ब्रह्मसूत्रम्/द्वितीयः अध्यायः/द्वितीयः पादः

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← प्रथमः पादः ब्रह्मसूत्रम्
द्वितीयाध्याये द्वितीयः पादः
वेदव्यासः
तृतीयः पादः →

।।द्वितीयोऽध्यायः।। ।।द्वितीयः पादः।।

यद्यपीदं वेदान्तवाक्यानामैदंपर्यं निरूपयितुं शास्त्रं प्रवृत्तम् न तर्कशास्त्रवत्केवलाभिर्युक्तिभिः कंचित्सिद्धान्तं साधयितुं दूषयितुं वा प्रवृत्तम् तथापि वेदान्तवाक्यानि व्याचक्षाणैः सम्यग्दर्शनप्रतिपक्षभूतानि सांख्यादिदर्शनानि निराकरणीयानीति तदर्थः परः पादः प्रवर्तते। वेदान्तार्थनिर्णयस्य च सम्यग्दर्शनार्थत्वात्तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतम् तद्ध्यभ्यर्हितं परपक्षप्रत्याख्यानादिति। ननु मुमुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तम् किं परपक्षनिराकरणेन परविद्वेषकारणेन बाढमेवम् तथापि महाजनपरिगृहीतानि महान्ति सांख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत्केषांचिन्मन्दमतीनाम् एतान्यपि सम्यग्दर्शनायोपादेयानि इत्यपेक्षा तथा युक्तिगाढत्वसंभवेन सर्वज्ञभाषितत्वाच्च श्रद्धा च तेषु इत्यतस्तदसारतोपपादनाय प्रयत्यते। ननु ईक्षतेर्नाशब्दम् कामाच्च नानुमानापेक्षा एतेन सर्वे व्याख्याता व्याख्याताः इति च पूर्वत्रापि सांख्यादिपक्षप्रतिक्षेपः कृतः किं पुनः कृतकरणेनेति। तदुच्यते सांख्यादयः स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहृत्य स्वपक्षानुगुण्येनैव योजयन्तो व्याचक्षते तेषां यद्व्याख्यानं तद्व्याख्यानाभासम् न सम्यग्व्याख्यानम् इत्येतावत्पूर्वं कृतम् इह तु वाक्यनिरपेक्षः स्वतन्त्रस्तद्युक्तिप्रतिषेधः क्रियत इत्येष विशेषः।।

रचनानुपपत्त्यधिकरणम्[सम्पाद्यताम्]

रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च । ( ब्रसू-२,२.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

तत्र सांख्या मन्यन्ते यथा घटशरावादयो भेदा मृदात्मतयान्वीयमाना मृदात्मकसामान्यपूर्वका लोके दृष्टाः तथा सर्व एव बाह्याध्यात्मिका भेदाः सुखदुःखमोहात्मतयान्वीयमानाः सुखदुःखमोहात्मकसामान्यपूर्वका भवितुमर्हन्ति यत्सुखदुःखमोहात्मकं सामान्यं तत्ित्रगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषस्यार्थं साधयितुं स्वभावेनैव विचित्रेण विकारात्मना प्रवर्तत इति। तथा परिमाणादिभिरपि लिङ्गैस्तदेव प्रधानमनुमिमते।।

तत्र वदामः यदि दृष्टान्तबलेनैवैतन्निरूप्येत नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रं किंचिद्विशिष्टपुरुषार्थनिर्वर्तनसमर्थान्विकारान्विरचयद्दृष्टम् गेहप्रासादशयनासनविहारभूम्यादयो हि लोके प्रज्ञावद्भिः शिल्पिभिर्यथाकालं सुखदुःखप्राप्तिपरिहारयोग्या रचिता दृश्यन्ते तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं बाह्यमाध्यात्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलानुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भिः संभाविततमैः शिल्पिभिर्मनसाप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत् लोष्टपाषाणादिष्वदृष्टत्वात् मृदादिष्वपि कुम्भकाराद्यधिष्ठितेषु विशिष्टाकारा रचना दृश्यते तद्वत्प्रधानस्यापि चेतनान्तराधिष्ठितत्वप्रसङ्गः। न च मृदाद्युपादानस्वरूपव्यपाश्रयेणैव धर्मेण मूलकारणमवधारणीयम् न बाह्यकुम्भकारादिव्यपाश्रयेण इति किंचिन्नियामकमस्ति। न चैवं सति किंचिद्विरुध्यते प्रत्युत श्रुतिरनुगृह्यते चेतनकारणसमर्पणात्। अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति। अन्वयाद्यनुपपत्तेश्चेति चशब्देन हेतोरसिद्धिं समु़च्चिनोति। न हि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयान्वय उपपद्यते सुखादीनां चान्तरत्वप्रतीतेः शब्दादीनां चातद्रूपत्वप्रतीतेः तन्निमित्तत्वप्रतीतेश्च शब्दाद्यविशेषेऽपि च भावनाविशेषात्सुखादिविशेषोपलब्धेः। तथा परिमितानां भेदानां मूलाङ्कुरादीनां संसर्गपूर्वकत्वं दृष्ट्वा बाह्याध्यात्मिकानां भेदानां परिमितत्वात्संसर्गपूर्वकत्वमनुमिमानस्य सत्त्वरजस्तमसामपि संसर्गपूर्वकत्वप्रसङ्गः परिमितत्वाविशेषात्। कार्यकारणभावस्तु प्रेक्षापूर्वकनिर्मितानां शयनासनादीनां दृष्ट इति न कार्यकारणभावाद्बाह्याध्यात्मिकानां भेदानामचेतनपूर्वकत्वं शक्यं कल्पयितुम्।। आस्तां तावदियं रचना तत्सिद्ध्यर्था या प्रवृत्तिः साम्यावस्थानात्प्रच्युतिः सत्त्वरजस्तमसामङ्गाङ्गिभावरूपापत्तिः विशिष्टकार्याभिमुखप्रवृत्तिता सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते मृदादिष्वदर्शनाद्रथादिषु च। न हि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते दृष्टाच्चादृष्टसिद्धिः अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति। ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा सत्यमेतत् तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टा न त्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा किं पुनरत्र युक्तम् यस्मिन्प्रवृत्तिर्दृष्टा तस्य सा उत यत्संप्रयुक्तस्य दृष्टा तस्यैव सेति ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तम् उभयोः प्रत्यक्षत्वात् न तु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षः प्रवृत्त्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धिः केवलाचेतनरथादिवैलक्षण्यं जीवद्देहस्य दृष्टमिति अत एव च प्रत्यक्षे देहे सति चैतन्यस्य दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लोकायतिकाः प्रतिपन्नाः तस्मादचेतनस्यैव प्रवृत्तिरिति। तदभिधीयते न ब्रूमः यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति भवतु तस्यैव सा सा तु चेतनाद्भवतीति ब्रूमः तद्भावे भावात्तदभावे चाभावात् यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशादिलक्षणा विक्रिया अनुपलभ्यमानापि च केवले ज्वलने ज्वलनादेव भवति तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात् तद्वत् लोकायतिकानामपि चेतन एव देहोऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम्। ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वमिति चेत् न अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेः। यथायस्कान्तो मणिः स्वयं प्रवृत्तिरहितोऽप्ययसः प्रवर्तको भवति यथा च रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्ति एवं प्रवृत्तिरहितोऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्युपपन्नम्। एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् न अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात्। तस्मात्संभवति प्रवृत्तिः सर्वज्ञकारणत्वे न त्वचेतनकारणत्वे।।


पयोऽम्बुवच् चेत् तत्रापि । ( ब्रसू-२,२.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्ध्यर्थं प्रवर्तते यथा च जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दते एवं प्रधानमप्यचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इति। नैतत्साधूच्यते यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे उभयवादिप्रसिद्धे रथादावचेतने केवले प्रवृत्त्यदर्शनात् शास्त्रं च योऽप्सु तिष्ठन् योऽपोऽन्तरो यमयति एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते इत्येवंजातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासः चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः वत्सचोषणेन च पयस आकृष्यमाणत्वात् न चाम्बुनोऽप्यत्यन्तमनपेक्षा निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम्। उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि इत्यत्र तु बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्ट्या निदर्शितम् शास्त्रदृष्ट्या पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते।।



व्यतिरेकानवस्थितेश् चानपेक्षत्वात् । ( ब्रसू-२,२.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

सांख्यानां त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधानम् न तु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किंचिद्बाह्यमपेक्ष्यमवस्थितमस्ति पुरुषस्तूदासीनो न प्रवर्तको न निवर्तकः इत्यतोऽनपेक्षं प्रधानम् अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते कदाचिन्न परिणमते इत्येतदयुक्तम्। ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते।।


अन्यत्राभावाच् च न तृणादिवत् । ( ब्रसू-२,२.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् यथा तृणपल्लवोदकादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमते एवं प्रधानमपि महदाद्याकारेण परिणंस्यत इति कथं च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते निमित्तान्तरानुपलम्भात्। यदि हि किंचिन्निमित्तान्तरमुपलभेमहि ततो यथाकामं तेन तेन निमित्तेन तृणाद्युपादाय क्षीरं संपादयेमहि न तु संपादयामहे तस्मात्स्वाभाविकस्तृणादेः परिणामः तथा प्रधानस्यापि स्यादिति। अत्रोच्यते भवेत्तृणादिवत्स्वाभाविकः प्रधानस्यापि परिणामः यदि तृणादेरपि स्वाभाविकः परिणामोऽभ्युपगम्येत न त्वभ्युपगम्यते निमित्तान्तरोपलब्धेः। कथं निमित्तान्तरोपलब्धिः अन्यत्राभावात्। धेन्वैव ह्युपभुक्तं तृणादि क्षीरीभवति न प्रहीणम् अनडुहाद्युपभुक्तं वा यदि हि निर्निमित्तमेतत्स्यात् धेनुशरीरसंबन्धादन्यत्रापि तृणादि क्षीरीभवेत् न च यथाकामं मानुषैर्न शक्यं संपादयितुमित्येतावता निर्निमित्तं भवति भवति हि किंचित्कार्यं मानुषसंपाद्यम् किंचिद्दैवसंपाद्यम् मनुष्या अपि शक्नुवन्त्येव स्वोचितेनोपायेन तृणाद्युपादाय क्षीरं संपादयितुम् प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति ततश्च प्रभूतं क्षीरं लभन्ते तस्मान्न तृणादिवत्स्वाभाविकः प्रधानस्य परिणामः।।


पुरुषाश्मवद् इति चेत् तथापि । ( ब्रसू-२,२.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् यथा कश्चित्पुरुषो दृक्शक्तिसंपन्नः प्रवृत्तिशक्तिविहीनः पङ्गुः अपरं पुरुषं प्रवृत्तिशक्तिसंपन्नं दृक्शक्तिविहीनमन्धमधिष्ठाय प्रवर्तयति यथा वा अयस्कान्तोऽश्मा स्वयमप्रवर्तमानोऽप्ययः प्रवर्तयति एवं पुरुषः प्रधानं प्रवर्तयिष्यति इति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम्। अत्रोच्यते तथापि नैव दोषान्निर्मोक्षोऽस्ति अभ्युपेतहानं तावद्दोष आपतति प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपगमात् पुरुषस्य च प्रवर्तकत्वानभ्युपगमात् कथं चोदासीनः पुरुषः प्रधानं प्रवर्तयेत् पङ्गुरपि ह्यन्धं पुरुषं वागादिभिः प्रवर्तयति नैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारोऽस्ति निष्क्रियत्वान्निर्गुणत्वाच्च नाप्ययस्कान्तवत्संनिधिमात्रेण प्रवर्तयेत् संनिधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात् अयस्कान्तस्य त्वनित्यसंनिधेरस्ति स्वव्यापारः संनिधिः परिमार्जनाद्यपेक्षा चास्यास्ति इत्यनुपन्यासः पुरुषाश्मवदिति। तथा प्रधानस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य च तयोः संबन्धयितुरभावात्संबन्धानुपपत्तिः योग्यतानिमित्ते च संबन्धे योग्यतानुच्छेदादनिर्मोक्षप्रसङ्गः पूर्ववच्चेहाप्यर्थाभावो विकल्पयितव्यः परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यम् मायाव्यपाश्रयं च प्रवर्तकत्वम् इत्यस्त्यतिशयः।।


