ब्रह्मसूत्रम्/द्वितीयः अध्यायः/तृतीयः पादः

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← द्वितीयः पादः ब्रह्मसूत्रम्
द्वितीयाध्याये तृतीयः पादः
वेदव्यासः
चतुर्थः पादः →

वियदधिकरणम्[सम्पाद्यताम्]

न वियदश्रुतेः । ( ब्रसू-२,३.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

किमस्याकाशस्योत्पत्तिरस्ति उत नास्तीति। तत्र तावत्प्रतिपद्यते न वियदश्रुतेरिति न खल्वाकाशमुत्पद्यते कस्मात् अश्रुतेः न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति छान्दोग्ये हि सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति सच्छब्दवाच्यं ब्रह्म प्रकृत्य तदैक्षत तत्तेजोऽसृजत इति च पञ्चानां महाभूतानां मध्यमं तेज आदि कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यते श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ न च अत्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनी तस्मान्नाकाशस्योत्पत्तिरिति।।

अस्ति तु । ( ब्रसू-२,३.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दः पक्षान्तरपरिग्रहे मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः श्रुत्यन्तरे त्वस्ति तैत्तिरीयका हि समामनन्ति सत्यं ज्ञानमनन्तं ब्रह्म इति प्रकृत्य तस्माद्वा एतस्मादात्मन आकाशः संभूतः इति। ततश्च श्रुत्योर्विप्रतिषेधः क्वचित्तेजःप्रमुखा सृष्टिः क्वचिदाकाशप्रमुखेति। नन्वेकवाक्यता अनयोः श्रुत्योर्युक्ता सत्यं सा युक्ता न तु सा अवगन्तुं शक्यते कुतः तत्तेजोऽसृजत इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन संबन्धानुपपत्तेः तत्तेजोऽसृजत तदाकाशमसृजत इति। ननु सकृच्छ्रुतस्यापि कर्तुः कर्तव्यद्वयेन संबन्धो दृश्यते यथा सः सूपं पक्त्वा ओदनं पचतीति एवं तदाकाशं सृष्ट्वा तत्तेजोऽसृजत इति योजयिष्यामि नैवं युज्यते प्रथमजत्वं हि छान्दोग्ये तेजसोऽवगम्यते तैत्तिरीयके च आकाशस्य न च उभयोः प्रथमजत्वं संभवति एतेन इतरश्रुत्यक्षरविरोधोऽपि व्याख्यातः तस्माद्वा एतस्मादात्मन आकाशः संभूतः इत्यत्रापि तस्मादाकाशः संभूतः तस्मात्तेजः संभूतम् इति सकृच्छ्रुतस्यापादानस्य संभवनस्य च वियत्तेजोभ्यां युगपत्संबन्धानुपपत्तेः वायोरग्निः इति च पृथगाम्नानात्।।

अस्मिन्विप्रतिषेधे कश्चिदाह

गौण्यसंभवाच् छब्दाच् च । ( ब्रसू-२,३.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

नास्ति वियत उत्पत्तिः अश्रुतेरेव। या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणी भवितुमर्हति कस्मात् असंभवात्। न ह्याकाशस्योत्पत्तिः संभावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिपु जीवत्सु ते हि कारणसामग्र्यसंभवादाकाशस्योत्पत्तिं वारयन्ति समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति न चाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति यस्मिन्समवायिकारणे सति असमवायिकारणे च तत्संयोगे आकाश उत्पद्येत तदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेव आकाशस्य भवति। उत्पत्तिमतां च तेजःप्रभृतीनां पूर्वोत्तरकालयोर्विशेषः संभाव्यते प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव पश्चाच्च भवतीति आकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यते किं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम् पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणात् आकाशस्य अजत्वसिद्धिः। तस्माद्यथा लोके आकाशं कुरु आकाशो जातः इत्येवंजातीयको गौणः प्रयोगो भवति यथा चघटाकाशः करकाकाशः गृहाकाशः इत्येकस्याप्याकाशस्य एवंजातीयको भेदव्यपदेशो गौणो भवति वेदेऽपि आरण्यानाकाशेष्वालभेरन् इति एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या।।

स्याच् चैकस्य ब्रह्मशब्दवत् । ( ब्रसू-२,३.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

इदं पदोत्तरं सूत्रम्। स्यादेतत्। कथं पुनरेकस्य संभूतशब्दस्य तस्माद्वा एतस्मादात्मन आकाशः संभूतः इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं संभवति आकाशे च गौणत्वमिति। अत उत्तरमुच्यते स्याच्चैकस्यापि संभूतशब्दस्य विषयविशेषवशाद्गौणो मुख्यश्च प्रयोगः ब्रह्मशब्दवत् यथैकस्यापि ब्रह्मशब्दस्य तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्म इत्यस्मिन्नधिकारेऽन्नादिषु गौणः प्रयोगः आनन्दे च मुख्यः यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दो भक्त्या प्रयुज्यते अञ्जसा तु विज्ञेये ब्रह्मणि तद्वत्। कथं पुनरनुत्पत्तौ नभसः एकमेवाद्वितीयम् इतीयं प्रतिज्ञा समर्थ्यते ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति कथं च ब्रह्मणि विदिते सर्वं विदितं स्यादिति तदुच्यते एकमेव इति तावत्स्वकार्यापेक्षयोपपद्यते यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि च उपलभ्य अपरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयात् मृदेवैकाकिनी पूर्वेद्युरासीत् इति स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयात् न दण्डचक्रादि तद्वदद्वितीयश्रुतिरधिष्ठात्रन्तरं वारयति यथा मृदोऽमत्रप्रकृतेः कुम्भकारोऽधिष्ठाता दृश्यते नैवं ब्रह्मणो जगत्प्रकृतेरन्योऽधिष्ठाता अस्तीति। न च नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यते लक्षणान्यत्वनिमित्तं हि नानात्वम् न च प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति क्षीरोदकयोरिव संसृष्टयोः व्यापित्वामूर्तत्वादिधर्मसामान्यात् सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते स्तिमितमितरत्तिष्ठति तेनान्यत्वमवसीयते तथा च आकाशशरीरं ब्रह्म इत्यादिश्रुतिभ्योऽपि ब्रह्माकाशयोरभेदोपचारसिद्धिः अत एव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः अपि च सर्वं कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते ब्रह्मणा च अव्यतिरिक्तदेशकालमेवाकाशं भवतीति अतो ब्रह्मणा तत्कार्येण च विज्ञातेन सहविज्ञातमेवाकाशं भवति यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति न हि क्षीरग्रहणादब्बिन्दुग्रहणं परिशिष्यते एवं ब्रह्मणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वात् गृहीतमेव ब्रह्मग्रहणेन नभो भवति। तस्माद्भाक्तं नभसः संभवश्रवणमिति।।

एवं प्राप्ते इदमाह

प्रतिज्ञाहानिर् अव्यतिरेकात् । ( ब्रसू-२,३.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

येनाश्रुत््रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् इति आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् इति कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति न काचन मद्बहिर्धा विद्यास्ति इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात् यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात् व्यतिरेके हि सति एकविज्ञानानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा हीयेत। स चाव्यतिरेक एवमुपपद्यते यदि कृत्स्नं वस्तुजातमेकस्माद्ब्रह्मण उत्पद्येत। शब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते तथा हि येनाश्रुत््रुतं भवति इति प्रतिज्ञाय मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते तत्साधनायैव चोत्तरे शब्दाः सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् तदैक्षत तत्तेजोऽसृजत इत्येवं कार्यजातं ब्रह्मणः प्रदर्श्य अव्यतिरेकं प्रदर्शयन्ति ऐतदात्म्यमिद्र्वम् इत्यारभ्य आ प्रपाठकपरिसमाप्तेः तद्यद्याकाशं न ब्रह्मकार्यं स्यात् न ब्रह्मणि विज्ञाते आकाशं विज्ञायेत ततश्च प्रतिज्ञाहानिः स्यात् न च प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम्। तथा हि प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ज्ञापयन्ति इदं सर्वं यदयमात्मा ब्रह्मैवेदममृतं पुरस्तात् इत्येवमादयः तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते।।

यदुक्तम् अश्रुतेर्न वियदुत्पद्यत इति तदयुक्तम् वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात् तस्माद्वा एतस्मादात्मन आकाशः संभूतः इति। सत्यं दर्शितम् विरुद्धं तु तत्तेजोऽसृजत इत्यनेन श्रुत्यन्तरेण न एकवाक्यत्वात्सर्वश्रुतीनाम्। भवत्वेकवाक्यत्वमविरुद्धानाम् इह तु विरोध उक्तः सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धासंभवाद्द्वयोश्च प्रथमजत्वासंभवाद्विकल्पासंभवाच्चेति नैष दोषः तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् तस्माद्वा एतस्मादात्मन आकाशः संभूतः आकाशाद्वायुः वायोरग्निः इति अशक्या हीयं श्रुतिरन्यथा परिणेतुम् शक्या तु परिणेतुं छान्दोग्यश्रुतिः तदाकाशं वायुं च सृष्ट्वा तत्तेजोऽसृजत इति न हीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति एकस्य वाक्यस्य व्यापारद्वयासंभवात् स्रष्टा त्वेकोऽपि क्रमेणानेकं स्रष्टव्यं सृजेत् इत्येकवाक्यत्वकल्पनायां संभवन्त्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या न चास्माभिः सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धोऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात् यथा च सर्वं खल्विदं ब्रह्म तज्जलान् इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति एवं तेजसोऽपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखमुत्पत्तिक्रमं वारयितुमर्हति। ननु शमविधानार्थमेतद्वाक्यम् तज्जलानिति शान्त उपासीत इति श्रुतेः नैतत्सृष्टिवाक्यम् तस्मादेतन्न प्रदेशान्तरप्रसिद्धं क्रममनुरोद्धुमर्हतीति तत्तेजोऽसृजत इत्येतत्सृष्टिवाक्यम् तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति। नेत्युच्यते न हि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति पदार्थधर्मत्वात्क्रमस्य अपि च तत्तेजोऽसृजत इति नात्र क्रमस्य वाचकः कश्चिच्छब्दोऽस्ति अर्थात्तु क्रमो गम्यते स च वायोरग्निः इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते विकल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसंभवानभ्युपगमाभ्यां निवारितो तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः। अपि च छान्दोग्ये येनाश्रुतं श्रुतं भवति इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियत् उत्पत्तावुपसंख्यातव्यम् किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो न संगृह्यते। यच्चोक्तम् आकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्रह्मणा तत्कार्यैश्च सह विदितमेव तद्भवति अतो न प्रतिज्ञा हीयते न च एकमेवाद्वितीयम् इति श्रुतिकोपो भवति क्षीरोदकवद्ब्रह्मनभसोरव्यतिरेकोपपत्तेरिति। अत्रोच्यते न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम् मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् न हि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतत्वमस्ति न च वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यते सावधारणा चेयम् एकमेवाद्वितीयम् इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत। न च स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेवाद्वितीयतावधारणं चेति न्याय्यम् मृदादिष्वपि हि तत्संभवात् न तदपूर्ववदुपन्यसितव्यं भवति श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवति इत्यादिना। तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम्।।

