ब्रह्मसूत्रम्/द्वितीयः अध्यायः/प्रथमः पादः

विकिस्रोतः तः
← प्रथमः पादः ब्रह्मसूत्रम्
द्वितीयाध्याये प्रथमः पादः
वेदव्यासः
द्वितीयः पादः →

स्मृत्यधिकरणम्[सम्पाद्यताम्]

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । ( ब्रसू-२,१.१ । )

भाष्यम्

शाङ्करभाष्यम्॥


यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणम् इति तदयुक्तम् कुतः स्मृत्यनवकाशदोषप्रसङ्गात् स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसारिण्यः स्मृतयः ता एवं सत्यनवकाशाः प्रसज्येरन्। तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते। मन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्ति अस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनम् ईदृशश्चाचारः इत्थं वेदाध्ययनम् इत्थं समावर्तनम् इत्थं सहधर्मचारिणीसंयोग इति तथा पुरुषार्थांश्चतुर्वर्णाश्रमधर्मान्नानाविधान्विदधति। नैवं कापिलादिस्मृतीनामनुष्ठेये विषये अवकाशोऽस्ति। मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः। यदि तत्राप्यनवकाशाः स्युः आनर्थक्यमेवासां प्रसज्येत। तरमात्तदविरोधेन वेदान्ता व्याख्यातव्याः। कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते भवेदयमनाक्षेपः स्वतन्त्रप्रज्ञानाम् परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् अस्मत्कृते च व्याख्याने न विश्वस्युः बहुमानात्स्मृतीनां प्रणेतृषु कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते श्रुतिश्च भवति ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् इति तस्मान्नैषां मतमयथार्थं शक्यं संभावयितुम् तर्कावष्टम्भेन च तेऽर्थं प्रतिष्ठापयन्ति तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः।।

तस्य समाधिः नान्यस्मृत्यनवकाशदोषप्रसङ्गात् इति। यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन् ता उदाहरिष्यामः यत्तत्सूक्ष्ममविज्ञेयम् इति परं ब्रह्म प्रकृत्य स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते इति चोक्त्वा तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम इत्याह तथान्यत्रापि अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे संप्रलीयते इत्याह अतश्च संक्षेपमिमं श्रृणुध्वं नारायणः सर्वमिदं पुराणः। स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः इति पुराणे भगवद्गीतासु च अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा इति परमात्मानमेव च प्रकृत्यापस्तम्बः पठति तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः इति। एवमनेकशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते। स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं प्रवक्ष्यामीत्यतोऽयमन्यस्मृत्यनवकाशदोषोपन्यासः। दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम् विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम् अनपेक्ष्या इतराः तदुक्तं प्रमाणलक्षणे विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् इति। न चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुम् निमित्ताभावात् शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् न सिद्धेरपि सापेक्षत्वात् धर्मानुष्ठानापेक्षा हि सिद्धिः स च धर्मश्चोदनालक्षणः ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात् तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहणीया। या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम् कपिलमिति श्रुतिसामान्यमात्रत्वात् अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात्। भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः यद्वै किंच मनुरवदत्तद्भेषजम् इति मनुना च सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते आत्मभेदाभ्युपगमात्। महाभारतेऽपि च बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु इति विचार्य बहवः पुरुषा राजन्सांख्ययोगविचारिणाम् इति परपक्षमुपन्यस्य तद्व्युदासेन बहूनां पुरुषाणां हि यथैका योनिरुच्यते। तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् इत्युपक्रम्य ममान्तरात्मा तव च ये चान्ये देहिसंज्ञिताः। सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्।। विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः। एकश्चरति भूतेषु स्वैरचारी यथासुखम् इति सर्वात्मतैव निर्धारिता। श्रुतिश्च सर्वात्मतायां भवति यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः इत्येवंविधा। अतश्च सिद्धमात्मभेदकल्पनयापि कापिलस्य तन्त्रस्य वेदविरुद्धत्वं वेदानुसारिमनुवचनविरुद्धत्वं च न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति। वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम् रवेरिव रूपविषये पुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षः। तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशदोषप्रसङ्गो न दोषः।।

कुतश्च स्मृत्यनवकाशदोषप्रसङ्गो न दोषः

इतरेषां चानुपलब्धेः । ( ब्रसू-२,१.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पितानि महदादीनि न तानि वेदे लोके चोपलभ्यन्ते। भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम्। अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्पते। यदपि क्वचित्तत्परमिव श्रवणमवभासते तदप्यतत्परं व्याख्यातम् आनुमानिकमप्येकेषाम् इत्यत्र। कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः। तस्मादपि न स्मृत्यनवकाशदोषप्रसङ्गो दोषः। तर्कावष्टम्भं तु न विलक्षणत्वात् इत्यारभ्योन्मथिष्यति।।

योगप्रत्युक्त्यधिकरणम्[सम्पाद्यताम्]

एतेन योगः प्रत्युक्तः । ( ब्रसू-२,१.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति। तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणम् महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते। नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतम् किमर्थं पुनरतिदिश्यते अस्ति ह्यत्राभ्यधिकाशङ्का सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इति त्रिरुन्नतं स्थाप्य समं शरीरम् इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् इति विद्यामेतां योगविधिं च कृत्स्नम् इति चैवमादीनि योगशास्त्रेऽपि अथ तद्दर्शनाभ्युपायो योगः इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियते अतः संप्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति इयमप्यधिका शङ्कातिदेशेन निवर्त्यते अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात्। सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ शिष्टैश्च परिगृहीतौ लिङ्गेन च श्रौतेनोपबृंहितौ तत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः इति निराकरणं तु न सांख्यस्मृतिज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय इति द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः। यत्तु दर्शनमुक्तम् तत्कारणं सांख्ययोगाभिपन्नम् इति वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्येते प्रत्यासत्तेरित्यवगन्तव्यम्। येन त्वंशेन न विरुध्येते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् तद्यथा असङ्गो ह्ययं पुरुषः इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते तथा च यौगैरपि अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते। एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेत् उपकुर्वन्तु नाम तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति नावेदविन्मनुते तं बृहन्तम् तं त्वौपनिषदं पुरुषं पृच्छामि इत्येवमादिश्रुतिभ्यः।।

विलक्षणत्वाधिकरणम्[सम्पाद्यताम्]

न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् । ( ब्रसू-२,१.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः तर्कनिमित्त इदानीमाक्षेपः परिह्रियते। कुतः पुनरस्मिन्नवधारिते आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः ननु धर्म इव ब्रह्मण्यप्यनपेक्ष आगमो भवितुमर्हति भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयोऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः परिनिष्पन्नरूपं तु ब्रह्मावगम्यते परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेत दृष्टसाधर्म्येण चादृष्टमर्थं समर्पयन्ती युक्तिरनुभवस्य संनिकृष्यते विप्रकृष्यते तु श्रुतिः ऐतिह्यमात्रेण स्वार्थाभिधानात् अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते श्रुतिरपि श्रोतव्यो मन्तव्यः इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते न विलक्षणत्वादस्य इति।।

