ब्रह्मसूत्रम्/प्रथमः अध्यायः/चतुर्थः पादः

विकिस्रोतः तः
Jump to navigation Jump to search
← तृतीयः पादः ब्रह्मसूत्रम्
प्रथमाध्याये चतुर्थः पादः
वेदव्यासः

आनुमानिकाधिकरणम्[सम्पाद्यताम्]

आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च । ( ब्रसू-१,४.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

आनुमानिकमपि अनुमाननिरूपितमपि प्रधानम् एकेषां शाखिनां शब्दवदुपलभ्यते काठके हि पठ्यते महतः परमव्यक्तमव्यक्तात्पुरुषः परः इति तत्र य एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धाः त एवेह प्रत्यभिज्ञायन्ते तत्राव्यक्तमिति स्मृतिप्रसिद्धेः शब्दादिहीनत्वाच्च न व्यक्तमव्यक्तमिति व्युत्पत्तिसंभवात् स्मृतिप्रसिद्धं प्रधानमभिधीयते अतस्तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम् तदेव च जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत् नैतदेवम् न ह्येतत्काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम्। न ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम् तादृशं प्रत्यभिज्ञायते शब्दमात्रं ह्यत्राव्यक्तमिति प्रत्यभिज्ञायते स च शब्दः न व्यक्तमव्यक्तमिति यौगिकत्वात् अन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते न चायं कस्मिंश्चिद्रूढः या तु प्रधानवादिनां रूढिः सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते न च क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवति असति तद्रूपप्रत्यभिज्ञाने न ह्यश्चस्थाने गां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यति। प्रकरणनिरूपणायां चात्र न परपरिकल्पितं प्रधानं प्रतीयते शरीररूपकविन्यस्तगृहीतेः शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते कुतः प्रकरणात् परिशेषाच्च। तथा ह्यनन्तरातीतो ग्रन्थ आत्मशरीरादीनां रथिरथादिरूपकक्लृप्तिं दर्शयति आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च।। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः इति तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति इति दर्शयितत्वा किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम् तेभ्य एव प्रकृतेभ्यः इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं तद्विष्णोः परमं पदं दर्शयति इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः।। महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इति तत्र य एवेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृताः त एवेह परिगृह्यन्ते प्रकृतहानाप्रकृतप्रक्रियापरिहाराय। तत्र इन्द्रियमनोबुद्धयस्तावत्पूर्वत्र इह च समानशब्दा एव अर्थास्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टाः तेषां चेन्द्रियेभ्यः परत्वम् इन्द्रियाणां च ग्रहत्वं विषयाणामतिग्रहत्वम् इति श्रुतिप्रसिद्धेः विषयेभ्यश्च मनसः परत्वम् मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य मनसस्तु परा बुद्धिः बुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पति बुद्धेरात्मा महान्परः यः सः आत्मानं रथिनं विद्धि इति रथित्वेनोपक्षिप्तः। कुतः आत्मशब्दात् भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेः महत्त्वं चास्य स्वामित्वादुपपन्नम् अथवा मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः। प्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यते इति स्मृतेः यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै इति च श्रुतेः। या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः सा सर्वासां बुद्धीनां परमा प्रतिष्ठा सेह महानात्मेत्युच्यते सा च पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगिहोपदिश्यते तस्या अप्यस्मदीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेः एतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम् परमार्थतस्तु परमात्मविज्ञानात्मनोर्भेदाभावात् तदेवं शरीरमेवैकं परिशिष्यते तेष्वितराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते। शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षिता तथा च एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयति यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि इति एतदुक्तं भवति वाचं मनसि संयच्छेत् वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत मनोऽपि विषयविकल्पाभिमुखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् तामपि बुद्धिं महत्यात्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत् महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदिति च। तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः।।


सूक्ष्मं तु तदर्हत्वात् । ( ब्रसू-१,४.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

उक्तमेतत् प्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दम् न प्रधानमिति इदमिदानीमाशङ्क्यते कथमव्यक्तशब्दार्हत्वं शरीरस्य यावता स्थूलत्वात्स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हम् अस्पष्टवचनस्त्वव्यक्तशब्द इति अत उत्तरमुच्यते सूक्ष्मं तु इह कारणात्मना शरीरं विवक्ष्यते सूक्ष्मस्याव्यक्तशब्दार्हत्वात् यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति प्रकृतिशब्दश्च विकारे दृष्टः यथा गोभिः श्रीणीत मत्सरम् इति श्रुतिश्च तद्धेदं तर्ह्यव्याकृतमासीत् इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोग्यं दर्शयति।।


तदधीनत्वाद् अर्थवत् । ( ब्रसू-१,४.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

अत्राह यदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत तदात्मना च शरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत स एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत अस्यैव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपगमादिति। अत्रोच्यते यदि वयं स्वतन्त्रां कांचित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम प्रसञ्जयेम तदा प्रधानकारणवादम् परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जगतोऽभ्युपगम्यते न स्वतन्त्रा सा चावश्याभ्युपगन्तव्या अर्थवती हि सा न हि तया विना परमेश्वरस्य स्रष्टृत्वं सिध्यति शक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेः मुक्तानां च पुनरनुत्पत्तिः कुतः विद्यया तस्या बीजशक्तेर्दाहात् अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिः यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च इति श्रुतेः क्वचिदक्षरशब्दोदितम् अक्षरात्परतः परः इति श्रुतेः क्वचिन्मायेति सूचितम् मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इति मन्त्रवर्णात् अव्यक्ता हि सा माया तत्त्वान्यत्वनिरूपणस्याशक्यत्वात् तदिदं महतः परमव्यक्तमित्युक्तम् अव्यक्तप्रभवत्वान्महतः यदा हैरण्यगर्भी बुद्धिर्महान् यदा तु जीवो महान् तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य महतः परमव्यक्तमित्युक्तम् अविद्या ह्यव्यक्तम् अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः संततो वर्तते तच्च अव्यक्तगतं महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यते सत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणम् इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात् परिशिष्टत्वाच्च शरीरस्य।।

