ननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यति कथम् यथा एषोऽग्निहोत्री यः सत्यं वदति इत्युक्ते न सत्यवदनेनाग्निहोत्रित्वम् केन तर्हि अग्निहोत्रेणैव तत्सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते तथा एष तु वा अतिवदति यः सत्येनातिवदति इत्युक्ते न सत्यवदनेनातिवादित्वम् केन तर्हि प्रकृतेन प्राणविज्ञानेनैव सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति नेति ब्रूमः श्रुत्यर्थपरित्यागप्रसङ्गात्। श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते यः सत्येनातिवदति सोऽतिवदति इति नात्र प्राणविज्ञानस्य संकीर्तनमस्ति प्रकरणात्तु प्राणविज्ञानं संबध्येत तत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात् प्रकृतव्यावृत्त्यर्थश्च तुशब्दो न संगच्छेत एष तु वा अतिवदति इति। सत्यं त्वेव विजिज्ञासितव्यम् इति च प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयति। तस्माद्यथैकवेदप्रशंसायां प्रकृतायाम् एष तु महाब्राह्मणः यश्चतुरो वेदानधीते इत्येकवेदेभ्योऽर्थान्तरभूतश्चतुर्वेदः प्रशस्यते तादृगेतद्द्रष्टव्यम्। न च प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमोऽस्ति प्रकृतसंबन्धासंभवकारितत्वादर्थान्तरविवक्षायाः। तत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति यत्प्राणविज्ञानेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् एष तु वा अतिवदति यः सत्येनातिवदति इति। तत्र सत्यमिति परं ब्रह्मोच्यते परमार्थरूपत्वात् सत्यं ज्ञानमनन्तं ब्रह्म इति च श्रुत्यन्तरात्। तथा व्युत्पातिताय नारदाय सोऽहं भगवः सत्येनातिवदानि इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरंपरया भूमानमुपदिशति। तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम् तदेवेह भूमेत्युच्यत इति गम्यते। तस्मादस्ति प्राणादधि भूम्न उपदेश इति अतः प्राणादन्यः परमात्मा भूमा भवितुमर्हतीति। एवं चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यति। प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते। न हि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति। न चान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति नान्यः पन्था विद्यतेऽयनाय इति श्रुत्यन्तरात्। तं मा भगवाञ्शोकस्य पारं तारयतु इति चोपक्रम्योपसंहरति तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः इति। तम इति शोकादिकारणमविद्योच्येत। प्राणान्ते चानुशासने न प्राणस्यान्यायत्ततोच्यते। आत्मतः प्राणः इति च ब्राह्मणम्। प्रकरणान्ते परमात्मविवक्षा भविष्यति भूमात्र प्राण एवेति चेत् न स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि इत्यादिना भूम्न एव आ प्रकरणसमाप्तेरनुकर्षणात्। वैपुल्यात्मिका च भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते।।


धर्मोपपत्तेश् च । ( ब्रसू-१,३.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च ये भूम्नि श्रूयन्ते धर्माः ते परमात्मन्युपपद्यन्ते। यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा इति दर्शनादिव्यवहाराभावं भूमनि अवगमयति। परमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतः यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिश्रुत्यन्तरात्। योऽप्यसौ सुषुप्त्यवस्थायां दर्शनादिव्यवहाराभाव उक्तः सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः न प्राणस्वभावविवक्षया परमात्मप्रकरणात्। यदपि तस्यामवस्थायां सुखमुक्तम् तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम् यत आह एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति। इहापि यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम् इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति। यो वै भूमा तदमृतम् इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयति विकाराणाममृतत्वस्यापेक्षिकत्वात् अतोऽन्यदार्तम् इति च श्रुत्यन्तरात्। तथा च सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते नान्यत्र। तस्माद्भूमा परमात्मेति सिद्धम्।।

अक्षराधिकरणम्[सम्पाद्यताम्]

अक्षरम् अम्बरान्तधृतेः । ( ब्रसू-१,३.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

कस्मिन्नु खल्वाकाश ओतश्च पोतश्चेति स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्यादि श्रूयते। तत्र संशयः किमक्षरशब्देन वर्ण उच्यते किं वा परमेश्वर इति। तत्राक्षरसमाम्नाय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् प्रसिद्ध्यतिक्रम्य चायुक्तत्वात् ओंकार एवेदं सर्वम् इत्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वावधारणात् वर्ण एवाक्षरशब्द इत्येवं प्राप्ते उच्यते पर एवात्माक्षरशब्दवाच्यः। कस्मात् अम्बरान्तधृतेः पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात्। तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्य आकाश एव तदोतं च प्रोतं च इत्याकाशे प्रतिष्ठितत्वमुक्त्वा कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च इत्यनेन प्रश्नेनेदमक्षरमवतारितम् तथा चोपसंहृतम् एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च इति। न चेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र संभवति। यदपि ओंकार एवेदं सर्वम् इति तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम्। तस्मिन्न क्षरति अश्नुते चेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्म।।

स्यादेतत् कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते प्रधानकारणवादिनोऽपीयमुपपद्यते कथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति अत उत्तरं पठति


सा च प्रशासनात् । ( ब्रसू-१,३.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

सा च अम्बरान्तधृतिः परमेश्वरस्यैव कर्म। कस्मात् प्रशासनात्। प्रशासनं हीह श्रूयते एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादि। प्रशासनं च पारमेश्वरं कर्म न अचेतनस्य प्रशासनं भवति। न ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति।।


अन्यभावव्यावृत्तेश्च । ( ब्रसू-१,३.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम् तस्यैवाम्बरान्तधृतिः कर्म नान्यस्य कस्यचित्। किमिदम् अन्यभावव्यावृत्तेरिति अन्यस्य भावोऽन्यभावः तस्माद्व्यावृत्तिः अन्यभावव्यावृत्तिरिति तस्याः। एतदुक्तं भवति यदन्यद्ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावात् इदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिः तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ इति। तत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि संभवति द्रष्टृत्वादिव्यपदेशस्तु न तस्य संभवति अचेतनत्वात्। तथा नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञातृ इत्यात्मभेदप्रतिषेधात् न शारीरस्याप्युपाधिमतोऽक्षरशब्दवाच्यत्वम् अचक्षुष्कमश्रोत्रमवागमनः इति चोपाधिमत्ताप्रतिषेधात्। न हि निरुपाधिकः शारीरो नाम भवति। तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः।।

ईक्षितकर्मव्यपदेशाधिकरणम्[सम्पाद्यताम्]

ईक्षतिकर्मव्यपदेशात् सः । ( ब्रसू-१,३.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति इति प्रकृत्य श्रूयते यः0 0पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत इति। किमस्मिन्वाक्ये परं ब्रह्माभिध्यातव्यमुपदिश्यते आहोस्विदपरमिति। एतेनैवायतनेन परमपरं वैकतरमन्वेतीति प्रकृतत्वात्संशयः। तत्रापरमिदं ब्रह्मेति प्राप्तम्। कस्मात् स तेजसि सूर्ये संपन्नः स सामभिरुन्नीयते ब्रह्मलोकम् इति च तद्विदो देशपरिच्छिन्नस्य फलस्योच्यमानत्वात्। न हि परब्रह्मविद्देशपरिच्छिन्नं फलमश्नुवीतेति युक्तम् सर्वगतत्वात्परस्य ब्रह्मणः। नन्वपरब्रह्मपरिग्रहे परं पुरुषम् इति विशेषणं नोपपद्यते। नैष दोषः पिण्डापेक्षया प्राणस्य परत्वोपपत्तेः इत्येवं प्राप्ते अभिधीयते।।

परमेव ब्रह्म इह अभिध्यातव्यमुपदिश्यते। कस्मात् ईक्षतिकर्मव्यपदेशात् ईक्षतिर्दर्शनम् दर्शनव्याप्यमीक्षतिकर्म ईक्षतिकर्मत्वेनास्याभिध्यातव्यस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते इति। तत्र अभिध्यायतेरतथाभूतमपि वस्तु कर्म भवति मनोरथकल्पितस्याप्यभिध्यायतिकर्मत्वात् ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टम् इत्यतः परमात्मैवायं सम्यग्दर्शनविषयभूत ईक्षतिकर्मत्वेन व्यपदिष्ट इति गम्यते। स एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञायते। नन्वभिध्याने परः पुरुष उक्तः ईक्षणे तु परात्परः कथमितर इतरत्र प्रत्यभिज्ञायत इति अत्रोच्यते परपुरुषशब्दौ तावदुभयत्र साधारणौ। न चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते येन तस्मात् परात्परोऽयमीक्षितव्यः पुरुषोऽन्यः स्यात्। कस्तर्हि जीवघन इति उच्यते घनो मूर्तिः जीवलक्षणो घनः जीवघनः। सैन्धवखिल्यवत् यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः परश्च विषयेन्द्रियेभ्यः सोऽत्र जीवघन इति। अपर आह स सामभिरुन्नीयते ब्रह्मलोकम् इत्यतीतानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः सोऽत्र जीवघन इत्युच्यते। जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि संघातोपपत्तेर्भवति ब्रह्मलोको जीवघनः। तस्मात्परो यः पुरुषः परमात्मा ईक्षणकर्मभूतः स एवाभिध्यानेऽपि कर्मभूत इति गम्यते। परं पुरुषम् इति च विशेषणं परमात्मपरिग्रह एवावकल्पते। परो हि पुरुषः परमात्मैव भवति यस्मात्परं किंचिदन्यन्नास्ति पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इति च श्रुत्यन्तरात्। परं चापरं च ब्रह्म यदोंकारः इति च विभज्य अनन्तरमोंकारेण परं पुरुषमभिध्यातव्यं ब्रुवन् परमेव ब्रह्म परं पुरुषं गमयति। यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुच्यते इति पाप्मविनिर्मोकफलवचनं परमात्मानमिहाभिध्यातव्यं सूचयति। अथ यदुक्तं परमात्माभिध्यायिनो न देशपरिच्छिन्नं फलं युज्यत इति अत्रोच्यते त्रिमात्रेणोंकारेणालम्बनेन परमात्मानमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः क्रमेण च सम्यग्दर्शनोत्पत्तिः इति क्रममुक्त्यभिप्रायमेतद्भविष्यतीत्यदोषः।।

दहराधिकरणम्[सम्पाद्यताम्]