यदुक्तम् चेतनं ब्रह्म जगतः कारणं प्रकृतिः इति तन्नोपपद्यते कस्मात् विलक्षणत्वादस्य विकारस्य प्रकृत्याः इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगद्ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते न च विलक्षणत्वे प्रकृतिविकारभावो दृष्टः न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति शरावादयो वा सुवर्णप्रकृतिकाः मृदैव तु मृदन्विता विकाराः प्रक्रियन्ते सुवर्णेन च सुवर्णान्विताः तथेदमपि जगदचेतनं सुखदुखमोहान्वितं सत् अचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हति न विलक्षणस्य ब्रह्मणः। ब्रह्मविलक्षणत्वं चास्य जगतोऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् अशुद्धं हीदं जगत् सुखदुःखमोहात्मकतया प्रतीयते प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च अचेतनं चेदं जगत् चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात् न हि साम्ये सत्युपकार्योपकारकभावो भवति न हि प्रदीपौ परस्परस्योपकुरुतः। ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति न स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिरचेतनभागः स एवान्यस्य चेतनस्योपकरोति न तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते तस्मादचेतनं कार्यकारणम्। न च काष्ठलोष्टादीनां चेतनत्वे किंचित्प्रमाणमस्ति प्रसिद्धश्चायं चेतनाचेतनविभागो लोके। तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम्। योऽपि कश्चिदाचक्षीत श्रुत्या जगतश्चेतनप्रकृतिकताम् तद्बलेनैव समस्तं जगच्चेतनमवगमिष्यामि प्रकृतिरूपस्य विकारेऽन्वयदर्शनात् अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्छाद्यवस्थासु चैतन्यं न विभाव्यते एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते एतस्मादेव च विभावितत्वाविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते यथा च पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवति एवमिहापि भविष्यति प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति तेनापि कथंचिच्चेतनत्वाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते। न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह तथात्वं च शब्दादिति अनवगम्यमानमेव हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षेत तच्च शब्देनैव विरुध्यते यतः शब्दादपि तथात्वमवगम्यते तथात्वमिति प्रकृतिविलक्षणत्वं कथयति शब्द एव विज्ञानं चाविज्ञानं च इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति।।

ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते यथा मृदब्रवीत् आपोऽब्रुवन् इति तत्तेज ऐक्षत ता आप ऐक्षन्त इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः इन्द्रियविषया अपि ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः इति ते ह वाचमूचुस्त्वं न उद्गायेति इत्येवमाद्येन्द्रियविषयेति। अत उत्तरं पठति

अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् । ( ब्रसू-२,१.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्द आशङ्कामपनुदति। न खलु मृदब्रवीत् इत्येवंजातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम् यतोऽभिमानिव्यपदेश एषः मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतनादेवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते न भूतेन्द्रियमात्रम् कस्मात् विशेषानुगतिभ्याम् विशेषो हि भोक्तृ़णां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः सर्वचेतनतायां चासौ नोपपद्येत अपि च कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति एता ह वै देवता अहंश्रेयसे विवदमानाः इति ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा इति च अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता मन्त्रार्थवादेतिहासपुराणादिभ्योऽवगम्यन्ते अग्निर्वाग्भूत्वा मुखं प्राविशत् इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति प्राणसंवादवाक्यशेषे च ते ह प्राणाः प्रजापतिं पितरमेत्योचुः इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनम् तद्वचनाच्चैकैकोत्क्रमणेनान्वयव्यतिरेकाभ्यां प्राणश्रैष्ठ्यप्रतिपत्तिः तस्मै बलिहरणम् इति चैवंजातीयकोऽस्मदादिष्विव व्यवहारोऽनुगम्यमानोऽभिमानिव्यपदेशं द्रढयति तत्तेज ऐक्षत इत्यपि परस्या एव देवताया अधिष्ठात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम्। तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत् विलक्षणत्वाच्च न ब्रह्मप्रकृतिकमित्याक्षिप्ते प्रतिविधत्ते

दृश्यते तु । ( ब्रसू-२,१.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दः पक्षं व्यावर्तयति। यदुक्तम् विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकम् इति नायमेकान्तः दृश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम्। नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति उच्यते एवमपि किंचिदचेतनं चेतनस्यायतनभावमुपगच्छति किंचिन्नेत्यस्त्येव वैलक्षण्यम्। महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च रूपादिभेदात् तथा गोमयादीनां वृश्चिकादीनां च। अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत। अथोच्येत अस्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां च वृश्चिकादिष्विति ब्रह्मणोऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानो दृश्यते। विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतिकत्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयते उत यस्य कस्यचित् अथ चैतन्यस्येति वक्तव्यम् प्रथमे विकल्पे समस्तप्रकृतिविकारभावोच्छेदप्रसङ्गः न ह्यसत्यतिशये प्रकृतिविकारभाव इति भवति। द्वितीये चासिद्धत्वम् दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम्। तृतीये तु दृष्टान्ताभावः किं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मकारणवादिनं प्रत्युदाह्रियेत समस्तस्यास्य वस्तुजातस्य ब्रह्मप्रकृतिकत्वाभ्युपगमात्। आगमविरोधस्तु प्रसिद्ध एव चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात्। यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि संभवेयुरिति तदपि मनोरथमात्रम् रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः लिङ्गाद्यभावाच्च नानुमानादीनाम् आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् तथा च श्रुतिः नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ इति को अद्धा वेद क इह प्रवोचत् इयं विसृष्टिर्यत आबभूव इति चैते ऋचौ निजसिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः स्मृतिरपि भवति अचिन्त्याः खलु ये भावा न ता्तर्केण योजयेत् इति अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते इति च न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः इति चैवंजातीयका। यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः संभवति श्रुत्यनुगृहीत एव ह्यत्र तर्कोऽनुभवाङ्गत्वेनाश्रीयते स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वागतत्वम् संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तेर्निष्प्रपञ्चसदात्मकत्वम् प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेकः इत्येवंजातीयकः तर्काप्रतिष्ठानादिति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति। योऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षेत तस्यापि विज्ञानं चाविज्ञानं च इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम्। परस्यैव त्विदमपि विभागश्रवणं न युज्यते कथम् परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते विज्ञानं चाविज्ञानं चाभवत् इति तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात् एवमचेतनस्यापि चेतनभावो नोपपद्यते। प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथा श्रुत्यैव चेतनं कारणं ग्रहीतव्यं भवति।।

असद् इति चेन् न प्रतिषेधमात्रत्वात् । ( ब्रसू-२,१.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदि चेतनं शुद्धं शब्दादिहीनं च ब्रह्म तद्विपरीतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येत असत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् नैष दोषः प्रतिषेधमात्रत्वात् प्रतिषेधमात्रं हीदम् नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति न ह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति। कथम् यथैव हीदानीमपीदं कार्यं कारणात्मना सत् एवं प्रागुत्पत्तेरपीति गम्यते न हीदानीमपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद इत्यादिश्रवणात् कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम्। ननु शब्दादिहीनं ब्रह्म जगतः कारणम् बाढम् न तु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वा अस्ति तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति। विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः।।

अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् । ( ब्रसू-२,१.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अत्राह यदि स्थौल्यसावयवत्त्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं ब्रह्मकारणकमभ्युपगम्येत तदापीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदिति अपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुद्ध्यादिरूपताप्रसङ्गात् सर्वज्ञं ब्रह्म जगतः कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनम्। अपि च समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम्। अपि च भोक्तृ़णां परेण ब्रह्मणा अविभागं गतानां कर्मादिनिमित्तप्रलयेऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्पत्तिप्रसङ्गादसमञ्जसम्। अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेत एवमप्यपीतिश्च न संभवति कारणाव्यतिरिक्तं च कार्यं न संभवतीत्यसमञ्जसमेवेति।।

