ब्रह्मसूत्रम्/तृतीयः अध्यायः/द्वितीयः पादः

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रथमः पादः ब्रह्मसूत्रम्
तृतीयाध्याये द्वितीयः पादः
वेदव्यासः
तृतीयः पादः →

सन्ध्याधिकरणम्[सम्पाद्यताम्]

सन्ध्ये सृष्टिराह हि । ( ब्रसू-३,२.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

संध्ये सृष्टिरिति संध्यमिति स्वप्नस्थानमाचष्टे वेदे प्रयोगदर्शनात् संध्यं तृतीय््वप्नस्थानम् इति द्वयोर्लोकस्थानयोः प्रबोधसंप्रसादस्थानयोर्वा संधौ भवतीति संध्यम् तस्मिन्संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति कुतः यतः प्रमाणभूता श्रुतिरेवमाह अथ रथान्नथयोगान्पथः सृजते इत्यादिस हि कर्ता इति च उपसंहारात् एवमेवावगम्यते।।

निर्मातारं चैके पुत्रादयश् च । ( ब्रसू-३,२.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च एके शाखिनः अस्मिन्नेव संध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति पुत्रादयश्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति। ननु कामशब्देनेच्छाविशेषो एवोच्येरन् नशतायुषः पुत्रपौत्रान्वृणीष्व इति प्रकृत्य अन्तेकामानां त्वा कामभाजं करोमि इति प्रकृतेषु तत्र तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात्। प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः प्राज्ञस्य हीदं प्रकरणम् अन्यत्र धर्मादन्यत्राधर्मात् इत्यादि तद्विषय एव च वाक्यशेषोऽपि तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते। तस्िम्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन इति। प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति तथा च श्रुतिः अथो खल्वाहुर्जागरितदेश एवास्यैष इति यान्येव जाग्रत्पश्यति तानि सुप्तः इति स्वप्नजागरितयोः समानन्यायतां श्रावयति। तस्मात्तथ्यरूपैव संध्ये सृष्टिरिति।।

एवं प्राप्ते प्रत्याह

मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । ( ब्रसू-३,२.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दः पक्षं व्यावर्तयति। नैतदस्ति यदुक्तम् संध्ये सृष्टिः पारमार्थिकीति मायैव संध्ये सृष्टिः न परमार्थगन्धोऽप्यस्ति कुतः कात्स्न्र्येनानभिव्यक्तस्वरूपत्वात् न हि कात्स्न्र्येन परमार्थवस्तुधर्मेण अभिव्यक्तस्वरूपः स्वप्नः किं पुनरत्र कात्स्न्र्यमभिप्रेतम् देशकालनिमित्तसंपत्तिः अबाधश्च। न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्ने संभाव्यन्ते

न तावत्स्वप्ने रथादीनामुचितो देशः संभवति न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् स्यादेतत् बहिर्देहात् स्वप्नं द्रक्ष्यति देशान्तरितद्रव्यग्रहणात् दर्शयति च श्रुतिः बहिर्देहात्स्वप्नम् बहिष्कुलायादमृतश्चरित्वा। स ईयतेऽमृतो यत्र कामम् इति स्थितिगतिप्रत्ययभेदश्च न अनिष्क्रान्ते जन्तौ सामञ्जस्यमश्नुवीत इति। नेत्युच्यते न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं संभाव्यते क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः स्वप्ने पञ्चालानभिगतश्च अस्मिन्प्रतिबुद्धश्च इति देहाच्चेदपेयात् पञ्चालेष्वेव प्रतिबुध्येत तानसावभिगत इति कुरुष्वेव तु प्रतिबुध्यते येन च अयं देहेन देशान्तरमश्नुवानो मन्यते तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति यथाभूतानि च अयं देशान्तराणि स्वप्ने पश्यति न तानि तथाभूतान्येव भवन्ति परिधावंश्चेत्पश्येत् जाग्रद्वत् वस्तुभूतमर्थमाकलयेत्। दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम् स यत्रैतत्स्वप्न्यया चरति इत्युपक्रम्यस्वे शरीरे यथाकामं परिवर्तते इति। अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या बहिरिव कुलायात् अमृतश्चरित्वेति यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति स बहिरिव शरीराद्भवति इति। स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः।।

कालविसंवादोऽपि च स्वप्ने भवति रजन्यां सुप्तो वासरं भारते वर्षे मन्यते तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति। निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते करणोपसंहाराद्धि नास्य अश्वरथादिग्रहणाय चक्षुरादीनि सन्ति रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारूणि वा। बाध्यन्ते चैते रथाश्वादयः स्वप्नदृष्टाः प्रबोधे स्वप्न एव च एते सुलभबाधा भवन्ति आद्यन्तयोर्व्यभिचारदर्शनात् रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः संपद्यते मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः। स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् न तत्र रथा न रथयोगा न पन्थानो भवन्ति इत्यादि। तस्मान्मायामात्रं स्वप्नदर्शनम्।।

पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ( ब्रसू-३,२.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथापि स्यात् परस्यैव तावदात्मनोंऽशः जीवः अग्नेरिव विस्फुलिङ्गः तत्रैवं सति यथा अग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवतः एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती ततश्च जीवस्य ज्ञानैश्वर्यवशात् सांकल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति। अत्रोच्यते सत्यपि जीवेश्वरयोरंशांशिभावे प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम्। किं पुनर्जीवस्य ईश्वरसमानधर्मत्वं नास्त्येव न नास्त्येव विद्यमानमपि तत् तिरोहितम् अविद्यादिव्यवधानात्। तत्पुनस्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव दृक्शक्तिः औषधवीर्यात् ईश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति न स्वभावत एव सर्वेषां जन्तूनाम् कुतः ततो हि ईश्वराद्धेतोः अस्य जीवस्य बन्धमोक्षौ भवतः ईश्वरस्वरूपापरिज्ञानात् बन्धः तत्स्वरूपपरिज्ञानात्तु मोक्षः। तथा च श्रुतिः ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः। तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः इत्येवमाद्या।।

देहयोगाद्वा सोऽपि । ( ब्रसू-३,२.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

कस्मात्पुनर्जीवः परमात्मांश एव सन् तिरस्कृतज्ञानैश्वर्यो भवति युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वम् विस्फुलिङ्गस्येव दहनप्रकाशनयोः इति। उच्यते सत्यमेवैतत् सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावः देहयोगात् देहेन्द्रियमनोबुद्धिविषयवेदनादियोगात् भवति। अस्ति च अत्रोपमा यथा अग्नेर्दहनप्रकाशनसंपन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरोहिते भवतः यथा वा भस्मच्छन्नस्य एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात् तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः। वाशब्दो जीवस्य ईश्वरात् अन्यत्वशङ्काव्यावृत्त्यर्थः। नन्वन्य एव जीवः ईश्वरादस्तु तिरस्कृतज्ञानैश्वर्यत्वात् किं देहयोगकल्पनया नेत्युच्यते न हि अन्यत्वं जीवस्य ईश्वरादुपपद्यते सेयं देवतैक्षत इत्युपक्रम्यअनेन जीवेनात्मनानुप्रविश्य इत्यात्मशब्देन जीवस्य परामर्शात्तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति च जीवाय उपदिशति ईश्वरात्मत्वम् अतः अनन्य एव ईश्वराज्जीवः सन् देहयोगात्तिरोहितज्ञानैश्वर्यो भवति। अतश्च न सांकल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते यदि च सांकल्पिकी स्वप्ने रथादिसृष्टिः स्यात् नैवानिष्टं कश्चित्स्वप्नं पश्येत् न हि कश्चिदनिष्टं संकल्पयते। यत्पुनरुक्तम् जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति न तत्साम्यवचनं सत्यत्वाभिप्रायम् स्वयंज्योतिष्ट्वविरोधात् श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत्। तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम्।।