अन्ये तु वर्णयन्ति द्विविधं हि शरीरं स्थूलं सूक्ष्मं च स्थूलम् यदिदमुपलभ्यते सूक्ष्मम् यदुत्तरत्र वक्ष्यते तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् इति तच्चोभयमपि शरीरमविशेषात्पूर्वत्र रथत्वेन संकीर्तितम् इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते सूक्ष्मस्याव्यक्तशब्दार्हत्वात् तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य जीवात्तस्य परत्वम् यथार्थाधीनत्वादिन्द्रियव्यापारस्येन्द्रियेभ्यः परत्वमर्थानामिति। तैस्त्वेतद्वक्तव्यम् अविशेषेण शरीरद्वयस्य पूर्वत्र रथत्वेन संकीर्तितत्वात् समानयोः प्रकृतत्वपरिशिष्टत्वयोः कथं सूक्ष्ममेव शरीरमिह गृह्यते न पुनः स्थूलमपीति। आम्नातस्यार्थं प्रतिपत्तुं प्रभवामः नाम्नातं पर्यनुयोक्तुम् आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं शक्नोति नेतरत् व्यक्तत्वात्तस्येति चेत् न एकवाक्यताधीनत्वादर्थंप्रतिपत्तेः न हीमे पूर्वोत्तरे आम्नाते एकवाक्यतामनापद्य कंचिदर्थं प्रतिपादयतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् न चाकाङ्क्षामन्तरेणैकवाक्यताप्रतिपत्तिरस्ति तत्राविशिष्टायां शरीरद्वयस्य ग्राह्यत्वाकाङ्क्षायां यथाकाङ्क्षं संबन्धेऽनभ्युपगम्यमाने एकवाक्यतैव बाधिता भवति कुत आम्नातस्यार्थस्य प्रतिपत्तिः न चैवं मन्तव्यम् दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्येह ग्रहणम् स्थूलस्य तु दृष्टबीभत्सतया सुशोधत्वादग्रहणमिति यतो नैवेह शोधनं कस्यचिद्विवक्ष्यते न ह्यत्र शोधनविधायि किंचिदाख्यातमस्ति अनन्तरनिर्दिष्टत्वात्तु किं तद्विष्णोः परमं पदमितीदमिह विवक्ष्यते तथाहीदमस्मात्परमिदमस्मात्परमित्युक्त्वा पुरुषान्न परं किंचित् इत्याह सर्वथापि त्वानुमानिकनिराकरणोपपत्तेः तथा नामास्तु न नः किंचिच्छिद्यते।।


ज्ञेयत्वावचनाच् च । ( ब्रसू-१,४.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

ज्ञेयत्वेन च सांख्यैः प्रधानं स्मर्यते गुणपुरुषान्तरज्ञानात्कैवल्यमिति वदद्भिः न हि गुणस्वरूपमज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमिति क्वचिच्च विभूतिविशेषप्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति न चेदमिहाव्यक्तं ज्ञेयत्वेनोच्यते पदमात्रं ह्यव्यक्तशब्दः नेहाव्यक्तं ज्ञातव्यमुपासितव्यं चेति वाक्यमस्ति न चानुपदिष्टं पदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपत्तुम् तस्मादपि नाव्यक्तशब्देन प्रधानमभिधीयते अस्माकं तु रथरूपकक्लृप्तशरीराद्यनुसरणेन विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम्।।


वदतीति चेन् न प्राज्ञो हि प्रकरणात् । ( ब्रसू-१,४.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

अत्राह सांख्यः ज्ञेयत्वावचनात् इत्यसिद्धम् कथम् श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम् अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते इति अत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितम् तादृशमेव निचाय्यत्वेन निर्दिष्टम् तस्मात्प्रधानमेवेदम् तदेव चाव्यक्तशब्दनिर्दिष्टमिति। अत्र ब्रूमः नेह प्रधानं निचाय्यत्वेन निर्दिष्टम् प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यते कुतः प्रकरणात् प्राज्ञस्य हि प्रकरणं विततं वर्तते पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इत्यादिनिर्देशात् एष सर्वेषु भूतेषु गुढोऽत्मा न प्रकाशते इति च दुर्ज्ञानत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात् यच्छेद्वाङ्मनसी प्राज्ञः इति च तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात् मृत्युमुखप्रमोक्षणफलत्वाच्च न हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति सांख्यैरिष्यते चेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति तेषामभ्युपगमः सर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादिधर्मत्वमभिलप्यते तस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा।।


त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च । ( ब्रसू-१,४.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा यस्मात्त्रयाणामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यते तद्विषय एव च प्रश्नः नातोऽन्यस्य प्रश्न उपन्यासो वास्ति तत्र तावत् स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् इत्यग्निविषयः प्रश्नः येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः इति जीवविषयः प्रश्नः अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद इति परमात्मविषयः प्रतिवचनमपि लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा इत्यग्निविषयम् हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्। यथा च मरणं प्राप्य आत्मा भवति गौतम। योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् इति व्यवहितं जीवविषयम् न जायते म्रियते वा विपश्चित् इत्यादिबहुप्रपञ्चं परमात्मविषयम्। नैवं प्रधानविषयः प्रश्नोऽस्ति। अपृष्टत्वाच्चानुपन्यसनीयत्वं तस्येति।।

अत्राह योऽयमात्मविषयः प्रश्नः येयं प्रेते विचिकित्सा मनुष्येऽस्ति इति किं स एवायम् अन्यत्र धर्मादन्यत्राधर्मात् इति पुनरनुकृष्यते किं वा ततोऽन्योऽयमपूर्वः प्रश्न उत्थाप्यत इति। किं चातः स एवायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत तदा द्वयोरात्मविषययोः प्रश्नयोरेकतापत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न वक्तव्यं त्रयाणां प्रश्नोपन्यासाविति अथान्योऽयमपूर्वः प्रश्न उत्थाप्यत इत्युच्येत ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोषः एवं प्रश्नव्यतिरेकेणापि प्रधानोपन्यासकल्पनायामदोषः स्यादिति।।

अत्रोच्यते नैवं वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कंचित्कल्पयामः वाक्योपक्रमसामर्थ्यात् वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिः आ समाप्तेः कठवल्लीनां लक्ष्यते मृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौ नचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे द्वितीयेनाग्निविद्याम् तृतीयेनात्मविद्याम् येयं प्रेते इति वराणामेष वरस्तृतीयः इति लिङ्गात्। तत्र यदि अन्यत्र धर्मात् इत्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येत। ननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हति अपूर्वो हि प्रश्नो जीवविषयः येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात् जीवश्च धर्मादिगोचरत्वात् न अन्यत्र धर्मात् इति प्रश्नमर्हति प्राज्ञस्तु धर्माद्यतीतत्वात् अन्यत्र धर्मात् इति प्रश्नमर्हति प्रश्नच्छाया च न समाना लक्ष्यते पूर्वस्यास्तित्वनास्तित्वविषयत्वात् उत्तरस्य धर्माद्यतीतवस्तुविषयत्वाच्च तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः न पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत् न जीवप्राज्ञयोरेकत्वाभ्युपगमात् भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् न त्वन्यत्वमस्ति तत्त्वमसि इत्यादिश्रुत्यन्तरेभ्यः इह च अन्यत्र धर्मात् इत्यस्य प्रश्नस्य प्रतिवचनम् न जायते म्रियते वा विपश्चित् इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयति सति हि प्रसङ्गे प्रतिषेधो भागी भवति प्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति न परमेश्वरस्य तथा स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति। महान्तं विभुमात्मानं मत्वा धीरो न शोचति इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति प्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः तथाग्रे यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इति जीवप्राज्ञभेददृष्टिमपवदति तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम् अन्यं वरं नचिकेतो वृणीष्व इत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा न चचाल तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन च विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाच तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति इति तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यते यत्प्रश्ननिमित्तां च प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत् अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात् तस्मात् येयं प्रेते इत्यस्यैव प्रश्नस्यैतदनुकर्षणम् अन्यत्र धर्मात् इति। यत्तु प्रश्नच्छायावैलक्षण्यमुक्तम् तददूषणम् तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात् पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम् उत्तरत्र तु तस्यैवासंसारित्वं पृच्छयत इति यावद्ध्यविद्या न निवर्तते तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं च न निवर्तते तन्निवृत्तौ तु प्राज्ञ एव तत्त्वमसि इति श्रुत्या प्रत्याय्यते न चाविद्यावत्त्वे तदपगमे च वस्तुनः कश्चिद्विशेषोऽस्ति यथा कश्चित्संतमसे पतितां कांचिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते तं चापरो ब्रूयात् मा भैषीः नायमहिः रज्जुरेवेति स च तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं च न त्वहिबुद्धिकाले तदपगमकाले च वस्तुनः कश्चिद्विशेषः स्यात् तथैवैतदपि द्रष्टव्यम् ततश्च न जायते म्रियते वा इत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम्। सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम् एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते उत्तरस्य तु धर्माद्यत्ययसंकीर्तनात्प्राज्ञविषयत्वमिति। ततश्च युक्ता अग्निजीवपरमात्मकल्पना प्रधानकल्पनायां तु न वरप्रदानं न प्रश्नो न प्रतिवचनमिति वैषम्यम्।।