अत्रोच्यते

न तु दृष्टान्तभावात् । ( ब्रसू-२,१.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

नैवास्मदीये दर्शने किंचिदसामञ्जस्यमस्ति। यत्तावदभिहितम् कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति न तद्दूषणम् कस्मात् दृष्टान्तभावात् सन्ति हि दृष्टान्ताः यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति तद्यथा शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति रुचकादयश्च सुवर्णविकारा अपीतौ न पुनः सुवर्णमात्मीयेन धर्मेण संसृजन्ति पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तोऽस्ति अपीतिरेव हि न संभवेत् यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत अनन्यत्वेऽपि कार्यकारणयोः कार्यस्य कारणात्मत्वम् न तु कारणस्य कार्यात्मत्वम् आरम्भणशब्दादिभ्यः इत्यत्र वक्ष्यामः। अत्यल्पं चेदमुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति स्थितावपि हि समानोऽयं प्रसङ्गः कार्यकारणयोरनन्यत्वाभ्युपगमात् इदं सर्वं यदयमात्मा आत्मैवेदं सर्वम् ब्रह्मैवेदममृतं पुरस्तात् सर्वं खल्विदं ब्रह्म इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणादनन्यत्वं श्राव्यते तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति अपीतावपि स समानः। अस्ति चायमपरो दृष्टान्तः यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यते अवस्तुत्वात् एवं परमात्मापि संसारमायया न संस्पृश्यत इति यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते प्रबोधसंप्रसादयोरनन्वागतत्वात् एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते मायामात्रं ह्येतत् यत्परमात्मनोऽवस्थात्रयात्मनावभासनम् रज्ज्वा इव सर्पादिभावेनेति अत्रोक्तं वेदान्तार्थसंप्रदायविद्भिराचार्यैः अनादिमायया सुप्तो यदा जीवः प्रबुध्यते। अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा इति तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इति एतदयुक्तम्। यत्पुनरेतदुक्तम् समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति अयमप्यदोषः दृष्टान्तभावादेव यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवति एवमिहापि भविष्यति श्रुतिश्चात्र भवति इमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति इति यथा ह्यविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितौ दृश्यते एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते। एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात्। यः पुनरयमन्तेऽपरो विकल्प उत्प्रेक्षितः अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति सोऽप्यनभ्युपगमादेव प्रतिषिद्धः। तस्मात्समञ्जसमिदमौपनिषदं दर्शनम्।।

स्वपक्षदोषाच् च । ( ब्रसू-२,१.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुःष्युः कथमित्युच्यते यत्तावदभिहितम् विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति प्रधानप्रकृतिकतायामपि समानमेतत् शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात् अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात्समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गः तथापीतौ कार्यस्य कारणाविभागाभ्युपगमात्तद्वत्प्रसङ्गोऽपि समानः तथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेषु इदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदाः न ते तथैव पुनरुत्पत्तौ नियन्तुं शक्यन्ते कारणाभावात् विनैव च कारणेन नियमेऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गः अथ केचिद्भेदा अपीतावविभागमापद्यन्ते केचिन्नेति चेत् ये नापद्यन्ते तेषां प्रधानकार्यत्वं न प्राप्नोति इत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीति अदोषतामेवैषां द्रढयति अवश्याश्रयितव्यत्वात्।।

तर्काप्रतिष्ठानाद् अपि । ( ब्रसू-२,१.११ । )

अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः । ( ब्रसू-२,१.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च नागमगम्येऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यम् यस्मान्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति उत्प्रेक्षाया निरङ्कुशत्वात् तथा हि कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्ततरैरन्यैराभास्यमाना दृश्यन्ते तैरप्युत्प्रेक्षिताः सन्तस्ततोऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुम् पुरुषमतिवैरूप्यात्। अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य अन्यस्य वा संमतस्तर्कः प्रतिष्ठित इत्याश्रीयेत एवमप्यप्रतिष्ठितत्वमेव प्रसिद्धमाहात्म्याभिमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात्। अथोच्येत अन्यथा वयमनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति न हि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम् एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते केषांचित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वकल्पनात् सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्गः अतीतवर्तमानाध्वसाम्येन ह्यनागतेऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते मनुरपि चैवमेव मन्यते प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम्। त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता इति। आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना। यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः इति च ब्रुवन् अयमेव च तर्कस्यालंकारः यदप्रतिष्ठितत्वं नाम एवं हि सावद्यतर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति न हि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किंचिदस्ति प्रमाणम् तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत् एवमप्यविमोक्षप्रसङ्गः यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य न हीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम् रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम। अपि च सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमः तच्च सम्यग्ज्ञानमेकरूपम् वस्तुतन्त्रत्वात् एकरूपेण ह्यवस्थितो योऽर्थः स परमार्थः लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते यथाग्निरुष्ण इति तत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिष्ठापितम् तदपरेण व्युत्थाप्यते तेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति च प्रसिद्धं लोके कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् न च प्रधानवादी तर्कविदामुत्तम इति सर्वैस्तार्किकैः परिगृहीतः येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि न च शक्यन्तेऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुम् येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात् वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेः तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम् अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् अतोऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत। अत आगमवशेन आगमानुसारितर्कवशेन च चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति स्थितम्।।

शिष्टापरिग्रहाधिकरणम्[सम्पाद्यताम्]

एतेन शिष्टापरिग्रहा अपि व्याख्याताः । ( ब्रसू-२,१.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्टैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः स परिहृतः इदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्यत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति परिगृह्यन्त इति परिग्रहाः न परिग्रहाः अपरिग्रहाः शिष्टानामपरिग्रहाः शिष्टापरिग्रहाः एतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेन शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता येऽण्वादिकारणवादाः तेऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याः तुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किंचिदस्ति तुल्यमत्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वम् तर्कस्य चाप्रतिष्ठितत्वम् अन्यथानुमानेऽप्यविमोक्षः आगमविरोधश्च इत्येवंजातीयकं निराकरणकारणम्।।

भोक्त्रापत्यधिकरणम्[सम्पाद्यताम्]

भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् । ( ब्रसू-२,१.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते। यद्यपि श्रुतिः प्रमाणं स्वविषये भवति तथापि प्रमाणान्तरेण विषयापहारेऽन्यपरा भवितुमर्हति यथा मन्त्रार्थवादौ तर्कोऽपि स्वविषयादन्यत्राप्रतिष्ठितः स्यात् यथा धर्माधर्मयोः किमतः यद्येवम् अत इदमयुक्तम् यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेः कथं पुनः प्रमाणान्तरप्रसिद्धोऽर्थः श्रुत्या बाध्यत इति अत्रोच्यते प्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोके भोक्ता चेतनः शारीरः भोग्याः शब्दादयो विषया इति यथा भोक्ता देवदत्तः भोग्य ओदन इति तस्य च विभागस्याभावः प्रसज्येत यदि भोक्ता भोग्यभावमापद्येत भोग्यं वा भोक्तृभावमापद्येत तयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्रह्मणोऽनन्यत्वात्प्रसज्येत न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टः तथातीतानागतयोरपि कल्पयितव्यः तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिच्चोदयेत् तं प्रति ब्रूयात् स्याल्लोकवदिति। उपपद्यत एवायमस्मत्पक्षेऽपि विभागः एवं लोके दृष्टत्वात्। तथा हि समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीचीतरङ्गबुद्बुदादीनामितरेतरविभाग इतरेतरासंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते न च समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति न च तेषामितरेतरभावानांपत्तावपि समुद्रात्मनोऽन्यत्वं भवति एवमिहापि न भोक्तृभोग्ययोरितरेतरभावापत्तिः न च परस्माद्ब्रह्मणोऽन्यत्वं भविष्यति। यद्यपि भोक्ता न ब्रह्मणो विकारः तत्सृष्ट्वा तदेवानुप्राविशत् इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात् तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्तः इत्यतः परमकारणाद्ब्रह्मणोऽनन्यत्वेऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम्।।