यत्पुनरेतदुक्तम् असंभवाद्गौणी गगनस्योत्पत्तिश्रुतिरिति अत्र ब्रूमः

शब्देभ्यः । ( ब्रसू-२,३.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

शब्दः खल्वप्याकाशस्य अजत्वं ख्यापयति यत आह वायुश्चान्तरिक्षं चैतदमृतम् इति न ह्यमृतस्योत्पत्तिरुपपद्यते आकाशवत्सर्वगतश्च नित्यः इति च आकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमानः आकाशस्यापि तौ धर्मौ सूचयति न च तादृशस्योत्पत्तिरुपपद्यते। स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः इति च उदाहरण् आकाशशरीरं ब्रह्म आकाश आत्मा इति च। न ह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषणं संभवति नीलेनेवोत्पलस्य। तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते।।

यावद्विकारं तु विभागो लोकवत् । ( ब्रसू-२,३.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दोऽसंभवाशङ्काव्यावृत्त्यर्थः। न खल्वाकाशोत्पत्तावसंभवाशङ्का कर्तव्या यतो यावत्किंचिद्विकारजातं दृश्यते घटघटिकोदञ्चनादि वा कटककेयूरकुण्डलादि वा सूचीनाराचनिस्त्रिंशादि वा तावानेव विभागो लोके लक्ष्यते न त्वविकृतं किंचित्कुतश्चिद्विभक्तमुपलभ्यते विभागश्चाकाशस्य पृथिव्यादिभ्योऽवगम्यते तस्मात्सोऽपि विकारो भवितुमर्हति। एतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम्। नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति न आत्मन आकाशः संभूतः इति श्रुतेः यदि ह्यात्मापि विकारः स्यात् तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात् तथा च शून्यवादः प्रसज्येत आत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः न ह्यात्मागन्तुकः कस्यचित् स्वयंसिद्धत्वात् न ह्यात्मा आत्मनः प्रमाणमपेक्ष्य सिध्यति तस्य हि प्रत्यक्षादीनि प्रमाणान्यसिद्धप्रमेयसिद्धये उपादीयन्ते न ह्याकाशादयः पदार्थाः प्रमाणनिरपेक्षाः स्वयं सिद्धाः केनचिदभ्युपगम्यन्ते आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति न चेदृशस्य निराकरणं संभवति आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् य एव हि निराकर्ता तदेव तस्य स्वरूपम् न ह्यग्नेरौष्ण्यमग्निना निराक्रियते तथा अहमेवेदानीं जानामि वर्तमानं वस्तु अहमेवातीतमतीततरं चाज्ञासिषम् अहमेवानागतमनागततरं च ज्ञास्यामि इत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति सर्वदा वर्तमानस्वभावत्वात् तथा भस्मीभवत्यपि देहे नात्मन उच्छेदः वर्तमानस्वभावादन्यस्वभावत्वं वा न संभावयितुं शक्यम् एवमप्रत्याख्येयस्वभावत्वादकार्यत्वमात्मानः कार्यत्वं च आकाशस्य।।

यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति तत्प्रत्युच्यते न तावत्समानजातीयमेवारभते न भिन्नजातीयमिति नियमोऽस्ति न हि तन्तूनां तत्संयोगानां च समानजातीयत्वमस्ति द्रव्यगुणत्वाभ्युपगमात् न च निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति। स्यादेतत् समवायिकारणविषय एव समानजातीयत्वाभ्युपगमः न कारणान्तरविषय इति तदप्यनैकान्तिकम् सूत्रगोवालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलान्वितन्वते सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यम् सर्वस्य सर्वेण समानजातीयकत्वात्। नाप्यनेकमेवारभते नैकम् इति नियमोऽस्ति अणुमनसोराद्यकर्मारम्भाभ्युपगमात्। एकैको हि परमाणुर्मनश्चाद्यं कर्मारभते न द्रव्यान्तरैः संहत्य इत्यभ्युपगम्यते। द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेत् न परिणामाभ्युपगमात्। भवेदेष नियमः यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते तच्च क्वचिदनेकं परिणमते मृद्बीजादि अङ्कुरादिभावेन क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन नेश्वरशासनमिति अनेकमेव कारणं कार्यं जनयतीति। अतः श्रुतिप्रामाण्यादेकस्माद्ब्रह्मण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते तथा चोक्तम् उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि इति।।

यच्चोक्तम् आकाशस्योत्पत्तौ न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यत इति तदयुक्तम् येनैव विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते यथा च ब्रह्म न स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत् अस्थूलमनणु इत्यादिश्रुतिभ्यः एवमाकाशस्वभावेनापि न स्वभाववदनाकाशमिति श्रुतेरवगम्यते तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम्। यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति तदप्यसत् श्रुतिविरोधे सत्युत्पत्त्यसंभवानुमानस्याभासत्वोपपत्तेः उत्पत्त्यनुमानस्य च दर्शितत्वात् अनित्यमाकाशम् अनित्यगुणाश्रयत्वात् घटादिवदित्यादिप्रयोगसंभवाच्च आत्मन्यनैकान्तिकमिति चेत् न तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धेः विभुत्वादीनां च आकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात्। यच्चोक्तमेतत् शब्दाच्चेति तत्रामृतत्वश्रुतिस्तावद्वियति अमृता दिवौकसः इतिवद्द्रष्टव्या उत्पत्तिप्रलययोरुपपादितत्वात् आकाशवत्सर्वगतश्च नित्यः इत्यपि प्रसिद्धमहत्त्वेनाकाशोपमानं क्रियते निरतिशयमहत्त्वाय न आकाशसमत्वाय यथा इषुरिव सविता धावति इति क्षिप्रगतित्वायोच्यते न इषुतुल्यगतित्वाय तद्वत् एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता ज्यायानाकाशात् इत्यादिश्रुतिभ्यश्च ब्रह्मणः सकाशादाकाशस्योनपरिमाणत्वसिद्धिः न तस्य प्रतिमास्ति इति च ब्रह्मणोऽनुपमानत्वं दर्शयति अतोऽन्यदार्तम् इति च ब्रह्मणोऽन्येषामाकाशादीनामार्तत्वं दर्शयति। तपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसंभवश्रुत्यनुमानाभ्यां परिहृतम्। तस्माद्ब्रह्मकार्यं वियदिति सिद्धम्।।

मातरिश्वाधिकरणम्[सम्पाद्यताम्]

एतेन मातरिश्वा व्याख्यातः । ( ब्रसू-२,३.८ । )

भाष्यम्

शाङ्करभाष्यम्॥ अतिदेशोऽयम्। एतेन वियद्व्याख्यानेन मातरिश्वापि वियदाश्रयो वायुर्व्याख्यातः। तत्राप्येते यथायोगं पक्षा रचयितव्याः न वायुरुत्पद्यते छन्दोगानामुत्पत्तिप्रकरणेऽनाम्नानादित्येकः पक्षः अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरणे आम्नानम् आकाशाद्वायुः इति पक्षान्तरम् ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिः असंभवात् इत्यपरोऽभिप्रायः असंभवश्च सैषानस्तमिता देवता यद्वायुः इत्यस्तमयप्रतिषेधादमृतत्वादिश्रवणाच्च। प्रतिज्ञानुपरोधाद्यावद्विकारं च विभागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्तः। अस्तमयप्रतिषेधोऽपरविद्याविषय आपेक्षिकः अग्न्यादीनामिव वायोरस्तमयाभावात्। कृतप्रतिविधानं च अमृतत्वादिश्रवणम्। ननु वायोराकाशस्य च तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरेकमेवाधिकरणमुभयविषयमस्तु किमतिदेशेनासति विशेष इति उच्यते सत्यमेवमेतत् तथापि मन्दधियां शब्दमात्रकृताशङ्कानिवृत्त्यर्थोऽयमतिदेशः क्रियते संवर्गविद्यादिषु ह्युपास्यत वायोर्महाभागत्वश्रवणात् अस्तमयप्रतिषेधादिभ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति।।

असम्भवाधिकरणम्[सम्पाद्यताम्]

असंभवस् तु सतोऽनुपपत्तेः । ( ब्रसू-२,३.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

वियत्पवनयोरसंभाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य ब्रह्मणोऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिः तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्य आकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येत तामाशङ्कामपनेतुमिदं सूत्रम् असंभवस्त्विति। न खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः संभव उत्पत्तिराशङ्कितव्या कस्मात् अनुपपत्तेः। सन्मात्रं हि ब्रह्म न तस्य सन्मात्रादेवोत्पत्तिः संभवति असत्यतिशये प्रकृतिविकारभावानुपपत्तेः नापि सद्विशेषात् दृष्टविपर्ययात् सामान्याद्विशेषा उत्पद्यमाना दृश्यन्ते मृदादेर्घटादयः न तु विशेषेभ्यः सामान्यम् नाप्यसतः निरात्मकत्वात् कथमसतः सज्जायेत इति च आक्षेपश्रवणात्। स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः इति च ब्रह्मणो जनयितारं वारयति। वियत्पवनयोः पुनरुत्पत्तिः प्रदर्शिता न तु ब्रह्मणः सा अस्तीति वैषम्यम्। न च विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्रह्मणोऽपि विकारत्वं भवितुमर्हति मूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गात् या मूलप्रकृतिरभ्युपगम्यते तदेव च नो ब्रह्मेत्यविरोधः।।

तेजोधिकरणम्[सम्पाद्यताम्]

तेजोऽतस् तथा ह्य् आह । ( ब्रसू-२,३.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

छान्दोग्ये सन्मूलत्वं तेजसः श्रावितम् तैत्तिरीयके तु वायुमूलत्वम् तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्याम् प्राप्तं तावद्ब्रह्मयोनिकं तेज इति। कुतः सदेव इत्युपक्रम्य तत्तेजोऽसृजत इत्युपदेशात् सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मप्रभवत्वे सर्वस्य संभवात् तज्जलान् इति च अविशेषश्रुतेः एतस्माज्जायते प्राणः इति च उपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्रह्मजत्वोपदेशात् तैत्तिरीयके च स तपस्तप्त्वा। इदं सर्वमसृजत। यदिदं किंच इत्यविशेषश्रवणात् तस्मात् वायोरग्निः इति क्रमोपदेशो द्रष्टव्यः वायोरनन्तरमग्निः संभूत इति