अङ्गित्वानुपपत्तेश् च । ( ब्रसू-२,२.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च न प्रधानस्य प्रवृत्तिरवकल्पते यद्धि सत्त्वरजस्तमसामन्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानम् सा प्रधानावस्था तस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गाङ्गिभावानुपपत्तेः बाह्यस्य च कस्यचित्क्षोभयितुरभावात् गुणवैषम्यनिमित्तो महदाद्युत्पादो न स्यात्।।


अन्यथानुमितौ च ज्ञशक्तिवियोगात् । ( ब्रसू-२,२.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथापि स्यात् अन्यथा वयमनुमिमीमहे यथा नायमनन्तरो दोषः प्रसज्येत न ह्यनपेक्षस्वभावाः कूटस्थाश्चास्माभिर्गुणा अभ्युपगम्यन्ते प्रमाणाभावात् कार्यवशेन तु गुणानां स्वभावोऽभ्युपगम्यते यथा यथा कार्योत्पाद उपपद्यते तथा तथैतेषां स्वभावोऽभ्युपगन्तव्यः चलं गुणवृत्तमिति चास्त्यभ्युपगमः तस्मात्साम्यावस्थायामपि वैषम्योपगमयोग्या एव गुणा अवतिष्ठन्त इति। एवमपि प्रधानस्य ज्ञशक्तिवियोगाद्रचनानुपपत्त्यादयः पूर्वोक्ता दोषास्तदवस्था एव ज्ञशक्तिमपि त्वनुमिमानः प्रतिवादित्वान्निवर्तेत चेतनमेकमनेकप्रपञ्चस्य जगत उपादानमिति ब्रह्मवादप्रसङ्गात् वैषम्योपगमयोग्या अपि गुणाः साम्यावस्थायां निमित्ताभावान्नैव वैषम्यं भजेरन् भजमाना वा निमित्ताभावाविशेषात्सर्वदैव वैषम्यं भजेरन् इति प्रसज्यत एवायमनन्तरोऽपि दोषः।।


अभ्युपगमेऽप्य् अर्थाभावात् । ( ब्रसू-२,२.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्वाभाविकी प्रधानस्य प्रवृत्तिर्न भवतीति स्थापितम् अथापि नाम भवतः श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम तथापि दोषोऽनुषज्येतैव कुतः अर्थाभावात्। यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किंचिदन्यदिहापेक्षत इत्युच्येत ततो यथैव सहकारि किंचिन्नापेक्षते एवं प्रयोजनमपि किंचिन्नापेक्षिष्यते इत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत। स यदि ब्रूयात् सहकार्येव केवलं नापेक्षते न प्रयोजनमपीति तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यम् भोगो वा स्यात् अपवर्गो वा उभयं वेति। भोगश्चेत् कीदृशोऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत् अनिर्मोक्षप्रसङ्गश्च अपवर्गश्चेत् प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात् शब्दाद्यनुपलब्धिप्रसङ्गश्च उभयार्थताभ्युपगमेऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मोक्षप्रसङ्ग एव न चौत्सुक्यनिवृत्त्यर्था प्रवृत्तिः न हि प्रधानस्याचेतनस्यौत्सुक्यं संभवति न च पुरुषस्य निर्मलस्य दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेत्प्रवृत्तिः तर्हि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव। तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम्।।


विप्रतिषेधाच् चासमञ्जसम् । ( ब्रसू-२,२.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

परस्परविरुद्धश्चायं सांख्यानामभ्युपगमः क्वचित्सप्तेन्द्रियाण्यनुक्रामन्ति क्वचिदेकादश तथा क्वचिन्महतस्तन्मात्रसर्गमुपदिशन्ति क्वचिदहंकारात् तथा क्वचित्त्रीण्यन्तःकरणानि वर्णयन्ति क्वचिदेकमिति प्रसिद्ध एव तु श्रुत्येश्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या तस्मादप्यसमञ्जसं सांख्यानां दर्शनमिति।।

अत्राह नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनम् तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात् एकं हि ब्रह्म सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छताम् एकस्यैवात्मनो विशेषौ तप्यतापकौ न जात्यन्तरभूतौ इत्यभ्युपगन्तव्यं स्यात् यदि चैतौ तप्यतापकावेकस्यात्मनो विशेषौ स्याताम् स ताभ्यां तप्यतापकाभ्यां न निर्मुच्येत इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात् न ह्यौष्ण्यप्रकाशधर्मस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते योऽपि जलतरङ्गवीचीफेनाद्युपन्यासः तत्रापि जलात्मन एकस्य वीच्यादयो विशेषा आविर्भावतिरोभावरूपेण नित्या एव इति समानो जलात्मनो वीच्यादिभिरनिर्मोक्षः। प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके तथा हि अर्थी चार्थश्चान्योन्यभिन्नौ लक्ष्येते यद्यर्थिनः स्वतोऽन्योऽर्थो न स्यात् यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं स्यात् यथा प्रकाशात्मनः प्रदीपस्य प्रकाशाख्योऽर्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं भवति अप्राप्ते ह्यर्थेऽर्थिनोऽर्थित्वं स्यादिति तथार्थस्याप्यर्थत्वं न स्यात् यदि स्यात् स्वार्थत्वमेव स्यात् न चैतदस्ति संबन्धिशब्दौ ह्येतावर्थी चार्थश्चेति द्वयोश्च संबन्धिनोः संबन्धः स्यात् नैकस्यैव तस्माद्भिन्नावेतावर्थार्थिनौ। तथानर्थानर्थिनावपि अर्थिनोऽनुकूलः अर्थः प्रतिकूलः अनर्थः ताभ्यामेकः पर्यायेणोभाभ्यां संबध्यते। तत्रार्थस्याल्पीयस्त्वात् भूयस्त्वाच्चानर्थस्य उभावप्यर्थानर्थौ अनर्थ एवेति तापकः स उच्यते तप्यस्तु पुरुषः य एकः पर्यायेणोभाभ्यां संबध्यते इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्तिः जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति।।

अत्रोच्यते न एकत्वादेव तप्यतापकभावानुपपत्तेः भवेदेष दोषः यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम् न त्वेतदस्ति एकत्वादेव न ह्यग्निरेकः सन्स्वमात्मानं दहति प्रकाशयति वा सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च किमु कूटस्थे ब्रह्मण्येकस्मिंस्तप्यतापकभावः संभवेत् क्व पुनरयं तप्यतापकभावः स्यादिति उच्यते किं न पश्यसि कर्मभूतो जीवद्देहस्तप्यः तापकः सवितेति ननु तप्तिर्नाम दुःखम् सा चेतयितुः नाचेतनस्य देहस्य यदि हि देहस्यैव तप्तिः स्यात् सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति उच्यते देहाभावेऽपि केवलस्य चेतनस्य तप्तिर्न दृष्टा न च त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते नापि देहचेतनयोः संहतत्वम् अशुद्ध्यादिदोषप्रसङ्गात् न च तप्तेरेव तप्तिमभ्युपगच्छसि कथं तवापि तप्यतापकभावः सत्त्वं तप्यम् तापकं रजः इति चेत् न ताभ्यां चेतनस्य संहतत्वानुपपत्तेः सत्त्वानुरोधित्वाच्चेतनोऽपि तप्यत इवेति चेत् परमार्थतस्तर्हि नैव तप्यत इत्यापतति इवशब्दप्रयोगात् न चेत्तप्यते नेवशब्दो दोषाय न हि डुण्डुभः सर्प इव इत्येतावता सविषो भवति सर्पो वा डुण्डुभ सर्प इव इत्येतावता निर्विषो भवति अतश्चाविद्याकृतोऽयं तप्यतापकभावः न पारमार्थिकः इत्यभ्युपगन्तव्यमिति नैवं सति ममापि किंचिद्दुष्यति। अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि तवैव सुतरामनिर्मोक्षः प्रसज्येत नित्यत्वाभ्युपगमाच्च तापकस्य। तप्यतापकशक्त्योर्नित्यत्वेऽपि सनिमित्तसंयोगापेक्षत्वात्तप्तेः संयोगनिमित्तादर्शननिवृत्तौ आत्यन्तिकः संयोगोपरमः ततश्चात्यन्तिको मोक्ष उपपन्नः इति चेत् न अदर्शनस्य तमसो नित्यत्वाभ्युपगमात् गुणानां चोद्भवाभिभवयोरनियतत्वादनियतः संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्सांख्यस्यैवानिर्मोक्षोऽपरिहार्यः स्यात्। औपनिषदस्य तु आत्मैकत्वाभ्युपगमात् एकस्य च विषयविषयिभावानुपपत्तेः विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणात् अनिर्मोक्षशङ्का स्वप्नेऽपि नोपजायंते व्यवहारे तु यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव सः इति न चोदयितव्यः परिहर्तव्यो वा भवति।।

प्रधानकारणवादो निराकृतः परमाणुकारणवाद इदानीं निराकर्तव्यः तत्रादौ तावत् योऽणुवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते। तत्रायं वैशेषिकाणामभ्युपगमः कारणद्रव्यसमवायिनो गुणाः कार्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते शुक्लेभ्यस्तन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात् तद्विपर्ययादर्शनाच्च तस्माच्चेतनस्य ब्रह्मणो जगत्कारणत्वेऽभ्युपगम्यमाने कार्येऽपि जगति चैतन्यं समवेयात् तददर्शनात्तु न चेतनं ब्रह्म जगत्कारणं भवितुमर्हतीति। इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति

महद्दीर्घाधिकरणम्[सम्पाद्यताम्]

महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् । ( ब्रसू-२,२.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

एषा तेषां प्रक्रिया परमाणवः किल कंचित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणाश्च तिष्ठन्ति ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्व्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते कारणगुणाश्च कार्ये गुणान्तरम् यदा द्वौ परमाणू द्व्यणुकमारभेते तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयो द्व्यणुके शुक्लादीनपरानारभन्ते परमाणुगुणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभते द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात् अणुत्वह्रस्वत्वे हि द्व्यणुकवर्तिनी परिमाणे वर्णयन्ति। यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् अणुत्वह्रस्वत्वे तु द्व्यणुकसमवायिनी अपि नैवारभेते चतुरणुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात्। यदापि बहवः परमाणवः बहूनि वा द्व्यणुकानि द्व्यणुकसहितो वा परमाणुः कार्यमारभते तदापि समानैषा योजना। तदेवं यथा परमाणोः परिमण्डलात्सतोऽणु ह्रस्वं च द्व्यणुकं जायते महद्दीर्घं च त्र्यणुकादि न परिमण्डलम् यथा वा द्व्यणुकादणोर्ह्रस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते नाणु नो ह्रस्वम् एवं चेतनाद्ब्रह्मणोऽचेतनं जगज्जनिष्यते इत्यभ्युपगमे किं तव च्छिन्नम्।।

अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं द्व्यणुकादि इत्यतो नारम्भकाणि कारणगतानि पारिमाण्डल्यादीनि इत्यभ्युपगच्छामि न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत न ह्यचेतना नाम चेतनाविरोधी कश्चिद्गुणोऽस्ति चेतनाप्रतिषेधमात्रत्वात् तस्मात्पारिमाण्डल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमिति। मैवं मंस्थाः यथा कारणे विद्यमानानामपि पारिमाण्डल्यादीनामनारम्भकत्वम् एवं चैतन्यस्यापि इत्यस्यांशस्य समानत्वात् न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनारम्भकत्वे कारणम् प्राक्परिमाणान्तरारम्भात्पारिमाण्डल्यादीनामारम्भकत्वोपपत्तेः आरब्धमपि कार्यद्रव्यं प्राग्गुणारम्भात्क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात् न च परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुत्वाभ्युपगमात् कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत् तद्विपरीतमणु एतेन दीर्घत्वह्रस्वत्वे व्याख्याते इति हि काणभुजानि सूत्राणि न च संनिधानविशेषात्कुतश्चित्कारणबहुत्वादीन्येवारभन्ते न पारिमाण्डल्यादीनीति उच्येत द्रव्यान्तरे गुणान्तरे वा आरभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविशेषात् तस्मात्स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वम् तथा चेतनाया अपीति द्रष्टव्यम्।।

संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात्समानजातीयोत्पत्तिव्यभिचारः। द्रव्ये प्रकृते गुणोदाहरणमयुक्तमिति चेत् न दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षितत्वात् न च द्रव्यस्य द्रव्यमेवोदाहर्तव्यम् गुणस्य वा गुण एवेति कश्चिन्नियमे हेतुरस्ति सूत्रकारोऽपि भवतां द्रव्यस्य गुणमुदाजहार प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात्संयोगस्य पञ्चात्मकं न विद्यते इति यथा प्रत्यक्षाप्रत्यक्षयोर्भूम्याकाशयोः समवयन्संयोगोऽप्रत्यक्षः एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसु भूतेषु समवयच्छरीरमप्रत्यक्षं स्यात् प्रत्यक्षं हि शरीरम् तस्मान्न पाञ्चभौतिकमिति एतदुक्तं भवति गुणश्च संयोगो द्रव्यं शरीरम्। दृश्यते तु इति चात्रापि विलक्षणोत्पत्तिः प्रपञ्चिता। नन्वेवं सति तेनैवैतद्गतम् नेति ब्रूमः तत्सांख्यं प्रत्युक्तमेतत्तु वैशेषिकं प्रति। नन्वतिदेशोऽपि समानन्यायतया कृतः एतेन शिष्टापरिग्रहा अपि व्याख्याताः इति सत्यमेतत् तस्यैव त्वयं वैशेषिकपरीक्षारम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्चः कृतः।।

परमाणुजगदकारणत्वाधिकरणम्[सम्पाद्यताम्]

उभयथापि न कर्मातस्तदभावः । ( ब्रसू-२,२.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

इदानीं परमाणुकारणवादं निराकरोति। स च वाद इत्थं समुत्तिष्ठति पटादीनि हि लोके सावयवानि द्रव्याणि स्वानुगतैरेव संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्यमाणानि दृष्टानि तत्सामान्येन यावत्किंचित्सावयवम् तत्सर्वं स्वानुगतैरेव संयोगसचिवैस्तैस्तैर्द्रव्यैरारब्धमिति गम्यते स चायमवयवावयविविभागो यतो निवर्तते सोऽपकर्षपर्यन्तगतः परमाणुः सर्वं चेदं गिरिसमुद्रादिकं जगत्सावयवम् सावयत्वाच्चाद्यन्तवत् न चाकारणेन कार्येण भवितव्यम् इत्यतः परमाणवो जगतः कारणम् इति कणभुगभिप्रायः। तानीमानि चत्वारि भूतानि भूम्युदकतेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते तेषां चापकर्षपर्यन्तगतत्वेन परतो विभागासंभवाद्विनश्यतां पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति स प्रलयकालः। ततः सर्गकाले च वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यते तत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्ति ततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते एवमग्निः एवमापः एवं पृथिवी एवमेव शरीरं सेन्द्रियम् इत्येवं सर्वमिदं जगत् अणुभ्यः संभवति अणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रूपादीनि संभवन्ति तन्तुपटन्यायेन इति काणादा मन्यन्ते।।

तत्रेदमभिधीयते विभागावस्थानां तावदणूनां संयोगः कर्मापेक्षोऽभ्युपगन्तव्यः कर्मवतां तन्त्वादीनां संयोगदर्शनात् कर्मणश्च कार्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्म स्यात् अभ्युपगमेऽपि यदि प्रयत्नोऽभिघातादिर्वा यथा दृष्टं किमपि कर्मणो निमित्तमभ्युपगम्येत तस्यासंभवान्नैवाणुष्वाद्यं कर्म स्यात् न हि तस्यामवस्थायामात्मगुणः प्रयत्नः संभवति शरीराभावात् शरीरप्रतिष्ठे हि मनस्यात्मनः संयोगे सति आत्मगुणः प्रयत्नो जायते। एतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यातव्यम्। सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं संभवति। अथादृष्टमाद्यस्य कर्मणो निमित्तमित्युच्येत तत्पुनरात्मसमवायि वा स्यात् अणुसमवायि वा उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेत अदृष्टस्याचेतनत्वात् न ह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति सांख्यपरीक्षायामभिहितम् आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात् आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यात् असंबन्धात् अदृष्टवता पुरुषेणास्त्यणूनां संबन्ध इति चेत् संबन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गः नियामकान्तराभावात्। तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म स्यात् कर्माभावात्तन्निबन्धनः संयोगो न स्यात् संयोगाभावाच्च तन्निबन्धनं द्व्युणकादि कार्यजातं न स्यात्। संयोगश्चाणोरण्वन्तरेण सर्वात्मना वा स्यात् एकदेशेन वा सर्वात्मना चेत् उपचयानुपपत्तेरणुमात्रत्वप्रसङ्गः दृष्टविपर्ययप्रसङ्गश्च प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् एकदेशेन चेत् सावयवत्वप्रसङ्गः परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्यस्यासमवायिकारणं न स्यात् असति चासमवायिकारणे द्व्यणुकादिकार्यद्रव्यं नोत्पद्येत। यथा चादिसर्गे निमित्ताभावात्संयोगोत्पत्त्यर्थं कर्म नाणूनां संभवति एवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां संभवेत् न हि तत्रापि किंचिन्नियतं तन्निमित्तं दृष्टमस्ति अदृष्टमपि भोगप्रसिद्ध्यर्थम् न प्रलयप्रसिद्ध्यर्थम् इत्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थं वा कर्म। अतश्च संयोगविभागाभावात्तदायत्तयोः सर्गप्रलययोरभावः प्रसज्येत। तस्मादनुपपन्नोऽयं परमाणुकारणवादः।।


समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः । ( ब्रसू-२,२.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणुवादनिराकरणेन संबध्यते। द्वाभ्यां चाणुभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता न चैवमभ्युपगच्छता शक्यतेऽणुकारणता समर्थयितुम् कुतः साम्यादनवस्थितेः यथैव ह्यणुभ्यामत्यन्तभिन्नं सत् द्व्यणुकं समवायलक्षणेन संबन्धेन ताभ्यां संबध्यते एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव संबन्धेन समवायिभिः संबध्येत अत्यन्तभेदसाम्यात् ततश्च तस्य तस्यान्योऽन्यः संबन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत। ननु इह प्रत्ययग्राह्यः समवायो नित्यसंबद्ध एव समवायिभिर्गृह्यते नासंबद्धः संबन्धान्तरापेक्षो वा ततश्च न तस्यान्यः संबन्धः कल्पयितव्यः येनानवस्था प्रसज्येतेति। नेत्युच्यते संयोगोऽप्येवं सति संयोगिभिर्नित्यसंबद्ध एवेति समवायवन्नान्यं संबन्धमपेक्षेत। अथार्थान्तरत्वात्संयोगः संबन्धान्तरमपेक्षेत समवायोऽपि तर्ह्यर्थान्तरत्वात्संबन्धान्तरमपेक्षेत। न च गुणत्वात्संयोगः संबन्धान्तरमपेक्षते न समवायः अगुणत्वादिति युज्यते वक्तुम् अपेक्षाकारणस्य तुल्यत्वात् गुणपरिभाषायाश्चातन्त्रत्वात्। तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्था प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेर्द्वाभ्यामणुभ्यां द्व्यणुकं नैवोत्पद्येत तस्मादप्यनुपपन्नः परमाणुकारणवादः।।


नित्यम् एव च भावात् । ( ब्रसू-२,२.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि चाणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा उभयस्वभावा वा अनुभयस्वभावा वा अभ्युपगम्यन्ते गत्यन्तराभावात् चतुर्धापि नोपपद्यते प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात्प्रलयाभावप्रसङ्गः निवृत्तिस्वभावत्वेऽपि नित्यमेव निवृत्तेर्भावात्सर्गाभावप्रसङ्गः उभयस्वभावत्वं च विरोधादसमञ्जसम् अनुभयस्वभावत्वे तु निमित्तवशात्प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसंनिधानान्नित्यप्रवृत्तिप्रसङ्गः अतन्त्रत्वेऽप्यदृष्टादेर्नित्याप्रवृत्तिप्रसङ्गः। तस्मादप्यनुपपन्नः परमाणुकारणवादः।।


रूपादिमत्त्वाच् च विपर्ययो दर्शनात् । ( ब्रसू-२,२.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

सावयवानां द्रव्याणामवयवशो विभज्यमानानां यतः परो विभागो न संभवति ते चतुर्विधा रूपादिमन्तः परमाणवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति स तेषामभ्युपगमो निरालम्बन एव यतो रूपादिमत्त्वात्परमाणूनामणुत्वनित्यत्वविपर्ययः प्रसज्येत परमकारणापेक्षया स्थूलत्वमनित्यत्वं च तेषामभिप्रेतविपरीतमापद्येतेत्यर्थः। कुतः एवं लोके दृष्टत्वात् यद्धि लोके रूपादिमद्वस्तु तत् स्वकारणापेक्षया स्थूलमनित्यं च दृष्टम् तद्यथा पटस्तन्तूनपेक्ष्य स्थूलोऽनित्यश्च भवति तन्तवश्चांशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति तथा चामी परमाणवो रूपादिमन्तस्तैरभ्युपगम्यन्ते तस्मात्तेऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति। यच्च नित्यत्वे कारणं तैरुक्तम् सदकारणवन्नित्यम् इति तदप्येवं सति अणुषु न संभवति उक्तेन प्रकारेणाणूनामपि कारणवत्त्वोपपत्तेः। यदपि नित्यत्वे द्वितीयं कारणमुक्तम् अनित्यमिति च विशेषतः प्रतिषेधाभावः इति तदपि नावश्यं परमाणूनां नित्यत्वं साधयति असति हि यस्मिन्कस्िम्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते न पुनः परमाणुनित्यत्वमेवापेक्ष्यते तच्चास्त्येव नित्यं परमकारणं ब्रह्म न च शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात्। यदपि नित्यत्वे तृतीयं कारणमुक्तम् अविद्या च इति तद्यद्येवं विव्रीयेत सतां परिदृश्यमानकार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति ततो द्व्यणुकनित्यताप्यापद्येत अथाद्रव्यत्वे सतीति विशेष्येत तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत तस्य च प्रागेवोक्तत्वात् अविद्या च इति पुनरुक्तं स्यात् अथापि कारणविभागात्कारणविनाशाच्चान्यस्य तृतीयस्य विनाशहेतोरसंभवोऽविद्या सा परमाणूनां नित्यत्वं ख्यापयति इति व्याख्यायेत नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनष्टुमर्हतीति नियमोऽस्ति संयोगसचिवे ह्यनेकस्मिंश्च द्रव्ये द्रव्यान्तरस्यारम्भकेऽभ्युपगम्यमान एतदेवं स्यात् यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते तदा घृतकाठिन्यविलयनवन्मूर्त्यवस्थाविलयनेनापि विनाश उपपद्यते। तस्माद्रूपादिमत्त्वात्स्यादभिप्रेतविपर्ययः परमाणूनाम्। तस्मादप्यनुपपन्नः परमाणुकारणवादः।।