आरम्भणाधिकरणम्[सम्पाद्यताम्]

तदनन्यत्वम् आरम्भणशब्दादिभ्यः । ( ब्रसू-२,१.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम् स्याल्लोकवत् इति परिहारोऽभिहितः न त्वयं विभागः परमार्थतोऽस्ति यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते। कार्यमाकाशादिकं बहुप्रपञ्चं जगत् कारणं परं ब्रह्म तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते कुतः आरम्भणशब्दादिभ्यः। आरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञात््याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इति एतदुक्तं भवति एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् यतो वाचारम्भणं विकारो नामधेयम् वाचैव केवलमस्तीत्यारभ्यते विकारः घटः शराव उदञ्चनं चेति न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति नामधेयमात्रं ह्येतदनृतम् मृत्तिकेत्येव सत्यम् इति एष ब्रह्मणो दृष्टान्त आम्नातः तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते। पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति अपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् इत्यादिना। आरम्भणशब्दादिभ्य इत्यादिशब्दात् ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि इदं सर्वं यदयमात्मा ब्रह्मैवेदं सर्वम् आत्मैवेदं सर्वम् नेह नानास्ति किंचन इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् न चान्यथा एकविज्ञानेन सर्वविज्ञानं संपद्यते। तस्माद्यथा घटकरकाद्याकाशानां महाकाशादनन्यत्वम् यथा च मृगतृष्णिकोदकादीनामूषरादिभ्योऽनन्यत्वम् दृष्टनष्टस्वरूपत्वात् स्वरूपेण त्वनुपाख्यत्वात् एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम्।।

नन्वनेकात्मकं ब्रह्म यथा वृक्षोऽनेकशाखः एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म अत एकत्वं नानात्वं चोभयमपि सत्यमेव यथा वृक्ष इत्येकत्वं शाखा इति च नानात्वम् यथा च समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् यथा च मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति एवं च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति। नैवं स्यात् मृत्तिकेत्येव सत्यम् इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् दार्ष्टान्तिकेऽपि ऐतदात्म्यमिदं सर्वं तत्सत्यम् इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् स आत्मा तत्त्वमसि श्वेतकेतो इति च शारीरस्य ब्रह्मभावोपदेशात् स्वयं प्रसिद्धं ह्येतच्छारीरस्य ब्रह्मात्मत्वमुपदिश्यते न यत्नान्तरप्रसाध्यम् अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमभ्युपगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं संपद्यते रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् बाधिते च शारीरात्मत्वे तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति यत्प्रसिद्धये नानात्वांशोऽपरो ब्रह्मणः कल्प्येत दर्शयति च यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् न चायं व्यवहाराभावोऽवस्थाविशेषनिबद्धोऽभिधीयते इति युक्तं वक्तुम् तत्त्वमसि इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् तस्करदृष्टान्तेन चानृताभिसंधस्य बन्धनं सत्याभिसंधस्य च मोक्षं दर्शयन् एकत्वमेवैकं पारमार्थिकं दर्शयति मिथ्याज्ञानविजृम्भितं च नानात्वम् उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तुरनृताभिसंध इत्युच्यते मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इति च भेददृष्टिमपवदन्नेतदेव दर्शयति न चास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते सम्यग्ज्ञानापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते। नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावात्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन निर्विषयत्वात् स्थाण्वादिष्विव पुरुषादिज्ञानानि तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत मोक्षशास्त्रस्यापि शिष्यशासित्रादि भेदापेक्षत्वात्तदभावे व्याघातः स्यात् कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति। अत्रोच्यते नैष दोषः सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः स्वप्नव्यवहारस्येव प्राग्बोधात् यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते विकारानेव तु अहम् मम इत्यविद्यया आत्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा तस्मात्प्राग्ब्रह्मात्मताप्रबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्ने उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात् न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति तद्वत्। कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत न हि रज्जुसर्पेण दष्टो म्रियते नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति। नैष दोषः शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् तत्र ब्रूमः यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतम् तथापि तदवगतिः सत्यमेव फलम् प्रतिबुद्धस्याप्यबाध्यमानत्वात् न हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित्। एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः। तथा च श्रुतिः यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने इत्यसत्येन स्वप्नदर्शनेन सत्यायाः फलसमृद्धेः प्राप्तिं दर्शयति तथा प्रत्यक्षदर्शनेषु सत्यायाः फलसमृद्धेः प्राप्तिं दर्शयति तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु न चिरमिव जीविष्यतीति विद्यात् इत्युक्त्वा अथ यः स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्यादिना तेनासत्येनैव स्वप्नदर्शनेन सत्यमरणं सूच्यत इति दर्शयति प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यते ईदृशेनासाध्वागम इति तथा अकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः। अपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकम् नातःपरं किंचिदाकाङ्क्ष्यमस्ति यथा हि लोके यजेतेत्युक्ते किम् केन कथम् इत्याकाङ्क्ष्यते नैवं तत्त्वमसि अहं ब्रह्मास्मि इत्युक्ते किंचिदन्यदाकाङ्क्ष्यमस्ति सर्वात्मैकत्वविषयत्वादवगतेः सति ह्यन्यस्मिन्नवशिष्यमाणेऽर्थे आकाङ्क्षा स्यात् न त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति य आकाङ्क्ष्येत। न चेयमवगतिर्नोत्पद्यत इति शक्यं वक्तुम् तद्धास्य विजज्ञौ इत्यादिश्रुतिभ्यः अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधीयमानत्वात्। न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् अविद्यानिवृत्तिफलदर्शनात् बाधकज्ञानान्तराभावाच्च। प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम। तस्मादन्त्येन प्रमाणेन प्रतिपादिते आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वात् न अनेकात्मकब्रह्मकल्पनावकाशोऽस्ति। ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति। नेत्युच्यते स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म स एष नेति नेत्यात्मा अस्थूलमनणु इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यः ब्रह्मणः कूटस्थत्वावगमात् न ह्येकस्य ब्रह्मणः परिणामधर्मत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम् स्थितिगतिवत्स्यादिति चेत् न कूटस्थस्येति विशेषणात् न हि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं संभवति कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम न च यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनम् एवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते प्रमाणाभावात् कूटस्थब्रह्मात्मैकत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम् स एष नेति नेत्यात्मा इत्युपक्रम्य अभयं वै जनक प्राप्तोऽसि इत्येवंजातीयकम्। तत्रैतत्सिद्धं भवति ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्याम् यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते फलवत्संनिधावफलं तदङ्गमितिवत् न तु स्वतन्त्रं फलाय कल्प्यत इति। न हि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तम् कूटस्थनित्यत्वान्मोक्षस्य। ननु कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यात् ईशित्रीशितव्याभावे ईश्वरकारणप्रतिज्ञाविरोध इति चेत् न अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य। तस्माद्वा एतस्मादात्मन आकाशः संभूतः इत्यादिवाक्येभ्यः नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थितिप्रलयाः नाचेतनात्प्रधानादन्यस्माद्वा इत्येषोऽर्थः प्रतिज्ञातः जन्माद्यस्य यतः इति सा प्रतिज्ञा तदवस्थैव न तद्विरुद्धोऽर्थः पुनरिहोच्यते। कथं नोच्यते अत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता श्रृणु यथा नोच्यते सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति न श्रुतिस्मृत्योरभिलप्येते ताभ्यामन्यः सर्वज्ञ ईश्वरः आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म इति श्रुतेः नामरूपे व्याकरवाणि सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते एकं बीजं बहुधा यः करोति इत्यादिश्रुतिभ्यश्च एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति व्योमेव घटकरकाद्युपाध्यनुरोधि स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्यया अपास्तसर्वोपाधिस्वरूपे आत्मनि ईशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते तथा चोक्तम् यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा इति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिना च एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे तथेश्वरगीतास्वपि न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय इति तथा चेश्वरगीतास्वपि ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया इति सूत्रकारोऽपि परमार्थाभिप्रायेण तदनन्यत्वम् इत्याह व्यवहाराभिप्रायेण तु स्याल्लोकवत् इति महासमुद्रादिस्थानीयतां ब्रह्मणः कथयति अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणेषूपासनेषूपयोक्ष्यत इति।।