महद्वच् च । ( ब्रसू-१,४.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा महच्छब्दः सांख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्तः न तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते बुद्धेरात्मा महान्परः महान्तं विभुमात्मानम् वेदाहमेतं पुरुषं महान्तम् इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यः तथाव्यक्तशब्दोऽपि न वैदिके प्रयोगे प्रधानमभिधातुमर्हति। अतश्च नास्त्यानुमानिकस्य शब्दवत्त्वम्।।

चमसाधिकरणम्[सम्पाद्यताम्]

चमसवदविशेषात् । ( ब्रसू-१,४.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याह कस्मात् मन्त्रवर्णात् अजामेकां लोहितशुक्लकृष्णां वह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः इति अत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दैः रजःसत्त्वतमांस्यभिधीयन्ते लोहितं रजः रञ्जनात्मकत्वात् शुक्लं सत्त्वम् प्रकाशात्मकत्वात् कृष्णं तमः आवरणात्मकत्वात् तेषां साम्यावस्था अवयवधर्मैर्व्यपदिश्यते लोहितशुक्लकृष्णेति न जायत इति च अजा स्यात् मूलप्रकृतिरविकृतिः इत्यभ्युपगमात् नन्वजाशब्दश्छाग्यां रूढः बाढम् सा तु रूढिरिह नाश्रयितुं शक्या विद्याप्रकरणात् सा च बह्वीः प्रजास्त्रैगुण्यान्विता जनयति तां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेतेतामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्यविवेकितया संसरति अन्यः पुनरजः पुरुष उत्पन्नविवेकज्ञानो विरक्तो जहात्येनां प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजति मुच्यत इत्यर्थः तस्माच्छ्रुतिमूलैव प्रधानादिकल्पना कापिलानामित्येवं प्राप्ते

ब्रूमः नानेन मन्त्रेण श्रुतिमत्त्वं सांख्यवादस्य शक्यमाश्रयितुम् न ह्ययं मन्त्रः स्वातन्त्र्येण कंचिदपि वादं समर्थयितुमुत्सहते सर्वत्रापि यया कयाचित्कल्पनया अजात्वादिसंपादनोपपत्तेः सांख्यवाद एवेहाभिप्रेत इति विशेषावधारणकारणाभावात्। चमसवत् यथा हि अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः इत्यस्मिन्मन्त्रे स्वातन्त्र्येणायं नामासौ चमसोऽभिप्रेत इति न शक्यते नियन्तुम् सर्वत्रापि यथाकथंचिदर्वाग्बिलत्वादिकल्पनोपपत्तेः एवमिहाप्यविशेषः अजामेकाम् इत्यस्य मन्त्रस्य नास्मिन्मन्त्रे प्रधानमेवाजाभिप्रेतेति शक्यते नियन्तुम्।।

तत्र तु इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुद्ध्नः इति वाक्यशेषाच्चमसविशेषप्रतिपत्तिर्भवति इह पुनः केयमजा प्रतिपत्तव्येत्यत्र ब्रूमः


ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके । ( ब्रसू-१,४.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

परमेश्वरादुत्पन्ना ज्योतिःप्रमुखा तेजोबन्नलक्षणा चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतेयमजा प्रतिपत्तव्या। तुशब्दोऽवधारणार्थः भूतत्रयलक्षणैवेयमजा विज्ञेया न गुणत्रयलक्षणा। कस्मात् तथा ह्येके शाखिनस्तेजोबन्नानां परमेश्वरादुत्पत्तिमाम्नाय तेषामेव रोहितादिरूपतामामनन्ति यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य इति तान्येवेह तेजोबन्नानि प्रत्यभिज्ञायन्ते रोहितादिशब्दसामान्यात् रोहितादीनां च शब्दानां रूपविशेषेषु मुख्यत्वाद्भाक्तत्वाच्च गुणविषयत्वस्य असंदिग्धेन च संदिग्धस्य निगमनं न्याय्यं मन्यन्ते। तथेहापि ब्रह्मवादिनो वदन्ति। किंकारणं ब्रह्म इत्युपक्रम्य ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् इति पारमेश्वर्याः शक्तेः समस्तजगद्विधायिन्या वाक्योपक्रमेऽवगमात् वाक्यशेषेऽपि मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इति यो योनिं योनिमधितिष्ठत्येकः इति च तस्या एवावगमान्न स्वतन्त्रा काचित्प्रकृतिः प्रधानं नामाजामन्त्रेणाम्नायत इति शक्यते वक्तुम्। प्रकरणात्तु सैव दैवी शक्तिरव्याकृतनामरूपा नामरूपयोः प्रागवस्था अनेनापि मन्त्रेणाम्नायत इत्युच्यते तस्याश्च स्वविकारविषयेण त्रैरूप्येण त्रैरूप्यमुक्तम्।।

कथं पुनस्तेजोबन्नात्मना त्रैरूप्येण त्रिरूपा अजा प्रतिपत्तुं शक्यते यावता न तावत्तेजोबन्नेष्वजाकृतिरस्ति न च तेजोबन्नानां जातिश्रवणादजातिनिमित्तोऽप्यजाशब्दः संभवतीति अत उत्तरं पठति


कल्पनोपदेशाच् च मध्वादिवदविरोधः । ( ब्रसू-१,४.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