एवं प्राप्ते उच्यते तेजः अतः मातरिश्वनः जायत इति कस्मात् तथा ह्याह वायोरग्निः इति। अव्यवहिते हि तेजसो ब्रह्मजत्वे सति असति वायुजत्वे वायोरग्निः इतीयं श्रुतिः कदर्थिता स्यात्। ननु क्रमार्थैषा भविष्यतीत्युक्तम् नेति ब्रूमः तस्माद्वा एतस्मादात्मन आकाशः संभूतः इति पुरस्तात् संभवत्यपादानस्य आत्मनः पञ्चमीनिर्देशात् तस्यैव च संभवतेरिहाधिकारात् परस्तादपि तदधिकारे पृथिव्या ओषधयः इत्यपादानपञ्चमीदर्शनात् वायोरग्निः इत्यपादानपञ्चम्येवैषेति गम्यते अपि च वायोरूर्ध्वमग्निः संभूतः इति कल्प्यः उपपदार्थयोगः क्लृप्तस्तु कारकार्थयोगः वायोरग्निः संभूतः इति तस्मादेषा श्रुतिर्वायुयोनित्वं तेजसोऽवगमयति। नन्वितरापि श्रुतिर्ब्रह्मयोनित्वं तेजसोऽवगमयति तत्तेजोऽसृजत इति न तस्याः पारंपर्यजत्वेऽप्यविरोधात् यदापि ह्याकाशं वायुं च सृष्ट्वा वायुभावापन्नं ब्रह्म तेजोऽसृजतेति कल्प्यते तदापि ब्रह्मजत्वं तेजसो न विरुध्यते यथा तस्याः श्रृतम् तस्या दधि तस्या आमिक्षेत्यादि दर्शयति च ब्रह्मणो विकारात्मनावस्थानम् तदात्मान््वयमकुरुत इति तथा च ईश्वरस्मरणं भवति बुद्धिर्ज्ञानमसंमोहः इत्याद्यनुक्रम्य भवन्ति भावा भूतानां मत्त एव पृथग्विधाः इति। यद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते तथापि सर्वस्य भावजातस्य साक्षात्प्रणाड्या वा ईश्वरवंश्यत्वात् एतेनाक्रमसृष्टिवादिन्यः श्रुतयो व्याख्याताः तासां सर्वथोपपत्तेः क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेः। प्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते न अव्यवहितजन्यत्वम् इत्यविरोधः।।

अबधिकरणम्[सम्पाद्यताम्]

आपः । ( ब्रसू-२,३.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

अतस्तथा ह्याह इत्यनुवर्तते आपः अतः तेजसः जायन्ते कस्मात् तथा ह्याह तदपोऽसृजत इति अग्नेरापः इति च सति वचने नास्ति संशयः। तेजसस्तु सृष्टिं व्याख्याय पृथिव्या व्याख्यास्यन् अपोऽन्तरियामिति आपः इति सूत्रयांबभूव।।

पृथिव्यधिकाराधिकरणम्[सम्पाद्यताम्]

पृथिवी । ( ब्रसू-२,३.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त इति श्रूयते तत्र संशयः किमनेनान्नशब्देन व्रीहियवाद्यभ्यवहार्यं वा ओदनाद्युच्यते किं वा पृथिवीति तत्र प्राप्तं तावत् व्रीहियवादि ओदनादि वा परिग्रहीतव्यमिति तत्र ह्यन्नशब्दः प्रसिद्धो लोके वाक्यशेषोऽप्येतमर्थमुपोद्बलयति तस्माद्यत्र क्वचन वर्षति तदेव भूयिष्ठमन्नं भवति इति व्रीहियवाद्येव हि सति वर्षणे बहु भवति न पृथिवीति।।

एवं प्राप्ते ब्रूमः पृथिव्येवेयमन्नशब्देनाद्भ्यो जायमाना विवक्ष्यत इति कस्मात् अधिकारात् रूपात् शब्दान्तराच्च। अधिकारस्तावत् तत्तेजोऽसृजत तदपोऽसृजत इति महाभूतविषयो वर्तते तत्र क्रमप्राप्तां पृथिवीं महाभूतं विलङ्घ्य नाकस्माद्व्रीह्यादिपरिग्रहो न्याय्यः। तथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते यत्कृष्णं तदन्नस्य इति न ह्योदनादेरभ्यवहार्यस्य कृष्णत्वनियमोऽस्ति नापि व्रीह्यादीनाम्। ननु पृथिव्या अपि नैव कृष्णत्वनियमोऽस्ति पयःपाण्डुरस्याङ्गाररोहितस्य च क्षेत्रस्य दर्शनात् नायं दोषः बाहुल्यापेक्षत्वात् भूयिष्ठं हि पृथिव्याः कृष्णं रूपम् न तथा श्वेतरोहिते पौराणिका अपि पृथिवीछायां शर्वरीमुपदिशन्ति सा च कृष्णाभासा इत्यतः कृष्णं रूपं पृथिव्या इति श्लिष्यते। श्रुत्यन्तरमपि समानाधिकारम् अदभ्यः पृथिवी इति भवति तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत् इति च पृथिव्यास्तु व्रीह्यादेरुत्पत्तिं दर्शयति पृथिव्या ओषधय ओषधीभ्योऽन्नम् इति च। एवमधिकारादिषु पृथिव्याः प्रतिपादकेषु सत्सु कुतो व्रीह्यादिप्रतिपत्तिः प्रसिद्धिरप्यधिकारादिभिरेव बाध्यते वाक्यशेषोऽपि पार्थिवत्वादन्नाद्यस्य तद्द्वारेण पृथिव्या एवाद्भ्यः प्रभवत्वं सूचयतीति द्रष्टव्यम्। तस्मात्पृथिवीयमन्नशब्देति।।

अधिकाररूपशब्दान्तरेभ्यः । ( ब्रसू-२,३.१३ । )

तदभिध्यानाधिकरणम्[सम्पाद्यताम्]

तदभिध्यानाद् एव तु तल्लिङ्गात् सः । ( ब्रसू-२,३.१४ । )

भाष्यम्

शाङ्करभाष्यम् भाष्यकिमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्ति आहोस्वित्परमेश्वर एव तेन तेन आत्मनावतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति संदेहे सति प्राप्तं तावत् स्वयमेव सृजन्तीति कुतः आकाशाद्वायुर्वायोरग्निः इत्यादिस्वातन्त्र्यश्रवणात्। ननु अचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा नैष दोषः तत्तेज ऐक्षत ता आप ऐक्षन्त इति च भूतानामपि चेतनत्वश्रवणादिति।।

एवं प्राप्ते अभिधीयते स एव परमेश्वरस्तेन तेन आत्मना अवतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति कुतः तल्लिङ्गात्। तथा हि शास्त्रम् यः पृथिव्यां तिष्ठन्यः पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति इत्येवंजातीयकम् साध्यक्षाणामेव भूतानां प्रवृत्तिं दर्शयति तथा सोऽकामयत बहु स्यां प्रजायेयेति इति प्रस्तुत्य सच्च त्यच्चाभवत् तदात्मानं स्वयमकुरुत इति च तस्यैव च सर्वात्मभावं दर्शयति। यत्तु ईक्षणश्रवणमप्तेजसोः तत्परमेश्वरावेशवशादेव द्रष्टव्यम् नान्योऽतोऽस्ति द्रष्टा इतीक्षित्रन्तरप्रतिषेधात् प्रकृतत्वाच्च सत ईक्षितुः तदैक्षत बहु स्यां प्रजायेयेति इत्यत्र।।म्

विपर्ययाधिकरणम्[सम्पाद्यताम्]

विपर्ययेण तु क्रमोऽत उपपद्यते च । ( ब्रसू-२,३.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

भूतानामुत्पत्तिक्रमश्चिन्तितः अथेदानीम् अप्ययक्रमश्चिन्त्यते किमनियतेन क्रमेणाप्ययः उत उत्पत्तिक्रमेण अथवा तद्विपरीतेनेति। त्रयोऽपि च उत्पत्तिस्थितिप्रलया भूतानां ब्रह्मायत्ताः श्रूयन्ते यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति इति। तत्रानियमोऽविशेषादिति प्राप्तम् अथवा उत्पत्तेः क्रमस्य श्रुतत्वात्प्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमः स्यादिति।।

एवं प्राप्तं ततो ब्रूमः विपर्ययेण तु प्रलयक्रमः अतः उत्पत्तिक्रमात् भवितुमर्हति तथा हि लोके दृश्यते येन क्रमेण सोपानमारूढः ततो विपरीतेन क्रमेणावरोहतीति अपि च दृश्यते मृदो जातं घटशरावादि अप्ययकाले मृद्भावमप्येति अद्भ्यश्च जातं हिमकरकादि अब्भावमप्येतीति। अतश्चोपपद्यत एतत् यत्पृथिवी अद्भ्यो जाता सती स्थितिकालव्यतिक्रान्तौ अपः अपीयात् आपश्च तेजसो जाताः सत्यः तेजः अपीयुः एवं क्रमेण सूक्ष्मं सूक्ष्मतरं च अनन्तरमनन्तरतरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रह्माप्येतीति वेदितव्यम् न हि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यः। स्मृतावप्युत्पत्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते। ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते इत्येवमादौ। उत्पत्तिक्रमस्तु उत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति न च असौ अयोग्यत्वादप्ययेनाकाङ्क्ष्यते न हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः कारणाप्यये कार्यस्यावस्थानानुपपत्तेः कार्याप्यये तु कारणस्यावस्थानं युक्तम् मृदादिष्वेवं दृष्टत्वात्।।

अन्तराविज्ञानाधिकरणम्[सम्पाद्यताम्]

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् । ( ब्रसू-२,३.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम् आत्मादिरुत्पत्तिः प्रलयश्चात्मान्तः इत्यप्युक्तम्। सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योः बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च। इन्द्रियाणि हयानाहुः इत्यादिलिङ्गेभ्यः तयोरपि कस्मिंश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसंग्राह्यौ सर्वस्य वस्तुजातस्य ब्रह्मजत्वाभ्युपगमात्। अपि च आथर्वणे उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले करणान्यनुक्रम्यन्ते एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी इति। तस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत् न अविशेषात् यदि तावद्भौतिकानि करणानि ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम् भवति च भौतिकत्वे लिङ्गं करणानाम् अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् इत्येवंजातीयकम् व्यपदेशोऽपि क्वचिद्भूतानां करणानां च ब्राह्मणपरिव्राजकन्यायेन नेतव्यः। अथ त्वभौतिकानि करणानि तथापि भूतोत्पत्तिक्रमो न करणैर्विशिष्यते प्रथमं करणान्युत्पद्यन्ते चरमं भूतानि प्रथमं वा भूतान्युत्पद्यन्ते चरमं करणानीति आथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां च न तत्रोत्पत्तिक्रम उच्यते तथा अन्यत्रापि पृथगेव भूतक्रमात्करणक्रम आम्नायते प्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत स मनोऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजत इत्यादिना। तस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः।।