सूचकश् च हि श्रुतेराचक्षते च तद्विदः । ( ब्रसू-३,२.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धोऽस्तीति नेत्युच्यते सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः तथा हि श्रूयते यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने इति तथापुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति आचक्षते च स्वप्नाध्यायविदः कुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानि इति मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते। तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वम् सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम् बाध्यमानत्वादित्यभिप्रायः। तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम्।।

यदुक्तम् आह हि इति तदेवं सति भाक्तं व्याख्यातव्यम् यथालाङ्गलं गवादीनुद्वहति इति निमित्तमात्रत्वादेवमुच्यते न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति एवं निमित्तमात्रत्वात् सुप्तो रथादीन्सृजतेस हि कर्ता इति च उच्यते न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति। निमित्तत्वं तु अस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम्। अपि च जागरिते विषयेन्द्रियसंयोगात् आदित्यादिज्योतिर्व्यतिकराच्च आत्मनः स्वयंज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः तत्र यदि रथादिसृष्टिवचनं श्रुत्या नीयेत ततः स्वयंज्योतिष्ट्वं न निर्णीतं स्यात् तस्माद्रथाद्यभाववचनं श्रुत्या रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम्। एतेन निर्माणश्रवणं व्याख्यातम्। यदप्युक्तम् प्राज्ञमेनं निर्मातारमामनन्ति इति तदप्यसत् श्रुत्यन्तरेस्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति इति जीवव्यापारश्रवणात् इहापिय एष सुप्तेषु जागर्ति इति प्रसिद्धानुवादाज्जीव एवायं कामानां निर्माता संकीर्त्यते तस्य तु वाक्यशेषेणतदेव शुक्रं तद्ब्रह्म इति जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते तत्त्वमसि इत्यादिवत् इति न ब्रह्मप्रकरणं विरुध्यते। न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते तस्य सर्वेश्वरत्वात् सर्वास्वप्यवस्थास्वधिष्ठातृत्वोपपत्तेः पारमार्थिकस्तु नायं संध्याश्रयः सर्गः वियदादिसर्गवत् इत्येतावत्प्रतिपाद्यते न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति प्रतिपादितं हितदनन्यत्वमारम्भणशब्दादिभ्यः इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम्। प्राक् तु ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति संध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते इत्यतो वैशेषिकमिदं संध्यस्य मायामात्रत्वमुदितम्।।

तदभावाधिकरणम्[सम्पाद्यताम्]

तदभावो नाडीषु तच्छ्रुतेरात्मनि च । ( ब्रसू-३,२.७ । )

भाष्यम्

शाङ्करभाष्यम्॥


स्वप्नावस्था परीक्षिता सुषुप्तावस्थेदानीं परीक्ष्यते। तत्रैताः सुषुप्तविषयाः श्रुतयो भवन्ति क्वचिच्छ्रूयते तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति इति अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते ताभिः प्रत्यवसृप्य पुरीतति शेते इति तथान्यत्र नाडीरेवानुक्रम्य तासु तदा भवति यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति इति तथान्यत्र य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते इति तथान्यत्र सतासोम्य तदा संपन्नो भवति स्वमपीतो भवति इति तथा प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् इति च।।

तत्र संशयः किमेतानि नाड्यदीनि परस्परनिरपेक्षतया भिन्नानि सुषुप्तिस्थानानि आहोस्वित्परस्परापेक्षतया एकं सुषुप्तिस्थानमिति। किं तावत्प्राप्तम् भिन्नानीति कुतः एकार्थत्वात् न हि एकार्थानां क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् नाड्यादीनां च एकार्थता सुषुप्तौ दृश्यतेनाडीषु सृप्तो भवतिपुरीतति शेते इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात्। ननु नैवं सति सप्तमीनिर्देशो दृश्यते सता सोम्य तदा संपन्नो भवति इति नैष दोषः तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् वाक्यशेषो हि तत्र आयतनैषी जीवः सत् उपसर्पतीत्याह अन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते इति प्राणशब्देन तत्र प्रकृतस्य सत उपादानात् आयतनं च सप्तम्यर्थः सप्तमीनिर्देशोऽपि तत्र वाक्यशेषे दृश्यते सति संपद्य न विदुः सति संपद्यामहे इति। सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते। तस्मादेकार्थत्वात् नाड्यादीनां विकल्पेन कदाचित् किंचित्स्थानं स्वापायोपसर्पति इति।।