नायमजाकृतिनिमित्तोऽजाशब्दः नापि यौगिकः किं तर्हि कल्पनोपदेशोऽयम् अजारूपकक्लृप्तिस्तेजोबन्नलक्षणायाश्चराचरयोनेरुपदिश्यते यथा हि लोके यदृच्छया काचिदजा रोहितशुक्लकृष्णवर्णा स्याद्बहुबर्करा सरूपबर्करा च तां च कश्चिदजो जुषमाणोऽनुशयीत कश्चिच्चैनां भुक्तभोगां जह्यात् एवमियमपि तेजोबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा बहु सरूपं चराचरलक्षणं विकारजातं जनयति अविदुषा च क्षेत्रज्ञेनोपभुज्यते विदुषा च परित्यज्यत इति। न चेदमाशङ्कितव्यम् एकः क्षेत्रज्ञोऽनुशेते अन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषामिष्टः प्राप्नोतीति न हीयं क्षेत्रज्ञभेदप्रतिपिपादयिषा किंतु बन्धमोक्षव्यवस्थाप्रतिपिपादयिषैवैषा प्रसिद्धं तु भेदमनूद्य बन्धमोक्षव्यवस्था प्रतिपाद्यते भेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पितः न पारमार्थिकः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा इत्यादिश्रुतिभ्यः। मध्वादिवत् यथा आदित्यस्यामधुनो मधुत्वम् वाचश्चाधेनोर्धेनुत्वम् द्युलोकादीनां चानग्नीनामग्नित्वम् इत्येवंजातीयकं कल्प्यते एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थः। तस्मादविरोधस्तेजोबन्नेष्वजाशब्दप्रयोगस्य।।

संख्योपसंग्रहाधिकरणम्[सम्पाद्यताम्]

न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च । ( ब्रसू-१,४.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

एवं परिहृतेऽप्यजामन्त्रे पुनरप्यन्यस्मान्मन्त्रात्सांख्यः प्रत्यवतिष्ठते यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् इति। अस्मिन्मन्त्रे पञ्च पञ्चजना इति पञ्चसंख्याविषया अपरा पञ्चसंख्या श्रूयते पञ्चशब्दद्वयदर्शनात् त एते पञ्च पञ्चकाः पञ्चविंशतिः संपद्यन्ते तया च पञ्चविंशतिसंख्यया यावन्तः संख्येया आकाङ्क्ष्यन्ते तावन्त्येव च तत्त्वानि सांख्यैः संख्यायन्ते मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः इति तया श्रुतिप्रसिद्धया पञ्चविंशतिसंख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतेस्तत्त्वानामुपसंग्रहात्प्राप्तं पुनः श्रुतिमत्त्वमेव प्रधानादीनाम्।

ततो ब्रूमः न संख्योपसंग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्या कस्मात् नानाभावात् नाना ह्येतानि पञ्चविंशतिस्तत्त्वानि नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या निविशेरन् न ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्ते। अथोच्येत पञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते यथा पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः इति द्वादशवार्षिकीमनावृष्टिं कथयन्ति तद्वदिति तदपि नोपपद्यते अयमेवास्मिन्पक्षे दोषः यल्लक्षणाश्रयणीया स्यात्। परश्चात्र पञ्चशब्दो जनशब्देन समस्तः प़ञ्चजना इति भाषिकस्वरेणैकपदत्वनिश्चयात् प्रयोगान्तरे च पञ्चानां त्वा पञ्चजनानाम् इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात् समस्तत्वाच्च न वीप्सा पञ्च पञ्च इति। तेन न पञ्चकद्वयग्रहणं पञ्च पञ्चेति। न च पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणम् पञ्च पञ्चकाः इति उपसर्जनस्य विशेषणेनासंयोगात् नन्वापन्नपञ्चसंख्याका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूलाः प्रतीयन्ते तद्वत् नेति ब्रूमः युक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम् इह तु पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां न पञ्च पञ्चजना इति विशेषणं भवेत् भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत् तत्र चोक्तो दोषः तस्मात्पञ्च पञ्चजना इति न पञ्चविंशतितत्त्वाभिप्रायम्। अतिरेकाच्च न पञ्चविंशतितत्त्वाभिप्रायम् अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाः आत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः यस्मिन् इति सप्तमीसूचितस्य तमेव मन्य आत्मानम् इत्यात्मत्वेनानुकर्षणात् आत्मा च चेतनः पुरुषः स च पञ्चविंशतावन्तर्गत एवेति न तस्यैवाधारत्वमाधेयत्वं च युज्येत अर्थान्तरपरिग्रहे वा तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येत तथा आकाशश्च प्रतिष्ठितः इत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य न पृथगुपादानं न्याय्यम् अर्थान्तरपरिग्रहे चोक्तं दूषणम्। कथं च संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसंग्रहः प्रतीयेत जनशब्दस्य तत्त्वेष्वरूढत्वात् अर्थान्तरोपसंग्रहेऽपि संख्योपपत्तेः। कथं तर्हि पञ्च पञ्चजना इति उच्यते दिक्संख्ये संज्ञायाम् इति विशेषस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासः ततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते न सांख्यतत्त्वाभिप्रायेण ते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते पञ्चजना नाम ये केचित् ते च पञ्चैवेत्यर्थः सप्तर्षयः सप्तेति यथा।।

के पुनस्ते पञ्चजना नामेति तदुच्यते


प्राणादयो वाक्यशेषात् । ( ब्रसू-१,४.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

यस्मिन्पञ्च पञ्चजनाः इत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः इति तेऽत्र वाक्यशेषगताः संनिधानात्पञ्चजना विवक्ष्यन्ते। कथं पुनः प्राणादिषु जनशब्दप्रयोगः तत्त्वेषु वा कथं जनशब्दप्रयोगः समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात्प्राणादय एव ग्रहीतव्या भवन्ति जनसंबन्धाच्च प्राणादयो जनशब्दभाजो भवन्ति जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः ते वा एते पञ्च ब्रह्मपुरुषाः इत्यत्र प्राणो ह पिता प्राणो ह माता इत्यादि च ब्राह्मणम्। समासबलाच्च समुदायस्य रूढत्वमविरुद्धम् कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुम् शक्या उद्भिदादिवदित्याह प्रसिद्धार्थसंनिधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात्तद्विषयो नियम्यते यथा उद्भिदा यजेत यूपं छिनत्ति वेदिं करोति इति तथा अयमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यते। कैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्चजना व्याख्याताः अन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताः क्वचिच्च यत्पाञ्चजन्यया विशा इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यते तत्परिग्रहेऽपीह न कश्चिद्विरोधः आचार्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतया प्राणादयो वाक्यशेषात् इति जगाद।।

भवेयुस्तावत्प्राणादयः पञ्चजना माध्यंदिनानाम् येऽन्नं प्राणादिष्वामनन्ति काण्वानां तु कथं प्राणादयः पञ्चजना भवेयुः येऽन्नं प्राणादिषु नामनन्तीति अत उत्तरं पठति