चराचरव्यपाश्रयाधिकरणम्[सम्पाद्यताम्]

चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् । ( ब्रसू-२,३.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्तो जीवस्याप्युत्पत्तिप्रलयौ जातो देवदत्तो मृतो देवदत्त इत्येवंजातीयकाल्लौकिकव्यपदेशात् जातकर्मादिसंस्कारविधानाच्च इति स्यात्कस्यचिद्भ्रान्तिः तामपनुदामः। न जीवस्योत्पत्तिप्रलयौ स्तः शास्त्रफलसंबन्धोपपत्तेः शरीरानुविनाशिनि हि जीवे शरीरान्तरगतेष्टानिष्टप्राप्तिपरिहारार्थौ विधिप्रतिषेधावनर्थकौ स्याताम् श्रूयते च जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते इति। ननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शितः सत्यं दर्शितः भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः। किमाश्रयः पुनरयं मुख्यः यदपेक्षया भाक्त इति उच्यते चराचरव्यपाश्रयः स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते च अतस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्येते तद्भावभावित्वात् शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतः नासतोः न हि शरीरसंबन्धादन्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते स वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमानः स उत्क्रामन् म्रियमाणः इति च शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशब्दौ दर्शयति। जातकर्मादिविधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम् अभावाज्जीवप्रादुर्भावस्य। जीवस्य परस्मादात्मन उत्पत्तिर्वियदादीनामिवास्ति नास्ति वेत्येतदुत्तरेण सूत्रेण वक्ष्यति देहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्तः इत्येतदनेन सूत्रेणावोचत्।।

आत्माधिकरणम्[सम्पाद्यताम्]

नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः । ( ब्रसू-२,३.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्त्यात्मा जीवाख्यः शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसंबन्धी स किं व्योमादिवदुत्पद्यते ब्रह्मणः आहोस्विद्ब्रह्मवदेव नोत्पद्यते इति श्रुतिविप्रतिपत्तेर्विशयः कासुचिच्छ्रुतिषु अग्निविस्फुलिङ्गादिनिदर्शनैः र्जीवात्मनः परस्माद्ब्रह्मण उत्पत्तिराम्नायते कासुचित्तु अविकृतस्यैव परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते न च उत्पत्तिराम्नायत इति। तत्र प्राप्तं तावत् उत्पद्यते जीव इति कुतः प्रतिज्ञानुपरोधादेव। एकस्मिन्विदिते सर्वमिदं विदितम् इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रभवत्वे सति नोपरुध्येत तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत। न च अविकृतः परमात्मैव जीव इति शक्यते विज्ञातुम् लक्षणभेदात् अपहतपाप्मत्वादिधर्मको हि परमात्मा तद्विपरीतो हि जीवः। विभागाच्चास्य विकारत्वसिद्धिः यावान् हि आकाशादिः प्रविभक्तः स सर्वो विकारः तस्य च आकाशादेरुत्पत्तिः समधिगता जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखयुक् प्रतिशरीरं प्रविभक्त इति तस्यापि प्रपञ्चोत्पत्त्यवसरे उत्पत्तिर्भवितुमर्हति। अपि च यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्ट्वा सर्व एत आत्मानो व्युच्चरन्ति इति भोक्तृ़णामात्मनां पृथक्सृष्टिं शास्ति। यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः। तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति इति च जीवात्मनामुत्पत्तिप्रलयावुच्येते सरूपवचनात् जीवात्मानो हि परमात्मना सरूपा भवन्ति चैतन्ययोगात् न च क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति श्रुत्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात्। प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्या तदात्मानं स्वयमकुरुत इत्यादिवत्। तस्मादुत्पद्यते जीव इति।।

एवं प्राप्ते ब्रूमः नात्मा जीव उत्पद्यत इति कस्मात् अश्रुतेः न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयःसु प्रदेशेषु। ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयतीत्युक्तम् सत्यमुक्तम् उत्पत्तिरेव त्वस्य न संभवतीति वदामः कस्मात् नित्यत्वाच्च ताभ्यः चशब्दादजत्वादिभ्यश्च नित्यत्वं ह्यस्य श्रुतिभ्योऽवगम्यते तथा अजत्वम् अविकारित्वम् अविकृतस्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति न चैवंरूपस्योत्पत्तिरुपपद्यते। ताः काः श्रुतयः न जीवो म्रियते स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म न जायते म्रियते वा विपश्चित् अजो नित्यः शाश्वतोऽयं पुराणः तत्सृष्ट्वा तदेवानुप्राविशत् अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि स एष इह प्रविष्ट आ नखाग्रेभ्यः तत्त्वमसि अहं ब्रह्मास्मि अयमात्मा ब्रह्म सर्वानुभूः इत्येवमाद्या नित्यत्ववादिन्यः सत्यः जीवस्योत्पत्तिं प्रतिबध्नन्ति। ननु प्रविभक्तत्वाद्विकारः विकारत्वाच्चोत्पद्यते इत्युक्तम् अत्रोच्यते नास्य प्रविभागः स्वतोऽस्ति एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा इति श्रुतेः बुद्ध्याद्युपाधिनिमित्तं तु अस्य प्रविभागप्रतिभानम् आकाशस्येव घटादिसंबन्धनिमित्तम् तथा च शास्त्रम् स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः इत्येवमादि ब्रह्मण एवाविकृतस्य सतोऽस्यैकस्यानेकबुद्ध्यादिमयत्वं दर्शयति तन्मयत्वं च अस्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वम् स्त्रीमयो जाल्म इत्यादिवत् द्रष्टव्यम्। यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणम् तदप्यत एवोपाधिसंबन्धान्नेतव्यम् उपाध्युत्पत्त्या अस्योत्पत्तिः तत्प्रलयेन च प्रलय इति तथा च दर्शयति प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति इति तथोपाधिप्रलय एवायम् नात्मविलयः इत्येतदपि अत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि न प्रेत्य संज्ञास्ति इति प्रश्नपूर्वकं प्रतिपादयति न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवति इति। प्रतिज्ञानुपरोधोऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात् लक्षणभेदोऽप्यनयोरुपाधिनिमित्त एव अत ऊर्ध्वं विमोक्षायैव ब्रूहि इति च प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात्। तस्मात् नैवात्मोत्पद्यते प्रविलीयते चेति।।

ज्ञाधिकरणम्[सम्पाद्यताम्]

ज्ञोऽत एव । ( ब्रसू-२,३.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

स किं काणभुजानामिवागन्तुकचैतन्यः स्वतोऽचेतनः आहोस्वित्सांख्यानामिव नित्यचैतन्यस्वरूप एव इति वादिविप्रतिपत्तेः संशयः। किं तावत्प्राप्तम् आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजम् अग्निघटसंयोगजरोहितादिगुणवदिति प्राप्तम् नित्यचैतन्यत्वे हि सुप्तमूर्छितग्रहाविष्टानामपि चैतन्यं स्यात् ते पृष्टाः सन्तः न किंचिद्वयं चेतयेमहि इति जल्पन्ति स्वस्थाश्च चेतयमाना दृश्यन्ते अतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति।।

एवं प्राप्ते अभिधीयते ज्ञः नित्यचैतन्योऽयमात्मा अत एव यस्मादेव नोत्पद्यते परमेव ब्रह्म अविकृतमुपाधिसंपर्काज्जीवभावेनावतिष्ठते परस्य हि ब्रह्मणश्चैतन्यस्वरूपत्वमाम्नातम् विज्ञानमानन्दं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव इत्यादिषु श्रुतिषु तदेव चेत्परं ब्रह्म जीवः तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यते। विज्ञानमयप्रक्रियायां च श्रुतयो भवन्ति असुप्तः सुप्तानभिचाकशीति अत्रायं पुरुषः स्वयंज्योतिर्भवति इति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इत्येवंरूपाः। अथ यो वेदेदं जिघ्राणीति स आत्मा इति च सर्वैः करणद्वारैः इदं वेद इदं वेद इति विज्ञानेनानुसंधानात् तद्रूपत्वसिद्धिः। नित्यचैतन्यस्वरूपत्वे घ्राणाद्यानर्थक्यमिति चेत् न गन्धादिविषयविशेषपरिच्छेदार्थत्वात् तथा हि दर्शयति गन्धाय घ्राणम् इत्यादि। यत्तु सुप्तादयो न चेतयन्त इति तस्य श्रुत्यैव परिहारोऽभिहितः सुषुप्तं प्रकृत्य यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् इत्यादिना एतदुक्तं भवति विषयाभावादियमचेतयमानता न चैतन्याभावादिति यथा वियदाश्रयस्य प्रकाशस्य प्रकाश्याभावादनभिव्यक्तिः न स्वरूपाभावात् तद्वत्। वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवति। तस्मान्नित्यचैतन्यस्वरूप एव आत्मेति निश्चिनुमः।।

उत्क्रान्तिगत्यधिकरणम्[सम्पाद्यताम्]

उत्क्रान्तिगत्यागतीनाम् । ( ब्रसू-२,३.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

इदानीं तु किंपरिमाणो जीव इति चिन्त्यते किमणुपरिमाणः उत मध्यमपरिमाणः आहोस्वित् महापरिमाण इति। ननु च नात्मोत्पद्यते नित्यचैतन्यश्चायमित्युक्तम् अतश्च पर एव आत्मा जीव इत्यापतति परस्य च आत्मनोऽनन्तत्वमाम्नातम् तत्र कुतो जीवस्य परिमाणचिन्तावतार इति उच्यते सत्यमेतत् उत्क्रान्तिगत्यागतिश्रवणानि तु जीवस्य परिच्छेदं प्रापयन्ति स्वशब्देन च अस्य क्वचिदणुपरिमाणत्वमाम्नायते तस्य सर्वस्यानाकुलत्वोपपादनायायमारम्भः। तत्र प्राप्तं तावत् उत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नोऽणुपरिमाणो जीव इति उत्क्रान्तिस्तावत् स यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति इति गतिरपि ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति इति आगतिरपि तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे इति आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति न हि विभोश्चलनमवकल्पत इति सति परिच्छेदे शरीरपरिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वात् अणुरात्मेति गम्यते।।

स्वात्मना चोत्तरयोः । ( ब्रसू-२,३.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत उत्तरे तु गत्यागती नाचलतः संभवतः स्वात्मना हि तयोः संबन्धो भवति गमेः कर्तृस्थक्रियात्वात् अमध्यमपरिमाणस्य च गत्यागती अणुत्वे एव संभवतः सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम् देहप्रदेशानां च उत्क्रान्तावपादानत्ववचनात् चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शऱीरदेशेभ्यः इति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति शुक्रमादाय पुनरैति स्थानम् इति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवतः तस्मादप्यस्याणुत्वसिद्धिः।।

नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् । ( ब्रसू-२,३.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथापि स्यात् नाणुरयमात्मा कस्मात् अतच्छ्रुतेः अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु आकाशवत्सर्वगतश्च नित्यः सत्यं ज्ञानमनन्तं ब्रह्म इत्येवंजातीयका हि श्रुतिरात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत् नैष दोषः कस्मात् इतराधिकारात् परस्य हि आत्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् विरजः पर आकाशात् इत्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात्। ननु योऽयं विज्ञानमयः प्राणेषु इति शारीर एव महत्त्वसंबन्धित्वेन प्रतिनिर्दिश्यते शास्त्रदृष्ट्या तु एष निर्देशो वामदेववद्द्रष्टव्यः। तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य न जीवस्याणुत्वं विरुध्यते।।

स्वशब्दोन्मानाभ्यां च । ( ब्रसू-२,३.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्चाणुरात्मा यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश इति प्राणसंबन्धाच्च जीव एवायमणुरभिहित इति गम्यते। तथोन्मानमपि जीवस्याणिमानं गमयति वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः इति आराग्रमात्रो ह्यवरोऽपि दृष्टः इति च उन्मानान्तरम्।।

नन्वणुत्वे सति एकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते दृश्यते च जाह्नवीह्रदनिमग्नानां सर्वाङ्गशैत्योपलब्धिः निदाघसमये च सकलशरीरपरितापोपलब्धिरिति अत उत्तरं पठति

अविरोधश् चन्दनवत् । ( ब्रसू-२,३.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसंबद्धोऽपि सन् सकलदेहव्यापिनमाह्लादं करोति एवमात्मापि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं करिष्यति त्वक्संबन्धाच्चास्य सकलशरीरगता वेदना न विरुध्यते त्वगात्मनोर्हि संबन्धः कृत्स्नायां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति।।

अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि । ( ब्रसू-२,३.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

अत्राह यदुक्तमविरोधश्चन्दनवदिति तदयुक्तम् दृष्टान्तदार्ष्टान्तिकयोरतुल्यत्वात् सिद्धे हि आत्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनं च आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षम् नैकदेशवर्तित्वम् अनुमेयं तु तदिति यदप्युच्येत न च अत्रानुमानं संभवति किमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः किं वा विभोर्नभस इव आहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्य इति संशयानतिवृत्तेरिति अत्रोच्यते नायं दोषः कस्मात् अभ्युपगमात्। अभ्युपगम्यते हि आत्मनोऽपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम् कथमिति उच्यते हृदि ह्येष आत्मा पठ्यते वेदान्तेषु हृदि ह्येष आत्मा स वा एष आत्मा हृदि कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः इत्याद्युपदेशेभ्यः। तस्माद्दृष्टान्तदार्ष्टान्तिकयोरवैषम्यात् युक्तमेवैतत् अविरोधश्चन्दनवत् इति।।

गुणाद्वा लोकवत् । ( ब्रसू-२,३.२६ । )

भाष्यम्

शाङ्करभाष्यम्॥

चैतन्यगुणव्याप्तेर्वा अणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभा अपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्यं करोति तद्वत्। स्यात् कदाचिच्चन्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आह्लादयितृत्वम् न त्वणोर्जीवस्यावयवाः सन्ति यैरयं सकलदेहं विसर्पेत् इत्याशङ्क्य गुणाद्वा लोकवत् इत्युक्तम्।।

कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत न हि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते। प्रदीपप्रभावद्भवेदिति चेत् न तस्या अपि द्रव्यत्वाभ्युपगमात् निबिडावयवं हि तेजोद्रव्यं प्रदीपः प्रविरलावयवं तु तेजोद्रव्यमेव प्रभा इति अत उत्तरं पठति

व्यतिरेको गन्धवत् तथा हि दर्शयति । ( ब्रसू-२,३.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धोपलब्धेः एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति। अतश्चानैकान्तिकमेतत् गुणत्वाद्रूपादिवदाश्रयविश्लेषानुपपत्तिरिति गुणस्यैव सतो गन्धस्य आश्रयविश्लेषदर्शनात्। गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत् न यस्मान्मूलद्रव्याद्विश्लेषः तस्य क्षयप्रसङ्गात् अक्षीयमाणमपि तत्पूर्वावस्थातो गम्यते अन्यथा तत्पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत। स्यादेतत् गन्धाश्रयाणां विश्लिष्टानामवयवानामल्पत्वात् सन्नपि विश्लेषो नोपलक्ष्यते सूक्ष्मा हि गन्धपरमाणवः सर्वतो विप्रसृता गन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेत् न अतीन्द्रियत्वात्परमाणूनाम् स्फुटगन्धोपलब्धेश्च नागकेसरादिषु न च लोके प्रतीतिः गन्धवद्द्रव्यमाघ्रातमिति गन्ध एव आघ्रात इति तु लौकिकाः प्रतियन्ति। रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेत् न प्रत्यक्षत्वादनुमानाप्रवृत्तेः तस्मात् यत् यथा लोके दृष्टम् तत् तथैव अनुमन्तव्यं निरूपकैः नान्यथा न हि रसो गुणो जिह्वयोपलभ्यत इत्यतो रूपादयोऽपि गुणा जिह्वयैवोपलभ्येरन्निति नियन्तुं शक्यते।।

पृथगुपदेशात् । ( ब्रसू-२,३.२८ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्रज्ञया शरीरं समारुह्य इति च आत्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशात् चैतन्यगुणेनैव अस्य शरीरव्यापिता गम्यते। तदेषां प्राणानां विज्ञानेन विज्ञानमादाय इति च कर्तुः शारीरात्पृथग्विज्ञानस्योपदेशः एतमेवाभिप्रायमुपोद्बलयति। तस्मादणुरात्मेति।।

एवं प्राप्ते ब्रूमः

तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । ( ब्रसू-२,३.२९ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दः पक्षं व्यावर्तयति। नैतदस्ति अणुरात्मेति उत्पत्त्यश्रवणात् परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम् परमेव चेद्ब्रह्म जीवः तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति परस्य च ब्रह्मणो विभुत्वमाम्नातम् तस्माद्विभुर्जीवः तथा च स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति। न च अणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते त्वक्संबन्धात्स्यादिति चेत् न कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति पादतल एव तु कण्टकनुन्नो वेदनां प्रतिलभते। न च अणोर्गुणव्याप्तिरुपपद्यते गुणस्य गुणिदेशत्वात् गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम्। गन्धोऽपि गुणत्वाभ्युपगमात्साश्रय एव संचरितुमर्हति अन्यथा गुणत्वहानिप्रसङ्गात् तथा चोक्तं भगवता द्वैपायनेन उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणाः। पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम् इति। यदि च चैतन्यं जीवस्य समस्तशरीरं व्याप्नुयात् नाणुर्जीवः स्यात् चैतन्यमेव हि अस्य स्वरूपम् अग्नेरिवौष्ण्यप्रकाशौ नात्र गुणगुणिविभागो विद्यत इति। शरीरपरिमाणत्वं च प्रत्याख्यातम्। परिशेषाद्विभुर्जीवः।।

कथं तर्हि अणुत्वादिव्यपदेश इत्यत आह तद्गुणसारत्वात्तु तद्व्यपदेश इति। तस्या बुद्धेः गुणास्तद्गुणाः इच्छा द्वेषः सुखं दुःखमित्येवमादयः तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे संभवति स तद्गुणसारः तस्य भावस्तद्गुणसारत्वम्। न हि बुद्धेर्गुणैर्विना केवलस्य आत्मनः संसारित्वमस्ति बुद्ध्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वम् अकर्तुरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनः तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः तदुत्क्रान्त्यादिभिश्च अस्योत्क्रान्त्यादिव्यपदेशः न स्वतः। तथा च वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह तच्चैवमेव समञ्जसं स्यात् यद्यौपचारिकमणुत्वं जीवस्य भवेत् पारमार्थिकं च आनन्त्यम् न हि उभयं मुख्यमवकल्पेत न च आनन्त्यमौपचारिकमिति शक्यं विज्ञातुम् सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात्। तथेतरस्मिन्नप्युन्माने बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः इति च बुद्धिगुणसंबन्धेनैव आराग्रमात्रतां शास्ति न स्वेनैवात्मना। एषोऽणुरात्मा चेतसा वेदितव्यः इत्यत्रापि न जीवस्य अणुपरिमाणत्वं शिष्यते परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनम् उपाध्यभिप्रायं वा द्रष्टव्यम्। तथा प्रज्ञया शरीरं समारुह्य इत्येवंजातीयकेष्वपि भेदोपदेशेषु बुद्ध्यैवोपाधिभूतया जीवः शरीरं समारुह्य इत्येवं योजयितव्यम् व्यपदेशमात्रं वा शिलापुत्रकस्य शरीरमित्यादिवत् न ह्यत्र गुणगुणिविभागोऽपि विद्यत इत्युक्तम्। हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात्। तथा उत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति कस्मिन्नु अहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत इति उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम्। एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः प्राज्ञवत्। यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषु उपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः अणीयान्व्रीहेर्वा यवाद्वा मनोमयः प्राणमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्पः इत्येवंप्रकारः तद्वत्।।

स्यादेतत् यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत ततो बुद्ध्यात्मनोर्भिन्नयोः संयोगावसानमवश्यंभावीत्यतो बुद्धिवियोगे सति आत्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति अत उत्तरं पठति

यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् । ( ब्रसू-२,३.३० । )

भाष्यम्

शाङ्करभाष्यम्॥

नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया कस्मात् यावदात्मभावित्वाद्बुद्धिसंयोगस्य यावदयमात्मा संसारी भवति यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते तावदस्य बुद्ध्या संयोगो न शाम्यति यावदेव चायं बुद्ध्युपाधिसंबन्धः तावदेवास्य जीवत्वं संसारित्वं च परमार्थतस्तु न जीवो नाम बुद्ध्युपाधिपरिकल्पितस्वरूपव्यतिरेकेणास्ति न हि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता नान्यदतोऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृ तत्त्वमसि अहं ब्रह्मास्मि इत्यादिश्रुतिशतेभ्यः । कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति तद्दर्शनादित्याह तथा हि शास्त्रं दर्शयति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव इत्यादि तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति प्रदेशान्तरे विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः इति विज्ञानमयस्य मनआदिभिः सह पाठात् बुद्धिमयत्वं च तद्गुणसारत्वमेवाभिप्रेयते यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते तद्वत् स समानः सन्नुभौ लोकावनुसंचरति इति च लोकान्तरगमनेऽप्यवियोगं बुद्ध्या दर्शयति केन समानः तयैव बुद्ध्येति गम्यते संनिधानात् तच्च दर्शयति ध्यायतीव लेलायतीव इति एतदुक्तं भवति नायं स्वतो ध्यायति नापि चलति ध्यायन्त्यां बुद्धौ ध्यायतीव चलन्त्यां बुद्धौ चलतीवेति। अपि च मिथ्याज्ञानपुरःसरोऽयमात्मनो बुद्ध्युपाधिसंबन्धः न च मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधः तावदयं बुद्ध्युपाधिसंबन्धो न शाम्यति दर्शयति च वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्। तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय इति।।

ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसंबन्ध आत्मनोऽभ्युपगन्तुम् सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति इति वचनात् कृत्स्नविकारप्रलयाभ्युपगमाच्च तत्कथं यावदात्मभावित्वं बुद्धिसंबन्धस्येति अत्रोच्यते

पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्तियोगात् । ( ब्रसू-२,३.३१ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति न अविद्यमानान्युत्पद्यन्ते षण्डादीनामपि तदुत्पत्तिप्रसङ्गात् एवमयमपि बुद्धिसंबन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवति एवं हि एतद्युज्यते न हि आकस्मिकी कस्यचिदुत्पत्तिः संभवति अतिप्रसङ्गात्। दर्शयति च सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम् सति संपद्य न विदुः सति संपद्यामह इति त इह व्याघ्रो वा सिंहो वा इत्यादिना। तस्मात्सिद्धमेतत् यावदात्मभावी बुद्ध्याद्युपाधिसंबन्ध इति।।


नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा । ( ब्रसू-२,३.३२ । )

भाष्यम्

शाङ्करभाष्यम्॥

तच्चात्मन उपाधिभूतम् अन्तःकरणं मनो बुद्धिर्विज्ञानं चित्तमिति च अनेकधा तत्र तत्राभिलप्यते क्वचिच्च वृत्तिविभागेन संशयादिवृत्तिकं मन इत्युच्यते निश्चयादिवृत्तिकं बुद्धिरिति तच्चैवं भूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां संनिधाने सति नित्यमेवोपलब्धिः प्रसज्येत अथ सत्यपि हेतुसमवधाने फलाभावः ततो नित्यमेवानुपलब्धिः प्रसज्येत न चैवं दृश्यते। अथवा अन्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धोऽभ्युपगन्तव्यः न च आत्मनः शक्तिप्रतिबन्धः संभवति अविक्रियत्वात् नापि इन्द्रियस्य न हि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्तिः प्रतिबध्येत। तस्मात् यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतः तन्मनः। तथा च श्रुतिः अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम् इति मनसा ह्येव पश्यति मनसा श्रृणोति इति च कामादयश्चास्य वृत्तय इति दर्शयति कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव इति। तस्माद्युक्तमेतत् तद्गुणसारत्वात्तद्व्यपदेश इति।।

कर्त्रधिकरणम्[सम्पाद्यताम्]

कर्ता शास्त्रार्थवत्त्वात् । ( ब्रसू-२,३.३३ । )

भाष्यम्

शाङ्करभाष्यम्॥

तद्गुणसारत्वाधिकारेणैवापरोऽपि जीवधर्मः प्रपञ्च्यते। कर्ता च अयं जीवः स्यात् कस्मात् शास्त्रार्थवत्त्वात् एवं च यजेत जुहुयात् दद्यात् इत्येवंविधं विधिशास्त्रमर्थवद्भवति अन्यथा तदनर्थकं स्यात् तद्धि कर्तुः सतः कर्तव्यविशेषमुपदिशति न च असति कर्तृत्वे तदुपपद्येत। तथेदमपि शास्त्रमर्थवद्भवति एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः इति।।

उपादानाद् विहारोपदेशाच् च । ( ब्रसू-२,३.३४ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च जीवस्य कर्तृत्वम् यज्जीवप्रक्रियायां संध्ये स्थाने विहारमुपदिशति स ईयतेऽमृतो यत्र कामम् इति स्वे शरीरे यथाकामं परिवर्तते इति च।। इतश्चास्य कर्तृत्वम् यज्जीवप्रक्रियायामेव करणानामुपादानं संकीर्तयति तदेषां प्राणानां विज्ञानेन विज्ञानमादाय इति प्राणान्गृहीत्वा इति च।।

व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः । ( ब्रसू-२,३.३५ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च जीवस्य कर्तृत्वम् यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम् विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च इति। ननु विज्ञानशब्दो बुद्धौ समधिगतः कथमनेन जीवस्य कर्तृत्वं सूच्यत इति नेत्युच्यते जीवस्यैवैष निर्देशः न बुद्धेः न चेज्जीवस्य स्यात् निर्देशविपर्ययः स्यात् विज्ञानेनेत्येवं निरदेक्ष्यत् तथा हि अन्यत्र बुद्धिविवक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते तदेषां प्राणानां विज्ञानेन विज्ञानमादाय इति इह तु विज्ञानं यज्ञं तनुते इति कर्तृसामानाधिकरण्यनिर्देशाद्बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत इत्यदोषः।।

अत्राह यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात् स स्वतन्त्रः सन् प्रियं हितं चैव आत्मनो नियमेन संपादयेत् न विपरीतम् विपरीतमपि तु संपादयन्नुपलभ्यते न च स्वतन्त्रस्यात्मनः ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति अत उत्तरं पठति

उपलब्धिवदनियमः । ( ब्रसू-२,३.३६ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथायमात्मोपलब्धिं प्रति स्वतन्त्रोऽपि अनियमेनेष्टमनिष्टं च उपलभते एवमनियमेनैवेष्टमनिष्टं च संपादयिष्यति उपलब्धावप्यस्वातन्त्र्यम् उपलब्धिहेतूपादानोपलम्भादिति चेत् न विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् उपलब्धौ तु अनन्यापेक्षत्वमात्मनः चैतन्ययोगात्। अपि च अर्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति देशकालनिमित्तविशेषापेक्षत्वात् न च सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम् सहकारिवैचित्र्याच्च इष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते।।

शक्तिविपर्ययात् । ( ब्रसू-२,३.३७ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हति। यदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात् ततः शक्तिविपर्ययः स्यात् करणशक्तिर्बुद्धेर्हीयेत कर्तृशक्तिश्चापद्येत सत्यां च बुद्धेः कर्तृशक्तौ तस्या एव अहंप्रत्ययविषयत्वमभ्युपगन्तव्यम् अहंकारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् अहं गच्छामि अहमागच्छामि अहं भुञ्जे अहं पिबामि इति च तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थकारि करणमन्यत्कल्पयितव्यम् शक्तोऽपि हि सन् कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यते ततश्च संज्ञामात्रे विवादः स्यात् न वस्तुभेदः कश्चित् करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात्।।

समाध्यभावाच् च । ( ब्रसू-२,३.३८ । )

भाष्यम्

शाङ्करभाष्यम्॥

योऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ओमित्येवं ध्यायथ आत्मानम् इत्येवंलक्षणः सोऽप्यसत्यात्मनः कर्तृत्वे नोपपद्येत। तस्मादप्यस्य कर्तृत्वसिद्धिः।।

तक्षाधिकरणम्[सम्पाद्यताम्]

यथा च तक्षोभयथा । ( ब्रसू-२,३.३९ । )

भाष्यम्

शाङ्करभाष्यम्॥

एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य प्रदर्शितम् तत्पुनः स्वाभाविकं वा स्यात् उपाधिनिमित्तं वेति चिन्त्यते। तत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकं कर्तृत्वम् अपवादहेत्वभावादिति। एवं प्राप्ते ब्रूमः न स्वाभाविकं कर्तृत्वमात्मनः संभवति अनिर्मोक्षप्रसङ्गात् कर्तृत्वस्वभावत्वे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः संभवति अग्नेरिवौष्ण्यात् न च कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः कर्तृत्वस्य दुःखरूपत्वात्। ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थः सेत्स्यति तत्परिहारश्च निमित्तपरिहारात् यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठवियोगाद्दहनकार्याभावः तद्वत् न निमित्तानामपि शक्तिलक्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभावात्। ननु मोक्षसाधनविधानान्मोक्षः सेत्स्यति न साधनायत्तस्य अनित्यत्वात्। अपि च नित्यशुद्धमुक्तात्मप्रतिपादनात् मोक्षसिद्धिरभिमता तादृगात्मप्रतिपादनं च न स्वाभाविके कर्तृत्वेऽवकल्पेत तस्मात् उपाधिधर्माध्यासेनैवात्मनः कर्तृत्वम् न स्वाभाविकम् तथा च श्रुतिः ध्यायतीव लेलायतीव इति आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः इति च उपाधिसंपृक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति। न हि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते नान्योऽतोऽस्ति द्रष्टा इत्यादिश्रवणात्। पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत परस्मादन्यश्चेच्चितिमाञ्जीवः कर्ता बुद्ध्यादिसंघातव्यतिरिक्तो न स्यात् न अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयोः तथा च शास्त्रम् यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इति तथा स्वप्नजागरितयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा तदभावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्वक्तस्य श्रावयति तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् इत्यारभ्य एषास्य परमा गतिरेषास्य परमा संपदेषोऽस्य परमो लोक एषोऽस्य परम आनन्दः इत्युपसंहारात्।।

तदेतदाहाचार्यः यथा च तक्षोभयथा इति। त्वर्थे च अयं चः पठितः। नैवं मन्तव्यम् स्वाभाविकमेवात्मनः कर्तृत्वम् अग्नेरिवौष्ण्यमिति यथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निर्वृतो निर्व्यापारः सुखी भवति एवमविद्याप्रत्युपस्थापितद्वैतसंपृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति सः तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसंघातोऽकर्ता सुखी भवति संप्रसादावस्थायाम् तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूय आत्मैव केवलो निर्वृत्तः सुखी भवति। तक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्यः तक्षा हि विशिष्टेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति स्वशरीरेण तु अकर्तैव एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति स्वात्मना तु कर्तैवेति। न तु आत्मनस्तक्ष्ण इवावयवाः सन्ति यैः हस्तादिभिरिव वास्यादीनि तक्षा मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा।।