भावे चोपलब्धेः । ( ब्रसू-२,१.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च कारणादनन्यत्वं कार्यस्य यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते नाभावे तद्यथा सत्यां मृदि घट उपलभ्यते सत्सु च तन्तुषु पटः न च नियमेनान्यभावेऽन्यस्योपलब्धिर्दृष्टा न ह्यश्वो गोरन्यः सन्गोर्भाव एवोपलभ्यते न च कुलालभाव एव घट उपलभ्यते सत्यपि निमित्तनैमित्तिकभावेऽन्यत्वात्। नन्वन्यस्य भावेऽप्यन्यस्योपलब्धिर्नियता दृश्यते यथाग्निभावे धूमस्येति नेत्युच्यते उद्वापितेऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात्। अथ धूमं कयाचिदवस्थया विशिंष्यात् ईदृशो धूमो नासत्यग्नौ भवतीति नैवमपि कश्चिद्दोषः तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः न चासावग्निधूमयोर्विद्यते। भावाच्चोपलब्धेः इति वा सूत्रम्। न केवलं शब्दादेव कार्यकारणयोरनन्यत्वम् प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थः भवति हि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे तद्यथा तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते तथा तन्तुष्वंशवः अंशुषु तदवयवाः। अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि रूपाणि ततो वायुमात्रमाकाशमात्रं चेत्यनुमेयम् ततः परं ब्रह्मैकमेवाद्वितीयम् तत्र सर्वप्रमाणानां निष्ठामवोचाम।।


सत्वाच् चापरस्य । ( ब्रसू-२,१.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च कारणात्कार्यस्यानन्यत्वम् यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते सदेव सोम्येदमग्र आसीत् आत्मा वा इदमेक एवाग्र आसीत् इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात् यच्च यदात्मना यत्र न वर्तते न तत्तत उत्पद्यते यथा सिकताभ्यस्तैलम् तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते। यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति एवं कार्यमपि जगत्ित्रषु कालेषु सत्त्वं न व्यभिचरति एकं च पुनः सत्त्वम् अतोऽप्यनन्यत्वं कारणात्कार्यस्य।।


असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च । ( ब्रसू-२,१.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः असदेवेदमग्र आसीत् इति असद्वा इदमग्र आसीत् इति च तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् नेति ब्रूमः न ह्ययमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः किं तर्हि व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरम् तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य कथमेतदवगम्यते वाक्यशेषात्। यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषान्निश्चीयते इह च तावत् असदेवेदमग्र आसीत् इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत् तदेव पुनस्तच्छब्देन परामृश्य सदिति विशिनष्टि तत्सदासीत् इति असतश्च पूर्वापरकालासंबन्धात् आसीच्छब्दानुपपत्तेश्च असद्वा इदमग्र आसीत् इत्यत्रापि तदात्मानं स्वयमकुरुत इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् अतः प्रङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते।। युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते शब्दान्तराच्च।।

युक्तिस्तावद्वर्ण्यते दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते न हि दध्यर्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरम् तदसत्कार्यवादे नोपपद्येत अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते न मृत्तिकायाः मृत्तिकाया एव च घट उत्पद्यते न क्षीरात् अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायाम् मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीरे इत्युच्येत अतस्तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च शक्तिश्च कारणस्य कार्यनियमार्था कल्प्यमाना नान्या असती वा कार्यं नियच्छेत् असत्त्वाविशेषादन्यत्वाविशेषाच्च तस्मात्कारणस्यात्मभूता शक्तिः शक्तेश्चात्मभूतं कार्यम्। अपि च कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् समवायकल्पनायामपि समवायस्य समवायिभिः संबन्धेऽभ्युपगम्यमाने तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः अथ समवायः स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं संबन्धं संबध्येत संयोगोऽपि तर्हि स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं समवायं संबध्येत तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम्। कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तते किं समस्तेष्ववयवेषु वर्तेत उत प्रत्यवयवम् यदि तावत्समस्तेषु वर्तेत ततोऽवयव्यनुपलब्धिः प्रसज्येत समस्तावयवसंनिकर्षस्याशक्यत्वात् न हि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते अथावयवशः समस्तेषु वर्तेत तदाप्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन् यैरारम्भकेष्ववयवेष्ववयवशोऽवयवी वर्तेत कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति अनवस्था चैवं प्रसज्येत तेषु तेष्ववयवेषु वर्तयितुमन्येषामन्येषामवयवानां कल्पनीयत्वात् अथ प्रत्यवयवं वर्तेत तदैकत्र व्यापारेऽन्यत्राव्यापारः स्यात् न हि देवदत्तः स्रुघ्ने संनिधीयमानस्तदहरेव पाटलिपुत्रेऽपि संनिधीयते युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् देवदत्तयज्ञदत्तयोरिव स्रुघ्नपाटलिपुत्रनिवासिनोः गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् न तथा प्रतीत्यभावात् यदि गोत्वादिवत्प्रत्येकं परिसमाप्तोऽवयवी स्यात् यथा गोत्वं प्रतिव्यक्तिप्रत्यक्षं गृह्यते एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत न चैवं नियतं गृह्यते प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात् तस्य चैकत्वात् श्रृङ्गेणापि स्तनकार्यं कुर्यात् उरसा च पृष्ठकार्यम् न चैवं दृश्यते। प्रागुत्पत्तेश्च कार्यस्यासत्त्वे उत्पत्तिरकर्तृका निरात्मिका च स्यात् उत्पत्तिश्च नाम क्रिया सा सकर्तृकैव भवितुमर्हति गत्यादिवत् क्रिया च नाम स्यात् अकर्तृका च इति विप्रतिषिध्येत घटस्य चोत्पत्तिरुच्यमाना च घटकर्तृका किं तर्ह्यन्यकर्तृका इति कल्प्या स्यात् तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत तथा च सति घट उत्पद्यते इत्युक्ते कुलालादीनि कारणान्युत्पद्यन्ते इत्युक्तं स्यात् न च लोके घटोत्पत्तिरित्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते उत्पन्नताप्रतीतेः अथ स्वकारणसत्तासंबन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत् कथमलब्धात्मकं संबध्येतेति वक्तव्यम् सतोर्हि द्वयोः संबन्धः संभवति न सदसतोरसतोर्वा अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य न हि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणोऽभिषेकादित्येवंजातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यापुत्रः राजा बभूव भवति भविष्यतीति वा विशेष्यते यदि च वन्ध्यापुत्रोऽपि कारकव्यापारादूर्ध्वमभविष्यत् तत इदमप्युपापत्स्यत कार्यभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीति वयं तु पश्यामः वन्ध्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषात् यथा बन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यति एवं कार्याभावोऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति। नन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धयेऽपि न कश्चिद्व्याप्रियेत व्याप्रियते च अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभावः कार्यस्येति चेत् नैष दोषः यतः कार्याकारेण कारणं व्यवस्थापयतः कारकव्यापारस्यार्थवत्त्वमुपपद्यते कार्याकारोऽपि कारणस्यात्मभूत एव अनात्मभूतस्यानारभ्यत्वात् इत्यभाणि न च विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति न हि देवदत्तः संकुचितहस्तपादः प्रसारितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति स एवेति प्रत्यभिज्ञानात् तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् जन्मोच्छेदानन्तरितत्वात्तत्र युक्तम् नान्यत्रेति चेत् न क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा तेषामेवावयवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वापत्तिः सतश्चासत्त्वापत्तिः तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः तथा च बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः पित्रादिव्यवहारलोपप्रसङगश्च। एतेन क्षणभङ्गवादः प्रतिवदितव्यः। यस्य तु पुनः प्रागुत्पत्तेरसत्कार्यम् तस्य निर्विषयः कारकव्यापारः स्यात् अभावस्य विषयत्वानुपपत्तेः आकाशहननप्रयोजनखङ्गाद्यनेकायुधप्रयुक्तिवत् समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् न अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् न सत्कार्यतापत्तेः। तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं कल्पयितुम्। तथा मूलकारणमेव आ अन्त्यात्कार्यात् तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते। एवं युक्तेः कार्यस्य प्रागुत्पत्तेः सत्त्वम् अनन्यत्वं च कारणात् अवगम्यते।।