उभयथा च दोषात् । ( ब्रसू-२,२.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी रूपरसस्पर्शगुणाः सूक्ष्मा आपः रूपस्पर्शगुणं सूक्ष्मतरं तेजः स्पर्शगुणः सूक्ष्मतमो वायुः इत्येवमेतानि चत्वारि भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमतारतम्योपेतानि च लोके लक्ष्यन्ते तद्वत्परमाणवोऽप्युपचितापचितगुणाः कल्पेरन् न वा उभयथापि च दोषानुषङ्गोऽपरिहार्य एव स्यात्। कल्प्यमाने तावदुपचितापचितगुणत्वे उपचितगुणानां मूर्त्युपचयादपरमाणुत्वप्रसङ्गः न चान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्येत कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात्। अकल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्व एकैकगुणा एव कल्प्येरन् ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात् अप्सु रूपस्पर्शयोः पृथिव्यां च रसरूपस्पर्शानाम् कारणगुणपूर्वकत्वात्कार्यगुणानाम् अथ सर्वे चतुर्गुणा एव कल्प्येरन् ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात् तेजसि गन्धरसयोः वायौ च गन्धरूपरसानाम्। न चैवं दृश्यते। तस्मादप्यनुपपन्नः परमाणुकारणवादः।।


अपरिग्रहाच् चात्यन्तम् अनपेक्षा । ( ब्रसू-२,२.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्मन्वादिभिः सत्कार्यत्वाद्यंशोपजीवनाभिप्रायेणोपनिबद्धः अयं तु परमाणुकारणवादो न कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभिः। अपि च वैशेषिकास्तन्त्रार्थभूतान् षट्पदार्थान् द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यान् अत्यन्तभिन्नान् भिन्नलक्षणान् अभ्युपगच्छन्ति यथा मनुष्योऽश्वः शश इति तथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणामभ्युपगच्छन्ति तन्नोपपद्यते कथम् यथा हि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतां नेतरेतराधीनत्वं भवति एवं द्रव्यादीनामप्यत्यन्तभिन्नत्वात् नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति अथ भवति द्रव्याधीनत्वं गुणादीनाम् ततो द्रव्यभावे भावाद्द्रव्याभावेऽभावाद्द्रव्यमेव संस्थानादिभेदादनेकशब्दप्रत्ययभाग्भवति यथा देवदत्त एक एव सन् अवस्थान्तरयोगादनेकशब्दप्रत्ययभाग्भवति तद्वत् तथा सति सांख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम्। नन्वग्नेरन्यस्यापि सतो धूमस्याग्न्यधीनत्वं दृश्यते सत्यं दृश्यते भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयते इह तु शुक्लः कम्बलः रोहिणी धेनुः नीलमुत्पलम् इति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषणेन प्रतीयमानत्वात् नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्ति तस्माद्द्रव्यात्मकता गुणस्य। एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता।।

गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यद्युच्येत तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यात् अपृथक्कालत्वं वा अपृथक्स्वभावत्वं वा सर्वथापि नोपपद्यते अपृथग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येत कथम् तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते न पटदेशः पटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते न तन्तुदेशाः तथा चाहुः द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् इति तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते तन्तुगताश्च गुणाः शुक्लादयः कार्यद्रव्ये पटे शुक्लादिगुणान्तरमारभन्ते इति हि तेऽभ्युपगच्छन्ति सोऽभ्युपगमो द्रव्यगुणयोरपृथग्देशत्वेऽभ्युपगम्यमाने बाध्येत। अथ अपृथक्कालत्वमयुतसिद्धत्वमुच्येत सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत। तथा अपृथक्स्वभावत्वे त्वयुतसिद्धत्वे न द्रव्यगुणयोरात्मभेदः संभवति तस्य तादात्म्येनैव प्रतीयमानत्वात्।।

युतसिद्धयोः संबन्धः संयोगः अयुतसिद्धयोस्तु समवायः इत्ययमभ्युपगमो मृषैव तेषाम् प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्वानुपपत्तेः। अथान्यतरापेक्ष एवायमभ्युपगमः स्यात् अयुतसिद्धस्य कार्यस्य कारणेन संबन्धः समवाय इति एवमपि प्रागसिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन संबन्धो नोपपद्यते द्वयायत्तत्वात्संबन्धस्य। सिद्धं भूत्वा संबध्यत इति चेत् प्राक्कारणसंबन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्येते इतीदमुक्तं दुरुक्तं स्यात्। यथा चोत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्यान्तरैः संबन्धः संयोग एवाभ्युपगम्यते न समवायः एवं कारणद्रव्येणापि संबन्धः संयोग एव स्यात् न समवायः। नापि संयोगस्य समवायस्य वा संबन्धस्य संबन्धिव्यतिरेकेणास्तित्वे किंचित्प्रमाणमस्ति संबन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत् न एकत्वेऽपि स्वरूपबाह्यरूपापेक्षया अनेकशब्दप्रत्ययदर्शनात्। यथैकोऽपि सन् देवदत्तो लोके स्वरूपं संबन्धिरूपं चापेक्ष्य अनेकशब्दप्रत्ययभाग्भवति मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामातेति यथा चैकापि सती रेखा स्थानान्यत्वेन निविशमाना एकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति तथा संबन्धिनोरेव संबन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वम् न व्यतिरिक्तवस्त्वस्तित्वेन इत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेः अभावः वस्त्वन्तरस्य नापि संबन्धिविषयत्वे संबन्धशब्दप्रत्यययोः संततभावप्रसङ्गः स्वरूपबाह्यरूपापेक्षयेति उक्तोत्तरत्वात्। तथाण्वात्ममनसामप्रदेशत्वान्न संयोगः संभवति प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात् कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत् न अविद्यमानार्थकल्पनायां सर्वार्थसिद्धिप्रसङ्गात् इयानेवाविद्यमानो विरुद्धोऽविरुद्धो वा अर्थः कल्पनीयः नातोऽधिकः इति नियमहेत्वभावात् कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसंभवाच्च न च वैशेषिकैः कल्पितेभ्यः ष़ड्भ्यः पदार्थेभ्योऽन्येऽधिकाः शतं सहस्रं वा अर्था न कल्पयितव्या इति निवारको हेतुरस्ति तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिध्येत् कश्चित्कृपालुः प्राणिनां दुःखबहुलः संसार एव मा भूदिति कल्पयेत् अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत् कस्तयोर्निवारकः स्यात्। किंचान्यत् द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः न ह्याकाशस्य पृथिव्यादीनां च जतुकाष्ठवत्संश्लेषोऽस्ति कार्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत् न इतरेतराश्रयत्वात् कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिः आश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धिः कुण्डबदरवत् इतीतरेतराश्रयता स्यात् न हि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात्।।

किंचान्यत् परमाणूनां परिच्छिन्नत्वात् यावत्यो दिशः षट् अष्टौ दश वातावद्भिरवयवैः सावयवास्ते स्युः सावयवत्वादनित्याश्च इति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येत। यांस्त्वं दिग्भेदभेदिनोऽवयवान्कल्पयसि त एव परमाणव इति चेत् न स्थूलसूक्ष्मतारतम्यक्रमेण आ परमकारणाद्विनाशोपपत्तेः यथा पृथिवी द्व्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूतापि विनश्यति ततः सूक्ष्मं सूक्ष्मतरं च पृथिव्येकजातीयकं विनश्यति ततः द्व्यणुकम् तथा परमाणवोऽपि पृथिव्येकजातीयकत्वाद्विनश्येयुः। विनश्यन्तोऽप्यवयवविभागेनैव विनश्यन्तीति चेत् नायं दोषः यतो घृतकाठिन्यविलयनवदपि विनाशोपपत्तिमवोचाम यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगात् द्रवभावापत्त्या काठिन्यविनाशो भवति एवं परमाणूनामपि परमकारणभावापत्त्या मूर्त्यादिविनाशो भविष्यति। तथा कार्यारम्भोऽपि नावयवसंयोगेनैव केवलेन भवति क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दधिहिमादिकार्यारम्भदर्शनात्। तदेवमसारतरतर्कसंदृब्धत्वादीश्वरकारणश्रुतिविरुद्धत्वाच्छ्रुतिप्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षा अस्मिन्परमाणुकारणवादे कार्या आर्यैः श्रेयोर्थिभिरिति वाक्यशेषः।।

समुदायाधिकरणम्[सम्पाद्यताम्]

समुदाय उभयहेतुकेऽपि तदप्राप्तिः । ( ब्रसू-२,२.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

वैशेषिकराद्धान्तो दुर्युक्तियोगाद्वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम् सोऽर्धवैनाशिक इति वैनाशिकत्वसाम्यात्सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य इतीदमिदानीमुपपादयामः। स च बहुप्रकारः प्रतिपत्तिभेदाद्विनेयभेदाद्वा तत्रैते त्रयो वादिनो भवन्ति केचित्सर्वास्तित्ववादिनः केचिद्विज्ञानास्तित्वमात्रवादिनः अन्ये पुनः सर्वशून्यत्ववादिन इति। तत्र ये सर्वास्तित्ववादिनो बाह्यमान्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकं च चित्तं चैत्तं च तांस्तावत्प्रतिब्रूमः। तत्र भूतं पृथिवीधात्वादयः भौतिकं रूपादयश्चक्षुरादयश्च चतुष्टये च पृथिव्यादिपरमाणवः खरस्नेहोष्णेरणस्वभावाः ते पृथिव्यादिभावेन संहन्यन्ते इति मन्यन्ते तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्चस्कन्धाः तेऽप्याध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्ते इति मन्यन्ते।।

तत्रेदमभिधीयते योऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतः अणुहेतुकश्च भूतभौतिकसंहतिरूपः स्कन्धहेतुकश्च पञ्चस्कन्धीरूपः तस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे तदप्राप्तिः स्यात् समुदायाप्राप्तिः समुदायभावानुपपत्तिरित्यर्थः कुतः समुदायिनामचेतनत्वात् चित्ताभिज्वलनस्य च समुदायसिद्ध्यधीनत्वात् अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात् निरपेक्षप्रवृत्त्यभ्युपगमे च प्रवृत्त्यनुपरमप्रसङ्गात् आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात् क्षणिकत्वाभ्युपगमाच्च निर्व्यापारत्वात्प्रवृत्त्यनुपपत्तेः। तस्मात्समुदायानुपपत्तिः समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत।।


इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात् । ( ब्रसू-२,२.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा तस्यां चोपपद्यमानायां न किंचिदपरमपेक्षितव्यमस्ति ते चाविद्यादयः अविद्या संस्कारः विज्ञानं नाम रूपं षडायतनं स्पर्शः वेदना तृष्णा उपादानं भवः जातिः जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्ता इत्येवंजातीयका इतरेतरहेतुकाः सौगते समये क्वचित्संक्षिप्ता निर्दिष्टाः क्वचित्प्रपञ्चिताः सर्वेषामप्ययमविद्यादिकलापोऽप्रत्याख्येयः तदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्नः संघात इति चेत् तन्न कस्मात् उत्पत्तिमात्रनिमित्तत्वात् भवेदुपपन्नः संघातः यदि संघातस्य किंचिन्निमित्तमवगम्येत न त्ववगम्यते यत इतरेतरप्रत्ययत्वेऽप्यविद्यादीनां पूर्वपूर्वम् उत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवत् भवेत् न तु संघातोत्पत्तेः किंचिन्निमित्तं संभवति। नन्वविद्यादिभिरर्थादाक्षिप्यते संघात इत्युक्तम् अत्रोच्यते यदि तावदयमभिप्रायः अविद्यादयः संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति ततस्तस्य संघातस्य किंचिन्निमित्तं वक्तव्यम् तच्च नित्येष्वप्यणुष्वभ्युगम्यमानेष्वाश्रयाश्रयिभूतेषु च भोक्तृषु सत्सु न संभवतीत्युक्तं वैशेषिकपरीक्षायाम् किमङ्ग पुनः क्षणिकेष्वप्यणुषु भोक्तृरहितेष्वाश्रयाश्रयिशून्येषु वाभ्युपगम्यमानेषु संभवेत् अथायमभिप्रायः अविद्यादय एव संघातस्य निमित्तमिति कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः अथ मन्यसे संघाता एवानादौ संसारे संतत्यानुवर्तन्ते तदाश्रयाश्चाविद्यादय इति तदापि संघातात्संघातान्तरमुत्पद्यमानं नियमेन वा सदृशमेवोत्पद्येत अनियमेन वा सदृशं विसदृशं वोत्पद्येत नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात् अनियमाभ्युपगमेऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् उभयमप्यभ्युपगमविरुद्धम्। अपि च यद्भोगार्थः संघातः स्यात् स जीवो नास्ति स्थिरो भोक्ता इति तवाभ्युपगमः ततश्च भोगो भोगार्थ एव स नान्येन प्रार्थनीयः तथा मोक्षो मोक्षार्थ एवेति मुमुक्षुणा नान्येन भवितव्यम् अन्येन चेत्प्रार्थ्येतोभयम् भोगमोक्षकालावस्थायिना तेन भवितव्यम् अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः। तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेत् भवतु नाम न तु संघातः सिध्येत् भोक्त्रभावात् इत्यभिप्रायः।।