यत्तूक्तम् शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति तन्न विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति न कर्तृत्वमात्मनः प्रतिपादयति न च स्वाभाविकमस्य कर्तृत्वमस्ति ब्रह्मात्मत्वोपदेशात् इत्यवोचाम तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते। कर्ता विज्ञानात्मा पुरुषः इत्येवंजातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति। एतेन विहारोपादाने परिहृते तयोरप्यनुवादरूपत्वात्। ननु संध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तते इति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहति तथोपादानेऽपि तदेषां प्राणानां विज्ञानेन विज्ञानमादाय इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इति अत्रोच्यते न तावत्संध्ये स्थानेऽत्यन्तमात्मनः करणविरमणमस्ति सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति इति तत्रापि धीसंबन्धश्रवणात् तथा च स्मरन्ति इन्द्रियाणामुपरमे मनोऽनुपरतं यदि। सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम् इति कामादयश्च मनसो वृत्तयः इति श्रुतिः ताश्च स्वप्ने दृश्यन्ते तस्मात्समना एव स्वप्ते विहरति विहारोऽपि च तत्रत्यो वासनामय एव न तु पारमार्थिकोऽस्ति तथा च श्रुतिः इवकारानुबद्धमेव स्वप्नव्यापारं वर्णयति उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् इति लौकिका अपि तथैव स्वप्नं कथयन्ति आरुक्षमिव गिरिश्रृङ्गम् अद्राक्षमिव वनराजिमिति तथोपादानेऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशः तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् केवले कर्तृत्वासंभवस्य दर्शितत्वात् भवति च लोकेऽनेकप्रकारा विवक्षा योधा युध्यन्ते योधै राजा युध्यत इति। अपि च अस्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते न स्वातन्त्र्यं कस्यचित् अबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात्। यस्त्वयं व्यपदेशो दर्शितः विज्ञानं यज्ञं तनुते इति स बुद्धेरेव कर्तृत्वं प्रापयति विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् मनोऽनन्तरं पाठाच्च तस्य श्रद्धैव शिरः इति च विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसंकीर्तनात् श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धेः विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते इति च वाक्यशेषात् ज्येष्ठत्वस्य च प्रथमजत्वस्य बुद्धौ प्रसिद्धत्वात् स एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञः इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात्। न च बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात् उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वम् सा चात्मनः न च तस्यामप्यस्य कर्तृत्वमस्ति नित्योपलब्धिस्वरूपत्वात्। अहंकारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति अहंकारस्याप्युपलभ्यमानत्वात् न चैवं सति करणान्तरकल्पनाप्रसङ्गः बुद्धेः करणत्वाभ्युपगमात्। समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव परिहृतः यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात्। तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम्।।

परायत्ताधिकरणम्[सम्पाद्यताम्]

परात् तु तच्छ्रुतेः । ( ब्रसू-२,३.४० । )

भाष्यम्

शाङ्करभाष्यम्॥

यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभिहितम् तत्किमनपेक्ष्येश्वरं भवति आहोस्विदीश्वरापेक्षमिति भवति विचारणा। तत्र प्राप्तं तावत् नेश्वरमपेक्षते जीवः कर्तृत्व इति कस्मात् अपेक्षाप्रयोजनाभावात् अयं हि जीवः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसंपन्नः कर्तृत्वमनुभवितुं शक्नोति तस्य किमीश्वरः करिष्यति न च लोके प्रसिद्धरस्ति कृष्यादिकासु क्रियास्वनडुहादिवत् ईश्वरोऽपरोऽपेक्षितव्य इति। क्लेशात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत विषमफलं च एषां कर्तृत्वं विदधतो वैषम्यम्। ननु वैषम्यनैर्घृण्ये न सापेक्षत्वात् इत्युक्तम् सत्यमुक्तम् सति तु ईश्वरस्य सापेक्षत्वसंभवे सापेक्षत्वं च ईश्वरस्य संभवति सतोर्जन्तूनां धर्माधर्मयोः तयोश्च सद्भावः सति जीवस्य कर्तृत्वे तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात् किंविषयमीश्वरस्य सापेक्षत्वमुच्येत। अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत। तस्मात्स्वत एवास्य कर्तृत्वमिति एतां प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीते परादिति अविद्यावस्थायां कार्यकरणसंघाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसिद्धिर्भवितुमर्हति कुतः तच्छ्रुतेः यद्यपि दोषप्रयुक्तः सामग्रीसंपन्नश्च जीवः यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धम् तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयते तथा हि श्रुतिर्भवति एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते। एष ह्येवासाधु कर्म कारयति तं यमधो निनीषते इति य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति इति च एवंजातीयका।।

ननु एवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घृण्ये स्याताम् अकृताभ्यागमश्च जीवस्येति नेत्युच्यत

कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ( ब्रसू-२,३.४१ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दश्चोदितदोषव्यावर्तनार्थः। कृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणः तदपेक्ष एवैनमीश्वरः कारयति अतश्चैते चोदिता दोषा न प्रसज्यन्ते जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषमं विभजेत्पर्जन्यवत् ईश्वरो निमित्तत्वमात्रेण यथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां च असाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः न हि असति पर्जन्ये रसपुष्पफलपलाशादिवैषम्यं तेषां जायते नाप्यसत्सु स्वस्वबीजेषु एवं जीवकृतप्रयत्नापेक्ष ईश्वरः तेषां शुभाशुभं विदध्यादिति श्लिष्यते। ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते नैष दोषः परायत्तेऽपि हि कर्तृत्वे करोत्येव जीवः कुर्वन्तं हि तमीश्वरः कारयति अपि च पूर्वप्रयत्नमपेक्ष्य इदानीं कारयति पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदिति अनादित्वात्संसारस्येति अनवद्यम्। कथं पुनरवगम्यते कृतप्रयत्नापेक्ष ईश्वर इति विहितप्रतिषिद्धावैयर्थ्यादिभ्यः इत्याह एवं हि स्वर्गकामो यजेत ब्राह्मणो न हन्तव्यः इत्येवंजातीयकस्य विहितस्य प्रतिषिद्धस्य च अवैयर्थ्यं भवति अन्यथा तदनर्थकं स्यात् ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत अत्यन्तपरतन्त्रत्वाज्जीवस्य तथा विहितकारिणमप्यनर्थेन संसृजेत् प्रतिषिद्धकारिणमप्यर्थेन ततश्च प्रामाण्यं वेदस्यास्तमियात् ईश्वरस्य च अत्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यम् तथा देशकालनिमित्तानाम् पूर्वोक्तदोषप्रसङ्गश्च इत्येवंजातीयकं दोषजातमादिग्रहणेन दर्शयति।।

अंशाधिकरणम्[सम्पाद्यताम्]

अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके । ( ब्रसू-२,३.४२ । )

भाष्यम्

शाङ्करभाष्यम्॥

जीवेश्वरयोरुपकार्योपकारकभाव उक्तः स च संबद्धयोरेव लोके दृष्टः यथा स्वामिभृत्ययोः यथा वा अग्निविस्फुलिङ्गयोः ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात् किं स्वामिभृत्यवत्संबन्धः आहोस्विदग्निविस्फुलिङ्गवत् इत्यस्यां विचिकित्सायाम् अनियमो वा प्राप्नोति। अथवा स्वामिभृत्यप्रकारेष्वेव ईशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव संबन्ध इति प्राप्नोति।।

अतो ब्रवीति अंश इति जीव ईश्वरस्यांशो भवितुमर्हति यथाग्नेर्विस्फुलिङ्गः अंश इवांशः न हि निरवयवस्य मुख्योंऽशः संभवति कस्मात्पुनः निरवयवत्वात् स एव न भवति नानाव्यपदेशात् सोऽन्वेष्टव्यः स विजिज्ञासितव्यः एतमेव विदित्वा मुनिर्भवति य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति इति च एवंजातीयको भेदनिर्देशो नासति भेदे युज्यते। ननु च अयं नानाव्यपदेशः सुतरां स्वामिभृत्यसारूप्ये युज्यत इति अत आह अन्यथा चापीति न च नानाव्यपदेशादेव केवलादंशत्वप्रतिपत्तिः किं तर्हि अन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः तथा ह्येके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका ब्रह्मसूक्ते ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाः इत्यादिना दाशा य एते कैवर्ताः प्रसिद्धाः ये च अमीदासाः स्वामिष्वात्मानमुपक्षपयन्ति ये च अन्ये कितवा द्यूतकृतः ते सर्वे ब्रह्मैव इति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसंघातप्रविष्टानां जीवानां ब्रह्मत्वमाह तथा अन्यत्रापि ब्रह्मप्रक्रियायामेवायमर्थः प्रपञ्च्यते त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी। त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवति विश्वतोमुखः इति सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते इति च नान्योऽतोऽस्ति द्रष्टा इत्यादिश्रुतिभ्यश्च अस्यार्थस्य सिद्धिः। चैतन्यं च अविशिष्टं जीवेश्वरयोः यथाग्निविस्फुलिङ्गयोरौष्ण्यम्। अतो भेदाभेदावगमाभ्यामंशत्वावगमः।।

कुतश्च अंशत्वावगमः

मन्त्रवर्णात् । ( ब्रसू-२,३.४३ । )

भाष्यम्

शाङ्करभाष्यम्॥

मन्त्रवर्णश्चैतमर्थमवगमयति तावानस्य महिमा। ततो ज्याया््च पुरुषः। पादोऽस्य सर्वा भूतानि। त्रिपादस्यामृतं दिवि इति अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः इति प्रयोगात् अंशः पादो भाग इत्यनर्थान्तरम् तस्मादप्यंशत्वावगमः।। कुतश्च अंशत्वावगमः

अपि स्मर्यते । ( ब्रसू-२,३.४४ । )

भाष्यम्

शाङ्करभाष्यम्॥

ईश्वरगीतास्वपि च ईश्वरांशत्वं जीवस्य स्मर्यते ममैवांशो जीवलोके जीवभूतः सनातनः इति तस्मादप्यंशत्वावगमः। यत्तूक्तम् स्वामिभृत्यादिष्वेव ईशित्रीशितव्यभावो लोके प्रसिद्ध इति यद्यप्येषा लोके प्रसिद्धिः तथापि शास्त्रात्तु अत्र अंशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते निरतिशयोपाधिसंपन्नश्चेश्वरो निहीनोपाधिसंपन्नाञ्जीवान् प्रशास्तीति न किंचिद्विप्रतिषिध्यते।।

अत्राह ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् यथा लोके हस्तपादाद्यन्यतमाङ्गतेन दुःखेन अङ्गिनो देवदत्तस्य दुःखित्वम् तद्वत् ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् अतो वरं पूर्वावस्थः संसार एवास्तु इति सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यात् इति अत्रोच्यते

प्रकाशादिवत् तु नैवं परः । ( ब्रसू-२,३.४५ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा जीवः संसारदुःखमनुभवति नैवं पर ईश्वरोऽनुभवतीति प्रतिजानीमहे जीवो हि अविद्यावेशवशात् देहाद्यात्मभावमिव गत्वा तत्कृतेन दुःखेन दुःखी अहम् इति अविद्यया कृतं दुःखोपभोगम् अभिमन्यते नैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वा अस्ति जीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुःखाभिमानः न तु पारमार्थिकोऽस्ति यथा च स्वदेहगतदाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवति अहमेव पुत्रः अहमेव मित्रम् इत्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमानः ततश्च निश्चितमेतदवगम्यते मिथ्याभिमानभ्रमनिमित्त एव दुःखानुभव इति। व्यतिरेकदर्शनाच्च एवमवगम्यते तथा हि पुत्रमित्रादिमत्सु बहुषूपविष्टेषु तत्संबन्धाभिमानिष्वितरेषु च पुत्रो मृतो मित्रं मृतमित्येवमाघोषिते येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दुःखमुत्पद्यते न अभिमानहीनानां परिव्राजकादीनाम्। अतश्च लौकिकस्यापि पुंसः सम्यग्दशनार्थवत्त्वं दृष्टम् किमुत विषयशून्यादात्मनोऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूपस्येति तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गः । प्रकाशादिवदिति निदर्शनोपन्यासः प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसंबन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानोऽपि न परमार्थतस्तद्भावं प्रतिपद्यते यथा च आकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानोऽपि न परमार्थतो गच्छति यथा च उदशरावादिकम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमानेऽपि न तद्वान्सूर्यः कम्पते एवमविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्ये अंशे दुःखायमानेऽपि न तद्वानीश्वरो दुःखायते। जीवस्यापि दुःखप्राप्तिरविद्यानिमित्तैवेत्युक्तम्। तथा च अविद्यानिमित्तजीवभावव्युदासेन ब्रह्मभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः तत्त्वमसि इत्येवमादयः। तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः।।