एवं प्राप्ते प्रतिपाद्यते तदभावो नाडीष्वात्मनि चेति। तदभाव इति तस्य प्रकृतस्य स्वप्नदर्शनस्य अभावः सुषुप्तमित्यर्थः नाडीष्वात्मनि चेति समुच्चयेन एतानि नाड्यादीनि स्वापायोपसर्पति न विकल्पेन इत्यर्थः कुतः तच्छ्रुतेः तथा हि सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते तच्च समुच्चये संगृहीतं भवति विकल्पे ह्येषाम् पक्षे बाधः स्यात्। ननु एकार्थत्वाद्विकल्पो नाड्यादीनां व्रीहियवादिवत् इत्युक्तम् नेत्युच्यते न हि एकविभक्तिनिर्देशमात्रेण एकार्थत्वं विकल्पश्च आपतति नानार्थत्वसमुच्चययोरप्येकविभक्तिनिर्देशदर्शनात् प्रासादे शेते पर्यङ्के शेते इत्येवमादिषु तथा इहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीति उपपद्यते समुच्चयः तथा च श्रुतिः तासु तदा भवति यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयति एकवाक्योपादानात् प्राणस्य च ब्रह्मत्वं समधिगतम् प्राणस्तथानुगमात् इत्यत्र। यत्रापि निरपेक्षा इव नाडीः सुषुप्तिस्थानत्वेन श्रावयति आसु तदा नाडीषु सृप्तो भवति इति तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणोऽप्रतिषेधात् नाडीद्वारेण ब्रह्मण्येवावतिष्ठत इति प्रतीयते न चैवमपि नाडीषु सप्तमी विरुध्यते नाडीभिरपि ब्रह्मोपसर्पन् सृप्त एव नाडीषु भवति यो हि गङ्गया सागरं गच्छति गत एव स गङ्गायां भवति। भवति च अत्र रश्मिनाडीद्वारात्मकस्य ब्रह्मलोकमार्गस्य विवक्षितत्वात् नाडीस्तुत्यर्थं सृप्तिसंकीर्तनम् नाडीषु सृप्तो भवति इत्युक्त्वातं न कश्चन पाप्मा स्पृशति इति ब्रुवन् नाडीः प्रशंसति ब्रवीति च पाप्मस्पर्शाभावे हेतुम्तेजसा हि तदा संपन्नो भवति इति तेजसा नाडीगतेन पित्ताख्येन अभिव्याप्तकरणो न बाह्यान् विषयानीक्षत इत्यर्थः अथवा तेजसेति ब्रह्मण एवायं निर्देशः श्रुत्यन्तरेब्रह्मैव तेज एव इति तेजःशब्दस्य ब्रह्मणि प्रयुक्तत्वात् ब्रह्मणा हि तदा संपन्नो भवति नाडीद्वारेण अतस्तं न कश्चन पाप्मा स्पृशतीत्यर्थः ब्रह्मसंपत्तिश्च पाप्मस्पर्शाभावे हेतुः समधिगतःसर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः इत्यादिश्रुतिभ्यः एवं च सति प्रदेशान्तरप्रसिद्धेन ब्रह्मणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति। तथा पुरीततोऽपि ब्रह्मप्रक्रियायां संकीर्तनात् तदनुगुणमेव सुषुप्तिस्थानत्वं ज्ञायते य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते इति हृदयाकाशे सुषुप्तिस्थाने प्रकृते इदमुच्यते पुरीतति शेते इति पुरीतदिति हृदयपरिवेष्टनमुच्यते तदन्तर्वर्तिन्यपि हृदयाकाशे शयानः शक्यतेपुरीतति शेते इति वक्तुम् प्राकारपरिक्षिप्तेऽपि हि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते हृदयाकाशस्य च ब्रह्मत्वं समधिगतम्दहर उत्तरेभ्यः इत्यत्र। तथा नाडीपुरीतत्समुच्चयोऽपिताभिः प्रत्यवसृप्य पुरीतति शेते इत्येकवाक्योपादानात् अवगम्यते। सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम्। एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि संकीर्तितानि नाड्यः पुरीतत् ब्रह्म चेति तत्रापि द्वारमात्रं नाड्यः पुरीतच्च ब्रह्मैव तु एकम् अनपायि सुषुप्तिस्थानम्। अपि च नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवति तत्रास्य करणानि वर्तन्त इति न हि उपाधिसंबन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्संभवति ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात्। ब्रह्माधारत्वमप्यस्य सुषुप्ते नैव आधाराधेयभेदाभिप्रायेण उच्यते कथं तर्हि तादात्म्याभिप्रायेण यत आह सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति इति स्वशब्देन आत्मा अभिलप्यते स्वरूपमापन्नः सुप्तो भवतीत्यर्थः। अपि च न कदाचिज्जीवस्य ब्रह्मणा संपत्तिर्नास्ति स्वरूपस्यानपायित्वात् स्वप्नजागरितयोस्तूपाधिसंपर्कवशात् पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्तेः स्वरूपापत्तिर्विवक्ष्यते स्वमपीतो भवति इति अतश्च सुप्तावस्थायां कदाचित्सता संपद्यते कदाचिन्न संपद्यते इत्ययुक्तम्। अपि च स्थानविकल्पाभ्युपगमेऽपि विशेषविज्ञानोपशमलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते तत्र सति संपन्नस्तावत् एकत्वात् न विजानातीति युक्तम्तत्केन कं विजानीयात् इति श्रुतेः नाडीषु पुरीतति च शयानस्य न किंचित् अविज्ञाने कारणं शक्यं विज्ञातुम् भेदविषयत्वात्यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत् इति श्रुतेः। ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात् बाढमेवं स्यात् यदि जीवः स्वतः परिच्छिन्नोऽभ्युपगम्येत यथा विष्णुमित्रः प्रवासी स्वगृहान् न पश्यतीति न तु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते उपाधिगतमेवातिदूरादिकारणम् अविज्ञाने इति यद्युच्येत तथाप्युपाधेरुपशान्तत्वात् सत्येव संपन्नः न विजानातीति युक्तम्। न च वयमिह तुल्यवत् नाड्यादिसमुच्चयं प्रतिपादयामः न हि नाड्यः सुप्तिस्थानं पुरीतच्च इत्यनेन विज्ञानेन किंचित्प्रयोजनमस्ति न ह्येतद्विज्ञानप्रतिबद्धं किंचित्फलं श्रूयते नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते। ब्रह्म तु अनपायि सुप्तिस्थानम् इत्येतत्प्रतिपादयामः तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च। तस्मादात्मैव सुप्तिस्थानम्।।

अतः प्रबोधोऽस्मात् । ( ब्रसू-३,२.८ । )

भाष्यम्

शाङ्करभाष्यम्॥ यस्माच्च आत्मैव सुप्तिस्थानम् अत एव च कारणात् नित्यवदेव अस्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यतेकुत एतदागात् इत्यस्य प्रश्नस्य प्रतिवचनावसरे यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः इत्यादिनासत आगम्य न विदुः सत आगच्छामहे

कर्मानुस्मृतिशब्दविध्यधिकरणम्[सम्पाद्यताम्]

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ( ब्रसू-३,२.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

तस्याः पुनः सत्संपत्तेः प्रतिबुध्यमानः किं य एव सत्संपन्नः स एव प्रतिबुध्यते उत स वा अन्यो वा इति चिन्त्यते। तत्र प्राप्तं तावत् अनियम इति कुतः यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते जलराशिरेव स तदा भवति पुनरुद्धरणे च स एव जलबिन्दुर्भवति इति दुःसंपादम् तद्वत् सुप्तः परेणैकत्वमापन्नः संप्रसीदतीति न स एव पुनरुत्थातुमर्हति तस्मात् स एव ईश्वरो वा अन्यो वा जीवः प्रतिबुध्यते इति।।

एवं प्राप्ते इदमाह स एव तु जीवः सुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति नान्यः कस्मात् कर्मानुस्मृतिशब्दविधिभ्यः विभज्य हेतुं दर्शयिष्यामि कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्यः तथा हि पूर्वेद्युरनुष्ठितस्य कर्मणः अपरेद्युः शेषमनुतिष्ठन्दृश्यते न चान्येन सामिकृतस्य कर्मणः अन्यः शेषक्रियायां प्रवर्तितुमुत्सहते अतिप्रसङ्गात् तस्मादेक एव पूर्वेद्युरपरेद्युश्च एकस्य कर्मणः कर्तेति गम्यते। इतश्च स एवोत्तिष्ठति यत्कारणम् अतीतेऽहनि अहमदोऽद्राक्षमिति पूर्वानुभूतस्य पश्चात्स्मरणम् अन्यस्योत्थाने नोपपद्यते न ह्यन्यदृष्टम् अन्योऽनुस्मर्तुमर्हति सोऽहमस्मीति च आत्मानुस्मरणमात्मान्तरोत्थाने नावकल्पते। शब्देभ्यश्च तस्यैवोत्थानमवगम्यते तथा हि पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैवइमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तित इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति इत्येवमादयः शब्दाः स्वापप्रबोधाधिकारपठिता न आत्मान्तरोत्थाने सामञ्जस्यम् ईयुः। कर्मविद्याविधिभ्यश्चैवमेवावगम्यते अन्यथा हि कर्मविद्याविधयोऽनर्थकाः स्युः अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत एवं चेत्स्यात् वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात्। अपि च अन्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरमाणो जीव उत्तिष्ठेत् तत्रत्यव्यवहारलोपप्रसङ्गः स्यात् अथ तत्र सुप्त उत्तिष्ठेत् कल्पनानर्थक्यं स्यात् यो हि यस्मिन् शरीरे सुप्तः सः तस्मिन् नोत्तिष्ठति अन्यस्मिन् शरीरे सुप्तः अन्यस्मिन्नुत्तिष्ठतीति कोऽस्यां कल्पनायां लाभः स्यात् अथ मुक्त उत्तिष्ठेत् अन्तवान्मोक्ष आपद्येत निवृत्ताविद्यस्य च पुनरुत्थानमनुपपन्नम् एतेन ईश्वरस्योत्थानं प्रत्युक्तम् नित्यनिवृत्ताविद्यत्वात्। अकृताभ्यागमकृतविप्रणाशौ च दुर्निवारावन्योत्थानपक्षे स्याताम्। तस्मात्स एवोत्तिष्ठति नान्य इति। यत्पुनरुक्तम् यथा जलराशौ प्रक्षिप्तो जलबिन्दुर्नोद्धर्तुं शक्यते एवं सति संपन्नो जीवो नोत्पतितुमर्हतीति तत्परिह्रियते युक्तं तत्र विवेककारणाभावात् जलबिन्दोरनुद्धरणम् इह तु विद्यते विवेककारणम् कर्म च अविद्या च इति वैषम्यम् दृश्यते च दुर्विवेचयोरप्यस्मज्जातीयैः क्षीरोदकयोः संसृष्टयोः हंसेन विवेचनम्। अपि च न जीवो नाम कश्चित्परस्मादन्यो विद्यते यो जलबिन्दुरिव जलराशेः सतो विविच्येत सदेव तु उपाधिसंपर्काज्जीव इत्युपचर्यते इत्यसकृत्प्रपञ्चितम् एवं सति यावदेकोपाधिगता बन्धानुवृत्तिः तावदेकजीवव्यवहारः उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्तरव्यवहारः स एवायमुपाधिः स्वापप्रबोधयोः बीजाङ्कुरन्यायेन इत्यतः स एव जीवः प्रतिबुध्यत इति युक्तम्।।