शब्दान्तराच्चैतदवगम्यते पूर्वसूत्रेऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततोऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम् सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इत्यादि। तद्धैक आहुरसदेवेदमग्र आसीत् इति चासत्पक्षमुपक्षिप्य कथमसतः सज्जायेत इत्याक्षिप्य सदेव सोम्येदमग्र आसीत् इत्यवधारयति तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात् सत्त्वानन्यत्वे प्रसिध्यतः। यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात् पश्चाच्चोत्पद्यमानं कारणे समवेयात् तदन्यत्कारणात्स्यात् तत्र येनाश्रुतं श्रुतं भवति इतीयं प्रतिज्ञा पीड्येत सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते।।


पटवच् च । ( ब्रसू-२,१.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा च संवेष्टितः पटो न व्यक्तं गृह्यते किमयं पटः किं वान्यद्द्रव्यमिति स एव प्रसारितः यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते। यथा च संवेष्टनसमये पट इति गृह्यमाणोऽपि न विशिष्टायामविस्तारो गृह्यते स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते न संवेष्टितरूपादन्योऽयं भिन्नः पट इति एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् तुरीवेमकुविन्दादिकारकव्यापाराभिव्यक्तं स्पष्टं गृह्यते। अतः संवेष्टितप्रसारितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः।।


यथा च प्राणादिः । ( ब्रसू-२,१.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वर्त्यते नाकुञ्चनप्रसारणादिकं कार्यान्तरम् तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं निर्वर्त्यते न च प्राणभेदानां प्रभेदवतः प्राणादन्यत्वम् समीरणस्वभावाविशेषात् एवं कार्यस्य कारणादनन्यत्वम्। अतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् इति।।

इतरव्यपदेशाधिकरणम्[सम्पाद्यताम्]

इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः । ( ब्रसू-२,१.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते कुतः इतरव्यपदेशात्। इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः स आत्मा तत्त्वमसि श्वेतकेतो इति प्रतिबोधनात् यद्वा इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति तत्सृष्ट्वा तदेवानुप्राविशत् इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वदर्शनात् अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती न ब्रह्मणो भिन्नः शारीर इति दर्शयति तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेति। अतश्च स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यात् नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् न हि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति न च स्वयमत्यन्तनिर्मलः सन् अत्यन्तमलिनं देहमात्मत्वेनोपेयात् कृतमपि कथंचिद्यद्दुःखकरं तदिच्छया जह्यात् सुखकरं चोपाददीत स्मरेच्च मयेदं जगद्बिम्बं विचित्रं विरचितमिति सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति यथा च मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनैवोपसंहरति एवं शारीरोऽपीमां सृष्टिमुपसंहरेत् स्वकीयमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम् एवं हितक्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति गम्यते।।


अधिकं तु भेदनिर्देशात् । ( ब्रसू-२,१.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दः पक्षं व्यावर्तयति। यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत् तत् वयं जगतः स्रष्टृ ब्रूमः न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते न हि तस्य हितं किंचित्कर्तव्यमस्ति अहितं वा परिहर्तव्यम् नित्यमुक्तस्वभावत्वात् न च तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति सर्वज्ञत्वात्सर्वशक्तित्वाच्च शारीरस्त्वनेवंविधः तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः न तु तं वयं जगतः स्रष्टारं ब्रूमः कुत एतत् भेदनिर्देशात् आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः सता सोम्य तदा संपन्नो भवति शारीर आत्मा प्राज्ञेनात्मनान्वारूढः इत्येवंजातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति। नन्वभेदनिर्देशोऽपि दर्शितः तत्त्वमसि इत्येवंजातीयकः कथं भेदाभेदौ विरुद्धौ संभवेयाताम् नैष दोषः महाकाशघटाकाशन्यायेनोभयसंभवस्य तत्र तत्र प्रतिष्ठापितत्वात्। अपि च यदा तत्त्वमसि इत्येवंजातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवति अपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वम् समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाः अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारः न तु परमार्थतोऽस्तीत्यसकृदवोचाम जन्ममरणच्छेदनभेदनाद्यभिमानवत् अबाधिते तु भेदव्यवहारे सोऽन्वेष्टव्यः स विजिज्ञासितव्यः इत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि।।


अश्मादिवच् च तदनुपपत्तिः । ( ब्रसू-२,१.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयः अन्ये मध्यमवीर्याः सूर्यकान्तादयः अन्ये प्रहीणाः श्वायसप्रक्षेपणार्हाः पाषाणाः इत्यनेकविधं वैचित्र्यं दृश्यते यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकचम्पकादिषूपलक्ष्यते यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतः तदनुपपत्तिः परपरिकल्पितदोषानुपपत्तिरित्यर्थः। श्रुतेश्च प्रामाण्यात् विकारस्य च वाचारम्भणमात्रत्वात् स्वप्नदृश्यभाववैचित्र्यवच्च इत्यभ्युच्चयः।।