उत्तरोत्पादे च पूर्वनिरोधात् । ( ब्रसू-२,२.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

उक्तमेतत् अविद्यादीनामुत्पत्तिमात्रनिमित्तत्वान्न संघातसिद्धिरस्तीति तदपि तु उत्पत्तिमात्रनिमित्तत्वं न संभवतीतीदमिदानीमुपपाद्यते। क्षणभङ्गवादिनोऽयमभ्युपगमः उत्तरस्मिन्क्षणे उत्पद्यमाने पूर्वः क्षणो निरुध्यत इति न चैवमभ्युपगच्छता पूर्वोत्तरयोः क्षणयोर्हेतुफलभावः शक्यते संपादयितुम् निरुध्यमानस्य निरुद्धस्य वा पूर्वक्षणस्याभावग्रस्तत्वादुत्तरक्षणहेतुत्वानुपपत्तेः अथ भावभूतः परिनिष्पन्नावस्थः पूर्वक्षण उत्तरक्षणस्य हेतुरित्यभिप्रायः तथापि नोपपद्यते भावभूतस्य पुनर्व्यापारकल्पनायां क्षणान्तरसंबन्धप्रसङ्गात् अथ भाव एवास्य व्यापार इत्यभिप्रायः तथापि नैवोपपद्यते हेतुस्वभावानुपरक्तस्य फलस्योत्पत्त्यसंभवात् स्वभावोपरागाभ्युपगमे च हेतुस्वभावस्य फलकालावस्थायित्वे सति क्षणभङ्गाभ्युपगमत्यागप्रसङ्गः विनैव वा स्वभावोपरागेण हेतुफलभावमभ्युपगच्छतः सर्वत्र तत्प्राप्तेरतिप्रसङ्गः। अपि चोत्पादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्याताम् अवस्थान्तरं वा वस्त्वन्तरमेव वा सर्वथापि नोपपद्यते यदि तावद्वस्तुनः स्वरूपमेवोत्पादनिरोधौ स्याताम् ततो वस्तुशब्द उत्पादनिरोधशब्दौ च पर्यायाः प्राप्नुयुः अथास्ति कश्चिद्विशेष इति मन्येत उत्पादनिरोधशब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिलप्येते इति एवमप्याद्यन्तमध्यक्षणत्रयसंबन्धित्वाद्वस्तुनः क्षणिकत्वाभ्युपगमहानिः अथात्यन्तव्यतिरिक्तावेवोत्पादनिरोधौ वस्तुनः स्याताम् अश्वमहिषवत् ततो वस्तु उत्पादनिरोधाभ्यामसंस्पृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः यदि च दर्शनादर्शने वस्तुन उत्पादनिरोधौ स्याताम् एवमपि द्रष्टृधर्मौ तौ न वस्तुधर्माविति वस्तुनः शाश्वतत्वप्रसङ्ग एव। तस्मादप्यसंगतं सौगतं मतम्।।


असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । ( ब्रसू-२,२.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

क्षणभङ्गवादे पूर्वक्षणो निरोधग्रस्तत्वान्नोत्तरस्य क्षणस्य हेतुर्भवतीत्युक्तम् अथासत्येव हेतौ फलोत्पत्तिं ब्रूयात् ततः प्रतिज्ञोपरोधः स्यात् चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इतीयं प्रतिज्ञा हीयेत निर्हेतुकायां चोत्पत्तावप्रतिबन्धात्सर्वं सर्वत्रोत्पद्येत। अथोत्तरक्षणोत्पत्तिर्यावत्तावदवतिष्ठते पूर्वक्षण इति ब्रूयात् ततो यौगपद्यं हेतुफलयोः स्यात् तथापि प्रतिज्ञोपरोध एव स्यात् क्षणिकाः सर्वे संस्कारा इतीयं प्रतिज्ञोपरुध्येत।।


प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् । ( ब्रसू-२,२.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च वैनाशिकाः कल्पयन्ति बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं चेति तदपि च त्रयम् प्रतिसंख्याप्रतिसंख्यानिरोधौ आकाशं चेत्याचक्षते त्रयमपि चैतत् अवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्ते बुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते तद्विपरीतोऽप्रतिसंख्यानिरोधः आवरणाभावमात्रमाकाशमिति। तेषामाकाशं परस्तात्प्रत्याख्यास्यति निरोधद्वयमिदानीं प्रत्याचष्टे प्रतिसंख्याप्रतिसंख्यानिरोधयोः अप्राप्तिरसंभव इत्यर्थः कस्मात् अविच्छेदात् एतौ हि प्रतिसंख्याप्रतिसंख्यानिरोधौ संतानगोचरौ वा स्याताम् भावगोचरौ वा न तावत्संतानगोचरौ संभवतः सर्वेष्वपि संतानेषु संतानिनामविच्छिन्नेन हेतुफलभावेन संतानविच्छेदस्यासंभवात् नापि भावगोचरौ संभवतः न हि भावानां निरन्वयो निरुपाख्यो विनाशः संभवति सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेददर्शनात् अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात्। तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपत्तिः।।


उभयथा च दोषात् । ( ब्रसू-२,२.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

योऽयमविद्यादिनिरोधः प्रतिसंख्यानिरोधान्तःपाती परपरिकल्पितः स सम्यग्ज्ञानाद्वा सपरिकरात्स्यात् स्वयमेव वा पूर्वस्मिन्विकल्पे निर्हेतुकविनाशाभ्युपगमहानिप्रसङ्गः उत्तरस्मिंस्तु मार्गोपदेशानर्थक्यप्रसङ्गः। एवमुभयथापि दोषप्रसङ्गादसमञ्जसमिदं दर्शनम्।।


आकाशे चाविशेषात् । ( ब्रसू-२,२.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं च निरुपाख्यमिति तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम् आकाशस्येदानीं निराक्रियते। आकाशे चायुक्तो निरुपाख्यत्वाभ्युपगमः प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्रतिपत्तेरविशेषात्। आगमप्रामाण्यात्तावत् आत्मन आकाशः संभूतः इत्यादिश्रुतिभ्य आकाशस्य च वस्तुत्वप्रसिद्धिः। विप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यम् गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात्। अपि च आवरणाभावमात्रमाकाशमिच्छताम् एकस्मिन्सुपर्णे पतत्यावरणस्य विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतोऽनवकाशत्वप्रसङ्गः यत्रावरणाभावस्तत्र पतिष्यतीति चेत् येनावरणाभावो विशेष्यते तत्तर्हि वस्तुभूतमेवाकाशं स्यात् न आवरणाभावमात्रम् अपि च आवरणाभावमात्रमाकशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोधः प्रसज्येत सौगते हि समये पृथिवी भगवः किंसंनिश्रया इत्यस्मिन्प्रश्नप्रतिवचनप्रवाहे पृथिव्यादीनामन्ते वायुः किंसंनिश्रयः इत्यस्य प्रश्नस्य प्रतिवचनं भवति वायुराकाशसंनिश्रयः इति तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात् तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम्। अपि च निरोधद्वयमाकाशं च त्रयमप्येतन्निरुपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम् न ह्यवस्तुनो नित्यत्वमनित्यत्वं वा संभवति वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य धर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यात् न निरुपाख्यत्वम्।।


अनुस्मृतेश् च । ( ब्रसू-२,२.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च वैनाशिकः सर्वस्य वस्तुनः क्षणिकतामभ्युपयन् उपलब्धुरपि क्षणिकतामभ्युपेयात् न च सा संभवति अनुस्मृतेः अनुभवम् उपलब्धिमनूत्पद्यमानं स्मरणमेव अनुस्मृतिः सा चोपलब्ध्येककर्तृका सती संभवति पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात् कथं हि अहमदोऽद्राक्षम् इदमिदानीं पश्यामि इति च पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात्। अपि च दर्शनस्मरणयोः कर्तर्येकस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धः अहमदोऽद्राक्षम् इदं पश्यामि इति यदि हि तयोर्भिन्नः कर्ता स्यात् ततः अहं स्मरामि अद्राक्षीदन्यः इति प्रतीयात् न त्वेवं प्रत्येति कश्चित् यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोकोऽवगच्छति स्मराम्यहम् असावदोऽद्राक्षीत् इति इह तु अहमदोऽद्राक्षम् इति दर्शनस्मरणयोर्वैनाशिकोऽप्यात्मानमेवैकं कर्तारमवगच्छति न नाहम् इत्यात्मनो दर्शनं निर्वृत्तं निह्नुते यथा अग्निरनुष्णोऽप्रकाश इति वा। तत्रैवं सत्येकस्य दर्शनस्मरणलक्षणक्षणद्वयसंबन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात्। तथा अनन्तरामनन्तरामात्मन एव प्रतिपत्तिं प्रत्यभिजानन्नेककर्तृकाम् आ उत्तमादुच्छ्वासात् अतीताश्च प्रतिपत्तीः आ जन्मन आत्मैककर्तृकाः प्रतिसंदधानः कथं क्षणभङ्गवादी वैनाशिको नापत्रपेत स यदि ब्रूयात् सादृश्यादेतत्संपत्स्यत इति तं प्रतिब्रूयात् तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य क्षणभङ्गवादिनः सदृशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात् सादृश्यनिमित्तं प्रतिसंधानमिति मिथ्याप्रलाप एव स्यात् स्याच्चेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः तथा सत्येकस्य क्षणद्वयावस्थानात्क्षणिकत्वप्रतिज्ञा पीड्येत तेनेदं सदृशम् इति प्रत्ययान्तरमेवेदम् न पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमिति चेत् न तेन इदम् इति भिन्नपदार्थोपादानात् प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात् तेनेदं सदृशम् इति वाक्यप्रयोगोऽनर्थकः स्यात् सादृश्यम् इत्येव प्रयोगः प्राप्नुयात्। यदा हि लोके प्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते तदा स्वपक्षसिद्धिः परपक्षदोषो वा उभयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन न बुद्धिसंतानमारोहति। एवमेवैषोऽर्थः इति निश्चितं यत् तदेव वक्तव्यम् ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत्। न चायं सादृश्यात्संव्यवहारो युक्तः तद्भावावगमात् तत्सदृशभावानवगमाच्च। भवेदपि कदाचिद्बाह्यवस्तुनि विप्रलम्भसंभवात् तदेवेदं स्यात् तत्सदृशं वा इति संदेहः उपलब्धरि तु संदेहोऽपि न कदाचिद्भवति स एवाहं स्यां तत्सदृशो वा इति य एवाहं पूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामि इति निश्चिततद्भावोपलम्भात्। तस्मादप्यनुपपन्नो वैनाशिकसमयः।।