दहर उत्तरेभ्यः । ( ब्रसू-१,३.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् इत्यादि वाक्यं समाम्नायते। तत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः स किं भूताकाशः अथ विज्ञानात्मा अथवा परमात्मेति संशय्यते। कुतः संशयः आकाशब्रह्मपुरशब्दाभ्याम्। आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च ब्रह्मणि प्रयुज्यमानो दृश्यते। तत्र किं भूताकाश एव दहरः स्यात् किं वा पर इति संशयः। तथा ब्रह्मपुरमिति किं जीवोऽत्र ब्रह्मनामा तस्येदं पुरं शरीरं ब्रह्मपुरम् अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमिति। तत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयः। तत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम् तस्य च दहरायतनापेक्षया दहरत्वम् यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः इति च बाह्याभ्यन्तरभावकृतभेदस्योपमानोपमेयभावः द्यावापृथिव्यादि च तस्मिन्नन्तः समाहितम् अवकाशात्मनाकाशस्यैकत्वात्। अथवा जीवो दहर इति प्राप्तम् ब्रह्मपुरशब्दात् जीवस्य हीदं पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते तस्य स्वकर्मणोपार्जितत्वात् भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वम् न हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः संबन्धोऽस्ति तत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टम् यथा राज्ञः मनउपाधिकश्च जीवः मनश्च प्रायेण हृदये प्रतिष्ठितम् इत्यतो जीवस्यैवेदं हृदयान्तरवस्थानं स्यात् दहरत्वमपि तस्यैव आराग्रोपमितत्वात् अवकल्पते आकाशोपमितत्वादि च ब्रह्माभेदविवक्षया भविष्यति न चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रूयते तस्मिन्यदन्तः इति परविशेषणत्वेनोपादानादिति।।

अत उत्तरं ब्रूमः परमेश्वर एवात्र दहराकाशो भवितुमर्हति न भूताकाशो जीवो वा। कस्मात् उत्तरेभ्यः वाक्यशेषगतेभ्यो हेतुभ्यः। तथाहि अन्वेष्टव्यतयाभिहितस्य दहराकाशस्य तं चेद्ब्रूयुः इत्युपक्रम्य किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम् इत्येवमाक्षेपपूर्वकं प्रतिसमाधानवचनं भवति स ब्रूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते इत्यादि। तत्र पुण्डरीकदहरत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाकाशौपम्येन दहरत्वं निवर्तयन् भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति गम्यते। यद्यप्याकाशशब्दो भूताकाशे रूढः तथापि तेनैव तस्योपमा नोपपद्यत इति भूताकाशशङ्का निवर्तिता भवति। नन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः संभवतीत्युक्तम् नैवं संभवति अगतिका हीयं गतिः यत्काल्पनिकभेदाश्रयणम्। अपि च कल्पयित्वा भेदमुपमानोपमेयभावं वर्णयतः परिच्छिन्नत्वादभ्यन्तराकाशस्य न बाह्याकाशपरिमाणत्वमुपपद्येत। ननु परमेश्वरस्यापि ज्यायानाकाशात् इति श्रुत्यन्तरात् नैवाकाशपरिमाणत्वमुपपद्यते नैष दोषः पुण्डरीकवेष्टनप्राप्तदहरत्वनिवृत्तिपरत्वाद्वाक्यस्य न तावत्त्वप्रतिपादनपरत्वम् उभयप्रतिपादने हि वाक्यं भिद्येत। न च कल्पितभेदे पुण्डरीकवेष्टित आकाशैकदेशे द्यावापृथिव्यादीनामन्तः समाधानमुपपद्यते। एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः इति चात्मत्वापहतपाप्मत्वादयश्च गुणा न भूताकाशे संभवन्ति। यद्यप्यात्मशब्दो जीवे संभवति तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति। न ह्युपाधिपरिच्छिन्नस्याराग्रोपमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निवर्तयितुम्। ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्वादि विवक्ष्येतेति चेत् यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत तस्यैवब्रह्मणः साक्षात्सर्वगतत्वादि विवक्ष्यतामिति युक्तम्। यदप्युक्तम् ब्रह्मपुरम् इति जीवेन पुरस्योपलक्षितत्वाद्राज्ञ इव जीवस्यैवेदं पुरस्वामिनः पुरैकदेशवर्तित्वमस्त्विति अत्र ब्रूमः परस्यैवेदं ब्रह्मणः पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते ब्रह्मशब्दस्य तस्मिन्मुख्यत्वात्। तस्याप्यस्ति पुरेणानेन संबन्धः उपलब्ध्यधिष्ठानत्वात् स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः इत्यादिश्रुतिभ्यः। अथवा जीवपुर एवास्मिन् ब्रह्म संनिहितमुपलक्ष्यते यथा सालग्रामे विष्णुः संनिहित इति तद्वत्। तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते इति च कर्मणामन्तवत्फलत्वमुक्त्वा अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति इति प्रकृतदहराकाशविज्ञानस्यानन्तफलत्वं वदन् परमात्मत्वमस्य सूचयति। यदप्येतदुक्तम् न दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रुतं परविशेषणत्वेनोपादानादिति अत्र ब्रूमः यद्याकाशो नान्वेष्टव्यत्वेनोक्तः स्यात् यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः इत्याद्याकाशस्वरूपप्रदर्शनं नोपपद्येत। नन्वेतदप्यन्तर्वर्तिवस्तुसद्भावदर्शनायैव प्रदर्श्यते तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम् इत्याक्षिप्य परिहारावसरे आकाशौपम्योपक्रमेण द्यावापृथिव्यादीनामन्तःसमाहितत्वप्रदर्शनात् नैतदेवम् एवं हि सति यदन्तः समाहितं द्यावापृथिव्यादितदन्वेष्टव्यं विजिज्ञासितव्यं चोक्तं स्यात् तत्र वाक्यशेषो नोपपद्येत अस्मिन्कामाः समाहिताः एष आत्मापहतपाप्मा इति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् इति समुच्चयार्थेन चशब्देनात्मानं कामाधारम् आश्रितांश्च कामान् विज्ञेयान् वाक्यशेषो दर्शयति। तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानः सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्च कामैर्विज्ञेय उक्त इति गम्यते। स चोक्तेभ्यो हेतुभ्यः परमेश्वर इति स्थितम्।।


गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । ( ब्रसू-१,३.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम् त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्ते। इतश्च परमेश्वर एव दहरः यस्माद्दहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतः इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति इति। तत्र प्रकृतं दहरं ब्रह्मलोकशब्देनाभिधाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानामभिधीयमाना दहरस्य ब्रह्मतां गमयति। तथा ह्यहरहर्जीवानां सुषुप्तावस्थायां ब्रह्मविषयं गमनं दृष्टं श्रुत्यन्तरे सता सोम्य तदा संपन्नो भवति इत्येवमादौ। लोकेऽपि किल गाढं सुषुप्तमाचक्षते ब्रह्मीभूतो ब्रह्मतां गतः इति। तथा ब्रह्मलोकशब्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशाशङ्कां निवर्तयन्ब्रह्मतामस्य गमयति। ननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत् गमयेद्यदि ब्रह्मणो लोक इति षष्ठीसमासवृत्त्या व्युत्पाद्येत सामानाधिकरण्यवृत्त्या तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्यति। एतदेव चाहरहर्ब्रह्मलोकगमनं दृष्टं ब्रह्मलोकशब्दस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गम्। न ह्यहरहरिमाः प्रजाः कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छन्तीति शक्यं कल्पयितुम्।।


धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः । ( ब्रसू-१,३.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

धृतेश्च हेतोः परमेश्वर एवायं दहरः। कथम् दहरोऽस्मिन्नन्तराकाशः इति हि प्रकृत्य आकाशौपम्यपूर्वकं तस्मिन्सर्वसमाधानमुक्त्वा तस्मिन्नेव चात्मशब्दं प्रयुज्यापहतपाप्मत्वादिगुणयोगं चोपदिश्य तमेवानतिवृत्तप्रकरणं निर्दिशति अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय इति। तत्र विधृतिरित्यात्मशब्दसामानाधिकरण्याद्विधारयितोच्यते क्तिचः कर्तरि स्मरणात्। यथोदकसंतानस्य विधारयिता लोके सेतुः क्षेत्रसंपदामसंभेदाय एवमयमात्मा एषामध्यात्मादिभेदभिन्नानां लोकानां वर्णाश्रमादीनां च विधारयिता सेतुः असंभेदाय असंकरायेति। एवमिह प्रकृते दहरे विधरणलक्षणं महिमानं दर्शयति। अयं च महिमा परमेश्वर एव श्रुत्यन्तरादुपलभ्यते एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादेः। तथान्यत्रापि निश्चिते परमेश्वरवाक्ये श्रूयते एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय इति। एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः।।


प्रसिद्धेश् च । ( ब्रसू-१,३.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च परमेश्वर एव दहरोऽस्मिन्नन्तराकाशः इत्युच्यते यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः आकाशो वै नाम नामरूपयोर्निर्वहिता सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यादिप्रयोगदर्शनात्। जीवे तु न क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यते। भूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धौ उपमानोपमेयभावाद्यसंभवान्न ग्रहीतव्य इत्युक्तम्।।


इतरपरामर्शात् स इति चेन् नासंभवात् । ( ब्रसू-१,३.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदि वाक्यशेषबलेन दहर इति परमेश्वरः परिगृह्येत अस्ति हीतरस्थापि जीवस्य वाक्यशेषे परामर्शः अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच इति अत्र हि संप्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वादवस्थावन्तं जीवं शक्नोत्युपस्थापयितुम् नार्थान्तरम् तथा शरीरव्यपाश्रयस्यैव जीवस्य शरीरात्समुत्थानं संभवति यथाकाशव्यपाश्रयाणां वाय्वादीनामाकाशात्समुत्थानम् तद्वत् यथा चादृष्टोऽपि लोके परमेश्वरविषय आकाशशब्दः परमेश्वरधर्मसमभिव्याहारात् आकाशो वै नाम नामरूपयोर्निर्वहिता इत्येवमादौ परमेश्वरविषयोऽभ्युपगतः एवं जीवविषयोऽपि भविष्यति तस्मादितरपरामर्शात् दहरोऽस्मिन्नन्तराकाशः इत्यत्र स एव जीव उच्यत इति चेत् नैतदेवं स्यात् कस्मात् असंभवात्। न हि जीवो बुद्ध्याद्युपाधिपरिच्छेदाभिमानी सन् आकाशेनोपमीयेत। न चोपाधिधर्मानभिमन्यमानस्यापहतपाप्मत्वादयो धर्माः संभवन्ति। प्रपञ्चितं चैतत्प्रथमे सूत्रे। अतिरेकाशङ्कापरिहाराय अत्र तु पुनरुपन्यस्तम्। पठिष्यति चोपरिष्टात् अन्यार्थश्च परामर्शः इति।।