उपसंहारदर्शनाधिकरणम्[सम्पाद्यताम्]

उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि । ( ब्रसू-२,१.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तम् तन्नोपपद्यते कस्मात् उपसंहारदर्शनात्। इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्रसलिलाद्यनेककारकोपसंहारेण संगृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्ते ब्रह्म चासहायं तवाभिप्रेतम् तस्य साधनान्तरानुपसंग्रहे सति कथं स्रष्टृत्वमुपपद्येत तस्मान्न ब्रह्म जगत्कारणमिति चेत् नैष दोषः यतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यते यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमकरकादिभावेन परिणमतेऽनपेक्ष्य बाह्यं साधनम् तथेहापि भविष्यति। ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एव बाह्यं साधनमौष्ण्यादिकम् कथमुच्यते क्षीरवद्धि इति नैष दोषः स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रामनुभवति तावत्येव त्वार्यते त्वौष्ण्यादिना दधिभावाय यदि च स्वयं दधिभावशीलता न स्यात् नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत न हि वायुराकाशो वा औष्ण्यादिना बलाद्दधिभावमापद्यते साधनसामग्र्या च तस्य पूर्णता संपाद्यते परिपूर्णशक्तिकं तु ब्रह्म न तस्यान्येन केनचित्पूर्णता संपादयितव्या श्रुतिश्च भवति न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति। तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात् क्षीरादिवद्विचित्रपरिणाम उपपद्यते।।


देवादिवद् अपि लोके । ( ब्रसू-२,१.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः दृष्टत्वात् चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमाना दृश्यन्ते कथं ब्रह्म चेतनं सत् असहायं प्रवर्तेतेति देवादिवदिति ब्रूमः यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तोऽनपेक्ष्यैव किंचिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा उपलभ्यन्ते मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् तन्तुनाभश्च स्वत एव तन्तून्सृजति बलाका चान्तरेणैव शुक्रं गर्भं धत्ते पद्मिनी चानपेक्ष्य किंचित्प्रस्थानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते एवं चेतनमपि ब्रह्म अनपेक्ष्यैव बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति। स यदि ब्रूयात् य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्टान्तिकेन ब्रह्मणा न समाना भवन्ति शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादने उपादानम् न तु चेतन आत्मा तन्तुनाभस्य च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते पद्मिनी च चेतनप्रयुक्ता सती अचेतनेनैव शरीरेण सरोन्तरात्सरोन्तरमुपसर्पति वल्लीव वृक्षम् न तु स्वयमेवाचेतना सरोन्तरोपसर्पणे व्याप्रियते तस्मान्नैते ब्रह्मणो दृष्टान्ता इति तं प्रति ब्रूयात् नायं दोषः कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते न देवादयः तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतावद्वयं देवाद्युदाहरणेन विवक्षामः। तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः।।

कृत्स्नप्रसक्त्यधिकरणम्[सम्पाद्यताम्]

कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा । ( ब्रसू-२,१.२६ । )

भाष्यम्

शाङ्करभाष्यम्॥

चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्यं साधनं स्वयं परिणममानं जगतः कारणमिति स्थितम् शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति। कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति निरवयवत्वात् यदि ब्रह्म पृथिव्यादिवत्सावयवमभविष्यत् ततोऽस्यैकदेशः पर्यणंस्यत् एकदेशश्चावस्थास्यत निरवयवं तु ब्रह्म श्रुतिभ्योऽवगम्यते निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः इदं महद्भूतमनन्तमपारं विज्ञानघन एव स एष नेति नेत्यात्मा अस्थूलमनणु इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः ततश्चैकदेशपरिणामासंभवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत द्रष्टव्यतोपदेशानर्थक्यं च आपद्येत अयत्नदृष्टत्वात्कार्यस्य तद्व्यतिरिक्तस्य च ब्रह्मणोऽसंभवात् अजत्वादिशब्दव्याकोपश्च। अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुप्येयुः सावयवत्वे चानित्यत्वप्रसङ्ग इति सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति।।


श्रुतेस् तु शब्दमूलत्वात् । ( ब्रसू-२,१.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्देनाक्षेपं परिहरति। न खल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति। न तावत्कृत्स्नप्रसक्तिरस्ति कुतः श्रुतेः यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयते एवं विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते प्रकृतिविकारयोर्भेदेन व्यपदेशात् सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति तावानस्य महिमा ततो ज्याया्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इति चैवंजातीयकात् तथा हृदयायतनत्ववचनात् सत्संपत्तिवचनाच्च यदि च कृत्स्नं ब्रह्म कार्यभावेनोपयुक्तं स्यात् सता सोम्य तदा संपन्नो भवति इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् विकृतेन ब्रह्मणा नित्यसंपन्नत्वादविकृतस्य च ब्रह्मणोऽभावात् तथेन्द्रियगोचरत्वप्रतिषेधात् ब्रह्मणो विकारस्य चेन्द्रियगोचरत्वोपपत्तेः तस्मादस्त्यविकृतं ब्रह्म। न च निरवयवत्वशब्दव्याकोपोऽस्ति श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् शब्दमूलं च ब्रह्म शब्दप्रमाणकम् नेन्द्रियादिप्रमाणकम् तद्यथाशब्दमभ्युपगन्तव्यम् शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयति अकृत्स्नप्रसक्तिं निरवयवत्वं च लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते अस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत तथा चाहुः पौराणिकाः अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्। प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् इति। तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः। ननु शब्देनापि न शक्यते विरुद्धोऽर्थः प्रत्याययितुम् निरवयवं च ब्रह्म परिणमते न च कृत्स्नमिति यदि निरवयवं ब्रह्म स्यात् नैव परिणमेत कृत्स्नमेव वा परिणमेत अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति रूपभेदकल्पनात्सावयवमेव प्रसज्येत क्रियाविषये हि अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षो़डशिनं गृह्णाति इत्येवंजातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधापरिहारकारणं भवति पुरुषतन्त्रत्वाच्चानुष्ठानस्य इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः संभवति अपुरुषतन्त्रत्वाद्वस्तुनः तस्माद्दुर्घटमेतदिति नैष दोषः अविद्याकल्पितरूपभेदाभ्युपगमात्। न ह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यते न हि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्य इति न निरवयवत्वं ब्रह्मणः कुप्यति न चेयं परिणामश्रुतिः परिणामप्रतिपादनार्था तत्प्रतिपत्तौ फलानवगमात् सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा तत्प्रतिपत्तौ फलावगमात् स एष नेति नेत्यात्मा इत्युपक्रम्याह अभयं वै जनक प्राप्तोऽसि इति तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति।।


आत्मनि चैवं विचित्राश् च हि । ( ब्रसू-२,१.२८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च नैवात्र विवदितव्यम् कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति यत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते इत्यादिना लोकेऽपि देवादिषु मायाव्यादिषु च स्वरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति।।


स्वपक्षदोषाच् च । ( ब्रसू-२,१.२९ । )