मुग्धाधिकरणम्[सम्पाद्यताम्]

मुग्धेर्ऽधसंपत्तिः परिशेषात् । ( ब्रसू-३,२.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्ति मुग्धो नाम यं मूर्छित इति लौकिकाः कथयन्ति स तु किमवस्थ इति परीक्षायाम् उच्यते तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धाः जागरितं स्वप्नः सुषुप्तमिति चतुर्थी शरीरादपसृप्तिः न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धा अस्ति तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छा इति।।

एवं प्राप्ते ब्रूमः न तावन्मुग्धो जागरितावस्थो भवितुमर्हति न ह्ययमिन्द्रियैर्विषयानीक्षते। स्यादेतत् इषुकारन्यायेन मुग्धो भविष्यति यथा इषुकारो जाग्रदपि इष्वासक्तमनस्तया नान्यान्विषयानीक्षते एवं मुग्धो मुसलसंपातादिजनितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति न अचेतयमानत्वात् इषुकारो हि व्यापृतमना ब्रवीति इषुमेवाहमेतावन्तं कालमुपलभमानोऽभूवमिति मुग्धस्तु लब्धसंज्ञो ब्रवीति अन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तोऽभूवम् न किंचिन्मया चेतितमिति। जाग्रतश्चैकविषयविषक्तचेतसोऽपि देहो विध्रियते मुग्धस्य तु देहो धरण्यां पतति। तस्मान्न जागर्ति। नापि स्वप्नान्पश्यति निःसंज्ञकत्वात्। नापि मृतः प्राणोष्मणोर्भावात् मुग्धे हि जन्तौ मृतोऽयं स्यान्न वा मृत इति संशयानाः ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते निश्चयार्थम् प्राणोऽस्ति नास्तीति च नासिकादेशम् यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति ततो मृतोऽयमित्यध्यवसाय दहनायारण्यं नयन्ति अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति पुनरुत्थानाच्च न दिष्टं गतः न हि यमं गतः यमराष्ट्रात्प्रत्यागच्छति। अस्तु तर्हि सुषुप्तः निःसंज्ञत्वात् अमृतत्वाच्च न वैलक्षण्यात् मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति सवेपथुरस्य देहो भवति भयानकं च वदनम् विस्फारिते नेत्रे सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुनरुच्छ्वसिति निमीलिते अस्य नेत्रे भवतः न चास्य देहो वेपते पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति न तु मुग्धं मुद्गरघातेनापि। निमित्तभेदश्च भवति मोहस्वापयोः मुसलसंपातादिनिमित्तत्वान्मोहस्य श्रमनिमित्तत्वाच्च स्वापस्य। न च लोकेऽस्ति प्रसिद्धिः मुग्धः सुप्त इति। परिशेषादर्धसंपत्तिर्मुग्धतेत्यवगच्छामः निःसंज्ञत्वात् संपन्नः इतरस्माच्च वैलक्षण्यादसंपन्नः इति।।

कथं पुनरर्धसंपत्तिर्मुग्धतेति शक्यते वक्तुम् यावता सुप्तं प्रति तावदुक्तं श्रुत्या सता सोम्य तदा संपन्नो भवति इतिअत्र स्तेनोऽस्तेनो भवतिनैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम् इत्यादि जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखित्वदुःखित्वप्रत्ययोत्पादनेन भवति न च सुखित्वप्रत्ययो दुःखित्वप्रत्ययो वा सुषुप्ते विद्यते मुग्धेऽपि तौ प्रत्ययौ नैव विद्येते तस्मात् उपाध्युपशमात् सुषुप्तवन्मुग्धेऽपि कृत्स्नसंपत्तिरेव भवितुमर्हति नार्धसंपत्तिरिति। अत्रोच्यते न ब्रूमः मुग्धेऽर्धसंपत्तिर्जीवस्य ब्रह्मणा भवतीति किं तर्हि अर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वम् अर्धेनावस्थान्तरपक्षस्य इति ब्रूमः दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये। द्वारं चैतत् मरणस्य यदास्य सावशेषं कर्म भवति तदा वाङ्मनसे प्रत्यागच्छतः यदा तु निरवशेषं कर्म भवति तदा प्राणोष्माणावपगच्छतः। तस्मादर्धसंपत्तिं ब्रह्मविद इच्छन्ति। यत्तूक्तम् न पञ्चमी काचिदवस्था प्रसिद्धास्तीति नैष दोषः कादाचित्कीयमवस्थेति न प्रसिद्धा स्यात्। प्रसिद्धा चैषा लोकायुर्वेदयोः। अर्धसंपत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम्।।

उभयलिङ्गाधिकरणम्[सम्पाद्यताम्]

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । ( ब्रसू-३,२.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

येन ब्रह्मणा सुषुप्त्यादिषु जीव उपाध्युपशमात्संपद्यते तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते। सन्त्युभयलिङ्गाः श्रुतयो ब्रह्मविषयाः सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः इत्येवमाद्याः सविशेषलिङ्गाःअस्थूलमनण्वह्रस्वमदीर्घम् इत्येवमाद्याश्च निर्विशेषलिङ्गाः। किमासु श्रुतिषु उभयलिङ्गं ब्रह्म प्रतिपत्तव्यम् उत्तान्यतरलिङ्गम् यदाप्यन्यतरलिङ्गम् तदापि सविशेषम् उत निर्विशेषम् इति मीमांस्यते। तत्र उभयलिङ्गश्रुत्यनुग्रहात् उभयलिङ्गमेव ब्रह्म इत्येवं प्राप्ते ब्रूमः न तावत्स्वत एव परस्य ब्रह्मण उभयलिङ्गत्वमुपपद्यते न हि एकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं च इत्यवधारयितुं शक्यम् विरोधात्। अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगादिति तदपि नोपपद्यते न हि उपाधियोगादप्यन्यादृशस्य वस्तुनोऽन्यादृशः स्वभावः संभवति न हि स्वच्छः सन् स्फटिकः अलक्तकाद्युपाधियोगादस्वच्छो भवति भ्रममात्रत्वादस्वच्छताभिनिवेशस्य उपाधीनां च अविद्याप्रत्युपस्थापितत्वात्। अतश्च अन्यतरलिङ्गपरिग्रहेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्रह्म प्रतिपत्तव्यम् न तद्विपरीतम् सर्वत्र हि ब्रह्मस्वरूपप्रतिपादनपरेषु वाक्येषुअशब्दमस्पर्शमरूपमव्ययम् इत्येवमादिषु अपास्तसमस्तविशेषमेव ब्रह्म उपदिश्यते।।