उत्तराच् चेद् आविर्भूतस्वरूपस् तु । ( ब्रसू-१,३.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतरपरामर्शाद्या जीवाशङ्का जाता सा असंभवान्निराकृता। अथेदानीं मृतस्येवामृतसेकात् पुनः समुत्थानं जीवाशङ्कायाः क्रियते उत्तरस्मात्प्राजापत्याद्वाक्यात्। तत्र हि य आत्मापहतपाप्मा इत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं च प्रतिज्ञाय य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा इति ब्रुवन् अक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशति। एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इति च तमेव पुनः पुनः परामृश्य य एष स्वप्ने महीयमानश्चरत्येष आत्मा इति तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मा इति च जीवमेवावस्थान्तरगतं व्याचष्टे। तस्यैव चापहतपाप्मत्वादि दर्शयति एतदमृतमभयमेतद्ब्रह्म इति। नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि इति च सुषुप्तावस्थायां दोषमुपलभ्य एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात् इति चोपक्रम्य शरीरसंबन्धनिन्दापूर्वकम् एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः इति जीवमेव शरीरात्समुत्थितमुत्तमं पुरुषं दर्शयति। तस्मादस्ति संभवो जीवे पारमेश्वराणां धर्माणाम्। अतः दहरोऽस्मिन्नन्तराकाशः इति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात् तं प्रति ब्रूयात् आविर्भूतस्वरूपस्तु इति। तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का संभवतीत्यर्थः। कस्मात् यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते। आविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः भूतपूर्वगत्या जीववचनम्। एतदुक्तं भवति य एषोऽक्षिणि इत्यक्षिलक्षितं द्रष्टारं निर्दिश्य उदशरावब्राह्मणेन एनं शरीरात्मतया व्युत्थाप्य एतं त्वेव ते इति पुनः पुनस्तमेव व्याख्येयत्वेनाकृष्य स्वप्नसुषुप्तोपन्यासक्रमेण परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म तद्रूपतयैनं जीवं व्याचष्टे न जैवेन रूपेण। यत्तत् परं ज्योतिरुपसंपत्तव्यं श्रुतम् तत्परं ब्रह्म तच्चापहतपाप्मत्वादिधर्मकम् तदेव च जीवस्य पारमार्थिकं स्वरूपम् तत्त्वमसि इत्यादिशास्त्रेभ्यः नेतरदुपाधिकल्पितम्। यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानम् अहं ब्रह्मस्मि इति न प्रतिपद्यते तावज्जीवस्य जीवत्वम्। यदा तु देहेन्द्रियमनोबुद्धिसंघाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते नासि त्वं देहेन्द्रियमनोबुद्धिसंघातः नापि संसारी किं तर्हि तद्यत्सत्यं स आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीति तदा कूटस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुध्य अस्माच्छरीराद्यभिमानात्समुत्तिष्ठन् स एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति इत्यादिश्रुतिभ्यः। तदेव चास्य पारमार्थिकं स्वरूपम् येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते। कथं पुनः स्वं च रूपं स्वेनैव च निष्पद्यत इति संभवति कूटस्थनित्यस्य सुवर्णादीनां तु द्रव्यान्तरसंपर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात् तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् न तु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः संभवति असंसर्गित्वात् व्योम्न इव दृष्टविरोधाच्च दृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम् तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यते सर्वो हि जीवः पश्यन् श्रृण्वन् मन्वानो विजानन्व्यवहरति अन्यथा व्यवहारानुपपत्तेः तच्चेत् शरीरात्समुत्थितस्य निष्पद्येत प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येत अतः किमात्मकमिदं शरीरात्समुत्थानम् किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरिति अत्रोच्यते प्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवति यथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं च स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन च स्वेन रूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन् तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम् विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिः। तथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं च मन्त्रवर्णात् अशरीरं शरीरेषु इति शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते इति च सशरीरत्वाशरीरत्वविशेषाभावस्मरणात्। तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते। न त्वन्यादृशौ आविर्भावानाविर्भावौ स्वरूपस्य संभवतः स्वरूपत्वादेव। एवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदः न वस्तुकृतः व्योमवदसङ्गत्वाविशेषात्। कुतश्चैतदेवं प्रतिपत्तव्यम् यतः य एषोऽक्षिणि पुरुषो दृश्यते इत्युपदिश्य एतदमृतमभयमेतद्ब्रह्म इत्युपदिशति । योऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते सोऽमृताभयलक्षणाद्ब्रह्मणोऽन्यश्चेत्स्यात् ततोऽमृताभयब्रह्मसामानाधिकरण्यं न स्यात्। नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते प्रजापतेर्मृषावादित्वप्रसङ्गात्। तथा द्वितीयेऽपि पर्याये य एष स्वप्ने महीयमानश्चरति इति न प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इत्युपक्रमात्। किंच अहमद्य स्वप्ने हस्तिनमद्राक्षम् नेदानीं तं पश्यामि इति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टे। द्रष्टारं तु तमेव प्रत्यभिजानाति य एवाहं स्वप्नमद्राक्षम् स एवाहं जागरितं पश्यामि इति। तथा तृतीयेऽपि पर्याये नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि इति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति न विज्ञातारं प्रतिषेधति। यत्तु तत्र विनाशमेवापीतो भवति इति तदपि विशेषविज्ञानविनाशाभिप्रायमेव न विज्ञातृविनाशाभिप्रायम् न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् इति श्रुत्यन्तरात्। तथा चतुर्थेऽपि पर्याये एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात् इत्युपक्रम्य मघवन् मर्त्यं वा इदं शरीरम् इत्यादिना प्रपञ्चेन शरीराद्युपाधिसंबन्धप्रत्याख्यानेन संप्रसादशब्दोदितं जीवम् स्वेन रूपेणाभिनिष्पद्यते इति ब्रह्मस्वरूपापन्नं दर्शयन् न परस्माद्ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयति। केचित्तु परमात्मविवक्षायाम् एतं त्वेव ते इति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयोऽनुव्याख्यास्यामीति कल्पयन्ति। तेषाम् एतम् इति संनिहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत भूयःश्रुतिश्चोपरुध्येत पर्यायान्तराभिहितस्य पर्यायान्तरेणानभिधीयमानत्वात्। एतं त्वेव ते इति च प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येत। तस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते सर्पादिविलयनेनेव रज्ज्वादीन्। अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित्। तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धम् एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया मायया मायाविवत् अनेकधा विभाव्यते नान्यो विज्ञानधातुरस्तीति। यत्त्विदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारः नासंभवात् इत्यादिना तत्रायमभिप्रायः नित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम् तत् आत्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीति परमात्मनो जीवादन्यत्वं द्रढयति जीवस्य तु न परस्मादन्यत्वं प्रतिपिपादयिषति किं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम् एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो न विरुध्यन्त इति मन्यते। प्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयति शास्त्रदृष्ट्या तूपदेशो वामदेववत् इत्यादिना। वर्णितश्चास्माभिः विद्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः।।


अन्यार्थश् च परामर्शः । ( ब्रसू-१,३.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथ योऽयं दहरवाक्यशेषे जीवपरामर्शो दर्शितः अथ य एष संप्रसादः इत्यादिः स दहरे परमेश्वरे व्याख्यायमाने न जीवोपासनोपदेशः नापि प्रकृतविशेषोपदेशः इत्यनर्थकत्वं प्राप्नोतीत्यत आह अन्यार्थोऽयं जीवपरामर्शो न जीवस्वरूपपर्यवसायी किं तर्हि परमेश्वरस्वरूपपर्यवसायी। कथम् संप्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपञ्जराध्यक्षो भूत्वा तद्वासनानिर्मितांश्च स्वप्नान्नाडीचरोऽनुभूय श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात्समुत्थाय सुषुप्तावस्थायां परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसंपद्य विशेषविज्ञानवत्त्वं च परित्यज्य स्वेन रूपेणाभिनिष्पद्यते यदस्योपसंपत्तव्यं परं ज्योतिः येन स्वेन रूपेणायमभिनिष्पद्यते स एष आत्मापहतपाप्मत्वादिगुण उपास्यः इत्येवमर्थोऽयं जीवपरामर्शः परमेश्वरवादिनोऽप्युपपद्यते।।


अल्पश्रुतेर् इति चेत् तद् उक्तम् । ( ब्रसू-१,३.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

यदप्युक्तम् दहरोऽस्मिन्नन्तराकाशः इत्याकाशस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते जीवस्य तु आराग्रोपमितस्याल्पत्वमवकल्पत इति तस्य परिहारो वक्तव्यः। उक्तो ह्यस्य परिहारः परमेश्वरेऽप्यापेक्षिकमल्पत्वमवकल्पत इति अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च इत्यत्र स एवेह परिहारोऽनुसंधातव्य इति सूचयति। श्रुत्यैव च इदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमिमानया यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः इति।।

अनुकृत्यधिकरणम्[सम्पाद्यताम्]

अनुकृतेस् तस्य च । ( ब्रसू-१,३.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति समामनन्ति। तत्र यं भान्तमनुभाति सर्वं यस्य च भासा सर्वमिदं विभाति स किं तेजोधातुः कश्चित् उत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम्। कुतः तेजोधातूनामेव सूर्यादीनां भानप्रतिषेधात्। तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सूर्ये भासमाने अहनि न भासत इति प्रसिद्धम्। तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते सोऽपि तेजःस्वभाव एव कश्चिदित्यवगम्यते। अनुभानमपि तेजःस्वभावक एवोपपद्यते समानस्वभावकेष्वनुकारदर्शनात् गच्छन्तमनुगच्छति इतिवत्। तस्मात्तेजोधातुः कश्चिदित्येवं प्राप्ते

ब्रूमः प्राज्ञ एवायमात्मा भवितुमर्हति। कस्मात् अनुकृतेः अनुकरणमनुकृतिः यदेतत् तमेव भान्तमनुभाति सर्वम् इत्यनुभानम् तत्प्राज्ञपरिग्रहेऽवकल्पते भारूपः सत्यसंकल्पः इति हि प्राज्ञमात्मानमामनन्ति न तु तेजोधातुं कंचित्सूर्यादयोऽनुभान्तीति प्रसिद्धम् समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्यपेक्षास्ति यं भान्तमनुभायुः न हि प्रदीपः प्रदीपान्तरमनुभाति। यदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत इति नायमेकान्तो नियमः भिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरग्निं दहन्तमनुदहति भौमं वा रजो वायुं वहन्तमनुवहतीति। अनुकृतेः इत्यनुभानमसुसूचत् तस्य च इति चतुर्थं पादमस्य श्लोकस्य सूचयति। तस्य भासा सर्वमिदं विभाति इति च तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयति। तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् इति हि प्राज्ञमात्मानमामनन्ति। तेजोन्तरेण तु सूर्यादितेजो विभातीत्यप्रसिद्धम् विरुद्धं च तेजोन्तरेण तेजोन्तरस्य प्रतिघातात्। अथवा न सूर्यादीनामेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यते किं तर्हि सर्वमिदम् इत्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य या अभिव्यक्तिः सा ब्रह्मज्योतिःसत्तानिमित्ता यथा सूर्यज्योतिःसत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्तिः तद्वत्। न तत्र सूर्यो भाति इति च तत्रशब्दमाहरन्प्रकृतग्रहणं दर्शयति प्रकृतं च ब्रह्म यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम् इत्यादिना अनन्तरं च हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्। तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः इति कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम् न तत्र सूर्यो भाति इति। यदप्युक्तम् सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवान्यस्मिन्नवकल्पते सूर्य इवेतरेषामिति तत्र तु स एव तेजोधातुरन्यो न संभवतीत्युपपादितम्। ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पते यतः यदुपलभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यते ब्रह्म तु नान्येन ज्योतिषोपलभ्यते स्वयं ज्योतिःस्वरूपत्वात् येन सूर्यादयस्तस्मिन्भायुः ब्रह्म हि अन्यद्व्यनक्ति न तु ब्रह्मान्येन व्यज्यते आत्मनैवायं ज्योतिषास्ते अगृह्यो न हि गृह्यते इत्यादिश्रुतिभ्यः।।