नासतोऽदृष्टत्वात् । ( ब्रसू-२,२.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्चानुपपन्नो वैनाशिकसमयः यतः स्थिरमनुयायिकारणमनभ्युपगच्छताम् अभावाद्भावोत्पत्तिरित्येतदापद्येत दर्शयन्ति चाभावाद्भावोत्पत्तिम् नानुपमृद्य प्रादुर्भावात् इति विनष्टाद्धि किल बीजादङ्कुर उत्पद्यते तथा विनष्टात्क्षीराद्दधि मृत्पिण्डाच्च घटः कूटस्थाच्चेत्कारणात्कार्यमुत्पद्येत अविशेषात्सर्वं सर्वत उत्पद्येत तस्मादभावग्रस्तेभ्यो बीजादिभ्योऽङ्कुरादीनामुत्पद्यमानत्वादभावाद्भावोत्पत्तिः इति मन्यन्ते। तत्रेदमुच्यते नासतोऽदृष्टत्वात् इति। नाभावाद्भाव उत्पद्यते यद्यभावाद्भाव उत्पद्येत अभावत्वाविशेषात्कारणविशेषाभ्युपगमोऽनर्थकः स्यात् न हि बीजादीनामुपमृदितानां योऽभावस्तस्याभावस्य शशविषाणादीनां च निःस्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषोऽस्ति येन बीजादेवाङ्कुरो जायते क्षीरादेव दधि इत्येवंजातीयकः कारणविशेषाभ्युपगमोऽर्थवान्स्यात् निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्योऽप्यङ्कुरादयो जायेरन् न चैवं दृश्यते यदि पुनरभावस्यापि विशेषोऽभ्युपगम्येत उत्पलादीनामिव नीलत्वादिः ततो विशेषवत्त्वादेवाभावस्य भावत्वमुत्पलादिवत्प्रसज्येत नाप्यभावः कस्यचिदुत्पत्तिहेतुः स्यात् अभावत्वादेवशशविषाणादिवत् अभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्यं स्यात् न चैवं दृश्यते सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात् न च मृदन्विताः शरावादयो भावास्तन्त्वादिविकाराः केनचिदभ्युपगम्यन्ते मृद्विकारानेव तु मृदन्वितान्भावान् लोकः प्रत्येति। यत्तूक्तम् स्वरूपोपमर्दमन्तरेण कस्यचित्कूटस्थस्य वस्तुनः कारणत्वानुपपत्तेरभावाद्भावोत्पत्तिर्भवितुमर्हतीति तद्दुरुक्तम् स्थिरस्वभावानामेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकारणभावदर्शनात् येष्वपि बीजादिषु स्वरूपोपमर्दो लक्ष्यते तेष्वपि नासावुपमृद्यमाना पूर्वावस्था उत्तरावस्थायाः कारणमभ्युपगम्यते अनुपमृद्यमानानामेवानुयायिनां बीजाद्यवयवानामङ्कुरादिकारणभावाभ्युपगमात्। तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात् सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनात् अनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः। अपि च चतुर्भिश्चित्तचैत्ता उत्पद्यन्ते परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यते इत्यभ्युपगम्य पुनरभावाद्भावोत्पत्तिं कल्पयद्भिरभ्युपगममपह्नुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते।।


उदासीनानाम् अपि चैवं सिद्धिः । ( ब्रसू-२,२.२६ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत एवं सत्युदासीनानामनीहमानानामपि जनानामभिमतसिद्धिः स्यात् अभावस्य सुलभत्वात्। कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात् कुलालस्य च मृत्संस्क्रियायामप्रयतमानस्यापि अमत्रोत्पत्तिः। तन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभः स्वर्गापवर्गयोश्च न कश्चित्कथंचित्समीहेत। न चैतद्युज्यते अभ्युपगम्यते वा केनचित्। तस्मादनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः।।

अभावाधिकरणम्[सम्पाद्यताम्]

नाभाव उपलब्धेः । ( ब्रसू-२,२.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

एवं बाह्यार्थवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठते केषांचित्किल विनेयानां बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरचिता। नासौ सुगताभिप्रायः। तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः। तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते सत्यपि बाह्यार्थे बुद्ध्यारोहमन्तरेण प्रमाणादिव्यवहारानवतारात्। कथं पुनरवगम्यते अन्तस्थ एवायं सर्वव्यवहारः न विज्ञानव्यतिरिक्तो बाह्योऽर्थोऽस्तीति तदसंभवादित्याह स हि बाह्योऽर्थोऽभ्युपगम्यमानः परमाणवो वा स्युः तत्समूहा वा स्तम्भादयः स्युः तत्र न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति परमाण्वाभासज्ञानानुपपत्तेः नापि तत्समूहाः स्तम्भादयः तेषां परमाणुभ्योऽन्यत्वानन्यत्वाभ्यां निरूपयितुमशक्यत्वात्। एवं जात्यादीनपि प्रत्याचक्षीत। अपि च अनुभवमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातः स्तम्भज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम् अङ्गीकृते च तस्मिन्विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पना। अपि च सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति न ह्यनयोरेकस्यानुपलम्भेऽन्यस्योपलम्भोऽस्ति न चैतत्स्वभावविवेके युक्तम् प्रतिबन्धकारणाभावात् तस्मादप्यर्थाभावः। स्वप्नादिवच्चेदं द्रष्टव्यम् यथा हि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते प्रत्ययत्वाविशेषात्। कथं पुनरसति बाह्यार्थे प्रत्ययवैचित्र्यमुपपद्यते वासनावैचित्र्यादित्याह अनादौ हि संसारे बीजाङ्कुरवद्विज्ञानानां वासनानां चान्योन्यनिमित्तनैमित्तिकभावेन वैचित्र्यं न विप्रतिषिध्यते अपि च अन्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्यवगम्यते स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचित्र्यस्य उभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात् अन्तरेण तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मया अनभ्युपगम्यमानत्वात् तस्मादप्यभावो बाह्यार्थस्येति। एवं प्राप्ते

ब्रूमः नाभाव उपलब्धेरिति। न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते कस्मात् उपलब्धेः उपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थः स्तम्भः कुड्यं घटः पट इति न चोपलभ्यमानस्यैवाभावो भवितुमर्हति यथा हि कश्चिद्भुञ्जानो भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयात् नाहं भुञ्जे न वा तृप्यामि इति तद्वदिन्द्रियसंनिकर्षेण स्वयमुपलभमान एव बाह्यमर्थम् नाहमुपलभे न च सोऽस्ति इति ब्रुवन् कथमुपादेयवचनः स्यात्। ननु नाहमेवं ब्रवीमि न कंचिदर्थमुपलभे इति किं तु उपलब्धिव्यतिरिक्तं नोपलभे इति ब्रवीमि बाढमेवं ब्रवीषि निरङ्कुशत्वात्ते तुण्डस्य न तु युक्त्युपेतं ब्रवीषि यत उपलब्धिव्यतिरेकोऽपि बलादर्थस्याभ्युपगन्तव्यः उपलब्धेरेव न हि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभते उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन्सर्वे लौकिका उपलभन्ते। अतश्च एवमेव सर्वे लौकिका उपलभन्ते यत् प्रत्याचक्षाणा अपि बाह्यमर्थम् एवमाचक्षते यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासते इति तेऽपि हि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः प्रत्याख्यातुकामाश्च बाह्यमर्थम् बहिर्वत् इति वत्कारं कुर्वन्ति इतरथा हि कस्मात् बहिर्वत् इति ब्रूयुः न हि विष्णुमित्रो वन्ध्यापुत्रवदवभासते इति कश्चिदाचक्षीत तस्मात् यथानुभवं तत्त्वम् अभ्युपगच्छद्भिः बहिरेवावभासते इति युक्तम् अभ्युपगन्तुम् न तु बहिर्वत् अवभासत इति। ननु बाह्यस्यार्थस्यासंभवात् बहिर्वदवभासते इत्यध्यवसितम् नायं साधुरध्यवसायः यतः प्रमाणप्रवृत्त्यंप्रवृत्तिपूर्वकौ संभवासंभवाववधार्येते न पुनः संभवासंभवपूर्वके प्रमाणप्रवृत्त्यप्रवृत्ती यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते तत्संभवति यत्तु न केनचिदपि प्रमाणेनोपलभ्यते तन्न संभवति इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्योऽर्थ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न संभवतीत्युच्येत उपलब्धेरेव न च ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति असति विषये विषयसारूप्यानुपपत्तेः बहिरुपलब्धेश्च विषयस्य अत एव सहोपलम्भनियमोऽपि प्रत्ययविषययोरुपायोपेयभावहेतुकः न अभेदहेतुकः इत्यभ्युपगन्तव्यम्। अपि च घटज्ञानं पटज्ञानमिति विशेषणयोरेवे घटपटयोर्भेदः न विशेष्यस्य ज्ञानस्य यथा शुक्लो गौः कृष्णो गौरिति शौक्ल्यकार्ष्ण्ययोरेव भेदः न गोत्वस्य द्वाभ्यां च भेद एकस्य सिद्धो भवति एकस्माच्च द्वयोः तस्मादर्थज्ञानयोर्भेदः तथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम् अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदः न विशेषणस्य घटस्य यथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदः न विशेषणस्य क्षीरस्य तद्वत्। अपि च द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोः स्वसंवेदनेनैव उपक्षीणयोः इतरेतरग्राह्यग्राहकत्वानुपपत्तिः ततश्च विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगताः ता हीयेरन्। किंचान्यत् विज्ञानं विज्ञानमित्यभ्युपगच्छता बाह्यार्थः स्तम्भः कुड्यमित्येवंजातीयकः कस्मान्नाभ्युपगम्यत इति वक्तव्यम् विज्ञानमनुभूयत इति चेत् बाह्योऽप्यर्थोऽनुभूयत एवेति युक्तमभ्युपगन्तुम् अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते न तथा बाह्योऽप्यर्थ इति चेत् अत्यन्तविरुद्धां स्वात्मनि क्रियामभ्युपगच्छसि अग्निरात्मानं दहतीतिवत् अविरुद्धं तु लोकप्रसिद्धम् स्वात्मव्यतिरिक्तेन विज्ञानेन बाह्यार्थोऽनुभूयत इति नेच्छसि अहो पाण्डित्यं महद्दर्शितम् न चार्थव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते स्वात्मनि क्रियाविरोधादेव। ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्वे तदप्यन्येन ग्राह्यं तदप्यन्येन इत्यनवस्था प्राप्नोति अपि च प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति तदुभयमप्यसत् विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः स्वयंसिद्धस्य च साक्षिणोऽप्रत्याख्येयत्वात्। किंचान्यत् प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथते इति ब्रुवता अप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् बाढमेवम् अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वया अनुज्ञायत इति चेत् न अन्यस्यावगन्तुश्चक्षुःसाधनस्य प्रदीपादिप्रथनदर्शनात् अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यते। साक्षिणोऽवगन्तुः स्वयंसिद्धतामुपक्षिपता स्वयं प्रथते विज्ञानम् इत्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत् न विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात् अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभिः प्रसाधितम्।।


वैधर्म्याच् च न स्वप्नादिवत् । ( ब्रसू-२,२.२८ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदुक्तं बाह्यार्थापलापिना स्वप्नादिप्रत्ययवज्जागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः प्रत्ययत्वाविशेषादिति तत्प्रतिवक्तव्यम् अत्रोच्यते न स्वप्नादिप्रत्ययवज्जाग्रत्प्रत्यया भवितुमर्हन्ति कस्मात् वैधर्म्यात् वैधर्म्यं हि भवति स्वप्नजागरितयोः किं पुनर्वैधर्म्यम् बाधाबाधाविति ब्रूमः बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य मिथ्या मयोपलब्धो महाजनसमागम इति न ह्यस्ति मम महाजनसमागमः निद्राग्लानं तु मे मनो बभूव तेनैषा भ्रान्तिरुद्बभूवेति एवं मायादिष्वपि भवति यथायथं बाधः नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्यांचिदप्यवस्थायां बाध्यते। अपि च स्मृतिरेषा यत्स्वप्नदर्शनम् उपलब्धिस्तु जागरितदर्शनम् स्मृत्युपलब्ध्योश्च प्रत्यक्षमन्तरं स्वयमनुभूयते अर्थविप्रयोगसंप्रयोगात्मकम् इष्टं पुत्रं स्मरामि नोपलभे उपलब्धुमिच्छामीति। तत्रैवं सति न शक्यते वक्तुम् मिथ्या जागरितोपलब्धिः उपलब्धित्वात् स्वप्नोपलब्धिवदिति उभयोरन्तरं स्वयमनुभवता न च स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम्। अपि च अनुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुमिष्यते न च यो यस्य स्वतो धर्मो न संभवति सोऽन्यस्य साधर्म्यात्तस्य संभविष्यति न ह्यग्निरुष्णोऽनुभूयमान उदकसाधर्म्याच्छीतो भविष्यति दर्शितं तु वैधर्म्यं स्वप्नजागरितयोः।।