भेदाद् इति चेन् न प्रत्येकमतद्वचनात् । ( ब्रसू-३,२.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथापि स्यात् यदुक्तम् निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वा उभयलिङ्गत्वमस्तीति तन्नोपपद्यते कस्मात् भेदात् भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते चतुष्पात् ब्रह्म षोडशकलं ब्रह्म वामनीत्वादिलक्षणं ब्रह्म त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्म इत्येवंजातीयकाः तस्मात् सविशेषत्वमपि ब्रह्मणोऽभ्युपगन्तव्यम्। ननु उक्तं नोभयलिङ्गत्वं ब्रह्मणः संभवतीति अयमप्यविरोधः उपाधिकृतत्वादाकारभेदस्य अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येत इति चेत् नेति ब्रूमः कस्मात् प्रत्येकमतद्वचनात् प्रत्युपाधिभेदं हि अभेदमेव ब्रह्मणः श्रावयति शास्त्रम् यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा इत्यादि। अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम् भेदस्य उपासनार्थत्वात् अभेदे तात्पर्यात्।।

अपि चैवम् एके । ( ब्रसू-३,२.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि चैवं भेददर्शननिन्दापूर्वकम् अभेददर्शनमेव एके शाखिनः समामनन्ति मनसैवेदमाप्तव्यं नेह नानास्ति किंचन। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इति तथान्येऽपि भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म मे तत् इति समस्तस्य भोग्यभोक्तृनियन्तृलक्षणस्य प्रपञ्चस्य ब्रह्मैकस्वभावतामधीयते।।

कथं पुनः आकारवदुपदेशिनीषु अनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीषु अनाकारमेव ब्रह्म अवधार्यते न पुनर्विपरीतम् इत्यत उत्तरं पठति

अरूपवदेव हि तत्प्रधानत्वात् । ( ब्रसू-३,२.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

रूपाद्याकाररहितमेव हि ब्रह्म अवधारयितव्यम् न रूपादिमत् कस्मात् तत्प्रधानत्वात्अस्थूलमनण्वह्रस्वमदीर्घम्अशब्दमस्पर्शमरूपमव्ययम्आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजःतदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः इत्येवमादीनि वाक्यानि निष्प्रपञ्चब्रह्मात्मतत्त्वप्रधानानि न अर्थान्तरप्रधानानि इत्येतत्प्रतिष्ठापितम्तत्तु समन्वयात् इत्यत्र तस्मादेवंजातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्म अवधारयितव्यम्। इतराणि तु आकारवद्ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि उपासनाविधिप्रधानानि हि तानि तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम् सति तु विरोधे तत्प्रधानानि अतत्प्रधानेभ्यो बलीयांसि भवन्ति इत्येष विनिगमनायां हेतुः येन उभयीष्वपि श्रुतिषु सतीषु अनाकारमेव ब्रह्म अवधार्यते न पुनर्विपरीतमिति।।

का तर्ह्याकारवद्विषयाणां श्रुतीनां गतिः इत्यत आह

प्रकाशवच्चावैयर्थ्यात् । ( ब्रसू-३,२.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसंबन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते एवं ब्रह्मापि पृथिव्याद्युपाधिसंबन्धात् तदाकारतामिव प्रतिपद्यते तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते एवम् अवैयर्थ्यम् आकारवद्ब्रह्मविषयाणामपि वाक्यानां भविष्यति न हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् प्रमाणत्वाविशेषात्। नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातम् नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणोऽस्तीति तद्विरुध्यते नेति ब्रूमः उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः उपाधीनां च अविद्याप्रत्युपस्थापितत्वात्। सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्र अवोचाम।।

आह च तन्मात्रम् । ( ब्रसू-३,२.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

आह च श्रुतिः चैतन्यमात्रं विलक्षणरूपान्तररहितं निर्विशेषं ब्रह्म स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव इति। एतदुक्तं भवति नास्य आत्मनोऽन्तर्बहिर्वा चैतन्यादन्यद्रूपमस्ति चैतन्यमेव तु निरन्तरमस्य स्वरूपम् यथा सैन्धवघनस्यान्तर्बहिश्च लवणरस एव निरन्तरो भवति न रसान्तरम् तथैवेति।।

दर्शयति चाथो अपि स्मर्यते । ( ब्रसू-३,२.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्म निर्विशेषत्वात् अथात आदेशो नेति नेतिअन्यदेव तद्विदितादथो अविदितादधियतो वाचो निवर्तन्ते अप्राप्य मनसा सह इत्येवमाद्या। बाष्कलिना च बाध्वः पृष्टः सन् अवचनेनैव ब्रह्म प्रोवाचेति श्रूयते स होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि। उपशान्तोऽयमात्मा इति। तथा स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते इत्येवमाद्यासु। तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसि इति।।

अत एव चोपमा सूर्यकादिवत् । ( ब्रसू-३,२.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

यत एव च अयमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यः अत एव च अस्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमा उपादीयते मोक्षशास्त्रेषु यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा इति।एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् इति चैवमादिषु।।

अत्र प्रत्यवस्थीयते अम्बुवदग्रहणात् तु न तथात्वम् । ( ब्रसू-३,२.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

न जलसूर्यकादितुल्यत्वमिहोपपद्यते तद्वदग्रहणात् सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं जलं गृह्यते तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः न तु आत्मा मूर्तः न चास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः सर्वगतत्वात् सर्वानन्यत्वाच्च। तस्मादयुक्तोऽयं दृष्टान्त इति।।

अत्र प्रतिविधीयते

वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच् च । ( ब्रसू-३,२.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

युक्त एव तु अयं दृष्टान्तः विवक्षितांशसंभवात् न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित् कंचित् विवक्षितमंशं मुक्त्वा सर्वसारूप्यं केनचित् दर्शयितुं शक्यते सर्वसारूप्ये हि दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव स्यात् न चेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनम् शास्त्रप्रणीतस्य तु अस्य प्रयोजनमात्रमुपन्यस्यते। किं पुनरत्र विवक्षितं सारूप्यमिति तदुच्यते वृद्धिह्रासभाक्त्वमिति। जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते जलह्रासे ह्रसति जलचलने चलति जलभेदे भिद्यते इत्येवं जलधर्मानुविधायि भवति न तु परमार्थतः सूर्यस्य तथात्वमस्ति एवं परमार्थतोऽविकृतमेकरूपमपि सत् ब्रह्म देहाद्युपाध्यन्तर्भावात् भजत इवोपाधिधर्मान्वृद्धिह्रासादीन्। एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः।।

प्रकृतौतावत्त्वाधिकरणम्[सम्पाद्यताम्]