अपि च स्मर्यते । ( ब्रसू-१,३.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु न तद्भासयते सूर्यो न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम इति। यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् इति च।।

प्रमिताधिकरणम्[सम्पाद्यताम्]

शब्दाद् एव प्रमितः । ( ब्रसू-१,३.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति इति श्रूयते तथा अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्व एतद्वै तत् इति च। तत्र योऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते स किं विज्ञानात्मा किं वा परमात्मेति संशयः। तत्र परिमाणोपदेशाद्विज्ञानात्मेति तावत्प्राप्तम्। न ह्यनन्तायामविस्तारस्य परमात्मनोऽङ्गुष्ठपरिमाणत्वमुपपद्यते विज्ञानात्मनस्तूपाधिमत्त्वात्संभवति कयाचित्कल्पनयाङ्गुष्ठमात्रत्वम्। स्मृतेश्च अथ सत्यवतः कायात्पाशबद्धं वशं गतम्। अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् इति न हि परमेश्वरो बलात् यमेन निष्क्रष्टुं शक्यः तेन तत्र संसारी अङ्गुष्ठमात्रो निश्चितः स एवेहापीत्येवं प्राप्ते

ब्रूमः परमात्मैवायमङ्गुष्ठमात्रपरिमितः पुरुषो भवितुमर्हति। कस्मात् शब्दात् ईशानो भूतभव्यस्य इति। न ह्यन्यः परमेश्वराद्भूतभव्यस्य निरङ्कुशमीशिता। एतद्वै तत् इति च प्रकृतं पृष्टमिहानुसंदधाति एतद्वै तत् यत्पृष्टं ब्रह्मेत्यर्थः पृष्टं चेह ब्रह्म अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद्व इति। शब्दादेवेति अभिधानश्रुतेरेव ईशान इति परमेश्वरोऽवगम्यत इत्यर्थः।।

कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूमः


हृद्यपेक्षया तु मनुष्याधिकारत्वात् । ( ब्रसू-१,३.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते आकाशस्येव वंशपर्वापेक्षमरत्निमात्रत्वम्। न ह्यञ्जसा अतिमात्रस्य परमात्मनोऽङ्गुष्ठमात्रत्वमुपपद्यते। न चान्यः परमात्मन इह ग्रहणमर्हति ईशानशब्दादिभ्य इत्युक्तम्। ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तरमुच्यते मनुष्याधिकारत्वादिति शास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरोति शक्तत्वात् अर्थित्वात् अपर्युदस्तत्वात् उपनयनादिशास्त्राच्च इति वर्णितमेतदधिकारलक्षणे। मनुष्याणां च नियतपरिमाणः कायः औचित्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं हृदयम् अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनः। यदप्युक्तम् परिमाणोपदेशात् स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः प्रत्येतव्य इति तत्प्रत्युच्यते स आत्मा तत्त्वमसि इत्यादिवत् संसारिण एव सतोऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इति। द्विरूपा हि वेदान्तवाक्यानां प्रवृत्तिः क्वचित्परमात्मस्वरूपनिरूपणपरा क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरा। तदत्र विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते नाङ्गुष्ठमात्रत्वं कस्यचित्। एतमेवार्थं परेण स्फुटीकरिष्यति अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः। तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण तं विद्याच्छुक्रममृतम् इति।।

देवताधिकरणम्[सम्पाद्यताम्]

तदुपर्य् अपि बादरायणः संभवात् । ( ब्रसू-१,३.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षा मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तम् तत्प्रसङ्गेनेदमुच्यते। बाढम् मनुष्यानधिकरोति शास्त्रम् न तु मनुष्यानेवेति इह ब्रह्मज्ञाने नियमोऽस्ति। तेषां मनुष्याणाम् उपरिष्टाद्ये देवादयः तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यते कस्मात् संभवात्। संभवति हि तेषामप्यर्थित्वाद्यधिकारकारणम् तत्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि संभवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमित्तम् तथा सामर्थ्यमपि तेषां संभवति मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात् न च तेषां कश्चित्प्रतिषेधोऽस्ति न चोपनयनशास्त्रेणैषामधिकारो निवर्त्येत उपनयनस्य वेदाध्ययनार्थत्वात् तेषां च स्वयंप्रतिभातवेदत्वात् अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयति एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास भृगुर्वै वारुणिः। वरुणं पितरमुपससार। अधीहि भगवो ब्रह्म इत्यादि। यदपि कर्मस्वनधिकारकारणमुक्तम् न देवानां देवतान्तराभावात् इति न ऋषीणाम् आर्षेयान्तराभावात् इति न तद्विद्यासु अस्ति। न हीन्द्रादीनां विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किंचित्कृत्यमस्ति न च भृग्वादीनां भृग्वादिसगोत्रतया। तस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्यते देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया न विरुध्येत।।


विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् । ( ब्रसू-१,३.२६ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत विग्रहवत्त्वात् ऋत्विगादिवदिन्द्रादीनामपि स्वरूपसंनिधानेन कर्माङ्गभावोऽभ्युपगम्येत तदा च विरोधः कर्मणि स्यात् न हीन्द्रादीनां स्वरूपसंनिधानेन यागाङ्गभावो दृश्यते न च संभवति बहुषु यागेषु युगपदेकस्येन्द्रस्य स्वरूपसंनिधानानुपपत्तेरिति चेत् नायमस्ति विरोधः कस्मात् अनेकप्रतिपत्तेः। एकस्यापि देवतात्मनो युगपदनेकस्वरूपप्रतिपत्तिः संभवति। कथमेतदवगम्यते दर्शनात्। तथाहि कति देवाः इत्युपक्रम्य त्रयश्च त्री च शता त्रयश्च त्री चसहस्रा इति निरुच्य कतमे ते इत्यस्यां पृच्छायाम् महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाः इति ब्रुवती श्रुतिः एकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयति। तथा त्रयस्त्रिंशतोऽपि षडाद्यन्तर्भावक्रमेण कतम एको देव इति प्राणः इति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैव एकस्य प्राणस्य युगपदनेकरूपतां दर्शयति। तथा स्मृतिरपि आत्मनो वै शरीराणि बहूनि भरतर्षभ। योगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत्।। प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत्। संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव इत्येवंजातीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति किमु वक्तव्यमाजानसिद्धानां देवानाम् अनेकरूपप्रतिपत्तिसंभवाच्च एकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छतीति। परैश्च न दृश्यते अन्तर्धानादिशक्तियोगात् इत्युपपद्यते। अनेकप्रतिपत्तेर्दर्शनात् इत्यस्यापरा व्याख्या विग्रहवतामपि कर्माङ्गभावचोदनासु अनेका प्रतिपत्तिर्दृश्यते क्वचिदेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं न गच्छति यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद्भोज्यते क्वचिच्चैकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियते तद्वदिहोद्देशपरित्यागात्मकत्वात् यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानां न किंचित्कर्मणि विरुध्यते।।


शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । ( ब्रसू-१,३.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

मा नाम विग्रहवत्त्वे देवादीनामभ्युपगम्यमाने कर्मणि कश्चिद्विरोधः प्रसञ्जि शब्दे तु विरोधः प्रसज्येत। कथम् औत्पत्तिकं हि शब्दस्यार्थेन संबन्धमाश्रित्य अनपेक्षत्वात् इति वेदस्य प्रामाण्यं स्थापितम्। इदानीं तु विग्रहवती देवताभ्युपगम्यमाना यद्यप्यैश्वर्ययोगाद्युगपदनेककर्मसंबन्धीनि हवींषि भुञ्जीत तथापि विग्रहयोगादस्मदादिवज्जननमरणवती सेति नित्यस्य शब्दस्य नित्येनार्थेन नित्ये संबन्धे प्रतीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितम् तस्य विरोधः स्यादिति चेत् नायमप्यस्ति विरोधः कस्मात् अतः प्रभवात्। अत एव हि वैदिकाच्छब्दाद्देवादिकं जगत्प्रभवति।।

ननु जन्माद्यस्य यतः इत्यत्र ब्रह्मप्रभवत्वं जगतोऽवधारितम् कथमिह शब्दप्रभवत्वमुच्यते अपि च यदि नाम वैदिकाच्छब्दादस्य प्रभवोऽभ्युपगतः कथमेतावता विरोधः शब्दे परिहृतः यावता वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्येतेऽर्था अनित्या एव उत्पत्तिमत्त्वात् तदनित्यत्वे च तद्वाचिनां वैदिकानां वस्वादिशब्दानामनित्यत्वं केन निवार्यते प्रसिद्धं हि लोके देवदत्तस्य पुत्र उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियत इति तस्माद्विरोध एव शब्द इति चेत् न गवादिशब्दार्थसंबन्धनित्यत्वदर्शनात्। न हि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनामप्युत्पत्तिमत्त्वं स्यात्। द्रव्यगुणकर्मणां हि व्यक्तय एवोत्पद्यन्ते नाकृतयः। आकृतिभिश्च शब्दानां संबन्धः न व्यक्तिभिः व्यक्तीनामानन्त्यात्संबन्धग्रहणानुपपत्तेः। व्यक्तिषूत्पद्यमानास्वप्याकृतीनां नित्यत्वात् न गवादिशब्देषु कश्चिद्विरोधो दृश्यते। तथा देवादिव्यक्तिप्रभवाभ्युपगमेऽप्याकृतिनित्यत्वात् न कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यम्। आकृतिविशेषस्तु देवादीनां मन्त्रार्थवादादिभ्यो विग्रहवत्त्वाद्यवगमादवगन्तव्यः। स्थानविशेषसंबन्धनिमित्ता वा इन्द्रादिशब्दाः सेनापत्यादिशब्दवत्। ततश्च यो यस्तत्तत्स्थानमधितिष्ठति स स इन्द्रादिशब्दैरभिधीयत इति न दोषो भवति। न चेदं शब्दप्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकारणत्वाभिप्रायेणोच्यते। कथं तर्हि स्थित वाचकात्मना नित्ये शब्दे नित्यार्थसंबन्धिनि शब्दव्यवहारयोग्यार्थव्यक्तिनिष्पत्तिः अतः प्रभवः इत्युच्यते। कथं पुनरवगम्यते शब्दात्प्रभवति जगदिति प्रत्यक्षानुमानाभ्याम् प्रत्यक्षं हि श्रुतिः प्रामाण्यं प्रत्यनपेक्षत्वात् अनुमानं स्मृतिः प्रामाण्यं प्रति सापेक्षत्वात् ते हि शब्दपूर्वां सृष्टिं दर्शयतः एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पितृ़ंस्तिरःपवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रमभिसौभगेत्यन्याः प्रजाः इति श्रुतिः तथान्यत्रापि स मनसा वाचं मिथुनं समभवत् इत्यादिना तत्र तत्र शब्दपूर्विका सृष्टिः श्राव्यते स्मृतिरपि अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा। आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः इति उत्सर्गोऽप्ययं वाचः संप्रदायप्रवर्तनात्मको द्रष्टव्यः अनादिनिधनाया अन्यादृशस्योत्सर्गस्यासंभवात् तथा नाम रूपं च भूतानां कर्मणां च प्रवर्तनम्। वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः इति। सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक्। वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे इति च अपि च चिकीर्षितमर्थमनुतिष्ठन् तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चात्तमर्थमनुतिष्ठतीति सर्वेषां नः प्रत्यक्षमेतत् तथा प्रजापतेरपि स्रष्टुः सृष्टेः पूर्वं वैदिकाः शब्दा मनसि प्रादुर्बभूवुः पश्चात्तदनुगतानर्थान्ससर्जेति गम्यते तथा च श्रुतिः स भूरिति व्याहरत् स भूमिमसृजत इत्येवमादिका भूरादिशब्देभ्य एव मनसि प्रादुर्भूतेभ्यो भूरादिलोकान्सृष्टान्दर्शयति।।