ज्योतिषैकेषाम् असत्यन्ने । ( ब्रसू-१,४.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्येत तेऽपि हि यस्मिन्पञ्च पञ्चजनाः इत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते तद्देवा ज्योतिषां ज्योतिः इति। कथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानं समानमन्त्रगतया पञ्चसंख्यया केषांचिद्गृह्यते केषांचिन्नेति अपेक्षाभेदादित्याह माध्यंदिनानां हि समानमन्त्रपठितप्राणादिपञ्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योतिष्यपेक्षा भवति तदलाभात्तु काण्वानां भवत्यपेक्षा अपेक्षाभेदाच्च समानेऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे यथा समानेऽप्यतिरात्रे वचनभेदात्षोडशिनो ग्रहणाग्रहणे तद्वत्। तदेवं न तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्ति स्मृतिन्यायप्रसिद्धी तु परिहरिष्येते।।

कारणत्वाधिकरणम्[सम्पाद्यताम्]

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । ( ब्रसू-१,४.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्रतिपादितं ब्रह्मणो लक्षणम् प्रतिपादितं ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानाम् प्रतिपादितं च प्रधानस्याशब्दत्वम् तत्रेदमपरमाशङ्क्यते न जन्मादिकारणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपादयितुं शक्यम् कस्मात् विगानदर्शनात् प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते क्रमादिवैचित्र्यात्। तथा हि क्वचित् आत्मन आकाशः संभूतः इत्याकाशादिका सृष्टिराम्नायते क्वचित्तेजआदिका तत्तेजोऽसृजत इति क्वचित्प्राणादिका स प्राणमसृजत प्राणाच्छ्रद्धाम् इति क्वचिदक्रमेणैव लोकानामुत्पत्तिराम्नायते स इमा्लोकानसृजत। अम्भो मरीचीर्मरमापः इति तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते असद्वा इदमग्र आसीत्ततो वै सदजायत इति असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत् इति च क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते तद्धैक आहुरसदेवेदमग्र आसीत् इत्युपक्रम्य कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीत् इति क्वचित्स्वयंकर्तृकैव व्याक्रिया जगतो निगद्यते तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत इति। एवमनेकधा विप्रतिपत्तेर्वस्तुनि च विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्या स्मृतिन्यायप्रसिद्धिभ्यां तु कारणान्तरपरिग्रहो न्याय्य इत्येवं प्राप्ते

ब्रूमः सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने न स्रष्टरि किंचिद्विगानमस्ति कुतः यथाव्यपदिष्टोक्तेः यथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन व्यपदिष्टः तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते तद्यथा सत्यं ज्ञानमनन्तं ब्रह्म इति अत्र तावज्ज्ञानशब्देन परेण च तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयत् अपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत् तद्विषयेणैव परेणात्मशब्देन शरीरादिकोशपरम्परया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत् बहु स्यां प्रजायेय इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषत तथा इदं सर्वमसृजत। यदिदं किं च इति समस्तजगत्सृष्टिनिर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टे तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातम् तल्लक्षणमेवान्यत्रापि विज्ञायते सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत इति तथा आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्। स ईक्षत लोकान्नु सृजै इति च एवंजातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात्। कार्यविषयं तु विगानं दृश्यते क्वचिदाकाशादिका सृष्टिः क्वचित्तेजआदिकेत्येवंजातीयकम्। न च कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं भवितुमर्हतीति शक्यते वक्तुम् अतिप्रसङ्गात्। समाधास्यति चाचार्यः कार्यविषयमपि विगानम् न वियदश्रुतेः इत्यारभ्य। भवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात्। न ह्ययं सृष्ट्यादिप्रपञ्चः प्रतिपिपादयिषितः। न हि तत्प्रतिबद्धः कश्चित्पुरुषार्थो दृश्यते श्रूयते वा। न च कल्पयितुं शक्यते उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यताया गम्यमानत्वात्। दर्शयति च सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम् अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ इति। मृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्यादिप्रपञ्चः श्राव्यत इति गम्यते। तथा च संप्रदायविदो वदन्ति मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा। उपायः सोऽवताराय नास्ति भेदः कथंचन इति। ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते ब्रह्मविदाप्नोति परम् तरति शोकमात्मवित् तमेव विदित्वाति मृत्युमेति इति। प्रत्यक्षावगमं चेदं फलम् तत्त्वमसि इत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः।।

यत्पुनः कारणविषयं विगानं दर्शितम् असद्वा इदमग्र आसीत् इत्यादि तत्परिहर्तव्यम् अत्रोच्यते


समाकर्षात् । ( ब्रसू-१,४.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

असद्वा इदमग्र आसीत् इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यते यतः असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुः इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया प्रत्यगात्मानं निर्धार्य सोऽकामयत इति तमेव प्रकृतं समाकृष्य सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा तत्सत्यमित्याचक्षते इति चोपसंहृत्य तदप्येष श्लोको भवति इति तस्मिन्नेव प्रकृतेऽर्थे श्लोकमिममुदाहरति असद्वा इदमग्र आसीत् इति यदि त्वसन्निरात्मकमस्मिञ्श्लोकेऽभिप्रेयेत ततोऽन्यसमाकर्षणेऽन्यस्योदाहरणादसंबद्धं वाक्यमापद्येत तस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यते। एषैव असदेवेदमग्र आसीत् इत्यत्रापि योजना तत्सदासीत् इति समाकर्षणात् अत्यन्ताभावाभ्युपगमे हि तत्सदासीत् इति किं समाकृष्येत तद्धैक आहुरसदेवेदमग्र आसीत् इत्यत्रापि न श्रुत्यन्तराभिप्रायेणायमेकीयमतोपन्यासः क्रियायामिव वस्तुनि विकल्पस्यासंभवात् तस्माच्छ्रुतिपरिगृहीतसत्पक्षदार्ढ्यायैवायं मन्दमतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरास इति द्रष्टव्यम्। तद्धेदं तर्ह्यव्याकृतमासीत् इत्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते स एष इह प्रविष्ट आ नखाग्रेभ्यः इत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्षात् निरध्यक्षे व्याकरणाभ्युपगमे ह्यनन्तरेण प्रकृतावलम्बिना स इत्यनेन सर्वनाम्ना कः कार्यानुप्रवेशित्वेन समाकृष्येत चेतनस्य चायमात्मनः शरीरेऽनुप्रवेशः श्रूयते अनुप्रविष्टस्य चेतनत्वश्रवणात् पश्यंश्चक्षुः श्रृण्वञ्श्रोत्रं मन्वानो मनः इति अपि च यादृशमिदमद्यत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्साध्यक्षं व्याक्रियते एवमादिसर्गेऽपीति गम्यते दृष्टविपरीतकल्पनानुपपत्तेः श्रुत्यन्तरमपि अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति साध्यक्षामेव जगतो व्याक्रियां दर्शयति व्याक्रियतं इत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यः यथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके लवितरि यद्वा कर्मण्येवैष लकारोऽर्थाक्षिप्तं कर्त्रन्तरमपेक्ष्य द्रष्टव्यः यथा गम्यते ग्राम इति।।

बालाक्यधिकरणम्[सम्पाद्यताम्]