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । ( ब्रसू-३,२.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च इत्युपक्रम्य पञ्चमहाभूतानि द्वैराश्येन प्रविभज्य अमूर्तरसस्य च पुरुषशब्दोदितस्य माहारजनादीनि रूपाणि दर्शयित्वा पुनः पठ्यते अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति इति। तत्र कोऽस्य प्रतिषेधस्य विषय इति जिज्ञासामहे न ह्यत्र इदं तदिति विशेषितं किंचित्प्रतिषेध्यमुपलभ्यते इतिशब्देन तु अत्र प्रतिषेध्यं किमपि समर्प्यतेनेति नेति इति इतिपरत्वात् नञ्प्रयोगस्य इतिशब्दश्चायं संनिहितालम्बनः एवंशब्दसमानवृत्तिः प्रयुज्यमानो दृश्यते इति ह स्मोपाध्यायः कथयति इत्येवमादिषु संनिहितं चात्र प्रकरणसामर्थ्याद्रूपद्वयं सप्रपञ्चं ब्रह्मणः तच्च ब्रह्म यस्य ते द्वे रूपे। तत्र नः संशय उपजायते किमयं प्रतिषेधो रूपे रूपवच्च उभयमपि प्रतिषेधति आहोस्विदेकतरम् यदाप्येकतरम् तदापि किं ब्रह्म प्रतिषेधति रूपे परिशिनष्टि आहोस्विद्रूपे प्रतिषेधति ब्रह्म परिशिनष्टि इति।।

तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे द्वौ चैतौ प्रतिषेधौ द्विः नेतिशब्दप्रयोगात् तयोरेकेन सप्रपञ्चं ब्रह्मणो रूपं प्रतिषिध्यते अपरेण रूपवद्ब्रह्म इति भवति मतिः। अथवा ब्रह्मैव रूपवत् प्रतिषिध्यते तद्धि वाङ्मनसातीतत्वादसंभाव्यमानसद्भावं प्रतिषेधार्हम् न तु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात् प्रतिषेधार्हः अभ्यासस्त्वादरार्थः इत्येवं प्राप्ते

ब्रूमः न तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गात् कंचिद्धि परमार्थमालम्ब्य अपरमार्थः प्रतिषिध्यते यथा रज्ज्वादिषु सर्पादयः तच्च परिशिष्यमाणे कस्मिंश्चिद्भावे अवकल्पते कृत्स्नप्रतिषेधे तु कोऽन्यो भावः परिशिष्येत अपरिशिष्यमाणे चान्यस्मिन् य इतरः प्रतिषेद्धुमारभ्यते प्रतिषेद्धुमशक्यत्वात् तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः। नापि ब्रह्मप्रतिषेध उपपद्यते ब्रह्म ते ब्रवाणि इत्याद्युपक्रमविरोधात्असन्नेव स भवति। असद्ब्रह्मेति वेद चेत् इत्यादिनिन्दाविरोधात्अस्तीत्येवोपलब्धव्यः इत्याद्यवधारणविरोधात् सर्ववेदान्तव्याकोपप्रसङ्गाच्च। वाङ्मनसातीतत्वमपि ब्रह्मणो न अभावाभिप्रायेणाभिधीयते न हि महता परिकरबन्धेनब्रह्मविदाप्नोति परम्सत्यं ज्ञानमनन्तं ब्रह्म इत्येवमादिना वेदान्तेषु ब्रह्म प्रतिपाद्य तस्यैव पुनः अभावोऽभिलप्येतप्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् इति हि न्यायः। प्रतिपादनप्रक्रिया तु एषा यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह इति एतदुक्तं भवति वाङ्मनसातीतमविषयान्तःपातिप्रत्यगात्मभूतं नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्मेति। तस्माद्ब्रह्मणो रूपप्रपञ्चं प्रतिषेधति परिशिनष्टि ब्रह्म इत्यवगन्तव्यम्।।

तदेतदुच्यते प्रकृतैतावत्त्वं हि प्रतिषेधतीति। प्रकृतं यदेतावत् इयत्तापरिच्छिन्नं मूर्तामूर्तलक्षणं ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति। तद्धि प्रकृतं प्रपञ्चितं च पूर्वस्मिन्ग्रन्थे अधिदैवतमध्यात्मं च। तज्जनितमेव च वासनालक्षणमपरं रूपम् अमूर्तरसभूतं पुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं माहारजनाद्युपमाभिर्दर्शितम् अमूर्तरसस्य पुरुषस्य चक्षुर्ग्राह्यरूपयोगित्वानुपपत्तेः। तदेतत् सप्रपञ्चं ब्रह्मणो रूपं संनिहितालम्बनेन इतिकरणेन प्रतिषेधकं नञं प्रति उपनीयत इति गम्यते। ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्वस्मिन्ग्रन्थे न स्वप्रधानत्वेन। प्रपञ्चिते च तदीये रूपद्वये रूपवतः स्वरूपजिज्ञासायाम् इदमुपक्रान्तम् अथात आदेशो नेति नेति इति। तत्र कल्पितरूपप्रत्याख्यानेन ब्रह्मणः स्वरूपावेदनमिति निर्णीयते। तदास्पदं हि इदं समस्तं कार्यम्नेति नेति इति प्रतिषिद्धम्। युक्तं च कार्यस्य वाचारम्भणशब्दादिभ्योऽसत्त्वमिति नेति नेतीति प्रतिषेधनम् न तु ब्रह्मणः सर्वकल्पनामूलत्वात्। न च अत्र इयमाशङ्का कर्तव्या कथं हि शास्त्रं स्वयमेव ब्रह्मणो रूपद्वयं दर्शयित्वा स्वयमेव पुनः प्रतिषेधति प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् इति यतः नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रह्मणो रूपद्वयं निर्दिशति लोकप्रसिद्धं तु इदं रूपद्वयं ब्रह्मणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय च इति निरवद्यम्। द्वौ च एतौ प्रतिषेधौ यथासंख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधतः यद्वा पूर्वः प्रतिषेधो भूतराशिं प्रतिषेधति उत्तरो वासनाराशिम्। अथवानेति नेति इति वीप्सा इयम् इति इति यावत्किंचित् उत्प्रेक्ष्यते तत्सर्वं न भवतीत्यर्थः परिगणितप्रतिषेधे हि क्रियमाणे यदि नैतद्ब्रह्म किमन्यद्ब्रह्म भवेदिति जिज्ञासा स्यात् वीप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधात् अविषयः प्रत्यगात्मा ब्रह्मेति जिज्ञासा निवर्तते। तस्मात् प्रपञ्चमेव ब्रह्मणि कल्पितं प्रतिषेधति परिशिनष्टि ब्रह्म इति निर्णयः।।

इतश्च एष एव निर्णयः यतः ततः प्रपञ्चप्रतिषेधात् भूयो ब्रह्म ब्रवीति अन्यत्परमस्ति इति। अभावावसाने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात्। तत्रैषा अक्षरयोजना नेति नेति इति ब्रह्म आदिश्य तमेव आदेशं पुनर्निर्वक्ति नेति नेति इत्यस्य कोऽर्थः न हि एतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीत्यतःनेति नेति इत्युच्यते न पुनः स्वयमेव नास्ति इत्यर्थः तच्च दर्शयति अन्यत्परम् अप्रतिषिद्धं ब्रह्म अस्तीति। यदा पुनरेवमक्षराणि योज्यन्ते न हि एतस्मात्इति नइति न इति प्रपञ्चप्रतिषेधरूपात् आदेशनात् अन्यत्परमादेशनं ब्रह्मणः अस्तीति तदाततो ब्रवीति च भूयः इत्येतत् नामधेयविषयं योजयितव्यम् अथ नामधेय्त्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् इति हि ब्रवीति इति। तच्च ब्रह्मावसाने प्रतिषेधे समञ्जसं भवति अभावावसाने तु प्रतिषेधे किम्सत्यस्य सत्यम् इत्युच्येत तस्माद्ब्रह्मावसानः अयं प्रतिषेधः नाभावावसानः इत्यध्यवस्यामः।।