किमात्मकं पुनः0 0शब्दमभिप्रेत्येदं शब्दप्रभवत्वमुच्यते स्फोटम् इत्याह। वर्णपक्षे हि तेषामुत्पन्नप्रध्वंसित्वान्नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यनुपपन्नं स्यात् उत्पन्नध्वंसिनश्च वर्णाः प्रत्युच्चारणमन्यथा चान्यथा च प्रतीयमानत्वात् तथा ह्यदृश्यमानोऽपि पुरुषविशेषोऽध्ययनध्वनिश्रवणादेव विशेषतो निर्धार्यते देवदत्तोऽयमधीते यज्ञदत्तोऽयमधीते इति न चायं वर्णविषयोऽन्यथात्वप्रत्ययो मिथ्याज्ञानम् बाधकप्रत्ययाभावात्। न च वर्णेभ्योऽर्थावगतिर्युक्ताः न ह्येकैको वर्णेऽर्थं प्रत्याययेत् व्यभिचारात् न च वर्णसमुदायप्रत्ययोऽस्ति क्रमवर्तित्वाद्वर्णानाम् पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति यद्युच्येत तन्न संबन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीयमानोऽर्थं प्रत्याययेत् धूमादिवत् न च पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितस्यान्त्यवर्णस्य प्रतीतिरस्ति अप्रत्यक्षत्वात्संस्काराणाम् कार्यप्रत्यायितैः संस्कारैः सहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति चेत् न संस्कारकार्यस्यापि स्मरणस्य क्रमवर्तित्वात् तस्मात्स्फोट एव शब्दः। स चैकैकवर्णप्रत्ययाहितसंस्कारबीजेऽन्त्यवर्णप्रत्ययजनितपरिपाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभासते न चायमेकप्रत्ययो वर्णविषया स्मृतिः वर्णानामनेकत्वादेकप्रत्ययविषयत्वानुपपत्तेः तस्य च प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वम् भेदप्रत्ययस्य वर्णविषयत्वात्। तस्मान्नित्याच्छब्दात्स्फोटरूपादभिधायकात्क्रियाकारकफललक्षणं जगदभिधेयभूतं प्रभवतीति।।

वर्णा एव तु शब्दः इति भगवानुपवर्षः। ननूत्पन्नप्रध्वंसित्वं वर्णानामुक्तम् तन्न त एवेति प्रत्यभिज्ञानात् सादृश्यात्प्रत्यभिज्ञानं केशादिष्विवेति चेत् न प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेः प्रत्यभिज्ञानमाकृतिनिमित्तमिति चेत् न व्यक्तिप्रत्यभिज्ञानात् यदि हि प्रत्युच्चारणं गवादिव्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरन् तत आकृतिनिमित्तं प्रत्यभिज्ञानं स्यात् न त्वेतदस्ति वर्णव्यक्तय एव हि प्रत्युच्चारणं प्रत्यभिज्ञायन्ते द्विर्गोशब्द उच्चारितः इति हि प्रतिपत्तिः न तु द्वौ गोशब्दाविति। ननु वर्णाअप्युच्चारणभेदेन भिन्नाः प्रतीयन्ते देवदत्तयज्ञदत्तयोरध्ययनध्वनिश्रवणादेव भेदप्रतीतेरित्युक्तम् अत्राभिधीयते सति वर्णविषये निश्चिते प्रत्यभिज्ञाने संयोगविभागाभिव्यङ्ग्यत्वाद्वर्णानाम् अभिव्यञ्जकवैचित्र्यनिमित्तोऽयं वर्णविषयो विचित्रः प्रत्ययः न स्वरूपनिमित्तः अपि च वर्णव्यक्तिभेदवादिनापि प्रत्यभिज्ञानसिद्धये वर्णाकृतयः कल्पयितव्याः तासु च परोपाधिको भेदप्रत्यय इत्यभ्युपगन्तव्यम् तद्वरं वर्णव्यक्तिष्वेव परोपाधिको भेदप्रत्ययः स्वरूपनिमित्तं च प्रत्यभिज्ञानम् इति कल्पनालाघवम्। एष एव च वर्णविषयस्य भेदप्रत्ययस्य बाधकः प्रत्ययः यत्प्रत्यभिज्ञानम्। कथं ह्येकस्मिन्काले बहूनामुच्चारयतामेक एव सन् गकारो युगपदनेकरूपः स्यात् उदात्तश्चानुदात्तश्च स्वरितश्च सानुनासिकश्च निरनुनासिकश्चेति अथवा ध्वनिकृतोऽयं भेदप्रत्ययो न वर्णकृत इत्यदोषः। कः पुनरयं ध्वनिर्नाम यो दूरादाकर्णयतो वर्णविवेकमप्रतिपद्यमानस्य कर्णपथमवतरति प्रत्यासीतदतश्च पटुमृदुत्वादिभेदं वर्णेष्वासञ्जयति तन्निबन्धनाश्चोदात्तादयो विशेषाः न वर्णस्वरूपनिबन्धनाः वर्णानां प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वात् एवं च सति सालम्बना एवैते उदात्तादिप्रत्यया भविष्यन्ति इतरथा हि वर्णानां प्रत्यभिज्ञायमानानां निर्भेदत्वात्संयोगविभागकृता उदात्तादिविशेषाः कल्प्येरन् संयोगविभागानां चाप्रत्यक्षत्वान्न तदाश्रया विशेषाः वर्णेष्वध्यवसातुं शक्यन्त इत्यतो निरालम्बना एव एते उदात्तादिप्रत्ययाः स्युः। अपि च नैवैतदभिनिवेष्टव्यम् उदात्तादिभेदेन वर्णानां प्रत्यभिज्ञायमानानां भेदो भवेदिति न ह्यन्यस्य भेदेनान्यस्याभिद्यमानस्य भेदो भवितुमर्हति न हि व्यक्तिभेदेन जातिं भिन्नां मन्यन्ते। वर्णेभ्यश्चार्थप्रतीतेः संभवात् स्फोटकल्पनानर्थिका। न कल्पयाम्यहं स्फोटम् प्रत्यक्षमेव त्वेनमवगच्छामि एकैकवर्णग्रहणाहितसंस्काराया बुद्धौ झटिति प्रत्यवभासनादिति चेत् न अस्या अपि बुद्धेर्वर्णविषयत्वात् एकैकवर्णग्रहणोत्तरकाला हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया नार्थान्तरविषया कथमेतदवगम्यते यतोऽस्यामपि बुद्धौ गकारादयो वर्णा अनुवर्तन्ते न तु दकारादयः यदि ह्यस्या बुद्धेर्गकारादिभ्योऽर्थान्तरं स्फोटो विषयः स्यात् ततो दकारादय इव गकारादयोऽप्यस्या बुद्धेर्व्यावर्तेरन् न तु तथास्ति तस्मादियमेकबुद्धिर्वर्णविषयैव स्मृतिः। नन्वनेकत्वाद्वर्णानां नैकबुद्धिविषयतोपपद्यत इत्युक्तम् तत्प्रति ब्रूमः संभवत्यनेकस्याप्येकबुद्धिविषयत्वम् पङ्क्तिः वनं सेना दश शतं सहस्रमित्यादिदर्शनात् या तु गौरित्येकोऽयं शब्द इति बुद्धिः सा बहुष्वेव वर्णेष्वेकार्थावच्छेदनिबन्धना औपचारिकी वनसेनादिबुद्धिवदेव। अत्राह यदि वर्णा एव सामस्त्येन एकबुद्धिविषयतामापद्यमानाः पदं स्युः ततो जारा राजा कपिः पिक इत्यादिषु पदविशेषप्रतिपत्तिर्न स्यात् त एव हि वर्णा इतरत्रेतरत्र च प्रत्यवभासन्त इति अत्र वदामः सत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ्क्तिबुद्धिमारोहन्ति एवं क्रमानुरोधिन एव हि वर्णाः पदबुद्धिमारोक्ष्यन्ति तत्र वर्णानामविशेषेऽपि क्रमविशेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यते वृद्धव्यवहारे चेमे वर्णाः क्रमाद्यनुगृहीता गृहीतार्थविशेषसंबन्धाः सन्तः स्वव्यवहारेऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्रत्याययिष्यन्तीति वर्णवादिनो लघीयसी कल्पना। स्फोटवादिनस्तु दृष्टहानिः अदृष्टकल्पना च वर्णाश्चेमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्जयन्ति स स्फोटोऽर्थं व्यनक्तीति गरीयसी कल्पना स्यात्।।

अथापि नाम प्रत्युच्चारणमन्येऽन्ये वर्णाः स्युः तथापि प्रत्यभिज्ञालम्बनभावेन वर्णसामान्यानामवश्याभ्युपगन्तव्यत्वात् वर्णेष्वर्थप्रतिपादनप्रक्रिया रचिता सा सामान्येषु संचारयितव्या। ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यविरुद्धम्।।


अत एव च नित्यत्वम् । ( ब्रसू-१,३.२८ । )

भाष्यम्

शाङ्करभाष्यम्॥

कर्तुरस्मरणादिति स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्क्य अतः प्रभवात् इति परिहृत्य इदानीं तदेव वेदनित्यत्वं स्थितं द्रढयति अत एव च नित्यत्वमिति। अत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वात् वेदशब्दनित्यत्वमपि प्रत्येतव्यम्। तथा च मन्त्रवर्णः यज्ञेन वाचः पदवीयमायंस्तामन्वविन्दन्नृषिषु प्रविष्टाम् इति स्थितामेव वाचमनुविन्नां दर्शयति। वेदव्यासश्चैवमेव स्मरति युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा इति।।


समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च । ( ब्रसू-१,३.२९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथापि स्यात् यदि पश्वादिव्यक्तिवद्देवादिव्यक्तयोऽपि संतत्यैवोत्पद्येरन् निरुध्येरंश्च ततोऽभिधानाभिधेयाभिधातृव्यवहाराविच्छेदात्संबन्धनित्यत्वेन विरोधः शब्दे परिह्रियेत। यदा तु खलु सकलं त्रैलोक्यं परित्यक्तनामरूपं निर्लेपं प्रलीयते प्रभवति चाभिनवमिति श्रुतिस्मृतिवादा वदन्ति तदा कथमविरोध इति। तत्रेदमभिधीयते समाननामरूपत्वादिति। तदापि संसारस्यानादित्वं तावदभ्युपगन्तव्यम्। प्रतिपादयिष्यति चाचार्यः संसारस्यानादित्वम् उपपद्यते चाप्युपलभ्यते च इति। अनादौ च संसारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रवणेऽपि पूर्वप्रबोधवदुत्तरप्रबोधेऽपि व्यवहारान्न कश्चिद्विरोधः एवं कल्पान्तरप्रभवप्रलययोरपीति द्रष्टव्यम्। स्वापप्रबोधयोश्च प्रलयप्रभवौ श्रूयेते यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः इति। स्यादेतत् स्वापे पुरुषान्तरव्यवहाराविच्छेदात्स्वयं च सुषुप्तप्रबुद्धस्य पूर्वप्रबोधव्यवहारानुसंधानसंभवादविरुद्धम् महाप्रलये तु सर्वव्यवहारोच्छेदाज्जन्मान्तरव्यवहारवच्च कल्पान्तरव्यवहारस्यानुसंधातुमशक्यत्वाद्वैषम्यमिति। नैष दोषः सत्यपि सर्वव्यवहारोच्छेदिनि महाप्रलये परमेश्वरानुग्रहादीश्वराणां हिरण्यगर्भादीनां कल्पान्तरव्यवहारानुसंधानोपपत्तेः। यद्यपि प्राकृताः प्राणिनो न जन्मान्तरव्यवहारमनुसंदधाना दृश्यन्त इति तथापि न तत्प्राकृतवदीश्वराणां भवितव्यम्। यथा हि प्राणित्वाविशेषेऽपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्वर्यादिप्रतिबन्धः परेण परेण भूयान् भवन् दृश्यते तथा मनुष्यादिष्वेव हिरण्यगर्भपर्यन्तेषु ज्ञानैश्वर्याद्यभिव्यक्तिरपि परेण परेण भूयसी भवतीत्येतच्छ्रुतिस्मृतिवादेष्वसकृदेवानुकल्पादौ प्रादुर्भवतां पारमैश्वर्यं श्रूयमाणं न शक्यं नास्तीति वदितुम्। ततश्चातीतकल्पानुष्ठितप्रकृष्टज्ञानकर्मणामीश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रादुर्भवतां परमेश्वरानुगृहीतानां सुप्तप्रतिबुद्धवत्कल्पान्तरव्यवहारानुसंधानोपपत्तिः। तथा च श्रुतिः यो ब्रह्माणं विदधाति पूर्वं यो वै वैदा्च प्रहिणोति तस्मै। त्ि देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये इति। स्मरन्ति च शौनकादयः मधुच्छन्दःप्रभृतिभिऋर््षिभिर्दाशतय्यो दृष्टाः इति। प्रतिवेदं चैवमेव काण्डर्ष्यादयः स्मर्यन्ते। श्रुतिरपि ऋषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्शयति यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा प्रतिपद्यते इत्युपक्रम्य तस्मादेतानि मन्त्रे मन्त्रे विद्यात् इति। प्राणिनां च सुखप्राप्तये धर्मो विधीयते दुःखपरिहाराय चाधर्मः प्रतिषिध्यते दृष्टानुश्रविकसुखदुःखविषयौ च रागद्वेषौ भवतः न विलक्षणविषयौ इत्यतो धर्माधर्मफलभूतोत्तरोत्तरा सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यते। स्मृतिश्च भवति तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे। तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः।। हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते। तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते इति। प्रलीयमानमपि चेदं जगच्छक्त्यवशेषमेव प्रलीयते शक्तिमूलमेव च प्रभवति इतरथा आकस्मिकत्वप्रसङ्गात्। न चानेकाकाराः शक्तयः शक्याः कल्पयितुम्। ततश्च विच्छिद्य विच्छिद्याप्युद्भवतां भूरादिलोकप्रवाहाणाम् देवतिर्यङ्मनुष्यलक्षणानां च प्राणिनिकायप्रवाहाणाम् वर्णाश्रमधर्मफलव्यवस्थानां चानादौ संसारे नियतत्वमिन्द्रियविषयसंबन्धनियतत्ववत्प्रत्येतव्यम् न हीन्द्रियविषयसंबन्धादेर्व्यवहारस्य प्रतिसर्गमन्यथात्वं षष्ठेन्द्रियविषयकल्पं शक्यमुत्प्रेक्षितुम्। अतश्च सर्वकल्पानां तुल्यव्यवहारत्वात् कल्पान्तरव्यवहारानुसंधानक्षमत्वाच्चेश्वराणां समाननामरूपा एव प्रतिसर्गं विशेषाः प्रादुर्भवन्ति। समाननामरूपत्वाच्चावृत्तावपि महासर्गमहाप्रलयलक्षणायां जगतोऽभ्युपगम्यमानायां न कश्चिच्छब्दप्रामाण्यादिविरोधः। समाननामरूपतां च श्रुतिस्मृती दर्शयतः सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवं च पृथिवीं चान्तरिक्षमथो सुवः इति यथा पूर्वस्मिन्कल्पे सूर्याचन्द्रमःप्रभृति जगत् क्लृप्तम् तथास्मिन्नपि कल्पे परमेश्वरोऽकल्पयदित्यर्थः तथा अग्निर्वा अकामयत। अन्नादो देवाना््यामिति। स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत् इति नक्षत्रेष्टिविधौ योऽग्निर्निरवपत् यस्मै वाग्नये निरवपत् तयोः समाननामरूपतां दर्शयति इत्येवंजातीयका श्रुतिरिहोदाहर्तव्या स्मृतिरपि ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः। शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः।। यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु।। यथाभिमानिनोऽतीतास्तुल्यास्ते सांप्रतैरिह। देवा देवैरतीतैर्हि रूपैर्नामभिरेव च इत्येवंजातीयका द्रष्टव्या।।


मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः । ( ब्रसू-१,३.३० । )

भाष्यम्

शाङ्करभाष्यम्॥

इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्रतिज्ञातं तत्पर्यावर्त्यते देवादीनामनधिकारं जैमिनिराचार्यो मन्यते कस्मात् मध्वादिष्वसंभवात्। ब्रह्मविद्यायामधिकाराभ्युपगमे हि विद्यात्वाविशेषात् मध्वादिविद्यास्वप्यधिकारोऽभ्युपगम्येत न चैवं संभवति कथम् असौ वा आदित्यो देवमधु इत्यत्र मनुष्या आदित्यं मध्वध्यासेनोपासीरन् देवादिषु ह्युपासकेष्वभ्युपगम्यमानेष्वादित्यः कथमन्यमादित्यमुपासीत पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्यनुक्रम्य वसवो रुद्रा आदित्या मरुतः साध्याश्च पञ्च देवगणाः क्रमेण तत्तदमृतमुपजीवन्तीत्युपदिश्य स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिमहिमप्राप्तिं दर्शयति वस्वादयस्तु कान् अन्यान् वस्वादीनमृतोपजीविनो विजानीयुः कं वान्यं वस्वादिमहिमानं प्रेप्सेयुः तथा अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः वायुर्वा संवर्गः आदित्यो ब्रह्मेत्यादेशः इत्यादिषु देवतात्मोपासनेषु न तेषामेव देवतात्मनामधिकारः संभवति तथा इमामेव गौतमभरद्वाजावयं वै गौतमोऽयं भरद्वाजः इत्यादिष्वपि ऋषिसंबन्धेषूपासनेषु न तेषामेव ऋषीणामधिकारः संभवति।।

कुतश्च देवादीनामनधिकारः


ज्योतिषि भावाच् च । ( ब्रसू-१,३.३१ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बम्भ्रमज्जगदवभासयति तस्मिन्नादित्यादयो देवतावचनाः शब्दाः प्रयुज्यन्ते लोकप्रसिद्धेर्वाक्यशेषप्रसिद्धेश्च। न च ज्योतिर्मण्डलस्य हृदयादिना विग्रहेण चेतनतया अर्थित्वादिना वा योगोऽवगन्तुं शक्यते मृदादिवदचेतनत्वावगमात्। एतेनाग्न्यादयो व्याख्याताः।।

स्यादेतत् मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रहवत्त्वाद्यवगमादयमदोष इति चेत् नेत्युच्यते न तावल्लोको नाम किंचित्स्वतन्त्रं प्रमाणमस्ति प्रत्यक्षादिभ्य एव अव्यभिचरितविषयेभ्यः प्रमाणेभ्यः प्रसिद्ध एवार्थो लोकात्प्रसिद्ध इत्युच्यते न चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति इतिहासपुराणानामपि पौरुषेयत्वात्प्रमाणान्तरमूलतामाकाङ्क्षति अर्थवादा अपि विधिनैकवाक्यत्वात् स्तुत्यर्थाः सन्तो न पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्यन्ते मन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोगसमवायिनोऽभिधानार्था न कस्यचिदर्थस्य प्रमाणमित्याचक्षते तस्मादभावो देवादीनामधिकारस्य।।


भावं तु बादरायणोऽस्ति हि । ( ब्रसू-१,३.३२ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दः पूर्वपक्षं व्यावर्तयति। बादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यते। यद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वसंभवोऽधिकारस्य तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां संभवः अर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्षत्वादधिकारस्य। न च क्वचिदसंभव इत्येतावता यत्र संभवस्तत्राप्यधिकारोऽपोद्येत। मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः संभवति। तत्र यो न्यायः सोऽत्रापि भविष्यति। ब्रह्मविद्यां च प्रकृत्य भवति लिङ्गदर्शनं श्रौतं देवाद्यधिकारस्य सूचकम् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् इति ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् इति इन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणाम् इत्यादि च। स्मार्तमपि च गन्धर्वयाज्ञवल्क्यसंवादादि।।