जगद्वाचित्वात् । ( ब्रसू-१,४.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयते यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः इति। तत्र किं जीवो वेदितव्यत्वेनोपदिश्यते उत मुख्यः प्राणः उत परमात्मेति विशयः। किं तावत्प्राप्तम् प्राण इति। कुतः यस्य वैतत्कर्म इति श्रवणात् परिस्पन्दलक्षणस्य च कर्मणः प्राणाश्रयत्वात् वाक्यशेषे च अथास्मिन्प्राण एवैकधा भवति इति प्राणशब्दश्रवणात् प्राणशब्दस्य च मुख्ये प्राणे प्रसिद्धत्वात् ये चैते पुरस्ताद्बालाकिना आदित्ये पुरुषश्चन्द्रमसि पुरुषः इत्येवमादयः पुरुषा निर्दिष्टाः तेषामपि भवति प्राणः कर्ता प्राणावस्थाविशेषत्वादादित्यादिदेवतात्मनाम् कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते इति श्रुत्यन्तरप्रसिद्धेः। जीवो वायमिह वेदितव्यतयोपदिश्यते तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् यस्य वैतत्कर्म इति सोऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां च कर्तोपपद्यते वाक्यशेषे जीवलिङ्गमवगम्यते यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्य आमन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयति तथा परस्तादपि जीवलिङ्गमवगम्यते तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति इति प्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम्। तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयः न परमेश्वरः तल्लिङ्गानवगमादित्येवं प्राप्ते

ब्रूमः परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात् कस्मात् उपक्रमसामर्थ्यात्। इह हि बालाकिरजातशत्रुणा सह ब्रह्म ते ब्रवाणि इति संवदितुमुपचक्रमे स च कतिचिदादित्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं बभूव तमजातशत्रुः मृषा वै खलु मा संवदिष्ठा ब्रह्म ते ब्रवाणि इत्यमुख्यब्रह्मवादितयापोद्य तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेप यदि सोऽप्यमुख्यब्रह्मदृष्टिभाक्स्यात् उपक्रमो बाध्येत तस्मात्परमेश्वर एवायं भवितुमर्हति। कर्तृत्वं चैतेषां पुरुषाणां न परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते। यस्य वैतत्कर्म इत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः तयोरन्यतरस्याप्यप्रकृतत्वात् असंशब्दितत्वाच्च नापि पुरुषाणामयं निर्देशः एतेषां पुरुषाणां कर्ता इत्येव तेषां निर्दिष्टत्वात् लिङ्गवचनविगानाच्च नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः कर्तृशब्देनैव तयोरुपात्तत्वात् पारिशेष्यात्प्रत्यक्षसंनिहितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यते क्रियत इति च तदेव जगत्कर्म ननु जगदप्यप्रकृतमसंशब्दितं च सत्यमेतत् तथाप्यसति विशेषोपादाने साधारणेनार्थेन संनिधानेन संनिहितवस्तुमात्रस्यायं निर्देश इति गम्यते न विशिष्टस्य कस्यचित्त विशेषसंनिधानाभावात् पूर्वत्र च जगदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं जगदेवेहोपादीयत इति गम्यते। एतदुक्तं भवति य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ता किमनेन विशेषेण यस्य वा कृत्स्नमेव जगदविशेषितं कर्मेतिवाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थः ये बालाकिना ब्रह्मत्वाभिमताः पुरुषाः कीर्तिताः तेषामब्रह्मत्वख्यापनाय विशेषोपादानम्। एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यते परमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः।।


जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् । ( ब्रसू-१,४.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथ यदुक्तं वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेश्वरस्येति तत्परिहर्तव्यम् अत्रोच्यते परिहृतं चैतत् नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् इत्यत्र त्रिविधं ह्यत्रोपासनमेवं सति प्रसज्येत जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति न चैतन्न्याय्यम् उपक्रमोपसंहाराभ्यां हि ब्रह्मविषयत्वमस्य वाक्यस्यावगम्यते तत्रोपक्रमस्य तावद्ब्रह्मविषयत्वं दर्शितम् उपसंहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्वं दृश्यते सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद इति। नन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत न निर्णीयते यस्य वैतत्कर्म इत्यस्य ब्रह्मविषयत्वेन तत्र अनिर्धारितत्वात् तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निवर्त्यते प्राणशब्दोऽपि ब्रह्मविषयो दृष्टः प्राणबन्धनं हि सोम्य मनः इत्यत्र जीवलिङ्गमप्युपक्रमोपसंहारयोर्ब्रह्मविषयत्वादभेदाभिप्रायेण योजयितव्यम्।।


अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके । ( ब्रसू-१,४.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च नैवात्र विवदितव्यम् जीवप्रधानं वेदं वाक्यं स्यात् ब्रह्मप्रधानं वेति यतोऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्त्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यते कस्मात् प्रश्नव्याख्यानाभ्याम्। प्रश्नस्तावत्सुषुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात् इति प्रतिवचनमपि यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति इत्यादि एतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः इति च सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादा। तस्माद्यत्रास्य जीवस्य निःसंबोधस्वस्थतारूपः स्वापः उपाधिजनितविशेषविज्ञानरहितं स्वरूपम् यतस्तद्भ्रंशरूपमागमनम् सोऽत्र परमात्मा वेदितव्यतया श्रावित इति गम्यते। अपि चैवमेके शाखिनो वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मानमामनन्ति य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागात् इति प्रश्ने प्रतिवचनेऽपि य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते इति आकाशशब्दश्च परमात्मनि प्रयुक्तः दहरोऽस्मिन्नन्तराकाशः इत्यत्र सर्व एत आत्मानो व्युच्चरन्ति इति चोपाधिमतामात्मनामन्यतो व्युच्चरणमामनन्तः परमात्मानमेव कारणत्वेनामनन्तीति गम्यते। प्राणनिराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेशोऽभ्युच्चयः।।

वाक्यान्वयाधिकरणम्[सम्पाद्यताम्]

वाक्यान्वयात् । ( ब्रसू-१,४.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

ब्रृहदारण्यके मैत्रेयीब्राह्मणेऽभिधीयते न वा अरे पत्युः कामाय इत्युपक्रम्य न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् इति तत्रैतद्विचिकित्स्यते किं विज्ञानात्मैवायं द्रष्टव्यश्रोतव्यत्वादिरूपेणोपदिश्यते आहोस्वित्परमात्मेति। कुतः पुनरेषा विचिकित्सा प्रियसंसूचितेनात्मना भोक्त्रोपक्रमाद्विज्ञानात्मोपदेश इति प्रतिभाति तथात्मविज्ञानेन सर्वविज्ञानोपदेशात्परमात्मोपदेश इति। किं तावत्प्राप्तम् विज्ञानात्मोपदेश इति कस्मात् उपक्रमसामर्थ्यात्। पतिजायापुत्रवित्तादिकं हि भोग्यभूतं सर्वं जगत् आत्मार्थतया प्रियं भवतीति प्रियसंसूचितं भोक्तारमात्मानमुपक्रम्यानन्तरमिदमात्मनो दर्शनाद्युपदिश्यमानं कस्यान्यस्यात्मनः स्यात् मध्येऽपि इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति इति प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन ब्रुवन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयति तथा विज्ञातारमरे केन विजानीयात् इति कर्तृवचनेन शब्देनोपसंहरन्विज्ञानात्मानमेवेहोपदिष्टं दर्शयति तस्मादात्मविज्ञानेन सर्वविज्ञानवचनं भोक्त्रर्थत्वाद्भोग्यजातस्यौपचारिकं द्रष्टव्यमित्येवं प्राप्ते