तदव्यक्तमाह हि । ( ब्रसू-३,२.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

यत्तत् प्रतिषिद्धात्प्रपञ्चजातादन्यत् परं ब्रह्म तदस्ति चेत् कस्मान्न गृह्यत इति उच्यते तत् अव्यक्तमनिन्द्रियग्राह्यम् सर्वदृश्यसाक्षित्वात्। आह हि एवं श्रुतिः न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वास एष नेति नेत्यात्मागृह्यो न हि गृह्यतेयत्तदद्रेश्यमग्राह्यम्यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने इत्याद्या स्मृतिरपि अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते इत्याद्या।।

अपि संराधने प्रत्यक्षानुमानाभ्याम् । ( ब्रसू-३,२.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च एनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधनकाले पश्यन्ति योगनः संराधनं च भक्तिध्यानप्रणिधानाद्यनुष्ठानम्। कथं पुनरवगम्यते संराधनकाले पश्यन्तीति प्रत्यक्षानुमानाभ्याम् श्रुतिस्मृतिभ्यामित्यर्थः। तथा हि श्रुतिः पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन्। कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् इतिज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः इति चैवमाद्या। स्मृतिरपि ये विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः। ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः।। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् इति चैवमाद्या।।

ननु संराध्यसंराधकभावाभ्युपगमात्परापरात्मनोरन्यत्वं स्यादिति नेत्युच्यते

प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् । ( ब्रसू-३,२.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा प्रकाशाकाशसवितृप्रभृतयः अङ्गुलिकरकोदकप्रभृतिषु कर्मसु उपाधिभूतेषु सविशेषा इवावभासन्ते न च स्वाभाविकीमविशेषात्मतां जहति एवमुपाधिनिमित्त एवायमात्मभेदः स्वतस्तु ऐकात्म्यमेव। तथा हि वेदान्तेषु अभ्यासेन असकृत् जीवप्राज्ञयोरभेदः प्रतिपाद्यते।।

अतोऽनन्तेन तथा हि लिङ्गम् । ( ब्रसू-३,२.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

अतश्च स्वाभाविकत्वादभेदस्य अविद्याकृतत्वाच्च भेदस्य विद्यया अविद्यां विधूय जीवः परेण अनन्तेन प्राज्ञेन आत्मना एकतां गच्छति। तथा हि लिङ्गम् स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिब्रह्मैव सन्ब्रह्माप्येति इत्यादि।।

उभयव्यपदेशात्त्वहिकुण्डलवत् । ( ब्रसू-३,२.२६ । )

भाष्यम्

शाङ्करभाष्यम्॥

तस्मिन्नेव संराध्यसंराधकभावे मतान्तरमुपन्यस्यति स्वमतविशुद्धये। क्वचित् जीवप्राज्ञयोर्भेदो व्यपदिश्यते ततस्तु तं पश्यते निष्कलं ध्यायमानः इति ध्यातृध्यातव्यत्वेन द्रष्टृद्रष्टव्यत्वेन चपरात्परं पुरुषमुपैति दिव्यम् इति गन्तृगन्तव्यत्वेनयः सर्वाणि भूतान्यन्तरो यमयति इति नियन्तृनियन्तव्यत्वेन च। क्वचित्तु तयोरेवाभेदो व्यपदिश्यते तत्त्वमसिअहं ब्रह्मास्मिएष त आत्मा सर्वान्तरःएष त आत्मान्तर्याम्यमृतः इति। तत्रैवमुभयव्यपदेशे सति यद्यभेद एव एकान्ततो गृह्यते भेदव्यपदेशो निरालम्बन एव स्यात्। अत उभयव्यपदेशदर्शनात् अहिकुण्डलवदत्र तत्त्वं भवितुमर्हति यथा अहिरित्यभेदः कुण्डलाभोगप्रांशुत्वादीनीति च भेदः एवमिहापीति।।

प्रकाशाश्रयवद्वा तेजस्त्वात् । ( ब्रसू-३,२.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथवा प्रकाशाश्रयवदेतत्प्रतिपत्तव्यम् यथा प्रकाशः सावित्रः तदाश्रयश्च सविता नात्यन्तभिन्नौ उभयोरपि तेजस्त्वाविशेषात् अथ च भेदव्यपदेशभाजौ भवतः एवमिहापीति।।

पूर्ववद्वा । ( ब्रसू-३,२.२८ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा वा पूर्वमुपन्यस्तम् प्रकाशादिव़च्चावैशेष्यम् इति तथैव एतद्भवितुमर्हति तथा हि अविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते। यदि पुनः परमार्थत एव बद्धः कश्चिदात्मा अहिकुण्डलन्यायेन परस्य आत्मनः संस्थानभूतः प्रकाशाश्रयन्यायेन च एकदेशभूतोऽभ्युपगम्येत ततः पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वात् मोक्षशास्त्रवैयर्थ्यं प्रसज्येत। न चात्र उभावपि भेदाभेदौ श्रुतिः तुल्यवद्व्यपदिशति अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति भेदं तु पूर्वप्रसिद्धमेवानुवदति अर्थान्तरविवक्षया। तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्तः।।

प्रतिषेधाच् च । ( ब्रसू-३,२.२९ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च एष एव सिद्धान्तः यत्कारणं परस्मादात्मनोऽन्यं चेतनं प्रतिषेधति शास्त्रम् नान्योऽतोऽस्ति द्रष्टा इत्येवमादि।अथात आदेशो नेति नेतितदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् इति च ब्रह्मव्यतिरिक्तप्रपञ्चनिराकरणात् ब्रह्ममात्रपरिशेषाच्च एष एव सिद्धान्त इति गम्यते।।

यदेतत् निरस्तसमस्तप्रपञ्चं ब्रह्म निर्धारितम् अस्मात्परम् अन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः। कानिचिद्धि वाक्यानि आपातेनैव प्रतिभासमानानि ब्रह्मणोऽपि परम् अन्यत्तत्त्वं प्रतिपादयन्तीव तेषां हि परिहारमभिधातुमयमुपक्रमः क्रियते

पराधिकरणम्[सम्पाद्यताम्]

परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । ( ब्रसू-३,२.३० । )