स्मरन्ति च । ( ब्रसू-२,३.४६ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्मरन्ति च व्यासादयः यथा जैवेन दुःखेन न परमात्मा दुःखायत इति तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः। न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा। कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते। स सप्तदशकेनापि राशिना युज्यते पुनः इति। चशब्दात् समामनन्ति च इति वाक्यशेषः तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति इति एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः इति च।।

अत्राह यदि तर्ह्येक एव सर्वेषां भूतानामन्तरात्मा स्यात् कथमनुज्ञापरिहारौ स्यातां लौकिकौ वैदिकौ चेति। ननु च अंशो जीव ईश्वरस्य इत्युक्तम् तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येते किमत्र चोद्यत इति उच्यते नैतदेवम् अनंशत्वमपि हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्ति तत्सृष्ट्वा तदेवानुप्राविशत् नान्योऽतोऽस्ति द्रष्टा मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति तत्त्वमसि अहं ब्रह्मास्मि इत्येवंजातीयकाः। ननु भेदाभेदावगमाभ्यामंशत्वं सिध्यतीत्युक्तम् स्यादेतदेवम् यद्युभावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम् अभेद एव त्वत्र प्रतिपिपादयिषितः ब्रह्मात्मत्वप्रतिपत्तौ पुरुषार्थसिद्धेः स्वभावप्राप्तस्तु भेदोऽनूद्यते न च निरवयवस्य ब्रह्मणो मुख्योंऽशो जीवः संभवतीत्युक्तम् तस्मात्पर एवैकः सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्तव्या अनुज्ञापरिहारोपपत्तिः। तां ब्रूमः

अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् । ( ब्रसू-२,३.४७ । )

भाष्यम्

शाङ्करभाष्यम्॥

ऋतौ भार्यामुपेयात् इत्यनुज्ञा गुर्वङ्गनां नोपगच्छेत् इति परिहारः तथा अग्नीषोमीयं पशुं संज्ञपयेत् इत्यनुज्ञा न हिंस्यात्सर्वा भूतानि इति परिहारः एवं लोकेऽपि मित्रमुपसेवितव्यमित्यनुज्ञा शत्रुः परिहर्तव्य इति परिहारः एवंप्रकारावनुज्ञापरिहारौ एकत्वेऽप्यात्मनः देहसंबन्धात् स्यात्। देहैः संबन्धो देहसंबन्धः कः पुनर्देहसंबन्धः देहादिरयं संघातोऽहमेव इत्यात्मनि विपरीतप्रत्ययोत्पत्तिः दृष्टा च सा सर्वप्राणिनाम् अहं गच्छामि अहमागच्छामि अहमन्धः अहमनन्धः अहं मूढः अहममूढः इत्येवमात्मिका न हि अस्याः सम्यग्दर्शनादन्यन्निवारकमस्ति प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषु। तदेवमविद्यानिमित्तदेहाद्युपाधिसंबन्धकृताद्विशेषादैकात्म्याभ्युपगमेऽप्यनुज्ञापरिहाराववकल्पेते। सम्यग्दर्शिनस्तर्ह्यनुज्ञापरिहारानर्थक्यं प्राप्तम् न तस्य कृतार्थत्वान्नियोज्यत्वानुपपत्तेः हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात् आत्मनस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन् कथं नियुज्येत न च आत्मा आत्मन्येव नियोज्यः स्यात्। शरीरव्यतिरेकदर्शिन एव नियोज्यत्वमिति चेत् न तत्संहतत्वाभिमानात् सत्यं व्यतिरेकदर्शिनो नियोज्यत्वम् तथापि व्योमादिवद्देहाद्यसंहतत्वमपश्यत एव आत्मनो नियोज्यत्वाभिमानः न हि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः किमुतैकात्म्यदर्शिनः। न च नियोगाभावात् सम्यग्दर्शिनो यथेष्टचेष्टाप्रसङ्गः सर्वत्राभिमानस्यैव प्रवर्तकत्वात् अभिमानाभावाच्च सम्यग्दर्शिनः। तस्माद्देहसंबन्धादेवानुज्ञापरिहारौ ज्योतिरादिवत् यथा ज्योतिष एकत्वेऽप्यग्निः क्रव्यात्परिह्रियते नेतरः यथा च प्रकाश एकस्यापि सवितुरमेध्यदेशसंबद्धः परिह्रियते नेतरः शुचिभूमिष्ठः तथा भौमाः प्रदेशा वज्रवैडूर्यादय उपादीयन्ते भौमा अपि सन्तो नरकलेबरादयः परिह्रियन्ते तथा मूत्रपुरीषं गवां पवित्रतया परिगृह्यते तदेव जात्यन्तरे परिवर्ज्यते तद्वत्।।

असन्ततेश् चाव्यतिकरः । ( ब्रसू-२,३.४८ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यातां नाम अनुज्ञापरिहारावेकस्यात्मनो देहविशेषयोगात् यस्त्वयं कर्मफलसंबन्धः स च ऐकात्म्याभ्युपगमे व्यतिकीर्येत स्वाम्येकत्वादिति चेत् नैतदेवम् असंततेः न हि कर्तुर्भोक्तुश्चात्मनः संततः सर्वैः शरीरैः संबन्धोऽस्ति उपाधितन्त्रो हि जीव इत्युक्तम् उपाध्यसंतानाच्च नास्ति जीवसंतानः ततश्च कर्मव्यतिकरः फलव्यतिकरो वा न भविष्यति।।

आभास एव च । ( ब्रसू-२,३.४९ । )

भाष्यम्

शाङ्करभाष्यम्॥

आभास एव च एष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः न स एव साक्षात् नापि वस्त्वन्तरम्। अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः। एवमव्यतिकर एव कर्मफलयोः। आभासस्य च अविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति तद्व्युदासेन च पारमार्थिकस्य ब्रह्मात्मभावस्योपदेशोपपत्तिः। येषां तु बहव आत्मानः ते च सर्वे सर्वगताः तेषामेवैष व्यतिकरः प्राप्नोति कथम् बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च तदर्थं साधारणं प्रधानम् तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्याः। सति बहुत्वे विभुत्वे च घटकुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतोऽचेतना आत्मानः तदुपकरणानि च अणूनि मनांस्यचेतनानि तत्र आत्मद्रव्याणां मनोद्रव्याणां च संयोगात् नव इच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते ते च अव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति स संसारः तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाः। तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां संनिधानाद्यविशेषाच्च एकस्य सुखदुःखसंबन्धे सर्वेषां सुखदुःखसंबन्धः प्राप्नोति। स्यादेतत् प्रधानप्रवृत्तेः पुरुषकैवल्यार्थत्वाद्व्यवस्था भविष्यति अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात् तथा च अनिर्मोक्षः प्रसज्येतेति नैतत्सारम् न हि अभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम् उपपत्त्या तु कयाचिद्व्यवस्थोच्येत असत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यम् प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरः। काणादानामपि यदा एकेनात्मना मनः संयुज्यते तदा आत्मान्तरैरपि नान्तरीयकः संयोगः स्यात् संनिधानाद्यविशेषात् ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत।।

स्यादेतत् अदृष्टनिमित्तो नियमो भविष्यतीति नेत्याह

अदृष्टानियमात् । ( ब्रसू-२,३.५० । )

भाष्यम्

शाङ्करभाष्यम्॥

बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्याभ्यन्तराविशेषेण संनिहितेषु मनोवाक्कायैर्धर्माधर्मलक्षणमदृष्टमुपार्ज्यते। सांख्यानां तावत् तदनात्मसमवायि प्रधानवर्ति। प्रधानसाधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते। काणादानामपि पूर्ववत्साधारणेनात्ममनःसंयोगेन निर्वर्तितस्यादृष्टस्यापि अस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः।।

स्यादेतत् अहमिदं फलं प्राप्नवानि इदं परिहराणि इत्थं प्रयतै इत्थं करवाणि इत्येवंविधा अभिसंध्यादयः प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति नेत्याह

अभिसन्ध्यादिष्व् अपि चैवम् । ( ब्रसू-२,३.५१ । )

भाष्यम्

शाङ्करभाष्यम्॥

अमिसंध्यादीनामपि साधारणेनैवात्ममनःसंयोगेन सर्वात्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव।।

प्रदेशभेदाद् इति चेन् नान्तर्भावात् । ( ब्रसू-२,३.५२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथोच्येत विभुत्वेऽप्यात्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एव आत्मप्रदेशे भविष्यति अतः प्रदेशकृता व्यवस्था अभिसंध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीति तदपि नोपपद्यते कस्मात् अन्तर्भावात् विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्ति तत्र न वैशेषिकैः शरीरावच्छिन्नोऽप्यात्मनः प्रदेशः कल्पयितुं शक्यः कल्प्यमानोऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति शरीरमपि सर्वात्मसंनिधावुत्पद्यमानम् अस्यैव आत्मनः नेतरेषाम् इति न नियन्तुं शक्यम्। प्रदेशविशेषाभ्युपगमेऽपि च द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात् तथा हि देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत् तस्मात्प्रदेशादपक्रान्ते तच्छरीरे यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते तस्यापि इतरेण समानः सुखदुःखानुभवो दृश्यते स न स्यात् यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमदृष्टं न स्यात्। स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वर्गाद्युपभोगस्य। सर्वगतत्वानुपपत्तिश्च बहूनामात्मनाम् दृष्टान्ताभावात् वद तावत् त्वम् के बहवः समानदेशाश्चेति रूपादय इति चेत् न तेषामपि धर्म्यंशेनाभेदात् लक्षणभेदाच्च न तु बहूनामात्मनां लक्षणभेदोऽस्ति अन्त्यविशेषवशाद्भेदोपपत्तिरिति चेत् न भेदकल्पनाया अन्त्यविशेषकल्पनायाश्च इतरेतराश्रयत्वात् आकाशादीनामपि विभुत्वं ब्रह्मवादिनोऽसिद्धम् कार्यत्वाभ्युपगमात्। तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः।।