ब्रूमः परमात्मोपदेश एवायम् कस्मात् वाक्यान्वयात्। वाक्यं हीदं पौर्वापर्येणावेक्ष्यमाणं परमात्मानं प्रत्यन्वितावयवं लक्ष्यते कथमिति तदुपपाद्यते अमृतत्वस्य तु नाशास्ति वित्तेन इति याज्ञवल्क्यादुपश्रुत्य येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहि इत्यमृतत्वमाशासानायै मैत्रेय्यै याज्ञवल्क्य आत्मविज्ञानमुपदिशति न चान्यत्र परमात्मविज्ञानादमृतत्वमस्तीति श्रुतिस्मृतिवादा वदन्ति तथा चात्मविज्ञानेन सर्वविज्ञानमुच्यमानं नान्यत्र परमकारणविज्ञानान्मुख्यमवकल्पते न चैतदौपचारिकमाश्रयितुं शक्यम् यत्कारणमात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद इत्यादिना यो हि ब्रह्मक्षत्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत्पराकरोतीति भेददृष्टिमपोद्य इदं सर्वं यदयमात्मा इति सर्वस्य वस्तुजातस्यात्माव्यतिरेकमवतारयति दुन्दुभ्यादिदृष्टान्तैश्च तमेवाव्यतिरेकं द्रढयति अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः इत्यादिना च प्रकृतस्यात्मनो नामरूपकर्मप्रपञ्चकारणतां व्याचक्षाणः परमात्मानमेवैनं गमयति तथैवैकायनप्रक्रियायामपि सविषयस्य सेन्द्रियस्य सान्तःकरणस्य प्रपञ्चस्यैकायनमनन्तरमबाह्यं कृत्स्नं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेवैनं गमयति। तस्मात्परमात्मन एवायं दर्शनाद्युपदेश इति गम्यते।।

यत्पुनरुक्तं प्रियसंसूचितोपक्रमाद्विज्ञानात्मन एवायं दर्शनाद्युपदेश इति अत्र ब्रूमः


प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः । ( ब्रसू-१,४.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्त्यत्र प्रतिज्ञा आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति इदं सर्वं यदयमात्मा इति च। तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम् यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यात्वादिसंकीर्तनम्। यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात् ततः परमात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञायत इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातम् तद्धीयेत। तस्मात्प्रतिज्ञासिद्ध्यर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचार्यो मन्यते।।


उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः । ( ब्रसू-१,४.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

विज्ञानात्मन एव देहेन्द्रियमनोबुद्धिसंघातोपाधिसंपर्कात्कलुषीभूतस्य ज्ञानध्यानादिसाधनानुष्ठानात्संप्रसन्नस्य देहादिसंघातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यते। श्रुतिश्चैवं भवति एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति। क्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् इति यथा लोके नद्यः स्वाश्रयमेव नामरूपं विहाय समुद्रमुपयन्ति एवं जीवोऽपि स्वाश्रयमेव नामरूपं विहाय परं पुरुषमुपैतीति हि तत्रार्थः प्रतीयते दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतायै।।


अवस्थितेर् इति काशकृत्स्नः । ( ब्रसू-१,४.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यते। तथा च ब्राह्मणम् अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इत्येवंजातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयति मन्त्रवर्णश्च सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते इत्येवंजातीयकः। न च तेजःप्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः श्रुता येन परस्मादात्मनोऽन्यस्तद्विकारो जीवः स्यात्। काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवः नान्य इति मतम् आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतम् तथापि प्रतिज्ञासिद्धेः इति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते। तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते प्रतिपिपादयिषितार्थानुसारात् तत्त्वमसि इत्यादिश्रुतिभ्यः एवं च सति तज्ज्ञानादमृतत्वमवकल्पते विकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसंबन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतत्वमवकल्पेत। अतश्च स्वाश्रयस्य नामरूपस्यासंभवादुपाध्याश्रयं नामरूपं जीवे उपचर्यते। अत एवोत्पत्तिरपि जीवस्य क्वचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणा उपाध्याश्रयैव वेदितव्या।।

यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति तत्रापीयमेव त्रिसूत्री योजयितव्या। प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः इदमत्र प्रतिज्ञातम् आत्मनि विदिते सर्वमिदं विदितं भवति इदं सर्वं यदयमात्मा इति च उपपादितं च सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात् तस्या एव प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम् यन्महतो भूतस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन कथितम् इत्याश्मरथ्य आचार्यो मन्यते अभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति। उत्क्रमिष्यत एवंभावादित्यौडुलोमिः उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्संप्रसन्नस्य परेणात्मनैक्यसंभवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते। अवस्थितेरिति काशकृत्स्नः अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यते। ननूच्छेदाभिधानमेतत् एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति इति कथमेतदभेदाभिधानम् नैष दोषः विशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानम् नात्मोच्छेदाभिप्रायम् अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्ति इति पर्यनुयुज्य स्वयमेव श्रुत्या अर्थान्तरस्य दर्शितत्वात् न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवति इति। एतदुक्तं भवति कूटस्थनित्य एवायं विज्ञानघन आत्मा नास्योच्छेदप्रसङ्गोऽस्ति मात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवति संसर्गाभावे च तत्कृतस्य विशेषविज्ञानस्याभावात् न प्रेत्य संज्ञास्ति इत्युक्तमिति। यदप्युक्तम् विज्ञातारमरे केन विजानीयात् इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन एवेदं द्रष्टव्यमिति तदपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयम्। अपि च यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति इत्यारभ्याविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषविज्ञानं प्रपञ्च्य यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधाति पुनश्च विषयाभावेऽप्यात्मानं विजानीयादित्याशङ्क्य विज्ञातारमरे केन विजानीयात् इत्याह ततश्च विशेषविज्ञानाभावोपपादनपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः सन्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते। दर्शितं तु पुरस्तात्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम्। अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदः न पारमार्थिक इत्येषोऽर्थः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यः सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् आत्मैवेदं सर्वम् ब्रह्मैवेदं सर्वम् इदं सर्वं यदयमात्मा नान्योऽतोऽस्ति द्रष्टा नान्यदतोऽस्ति द्रष्टृ इत्येवंरूपाभ्यः श्रुतिभ्यः स्मृतिभ्यश्च वासुदेवः सर्वमिति क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् इत्येवंरूपाभ्यः भेददर्शनापवादाच्च अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इत्येवंजातीयकात् स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म इति च आत्मनि सर्वविक्रियाप्रतिषेधात् अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः सुनिश्चितार्थत्वानुपपत्तेश्च निरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यते वेदान्तविज्ञानसुनिश्चितार्थाः इति च श्रुतेः तत्र को मोहः कः शोक एकत्वमनुपश्यतः इति च स्थितप्रज्ञलक्षणस्मृतेश्च। स्थिते च क्षेत्रज्ञपरमात्मैकत्वविषये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्क्षेत्रज्ञोऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवंजातीयक आत्मभेदविषयोऽयं निर्बन्धो निरर्थकः एको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति। न हि सत्यं ज्ञानमनन्तं ब्रह्म। यो वेद निहितं गुहायाम् इति कांचिदेवैकां गुहामधिकृत्यैतदुक्तम् न च ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति तत्सृष्ट्वा तदेवानुप्राविशत् इति स्रष्टुरेव प्रवेशश्रवणात्। ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थं बाधमानाः श्रेयोद्धारं सम्यग्दर्शनमेव बाधन्ते कृतकमनित्यं च मोक्षं कल्पयन्ति न्यायेन च न संगच्छन्त इति।।