न भावोऽनुपलब्धेः । ( ब्रसू-२,२.२९ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदप्युक्तम् विनाप्यर्थेन ज्ञानवैचित्र्यं वासनावैचित्र्यादेवावकल्पत इति तत्प्रतिवक्तव्यम् अत्रोच्यते न भावो वासनानामुपपद्यते त्वत्पक्षेऽनुपलब्धेर्बाह्यानामर्थानाम् अर्थोपलब्धिनिमित्ता हि प्रत्यर्थं नानारूपा वासना भवन्ति अनुपलभ्यमानेषु त्वर्थेषु किंनिमित्ता विचित्रा वासना भवेयुः अनादित्वेऽप्यन्धपरंपरान्यायेनाप्रतिष्ठैवानवस्था व्यवहारलोपिनी स्यात् नाभिप्रायसिद्धिः यावप्यन्वयव्यतिरेकावर्थापलापिनोपन्यस्तौ वासनानिमित्तमेवेदं ज्ञानजातं नार्थनिमित्तमिति तावप्येवं सति प्रत्युक्तौ द्रष्टव्यौ विना अर्थोपलब्ध्या वासनानुपपत्तेः। अपि च विनापि वासनाभिरर्थोपलब्ध्युपगमात् विना त्वर्थोपलब्ध्या वासनोत्पत्त्यनभ्युपगमात् अर्थसद्भावमेवान्वयव्यतिरेकावपि प्रतिष्ठापयतः। अपि च वासना नाम संस्कारविशेषाः संस्काराश्च नाश्रयमन्तरेणावकल्पन्ते एवं लोके दृष्टत्वात् न च तव वासनाश्रयः कश्चिदस्ति प्रमाणतोऽनुपलब्धेः।।


क्षणिकत्वाच्च।(ब्रसू-२,२.२९(१)।)

भाष्यम्

शाङ्करभाष्यम्॥

यदप्यालयविज्ञानं नाम वासनाश्रयत्वेन परिकल्पितम् तदपि क्षणिकत्वाभ्युपगमादनवस्थितस्वरूपं सत् प्रवृत्तिविज्ञानवन्न वासनानामधिकरणं भवितुमर्हति न हि कालत्रयसंबन्धिन्येकस्मिन्नन्वयिन्यसति कूटस्थे वा सर्वार्थदर्शिनि देशकालनिमित्तापेक्षवासनाधीनस्मृतिप्रतिसंधानादिव्यवहारः संभवति स्थिरस्वरूपत्वे त्वालयविज्ञानस्य सिद्धान्तहानिः। अपि च विज्ञानवादेऽपिक्षणिकत्वाभ्युपगमस्य समानत्वात् यानि बाह्यार्थवादे क्षणिकत्वनिबन्धनानि दूषणान्युद्भावितानि उत्तरोत्पादे च पूर्वनिरोधात् इत्येवमादीनि तानीहाप्यनुसंधातव्यानि। एवमेतौ द्वावपि वैनाशिकपक्षौ निराकृतौ बाह्यार्थवादिपक्षो विज्ञानवादिपक्षश्च शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते। न ह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतुम् अपवादाभावे उत्सर्गप्रसिद्धेः।।


सर्वथानुपपत्तेश् च । ( ब्रसू-२,२.३० । )

भाष्यम्

शाङ्करभाष्यम्॥

किं बहुना सर्वप्रकारेण यथा यथायं वैनाशिकसमय उपपत्तिमत्त्वाय परीक्ष्यते तथा तथा सिकताकूपवद्विदीर्यत एव न कांचिदप्यत्रोपपत्तिं पश्यामः अतश्चानुपपन्नो वैनाशिकतन्त्रव्यवहारः। अपि च बाह्यार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनोऽसंबद्धप्रलापित्वम् प्रद्वेषो वा प्रजासु विरुद्धार्थप्रतिपत्त्या विमुह्येयुरिमाः प्रजा इति। सर्वथाप्यनादरणीयोऽयं सुगतसमयः श्रेयस्कामैरित्यभिप्रायः।।

एकस्मिन्नसम्भवाधिकरणम्[सम्पाद्यताम्]

नैकस्मिन्न् असम्भवात् । ( ब्रसू-२,२.३१ । )

भाष्यम्

शाङ्करभाष्यम्॥

निरस्तः सुगतसमयः विवसनसमय इदानीं निरस्यते। सप्त चैषां पदार्थाः संमताः जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम संक्षेपतस्तु द्वावेव पदार्थौ जीवाजीवाख्यौ यथायोगं तयोरेवेतरान्तर्भावात् इति मन्यन्ते। तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकाया नाम जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति। सर्वेषामप्येषामवान्तरभेदान्बहुविधान्स्वसमयपरिकल्पितान्वर्णयन्ति। सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यश्च स्यान्नास्ति चावक्तव्यश्च स्यादस्ति च नास्ति चावक्तव्यश्चेति एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति।।

अत्राचक्ष्महे नायमभ्युपगमो युक्त इति कुतः एकस्मिन्नसंभवात्। न ह्येकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः संभवति शीतोष्णवत् य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युः नैव वा तथा स्युः इतरथा हि तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात्। नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति नेति ब्रूमः निरङ्कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात् स्यादस्ति स्यान्नास्ति इत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षेऽस्तिता स्याच्च पक्षे नास्तितेति एवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्धारितासु उपदेष्टुं शक्नुयात् कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन् ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते नान्यथा अतश्चानिर्धारितार्थं शास्त्रं प्रणयन् मत्तोन्मत्तवदनुपादेयवचनः स्यात्। तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्या अस्ति वा नास्ति वा इति विकल्प्यमाना स्यात्तावदेकस्मिन्पक्षे पक्षान्तरे तु न स्यात् इत्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् । न चैषां पदार्थानामवक्तव्यत्वं संभवति अवक्तव्याश्चेन्नोच्येरन् उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च। तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वा इति प्रलपन् मत्तोन्मत्तपक्षस्यैव पक्षः स्यात् न प्रत्ययितव्यपक्षस्य। स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावः तथा पक्षे नित्यता पक्षे चानित्यताइत्यनवधारणायां प्रवृत्त्यनुपपत्तिः। अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः। एवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसंभवात् सत्त्वे चैकस्मिन्धर्मेऽसत्त्वस्य धर्मान्तरस्यासंभवात् असत्त्वे चैवं सत्त्वस्यासंभवात् असंगतमिदमार्हतं मतम्। एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः। यत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः संघाताः संभवन्तीति कल्पयन्ति तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते।।


एवं चात्माकार्त्स्न्यम् । ( ब्रसू-२,२.३२ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथैकस्मिन्धर्मिणि विरुद्धधर्मासंभवो दोषः स्याद्वादे प्रसक्तः एवमात्मनोऽपि जीवस्य अकात्स्न्र्यमपरो दोषः प्रसज्येत कथम् शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्ते शरीरपरिमाणतायां च सत्याम् अकृत्स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत शरीराणां चानवस्थितपरिमाणत्वात् मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन् न कृत्स्नं हस्तिशरीरं व्याप्नुयात् पुत्तिकाजन्म च प्राप्नुवन् न कृत्स्नः पुत्तिकाशरीरे संमीयेत समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषः। स्यादेतत् अनन्तावयवो जीवः तस्य त एवावयवा अल्पे शरीरे संकुचेयुः महति च विकसेयुरिति। तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिविहन्यते वा न वेति वक्तव्यम् प्रतिघाते तावत् नानन्तावयवाः परिच्छिन्ने देशे संमीयेरन् अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेर्जीवस्याणुमात्रत्वप्रसङ्गः स्यात् अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम्।।

अथ पर्यायेण बृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत तत्राप्युच्यते


न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः । ( ब्रसू-२,२.३३ । )

भाष्यम्

शाङ्करभाष्यम्॥

न च पर्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते कुतः विकारादिदोषप्रसङ्गात् अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम् विक्रियावत्त्वे च चर्मादिवदनित्यत्वं प्रसज्येत ततश्च बन्धमोक्षाभ्युपगमो बाध्येत कर्माष्टकपरिवेष्टितस्य जीवस्य अलाबूवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवतीति। किंचान्यत् आगच्छतामपगच्छतां च अवयवानामागमापायधर्मवत्त्वादेव अनात्मत्वं शरीरादिवत् ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् न च स निरूपयितुं शक्यते अयमसाविति। किंचान्यत् आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति अपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् न हि भूतेभ्यः प्रादुर्भवेयुः भूतेषु च निलीयेरन् अभौतिकत्वाज्जीवस्य नापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणाभावात्। किंचान्यत् अनवधृतस्वरूपश्चैवं सति आत्मा स्यात् आगच्छतामपगच्छतां च अवयवानामनियतपरिमाणत्वात् अत एवमादिदोषप्रसङ्गात् न पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्येते। अथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकात्स्न्र्यप्रसञ्जनद्वारेणानित्यतायां चोदितायाम् पुनः पर्यायेण परिमाणानवस्थानेऽपि स्रोतःसंताननित्यतान्यायेन आत्मनो नित्यता स्यात् यथा रक्तपटानां विज्ञानानवस्थानेऽपि तत्संताननित्यता तद्वद्विसिचामपि इत्याशङ्क्य अनेन सूत्रेणोत्तरमुच्यते संतानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति।।


अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः । ( ब्रसू-२,२.३४ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च अन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः तद्वत्पूर्वयोरप्याद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गः स्यात् एकशरीरपरिमाणतैव स्यात् न उपचितापचितशरीरान्तरप्राप्तिः। अथवा अन्त्यस्य जीवपरिमाणस्य अवस्थितत्वात् पूर्वयोरप्यवस्थयोरवस्थितपरिमाण एव जीवः स्यात् ततश्चाविशेषेण सर्वदैव अणुर्महान्वा जीवोऽभ्युपगन्तव्यः न शरीरपरिमाणः। अतश्च सौगतवदार्हतमपि मतमसंगतमित्युपेक्षितव्यम्।।

पत्यधिकरणम्[सम्पाद्यताम्]

पत्युर् असामञ्जस्यात् । ( ब्रसू-२,२.३५ । )

भाष्यम्

शाङ्करभाष्यम्॥

इदानीं केवलाधिष्ठात्रीश्वरकारणवादः प्रतिषिध्यते। तत्कथमवगम्यते प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् अभिध्योपदेशाच्च इत्यत्र प्रकृतिभावेन अधिष्ठातृभावेन च उभयस्वभावस्येश्वरस्य स्वयमेव आचार्येण प्रतिष्ठापितत्वात् यदि पुनरविशेषेणेश्वरकारणवादमात्रमिह प्रतिषिध्येत पूर्वोत्तरविरोधाद्व्याहताभिव्याहारः सूत्रकार इत्येतदापद्येत तस्मादप्रकृतिरधिष्ठाता केवलं निमित्तकारणमीश्वरः इत्येष पक्षो वेदान्तविहितब्रह्मैकत्वप्रतिपक्षत्वात् यत्नेनात्र प्रतिषिध्यते। सा चेयं वेदबाह्येश्वरकल्पना अनेकप्रकारा केचित्तावत्सांख्ययोगव्यपाश्रयाः कल्पयन्ति प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वरः इतरेतरविलक्षणाः प्रधानपुरुषेश्वरा इति माहेश्वरास्तु मन्यन्ते कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः पशुपतिरीश्वरो निमित्तकारणमिति तथा वैशेषिकादयोऽपि केचित्कथंचित्स्वप्रक्रियानुसारेण निमित्तकारणमीश्वरम् इति।।