यदप्युक्तम् ज्योतिषि भावाच्च इति अत्र ब्रूमः ज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति मन्त्रार्थवादादिषु तथा व्यवहारात्। अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं च तं तं विग्रहं ग्रहीतुं सामर्थ्यम्। तथा हि श्रूयते सुब्रह्मण्यार्थवादे मेधातिथेर्मेष इति मेधातिथिं ह काण्वायनमिन्द्रो मेषो भूत्वा जहार इति। स्मर्यते च आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम ह इति। मृदादिष्वपि चेतना अधिष्ठातारोऽभ्युपगम्यन्ते मृदब्रवीत् आपोऽब्रुवन् इत्यादिदर्शनात्। ज्योदिरादेस्तु भूतधातोरादित्यादिष्वप्यचेतनत्वमभ्युपगम्यते। चेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारादित्युक्तम्।।

यदप्युक्तम् मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहादिप्रकाशनसामर्थ्यमिति अत्र ब्रूमः प्रत्ययाप्रत्ययौ हि सद्भावासद्भावयोः कारणम् नान्यार्थत्वमनन्यार्थत्वं वा तथा ह्यन्यार्थमपि प्रस्थितः पथि पतितं तृणपर्णाद्यस्तीत्येव प्रतिपद्यते। अत्राह विषम उपन्यासः तत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति येन तदस्तित्वं प्रतिपद्यते अत्र पुनर्विध्युद्देशैकवाक्यभावेन स्तुत्यर्थेऽर्थवादे न पार्थगर्थ्येन वृत्तान्तविषया प्रवृत्तिः शक्याध्यवसातुम् न हि महावाक्येऽर्थप्रत्यायकेऽवान्तरवाक्यस्य पृथक्प्रत्यायकत्वमस्ति यथा न सुरां पिबेत् इति नञ्वति वाक्ये पदत्रयसंबन्धात्सुरापानप्रतिषेध एवैकोऽर्थोऽवगम्यते न पुनः सुरां पिबेदिति पदद्वयसंबन्धात्सुरापानविधिरपीति। अत्रोच्यते विषम उपन्यासः युक्तं यत्सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणम् विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि पदानि पृथगन्वयं वृत्तान्तविषयं प्रतिपद्य अनन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्ते यथा हि वायव्य््वेतमालभेत भूतकामः इत्यत्र विध्युद्देशवर्तिनां वायव्यादिपदानां विधिना संबन्धः नैवम् वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति इत्येषामर्थवादगतानां पदानाम् न हि भवति वायुर्वा आलभेत इति क्षेपिष्ठा देवता वा आलभेत इत्यादि। वायुस्वभावसंकीर्तनेन तु अवान्तरमन्वयं प्रतिपद्य एवं विशिष्टदैवत्यमिदं कर्मेति विधिं स्तुवन्ति। तद्यत्र योऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति तत्र तदनुवादेनार्थवादः प्रवर्तते यत्र प्रमाणान्तरविरुद्धः तत्र गुणवादेन यत्र तु तदुभयं नास्ति तत्र किं प्रमाणान्तराभावाद्गुणवादः स्यात् आहोस्त्वित्प्रमाणान्तराविरोधाद्विद्यमानार्थवाद इति प्रतीतिशरणैर्विद्यमानार्थवाद आश्रयणीयः न गुणानुवादः एतेन मन्त्रो व्याख्यातः। अपि च विधिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम् न हि स्वरूपरहिता इन्द्रादयश्चेतस्यारोपयितुं शक्यन्ते न च चेतस्यनारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते श्रावयति च यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट् करिष्यन् इति न च शब्दमात्रमर्थस्वरूपं संभवति शब्दार्थयोर्भेदात् तत्र यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत्तादृशं शब्दप्रमाणकेन प्रत्याख्यातुं युक्तम्। इतिहासपुराणमपि व्याख्यातेन मार्गेण संभवन्मन्त्रार्थवादमूलकत्वात् प्रभवति देवताविग्रहादि साधयितुम् प्रत्यक्षादिमूलमपि संभवति भवति ह्यस्माकमप्रत्यक्षमपि चिरंतनानां प्रत्यक्षम् तथा च व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते यस्तु ब्रूयात् इदानींतनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्यमिति स जगद्वैचित्र्यं प्रतिषेधेत् इदानीमिव च नान्यदापि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात् ततश्च राजसूयादिचोदना उपरुन्ध्यात् इदानीमिव च कालान्तरेऽप्यव्यवस्थितप्रायान्वर्णाश्रमधर्मान्प्रतिजानीत ततश्च व्यवस्थाविधायि शास्त्रमनर्थकं कुर्यात् तस्माद्धर्मोत्कर्षवशाच्चिरंतना देवादिभिः प्रत्यक्षं व्यवजह्नुरिति श्लिष्यते। अपि च स्मरन्ति स्वाध्यायादिष्टदेवतासंप्रयोगः इत्यादि योगोऽप्यणिमाद्यैश्वर्यप्राप्तिफलकः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम् श्रुतिश्च योगमाहात्म्यं प्रख्यापयति पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते। न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् इति। ऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम्। तस्मात्समूलमितिहासपुराणम्। लोकप्रसिद्धिरपि न सति संभवे निरालम्बनाध्यवसातुं युक्ता। तस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमः। ततश्चार्थित्वादिसंभवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारः। क्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते।।

अपशूद्राधिकरणम्[सम्पाद्यताम्]

शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । ( ब्रसू-१,३.३३ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्वधिकार उक्तः तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितुमिदमधिकरणमारभ्यते। तत्र शूद्रस्याप्यधिकारः स्यादिति तावत्प्राप्तम् अर्थित्वसामर्थ्ययोः संभवात् तस्माच्छूद्रो यज्ञेऽनवक्लृप्तः इतिवत् शूद्रो विद्यायामनवक्लृप्त इति निषेधाश्रवणात्। यच्च कर्मस्वनधिकारकारणं शूद्रस्यानग्नित्वम् न तद्विद्यास्वधिकारस्यापवादकम् न ह्याहवनीयादिरहितेन विद्या वेदितुं न शक्यते। भवति च श्रौतं लिङ्गं शूद्राधिकारस्योपोद्बलकम् संवर्गविद्यायां हि जानश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशब्देन परामृशति अह हारे त्वा शूद्र तवैव सह गोभिरस्तु इति। विदुरप्रभृतयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानसंपन्नाः स्मर्यन्ते। तस्मादधिक्रियते शूद्रो विद्यास्वित्येवं प्राप्ते

ब्रूमः न शूद्रस्याधिकारः वेदाध्ययनाभावात्। अधीतवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते। न च शूद्रस्य वेदाध्ययनमस्ति उपनयनपूर्वकत्वाद्वेदाध्ययनस्य उपनयनस्य च वर्णत्रयविषयत्वात्। यत्तु अर्थित्वम् न तदसति सामर्थ्येऽधिकारकारणं भवति। सामर्थ्यमपि न लौकिकं केवलमधिकारकारणं भवति शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्यस्यापेक्षितत्वात् शास्त्रीयस्य च सामर्थ्यस्याध्ययननिराकरणेन निराकृतत्वात्। यच्चेदम् शूद्रो यज्ञेऽनवक्लृप्तः इति तत् न्यायपूर्वकत्वाद्विद्यायामप्यनवक्लृप्तत्वं द्योतयति न्यायस्य साधारणत्वात्। यत्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे न तल्लिङ्गम् न्यायाभावात्। न्यायोक्ते हि लिङ्गदर्शनं द्योतकं भवति। न चात्र न्यायोऽस्ति। कामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात् तद्विषयत्वात् न सर्वासु विद्यासु। अर्थवादस्थत्वात्तु न क्वचिदप्ययं शूद्रमधिकर्तुमुत्सहते। शक्यते चायं शूद्रशब्दोऽधिकृतविषये योजयितुम् कथमित्युच्यते कम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ इत्यस्माद्धंसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुक् उत्पेदे तामृषी रैक्वः शूद्रशब्देनानेन सूचयांबभूव आत्मनः परोक्षज्ञताख्यापनायेति गम्यते जातिशूद्रस्यानधिकारात्। कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति उच्यते तदाद्रवणात् शुचमभिदुद्राव शुचा वा अभिदुद्रुवे शुचा वा रैक्वमभिदुद्राव इति शूद्रः अवयवार्थसंभवात् रूढ्यर्थस्य चासंभवात्। दृश्यते चायमर्थोऽस्यामाख्यायिकायाम्।।


क्षत्रियत्वगतेश् च । ( ब्रसू-१,३.३४ । )

उत्तरत्र चैत्ररथेन लिङ्गात् । ( ब्रसू-१,३.३५ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च न जातिशूद्रो जानश्रुतिः यत्कारणं प्रकरणनिरूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहाराल्लिङ्गाद्गम्यते। उत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरभिप्रतारी क्षत्रियः संकीर्त्यते अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं सूदेन परिविष्यमाणौ ब्रह्मचारी बिभिक्षे इति। चैत्ररथित्वं चाभिप्रतारिणः कापेययोगादवगन्तव्यम्। कापेययोगो हि चित्ररथस्यावगतः एतेन वै चित्ररथं कापेया अयाजयन् इति। समानान्वयानां च प्रायेण समानान्वया याजका भवन्ति। तस्माच्चैत्ररथिर्नामैकः क्षत्रपतिरजायत इति च क्षत्रपतित्वावगमात्क्षत्रियत्वमस्यावगन्तव्यम्। तेन क्षत्रियेणाभिप्रतारिणा सह समानायां संवर्गविद्यायां संकीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयति। समानानामेव हि प्रायेण समभिव्याहारा भवन्ति। क्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिः। अतो न शूद्रस्याधिकारः।।


संस्कारपरामर्शात् तदभावाभिलापाच् च । ( ब्रसू-१,३.३६ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च न शूद्रस्याधिकारः यद्विद्याप्रदेशेषूपनयनादयः संस्काराः परामृश्यन्ते तं होपनिन्ये अधीहि भगव इति होपससाद ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः इति च। तान्हानुपनीयैव इत्यपि प्रदर्शितैवोपनयनप्राप्तिर्भवति। शूद्रस्य च संस्काराभावोऽभिलप्यते शूद्रश्चतुर्थो वर्ण एकजातिः इत्येकजातित्वस्मरणात्। न शूद्रे पातकं किंचिन्न च संस्कारमर्हति इत्यादिभिश्च।।


तद्भावनिर्धारणे च प्रवृत्तेः । ( ब्रसू-१,३.३७ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च न शूद्रस्याधिकारः यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उपनेतुमनुशासितुं च प्रववृते नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्यादगाः इति श्रुतिलिङ्गात्।।


श्रवणाध्ययनार्थप्रतिषेधात् । ( ब्रसू-१,३.३८ । )