प्रकृत्यधिकरणम्[सम्पाद्यताम्]

प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् । ( ब्रसू-१,४.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः एवं निःश्रेयसहेतुत्वाद्ब्रह्मापि जिज्ञास्यमित्युक्तम् ब्रह्म च जन्माद्यस्य यतः इति लक्षितम् तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे च समानमित्यतो भवति विमर्शः किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति। तत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभाति कस्मात् ईक्षापूर्वककर्तृत्वश्रवणात् ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते स ईक्षांचक्रे स प्राणमसृजत इत्यादिश्रुतिभ्यः ईक्षापूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम् अनेककारकपूर्विका च क्रियाफलसिद्धिर्लोके दृष्टा स च न्याय आदिकर्तर्यपि युक्तः संक्रमयितुम्। ईश्वरत्वप्रसिद्धेश्च ईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम्। कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते कारणेनापि तस्य तादृशेनैव भवितव्यम् कार्यकारणयोः सारूप्यदर्शनात् ब्रह्म चानेवंलक्षणमवगम्यते निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् इत्यादिश्रुतिभ्यः पारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादित्येवं प्राप्ते

ब्रूमः प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम् निमित्तकारणं च न केवलं निमित्तकारणमेव कस्मात् प्रतिज्ञादृष्टान्तानुपरोधात्। एवं हि प्रतिज्ञादृष्टान्तौ श्रौतौ नोपुरुध्येते। प्रतिज्ञा तावत् उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् इति तत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयते तच्चोपादानकारणविज्ञाने सर्वविज्ञानं संभवति उपादानकारणाव्यतिरेकात्कार्यस्य निमित्तकारणाव्यतिरेकस्तु कार्यस्य नास्ति लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात्। दृष्टान्तोऽपि यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्युपादानकारणगोचर एवाम्नायते तथा एकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् इति च। तथान्यत्रापि कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति प्रतिज्ञा यथा पृथिव्यामोषधयः संभवन्ति इति दृष्टान्तः। तथा आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् इति प्रतिज्ञा स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः इति दृष्टान्तः। एवं यथासंभवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ। यत इतीयमपि पञ्चमी यतो वा इमानि भूतानि जायन्ते इत्यत्र जनिकर्तुः प्रकृतिः इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्या। निमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम् यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातृ़नपेक्ष्य प्रवर्तते नैवं ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्ठातापेक्ष्योऽस्ति प्रागुत्पत्तेः एकमेवाद्वितीयम् इत्यवधारणात् अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधांदेवोदितो वेदितव्यः अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासंभवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात्। तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम्।।

कुतश्चात्मनः कर्तृत्वप्रकृतित्वे


अभिध्योपदेशाच् च । ( ब्रसू-१,४.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति सोऽकामयत बहु स्यां प्रजायेय इति तदैक्षत बहु स्यां प्रजायेय इति च। तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते। बहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्य प्रकृतिरित्यपि गम्यते।।


साक्षाच् चोभयाम्नानात् । ( ब्रसू-१,४.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्रकृतित्वस्यायमभ्युच्चयः। इतश्च प्रकृतिर्ब्रह्म यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावाम्नायेते सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते। आकाशं प्रत्यस्तं यन्ति इति। यद्धि यस्मात्प्रभवति यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् यथा व्रीहियवादीनां पृथिवी। साक्षात् इति च उपादानान्तरानुपादानं सूचयति आकाशादेव इति। प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः।।


आत्मकृतेः । ( ब्रसू-१,४.२६ । )

परिणामात् । ( ब्रसू-१,४.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च प्रकृतिर्ब्रह्म यत्कारणं ब्रह्मप्रक्रियायाम् तदात्मानं स्वयमकुरुत इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति आत्मानमिति कर्मत्वम् स्वयमकुरुतेति कर्तृत्वम् कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं संपादयितुम् परिणामादिति ब्रूमः पूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति। विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते परिणामात् इति वा पृथक्सूत्रम्। तस्यैषोऽर्थः इतश्च प्रकृतिर्ब्रह्म यत्कारणं ब्रह्मण एव विकारात्मना च परिणामः सामानाधिकरण्येनाम्नायते सच्च त्यच्चाभवन्निरुक्तं चानिरुक्तं च इत्यादिनेति।।


योनिश् च हि गीयते । ( ब्रसू-१,४.२८ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च प्रकृतिर्ब्रह्म यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु कर्तारमीशं पुरुषं ब्रह्मयोनिम् इति यद्भूतयोनिं परिपश्यन्ति धीराः इति च। योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके पृथिवी योनिरोषधिवनस्पतीनाम् इति। स्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानकारणत्वम्। क्वचित्स्थानवचनोऽपि योनिशब्दो दृष्टः योनिष्ट इन्द्र निषदे अकारि इति। वाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यते यथोर्णनाभिः सृजते गृह्णते च इत्येवंजातीयकात्। तदेवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम्। यत्पुनरिदमुक्तम् ईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टम् नोपादानेष्वित्यादि तत्प्रत्युच्यते न लोकवदिह भवितव्यम् न ह्ययमनुमानगम्योऽर्थः शब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम् शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचाम। पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः।।

सर्वव्याख्यानाधिकरणम्[सम्पाद्यताम्]

एतेन सर्वे व्याख्याताः ।(ब्रसू-१,४.२९)

भाष्यम्

शाङ्करभाष्यम्॥

ईक्षतेर्नाशब्दम् इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतः तस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रति भान्तीति स च कार्यकारणानन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितः तेन तत्प्रतिषेधे एव यत्नोऽतीव कृतः नाण्वादिकारणवादप्रतिषेधे तेऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याः तेषामप्युपोद्बलकं वैदिकं किंचिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादिति अतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः तेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेति। व्याख्याता व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमोऽध्यायः।।