अत उत्तरमुच्यते पत्युरसामञ्जस्यादिति पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते कस्मात् असामञ्जस्यात् किं पुनरसामञ्जस्यम् हीनमध्यमोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागद्वेषादिदोषप्रसक्तेः अस्मदादिवदनीश्वरत्वं प्रसज्येत। प्राणिकर्मापेक्षितत्वाददोष इति चेत् न कर्मेश्वरयोः प्रवर्त्यप्रवर्तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात्। न अनादित्वात् इति चेत् न वर्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरंपरान्यायापत्तेः। अपि च प्रवर्तनालक्षणा दोषाः इति न्यायवित्समयः न हि कश्चिददोषप्रयुक्तः स्वार्थे परार्थे वा प्रवर्तमानो दृश्यते स्वार्थप्रयुक्त एव च सर्वो जनः परार्थेऽपि प्रवर्तत इत्येवमप्यसामञ्जस्यम् स्वार्थवत्त्वादीश्वरस्यानीश्वरत्वप्रसङ्गात्। पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम्।।


सम्बन्धानुपपत्तेश्च।(ब्रसू- २,२.३६।)

भाष्यम्

शाङ्करभाष्यम्॥

पुनरप्यसामञ्जस्यमेव न हि प्रधानपुरुषव्यतिरिक्त ईश्वरोऽन्तरेण संबन्धं प्रधानपुरुषयोरीशिता न तावत्संयोगलक्षणः संबन्धः संभवति प्रधानपुरुषेश्वराणां सर्वगतत्वान्निरवयवत्वाच्च नापि समवायलक्षणः संबन्धः आश्रयाश्रयिभावानिरूपणात् नाप्यन्यः कश्चित्कार्यगम्यः संबन्धः शक्यते कल्पयितुम् कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात्। ब्रह्मवादिनः कथमिति चेत् न तस्य तादात्म्यलक्षणसंबन्धोपपत्तेः अपि च आगमबलेन ब्रह्मवादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति नियमोऽस्ति परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतः यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यतिशयः। परस्यापि सर्वज्ञप्रणीतागमसद्भावात् समानमागमबलमिति चेत् न इतरेतराश्रयप्रसङ्गात् आगमप्रत्ययात्सर्वज्ञत्वसिद्धिः सर्वज्ञत्वप्रत्ययाच्चागमसिद्धिरिति। तस्मादनुपपन्ना सांख्ययोगवादिनामीश्वरकल्पना। एवमन्यास्वपि वेदबाह्यास्वीश्वरकल्पनासु यथासंभवमसामञ्जस्यं योजयितव्यम्।।


अधिष्ठानानुपपत्तेश् च । ( ब्रसू-२,२.३६(१) । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य स हि परिकल्प्यमानः कुम्भकार इव मृदादीनि प्रधानादीन्यधिष्ठाय प्रवर्तयेत् न चैवमुपपद्यते न ह्यप्रत्यक्षं रूपादिहीनं च प्रधानमीश्वरस्याधिष्ठेयं संभवति मृदादिवैलक्षण्यात्।।


करणवच् चेन् न भोगादिभ्यः । ( ब्रसू-२,२.३७ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादिहीनं च पुरुषोऽधितिष्ठति एवं प्रधानमीश्वरोऽधिष्ठास्यतीति तथापि नोपपद्यते भोगादिदर्शनाद्धि करणग्रामस्य अधिष्ठितत्वं गम्यते न चात्र भोगादयो दृश्यन्ते करणग्रामसाम्ये च अभ्युपगम्यमाने संसारिणामिव ईश्वरस्यापि भोगादयः प्रसज्येरन्।।

अन्यथा वा सूत्रद्वयं व्याख्यायते अधिष्ठानानुपपत्तेश्च इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य साधिष्ठानो हि लोके सशरीरो राजा राष्ट्रस्येश्वरो दृश्यते न निरधिष्ठानः अतश्च तद्दृष्टान्तवशेनादृष्टमीश्वरं कल्पयितुमिच्छतः ईश्वरस्यापि किंचिच्छरीरं करणायतनं वर्णयितव्यं स्यात् न च तद्वर्णयितुं शक्यते सृष्ट्युत्तरकालभावित्वाच्छरीरस्य प्राक्सृष्टेस्तदनुपपत्तेः निरधिष्ठानत्वे चेश्वरस्य प्रवर्तकत्वानुपपत्तिः एवं लोके दृष्टत्वात्। करणवच्चेन्न भोगादिभ्यः अथ लोकदर्शनानुसारेण ईश्वरस्यापि किंचित्करणानामायतनं शरीरं कामेन कल्प्येत एवमपि नोपपद्यते सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गात् ईश्वरस्याप्यनीश्वरत्वं प्रसज्येत।।


अन्तवत्त्वम् असर्वज्ञता वा । ( ब्रसू-२,२.३८ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य स हि सर्वज्ञस्तैरभ्युपगम्यतेऽनन्तश्च अनन्तं च प्रधानम् अनन्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यन्ते तत्र सर्वज्ञेनेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा न वा परिच्छिद्येत उभयथापि दोषोऽनुषक्त एव कथम् पूर्वस्मिंस्तावद्विकल्पे इयत्तापरिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यंभावि एवं लोके दृष्टत्वात् यद्धि लोके इयत्तापरिच्छिन्नं वस्तु घटादि तदन्तवद्दृष्टम् तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत्स्यात् संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम् स्वरूपपरिमाणमपि तद्गतमीश्वरेण परिच्छिद्येत पुरुषगता च महासंख्या। ततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारान्मुच्यन्ते तेषां संसारोऽन्तवान् संसारित्वं च तेषामन्तवत् एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां च अन्तवत्त्वं स्यात् प्रधानं च सविकारं पुरुषार्थमीश्वरस्य अधिष्ठेयं संसारत्वेनाभिमतम् तच्छून्यतायाम् ईश्वरः किमधितिष्ठेत् किंविषये वा सर्वज्ञतेश्वरते स्याताम् प्रधानपुरुषेश्वराणाम् चैवमन्तवत्त्वे सति आदिमत्त्वप्रसङ्गः आद्यन्तवत्त्वे च शून्यवादप्रसङ्गः। अथ मा भूदेष दोष इत्युत्तरो विकल्पोऽभ्युपगम्येत न प्रधानस्य पुरुषाणामात्मनश्च इयत्ता ईश्वरेण परिच्छिद्यत इति तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोषः प्रसज्येत। तस्मादप्यसंगतस्तार्किकपरिगृहीत ईश्वरकारणवादः।।

उत्पत्यसम्भवाधिकरणम्[सम्पाद्यताम्]

उत्पत्त्यसंभवात् । ( ब्रसू-२,२.३९ । )

भाष्यम्

शाङ्करभाष्यम्॥

येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणमीश्वरोऽभिमतः तेषां पक्षः प्रत्याख्यातः। येषां पुनः प्रकृतिश्चाधिष्ठाता च उभयात्मकं कारणमीश्वरोऽभिमतः तेषां पक्षः प्रत्याख्यायते। ननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ्निर्धारितः प्रकृतिश्चाधिष्ठाता चेति श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः तत्कस्य हेतोरेष पक्षः प्रत्याचिख्यासित इति उच्यते यद्यप्येवंजातीयकोंऽशः समानत्वान्न विसंवादगोचरो भवति अस्ति त्वंशान्तरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारम्भः।।

तत्र भागवता मन्यते भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वम् स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितः वासुदेवव्यूहरूपेण संकर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेण अनिरुद्धव्यूहरूपेण च वासुदेवो नाम परमात्मा उच्यते संकर्षणो नाम जीवः प्रद्युम्नो नाम मनः अनिरुद्धो नाम अहंकारः तेषां वासुदेवः परा प्रकृतिः इतरे संकर्षणादयः कार्यम् तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति। तत्र यत्तावदुच्यते योऽसौ नारायणः परोऽव्यक्तात्प्रसिद्धः परमात्मा सर्वात्मा स आत्मनात्मानमनेकधा व्यूह्यावस्थित इति तन्न निराक्रियते स एकधा भवति त्रिधा भवति इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधाभावस्याधिगतत्वात् यदपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते तदपि न प्रतिषिध्यते श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात्। यत्पुनरिदमुच्यते वासुदेवात्संकर्षण उत्पद्यते संकर्षणाच्च प्रद्युम्नः प्रद्युम्नाच्चानिरुद्ध इति अत्र ब्रूमः न वासुदेवसंज्ञकात्परमात्मनः संकर्षणसंज्ञकस्य जीवस्योत्पत्तिः संभवति अनित्यत्वादिदोषप्रसङ्गात् उत्पत्तिमत्त्वे हि जीवस्य अनित्यत्वादयो दोषाः प्रसज्येरन् ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् कारणप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात् प्रतिषेधिष्यति च आचार्यो जीवस्योत्पत्तिम् नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः इति। तस्मादसंगतैषा कल्पना।।


न च कर्तुः करणम् । ( ब्रसू-२,२.४० । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्चासंगतैषा कल्पना यस्मान्न हि लोके कर्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते वर्णयन्ति च भागवताः कर्तुर्जीवात्संकर्षणसंज्ञकात्करणं मनः प्रद्युम्नसंज्ञकमुत्पद्यते कर्तृजाच्च तस्मादनिरुद्धसंज्ञकोऽहंकार उत्पद्यत इति न चैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः न चैवंभूतां श्रुतिमुपलभामहे।।


विज्ञानादिभावे वा तदप्रतिषेधः । ( ब्रसू-२,२.४१ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथापि स्यात् न चैते संकर्षणादयो जीवादिभावेनाभिप्रेयन्ते किं तर्हि ईश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वर्यधर्मैरन्विता अभ्युपगम्यन्ते वासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति तस्मान्नायं यथावर्णित उत्पत्त्यसंभवो दोषः प्राप्नोतीति। अत्रोच्यते एवमपि तदप्रतिषेधः उत्पत्त्यसंभवस्याप्रतिषेधः प्राप्नोत्येवायमुत्पत्त्यसंभवो दोषः प्रकारान्तरेणेत्यभिप्रायः कथम् यदि तावदयमभिप्रायः परस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणः नैषामेकात्मकत्वमस्तीति ततोऽनेकेश्वरकल्पनानर्थक्यम् एकेनैवेश्वरेणेश्वरकार्यसिद्धेः सिद्धान्तहानिश्च भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात्। अथायमभिप्रायः एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति तथापि तदवस्थ एवोत्पत्त्यसंभवः न हि वासुदेवात्संकर्षणस्योत्पत्तिः संभवति संकर्षणाच्च प्रद्युम्नस्य प्रद्युम्नाच्चानिरुद्धस्य अतिशयाभावात् भवितव्यं हि कार्यकारणयोरतिशयेन यथा मृद्धटयोः न ह्यसत्यतिशये कार्यं कारणमित्यवकल्पते। न च पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिषु एकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदोऽभ्युपगम्यते वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते। न चैते भगवद्व्यूहाश्चतुःसंख्यायामेवावतिष्ठेरन् ब्रह्मादिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात्।।

विप्रतिषेधाच् च । ( ब्रसू-२,२.४२ । )

भाष्यम्

शाङ्करभाष्यम्॥

विप्रतिषेधश्च अस्मिन् शास्त्रे बहुविध उपलभ्यते गुणगुणित्वकल्पनादिलक्षणः ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणाः आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात्। वेदविप्रतिषेधश्च भवति चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात्। तस्मात् असंगतैषा कल्पनेति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः।।