भाष्यम्

शाङ्करभाष्यम्॥

परेषामप्येष समानः स्वपक्षदोषः प्रधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति निरवयवत्वाभ्युपगमकोपो वा। ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते सत्त्वरजस्तमांसि हि त्रयो गुणाः तेषां साम्यावस्था प्रधानम् तैरेवावयवैस्तत्सावयवमिति नैवंजातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति समानत्वात्स्वपक्षदोषप्रसङ्गस्य। तर्काप्रतिष्ठानात्सावयवत्वमेवेति चेत् एवमप्यनित्यत्वादिदोषप्रसङ्गः। अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः तास्तु ब्रह्मवादिनोऽप्यविशिष्टाः। तथा अणुवादिनोऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कात्स्न्र्येन संयुज्येत ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गः अथैकदेशेन संयुज्येत तथापि निरवयवत्वाभ्युपगमकोप इति स्वपक्षेऽपि समान एष दोषः। समानत्वाच्च नान्यतरस्मिन्नेव पक्षे उपक्षेप्तव्यो भवति। परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः।।

सर्वोपेताधिकरणम्[सम्पाद्यताम्]

सर्वोपेता च तद्दर्शनात् । ( ब्रसू-२,१.३० । )

भाष्यम्

शाङ्करभाष्यम्॥

एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् तत्पुनः कथमवगम्यते विचित्रशक्तियुक्तं परं ब्रह्मेति तदुच्यते सर्वोपेता च तद्दर्शनात्। सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् कुतः तद्दर्शनात्। तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः सर्वकर्मा सर्वकामः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः सत्यकामः सत्यसंकल्पः यः सर्वज्ञः सर्ववित् एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्येवंजातीयका।।


विकरणत्वान् नेति चेत् तद् उक्तम् । ( ब्रसू-२,१.३१ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् विकरणां परां देवतां शास्ति शास्त्रम् अचक्षुष्कमश्रोत्रमवागमनाः इत्येवंजातीयकम् कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्यकरणसंपन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्ते कथं च नेति नेति इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः संभवेत् इति चेत् यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम् श्रुत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम् न च यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीति। प्रतिषिद्धसर्वेविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः संभवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव। तथा च शास्त्रम् अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः इत्यकरणस्यपि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति।।

११प्रयोजनवत्त्वाधिकरणम्[सम्पाद्यताम्]

न प्रयोजनवत्त्वात् । ( ब्रसू-२,१.३२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अन्यथा पुनश्चेतनकर्तृत्वं जगत आक्षिपति न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति कुतः प्रयोजनवत्त्वात्प्रवृत्तीनाम्। चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनीमारभमाणो दृष्टः किमुत गुरुतरसंरम्भाम् भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति इति गुरुतरसंरम्भा चेयं प्रवृत्तिः यदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम् यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तत्वं परमात्मनः श्रूयमाणं बाध्येत प्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात् अथ चेतनोऽपि सन् उन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टः तथा परमात्मापि प्रवर्तिष्यते इत्युच्येत तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत तस्मादश्लिष्टा चेतनात्सृष्टिरिति।।


लोकवत् तु लीलाकैवल्यम् । ( ब्रसू-२,१.३३ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्देनाक्षेपं परिहरति यथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किंचित्प्रयोजनमनभिसंधाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति यथा चोच्छ्वासप्रश्वासादयोऽनभिसंधाय बाह्यं किंचित्प्रयोजनं स्वभावादेव संभवन्ति एवमीश्वरस्याप्यनपेक्ष्य किंचित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा संभवति न च स्वभावः पर्यनुयोक्तुं शक्यते। यद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति तथापि परमेश्वरस्य लीलैव केवलेयम् अपरिमितशक्तित्वात्। यदि नाम लोके लीलास्वपि किंचित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत तथापि नैवात्र किंचित्प्रयोजनमुत्प्रेक्षितुं शक्यते आप्तकामश्रुतेः। नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा सृष्टिश्रुतेः सर्वज्ञश्रुतेश्च। न चेयं परमार्थविषया सृष्टिश्रुतिः अविद्याकल्पितनामरूपव्यवहारगोचरत्वात् ब्रह्मात्मभावप्रतिपादनपरत्वाच्च इत्येतदपि नैव विस्मर्तव्यम्।।

वैषम्यनैर्घृण्याधिकरणम्[सम्पाद्यताम्]

वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । ( ब्रसू-२,१.३४ । )

भाष्यम्

शाङ्करभाष्यम्॥

पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय। नेश्वरो जगतः कारणमुपपद्यते कुतः वैषम्यनैर्घृण्यप्रसङ्गात् कांश्चिदत्यन्तसुखभाजः करोति देवादीन् कांश्चिदत्यन्तदुःखभाजः पश्वादीन् कांश्चिन्मध्यमभोगभाजो मनुष्यादीन् इत्येवं विषमां सृष्टिं निर्मिमाणस्येश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते

ब्रूमः वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते कस्मात् सापेक्षत्वात्। यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते स्यातामेतौ दोषौ वैषम्यं नैर्घृण्यं च न तु निरपेक्षस्य निर्मातृत्वमस्ति सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते किमपेक्षत इति चेत् धर्माधर्मावपेक्षत इति वदामः अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिरिति नायमीश्वरस्यापराधः ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः यथा हि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति व्रीहियवादिवैषम्ये तु तत्तद्बीजगतान्येवासाधारणानि सामर्थ्यानि कारणानि भवन्ति एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं भवति देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्ति एवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति। कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति तथा हि दर्शयति श्रुतिः एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषते इति पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन इति च स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतृत्वं निग्रहीतृत्वं च दर्शयति ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् इत्येवंजातीयका।।


न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च । ( ब्रसू-२,१.३५ । )

भाष्यम्

शाङ्करभाष्यम्॥

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म यदपेक्ष्य विषमा सृष्टिः स्यात् सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म कर्मापेक्षश्च शरीरादिविभागः इतीतरेतराश्रयत्वं प्रसज्येत अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् नैष दोषः अनादित्वात्संसारस्य भवेदेष दोषः यद्यादिमानयं संसारः स्यात् अनादौ तु संसारे बीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते।।

कथं पुनरवगम्यते अनादिरेष संसार इति अत उत्तरं पठति

उपपद्यते च संसारस्यानादित्वम् आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्च सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात् न चेश्वरो वैषम्यहेतुरित्युक्तम् न चाविद्या केवला वैषम्यस्य कारणम् एकरूपत्वात् रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् न च कर्म अन्तरेण शरीरं संभवति न च शरीरमन्तरेण कर्म संभवति इतीतरेतराश्रयत्वप्रसङ्गः अनादित्वे तु बीजङ्कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति। उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः। श्रुतौ तावत् अनेन जीवेनात्मना इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयति आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखेऽभिलप्येत न च धारयिष्यतीत्यतोऽभिलप्येत अनागताद्धि संबन्धादतीतः संबन्धो बलीयान्भवति अभिनिष्पन्नत्वात् सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति। स्मृतावप्यनादित्वं संसारस्योपलभ्यते न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा इति पुराणे चातीतानागतानां च कल्पानां न परिमाणमस्तीति स्थापितम्।।

सर्वधर्मोपपत्त्यधिकरणम्[सम्पाद्यताम्]

सर्वधर्मोपपत्तेश् च । ( ब्रसू-२,१.३६ । )

भाष्यम्

शाङ्करभाष्यम्॥

चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यः इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्समाणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति। यस्मादस्मिन्ब्रह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते सर्वज्ञं सर्वशक्ति महामायं च ब्रह्म इति तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य प्रथमः पादः।।