स्मृतेश् च । ( ब्रसू-१,३.३९ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च न शूद्रस्याधिकारः यदस्य स्मृतेः श्रवणाध्ययनार्थप्रतिषेधो भवति। वेदश्रवणप्रतिषेधः वेदाध्ययनप्रतिषेधः तदर्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यते। श्रवणप्रतिषेधस्तावत् अथ हास्य वेदमुपश्रृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम् इति पद्यु ह वा एतच्छमशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम् इति च। अत एवाध्ययनप्रतिषेधः यस्य हि समीपेऽपि नाध्येतव्यं भवति स कथमश्रुतमधीयीत। भवति च वेदोच्चारणे जिह्वाच्छेदः धारणे शरीरभेद इति। अत एव चार्थादर्थज्ञानानुष्ठानयोः प्रतिषेधो भवति न शूद्राय मतिं दद्यात् इति द्विजातीनामध्ययनमिज्या दानम् इति च। येषां पुनः पूर्वकृतसंस्कारवशाद्विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिः तेषां न शक्यते फलप्राप्तिः प्रतिषेद्धुम् ज्ञानस्यैकान्तिकफलत्वात्। श्रावयेच्चतुरोवर्णान् इति चेतिहासपुराणाधिगमे चातुर्वर्ण्यस्याधिकारस्मरणात्। वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम्।।

कम्पनाधिकरणम्[सम्पाद्यताम्]

कम्पनात् । ( ब्रसू-१,३.४० । )

भाष्यम्

शाङ्करभाष्यम्॥

अवसितः प्रासङ्गिकोऽधिकारविचारः प्रकृतामेवेदानीं वाक्यार्थविचारणां प्रवर्तयिष्यामः। यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम्। महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति इति एतद्वाक्यम् एजृ कम्पने इति धात्वर्थानुगमाल्लक्षितम्। अस्मिन्वाक्ये सर्वमिदं जगत् प्राणाश्रयं स्पन्दते महच्च किंचिद्भयकारणं वज्रशब्दितमुद्यतम् तद्विज्ञानाच्चामृतत्वप्राप्तिरिति श्रूयते। तत्र कोऽसौ प्राणः किं तद्भयानकं वज्रम् इत्यप्रतिपत्तेर्विचारे क्रियमाणे प्राप्तं तावत् प्रसिद्धेः पञ्चवृत्तिर्वायुः प्राण इति प्रसिद्धेरेव चाशनिर्वज्रं स्यात् वायोश्चेदं माहात्म्यं संकीर्त्यते कथम् सर्वमिदं जगत् पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठाय एजति वायुनिमित्तमेव च महद्भयानकं वज्रमुद्यम्यते वायौ हि पर्जन्यभावेन विवर्तमाने विद्युत्स्तनयित्नुवृष्ट्यशनयो विवर्तन्त इत्याचक्षते वायुविज्ञानादेव चेदममृतत्वम् तथा हि श्रुत्यन्तरम् वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद इति तस्माद्वायुरयमिह प्रतिपत्तव्यः इत्येवं प्राप्ते

ब्रूमः ब्रह्मैवेदमिह प्रतिपत्तव्यम् कुतः पूर्वोत्तरालोचनात् पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे इहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि पूर्वत्र तावत् तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते। तस्िम्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन इति ब्रह्म निर्दिष्टम् तदेव इहापि संनिधानात् जगत्सर्वं प्राण एजति इति च लोकाश्रयत्वप्रत्यभिज्ञानात् निर्दिष्टमिति गम्यते प्राणशब्दोऽप्ययं परमात्मन्येव प्रयुक्तः प्राणस्य प्राणम् इति दर्शनात्। एजयितृत्वमपीदं परमात्मन एवोपपद्यते न वायुमात्रस्य तथा चोक्तम् न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इति उत्तरत्रापि भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः इति ब्रह्मैव निर्देक्ष्यते न वायुः सवायुकस्य जगतो भयहेतुत्वाभिधानात् तदेव इहापि संनिधानात् महद्भयं वज्रमुद्यतम् इति च भयहेतुत्वं प्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते वज्रशब्दोऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तः यथा हि वज्रमुद्यतं ममैव शिरसि निपतेत् यद्यहमस्य शासनं न कुर्याम् इत्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तते एवमिदमग्निवायुसूर्यादिकं जगत् अस्मादेव ब्रह्मणो बिभ्यत् नियमेन स्वव्यापारे प्रवर्तत इति भयानकं वज्रोपमितं ब्रह्म। तथा च ब्रह्मविषयं श्रुत्यन्तरम् भीषास्माद्वातः पवते। भीषोदेति सूर्यः। भीषास्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चमः इति। अमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यते ब्रह्मज्ञानाद्ध्यमृतत्वप्राप्तिः तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय इति मन्त्रवर्णात्। यत्तु वायुविज्ञानात्क्वचिदमृतत्वमभिहितम् तदापेक्षिकम् तत्रैव प्रकरणान्तरकरणेन परमात्मानमभिधाय अतोऽन्यदार्तम् इति वाय्वादेरार्तत्वाभिधानात्। प्रकरणादप्यत्र परमात्मनिश्चयः अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद इति परमात्मनः पृष्टत्वात्।।

ज्योतिरधिकरणम्[सम्पाद्यताम्]

ज्योतिर् दर्शनात् । ( ब्रसू-१,३.४१ । )

भाष्यम्

शाङ्करभाष्यम्॥

एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति श्रूयते। तत्र संशय्यते किं ज्योतिःशब्दं चक्षुर्विषयतमोपहं तेजः किं वा परं ब्रह्मेति। किं तावत्प्राप्तम् प्रसिद्धमेव तेजो ज्योतिःशब्दमिति। कुतः ज्योतिःशब्दस्य रूढत्वात्। ज्योतिश्चरणाभिधानात् इत्यत्र हि प्रकरणाज्ज्योतिःशब्दः स्वार्थं परित्यज्य ब्रह्मणि वर्तते न चेह तद्वत्किंचित्स्वार्थपरित्यागे कारणं दृश्यते। तथा च नाडीखण्डे अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते इति मुमुक्षोरादित्यप्राप्तिरभिहिता। तस्मात्प्रसिद्धमेव तेजो ज्योतिःशब्दमिति एवं प्राप्ते

ब्रूमः परमेव ब्रह्म ज्योतिःशब्दम् कस्मात् दर्शनात्। तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते य आत्मापहतपाप्मा इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन च प्रतिज्ञानात् एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इति चानुसंधानात् अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति चाशरीरतायै ज्योतिःसंपत्तेरस्याभिधानात् ब्रह्मभावाच्चान्यत्राशरीरतानुपपत्तेः परं ज्योतिः स उत्तमः पुरुषः इति च विशेषणात्। यत्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति नासावात्यन्तिको मोक्षः गत्युत्क्रान्तिसंबन्धात्। न ह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः।।

अर्थान्तरत्वादिव्यपदेशाधिकरणम्[सम्पाद्यताम्]

आकाशोऽर्थान्तरत्वादिव्यपदेशात् । ( ब्रसू-१,३.४२ । )

भाष्यम्

शाङ्करभाष्यम्॥

आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा इति श्रूयते। तत्किमाकाशशब्दं परं ब्रह्म किं वा प्रसिद्धमेव भूताकाशमिति विचारे भूतपरिग्रहो युक्तः आकाशशब्दस्य तस्मिन् रूढत्वात् नामरूपनिर्वहणस्य चावकाशदानद्वारेण तस्मिन्योजयितुं शक्यत्वात् स्रष्टृत्वादेश्च स्पष्टस्य ब्रह्मलिङ्गस्याश्रवणादित्येवं प्राप्ते

इदमुच्यते परमेव ब्रह्म इहाकाशशब्दं भवितुमर्हति कस्मात् अर्थान्तरत्वादिव्यपदेशात्। ते यदन्तरा तद्ब्रह्म इति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति न च ब्रह्मणोऽन्यन्नामरूपाभ्यामर्थान्तरं संभवति सर्वस्य विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात् नामरूपयोरपि निर्वहणं निरङ्कुशं न ब्रह्मणोऽन्यत्र संभवति अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति ब्रह्मकर्तृकत्वश्रवणात्। ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वोढृत्वमस्ति बाढमस्ति अभेदस्त्विह विवक्षितः। नामरूपनिर्वहणाभिधानादेव च स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवति। तद्ब्रह्म तदमृतं स आत्मा इति च ब्रह्मवादस्य लिङ्गानि। आकाशस्तल्लिङ्गात् इत्यस्यैवायं प्रपञ्चः।।

सुषुप्त्यधिकरणम्[सम्पाद्यताम्]

सुषुप्त्युत्क्रान्त्योर् भेदेन । ( ब्रसू-१,३.४३ । )

भाष्यम्

शाङ्करभाष्यम्॥

व्यपदेशादित्यनुवर्तते। बृहदारण्यके षष्ठे प्रपाठके कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः इत्युपक्रम्य भूयानात्मविषयः प्रपञ्चः कृतः। तत्किं संसारिस्वरूपमात्रान्वाख्यानपरं वाक्यम् उतासंसारिस्वरूपप्रतिपादनपरमिति विशयः। किं तावत्प्राप्तम् संसारिस्वरूपमात्रविषयमेवेति कुतः उपक्रमोपसंहाराभ्याम् उपक्रमे योऽयं विज्ञानमयः प्राणेषु इति शारीरलिङ्गात् उपसंहारे च स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु इति तदपरित्यागात् मध्येऽपि बुद्धान्ताद्यवस्थोपन्यासेन तस्यैव प्रपञ्चनादित्येवं प्राप्ते

ब्रूमः परमेश्वरोपदेशपरमेवेदं वाक्यम् न शारीरमात्रान्वाख्यानपरम् कस्मात् सुषुप्तावुत्क्रान्तौ च शारीराद्भेदेन परमेश्वरस्य व्यपदेशात्। सुषुप्तौ तावत् अयं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् इति शारीराद्भेदेन परमेश्वरं व्यपदिशति तत्र पुरुषः शारीरः स्यात् तस्य वेदितृत्वात् बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसंभवात् प्राज्ञः परमेश्वरः सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात्। तथोत्क्रान्तावपि अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति इति जीवाद्भेदेन परमेश्वरं व्यपदिशति तत्रापि शारीरो जीवः स्यात् शरीरस्वामित्वात् प्राज्ञस्तु स एव परमेश्वरः। तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यते। यदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात् तत्परत्वमस्य वाक्यस्येति अत्र ब्रूमः उपक्रमे तावत् योऽयं विज्ञानमयः प्राणेषु इति न संसारिस्वरूपं विवक्षितम् किं तर्हि अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षति यतः ध्यायतीव लेलायतीव इत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यते तथोपसंहारेऽपि यथोपक्रममेवोपसंहरति स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु इति योऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते स प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत यतो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षति किं तर्हि अवस्थारहितत्वमसंसारित्वं च कथमेतदवगम्यते यत् अत ऊर्ध्वं विमोक्षायैव ब्रूहि इति पदे पदे पृच्छति यच्च अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः इति पदे पदे प्रतिवक्ति अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य भवति इति च। तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम्।।

पत्यादिशब्देभ्यः । ( ब्रसू-१,३.४४ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः इत्येवंजातीयका असंसारिस्वभावप्रतिपादनपराः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् इत्येवंजातीयकाः संसारिस्वभावप्रतिषेधनाः। तस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य तृतीयः पादः।।