भाष्यम्

शाङ्करभाष्यम्॥

परम् अतो ब्रह्मणः अन्यत्तत्त्वं भवितुमर्हति कुतः सेतुव्यपदेशात् उन्मानव्यपदेशात् संबन्धव्यपदेशात् भेदव्यपदेशाच्च। सेतुव्यपदेशस्तावत् अथ य आत्मा स सेतुर्विधृतिः इत्यात्मशब्दाभिहितस्य ब्रह्मणः सेतुत्वं संकीर्तयति सेतुशब्दश्च हि लोके जलसंतानविच्छेदकरे मृद्दार्वादिप्रचये प्रसिद्धः इह च सेतुशब्दः आत्मनि प्रयुक्त इति लौकिकसेतोरिव आत्मसेतोरन्यस्य वस्तुनोऽस्तित्वं गमयतिसेतु तीत्र्वा इति च तरतिशब्दप्रयोगात् यथा लौकिकं सेतुं तीत्र्वा जाङ्गलमसेतुं प्राप्नोति एवमात्मानं सेतुं तीत्र्वा अनात्मानमसेतुं प्राप्नोतीति गम्यते। उन्मानव्यपदेशश्च भवति तदेतद्ब्रह्म चतुष्पात् अष्टाशफं षोडशकलमिति यच्च लोके उन्मितम् एतावदिदमिति परिच्छिन्नं कार्षापणादि ततोऽन्यद्वस्त्वस्तीति प्रसिद्धम् तथा ब्रह्मणोऽप्युन्मानात् ततोऽन्येन वस्तुना भवितव्यमिति गम्यते। तथा संबन्धव्यपदेशो भवति सता सोम्य तदा संपन्नो भवति इति शारीर आत्माप्राज्ञेनात्मना संपरिष्वक्तः इति च मितानां च मितेन संबन्धो दृष्टः यथा नराणां नगरेण जीवानां च ब्रह्मणा संबन्धं व्यपदिशति सुषुप्तौ अतः ततः परमन्यदमितमस्तीति गम्यते। भेदव्यपदेशश्च एनमर्थं गमयति तथा हि अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते इत्यादित्याधारमीश्वरं व्यपदिश्य ततो भेदेन अक्ष्याधारमीश्वरं व्यपदिशति अथ य एषोऽक्षिणि पुरुषो दृश्यते इति अतिदेशं च अस्य अमुना रूपादिषु करोति तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम इति सावधिकं च ईश्वरत्वमुभयोर्व्यपदिशति ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च इत्येकस्यये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च इत्येकस्य यथा इदं मागधस्य राज्यम् इदं वैदेहस्येति। एवमेतेभ्यः सेत्वादिव्यपदेशेभ्यो ब्रह्मणः परमस्तीति।।

एवं प्राप्ते प्रतिपाद्यते

सामान्यात् तु । ( ब्रसू-३,२.३१ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्देन प्रदर्शितां प्राप्तिं निरुणद्धि। न ब्रह्मणोऽन्यत् किंचिद्भवितुमर्हति प्रमाणाभावात् न ह्यन्यस्यास्तित्वे किंचित्प्रमाणमुपलभामहे सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् अनन्यत्वं च कारणात् कार्यस्य न च ब्रह्मव्यतिरिक्तं किंचित् अजं संभवतिसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इत्यवधारणात् एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानात् न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते। ननु सेत्वादिव्यपदेशाः ब्रह्मव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम् नेत्युच्यते सेतुव्यपदेशस्तावत् न ब्रह्मणो बाह्यस्य सद्भावं प्रतिपादयितुं क्षमते सेतुरात्मेति हि आह न अतः परमस्तीति तत्र परस्मिन् असति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत न चैतत् न्याय्यम् हठो हि अप्रसिद्धकल्पना अपि च सेतुव्यपदेशादात्मनो लौकिकसेतुनिदर्शनेन सबाह्यवस्तुतां प्रसञ्जयता मृद्दारुमयतापि प्रासङ्क्ष्यत न चैतन्न्याय्यम् अजत्वादिश्रुतिविरोधात् सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श्लिष्यते जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मनः अतः सेतुरिव सेतुः इति प्रकृत आत्मा स्तूयते।सेतुं तीत्र्वा इत्यपि तरतिः अतिक्रमासंभवात् प्राप्नोत्यर्थ एव वर्तते यथा व्याकरणं तीर्ण इति प्राप्तः उच्यते न अतिक्रान्तः तद्वत्।।

बुद्ध्यर्थः पादवत् । ( ब्रसू-३,२.३२ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदप्युक्तम् उन्मानव्यपदेशादस्ति परमिति तत्राभिधीयते उन्मानव्यपदेशोऽपि न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थः किमर्थस्तर्हि बुद्ध्यर्थः उपासनार्थ इति यावत् चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा बुद्धिः कथं नु नाम ब्रह्मणि स्थिरा स्यादिति विकारद्वारेण ब्रह्मण उन्मानकल्पनैव क्रियते न हि अविकारेऽनन्ते ब्रह्मणि सर्वैः पुंभिः शक्या बुद्धिः स्थापयितुम् मन्दमध्यमोत्तमबुद्धित्वात् पुंसामिति। पादवत् यथा मनआकाशयोरध्यात्ममधिदैवतं च ब्रह्मप्रतीकयोराम्नातयोः चत्वारो वागादयो मनःसंबन्धिनः पादाः कल्प्यन्ते चत्वारश्च अग्न्यादय आकाशसंबन्धिनः आध्यानाय तद्वत्। अथवा पादवदिति यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते न हि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते क्रयविक्रये परिमाणानियमात् तद्वदित्यर्थः।।

स्थानविशेषात्प्रकाशादिवत् । ( ब्रसू-३,२.३३ । )

भाष्यम्

शाङ्करभाष्यम्॥

इह सूत्रे द्वयोरपि संबन्धभेदव्यपदेशयोः परिहारोऽभिधीयते। यदप्युक्तम् संबन्धव्यपदेशात् भेदव्यपदेशाच्च परमतः स्यादिति तदप्यसत् यत एकस्यापि स्थानविशेषापेक्षया एतौ व्यपदेशावुपपद्येते। संबन्धव्यपदेशे तावदयमर्थः बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषविज्ञानस्य उपाध्युपशमे य उपशमः स परमात्मना संबन्धः इत्युपाध्यपेक्षया उपचर्यते न परिमितत्वापेक्षया। तथा भेदव्यपदेशोऽपि ब्रह्मण उपाधिभेदापेक्षयैव उपचर्यते न स्वरूपभेदापेक्षया। प्रकाशादिवदिति उपमोपादानम् यथा एकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वा उपाधियोगादुपजातविशेषस्य उपाध्युपशमात्संबन्धव्यपदेशो भवति उपाधिभेदाच्च भेदव्यपदेशः यथा वा सूचीपाशाकाशादिषूपाध्यपेक्षयैवैतौ संबन्धभेदव्यपदेशौ भवतः तद्वत्।।

उपपत्तेश् च । ( ब्रसू-३,२.३४ । )

भाष्यम्

शाङ्करभाष्यम्॥

उपपद्यते च अत्र ईदृश एव संबन्धः नान्यादृशः स्वमपीतो भवति इति हि स्वरूपसंबन्धमेनमामनन्ति स्वरूपस्य च अनपायित्वात् न नरनगरन्यायेन संबन्धो घटते उपाधिकृतस्वरूपतिरोभावात्तुस्वमपीतो भवति इत्युपपद्यते। तथा भेदोऽपि नान्यादृशः संभवति बहुतरश्रुतिप्रसिद्धैकेश्वरत्वविरोधात् तथा च श्रुतिरेकस्याप्याकाशस्य स्थानकृतं भेदव्यपदेशमुपपादयति योऽयं बहिर्धा पुरुषादाकाशःयोऽयमन्तः पुरुष आकाशःयोऽयमन्तर्हृदय आकाशः इति।।

तथान्यप्रतिषेधात् । ( ब्रसू-३,२.३५ । )

भाष्यम्

शाङ्करभाष्यम्॥ एवं सेत्वादिव्यपदेशान् परपक्षहेतूनुन्मथ्य संप्रति स्वपक्षं हेत्वन्तरेणोपसंहरति। तथान्यप्रतिषेधापि न ब्रह्मणः परं वस्त्वन्तरमस्तीति गम्यते तथा हि स एवाधस्तात्

अनेन सर्वगतत्वमायामशब्दादिभ्यः । ( ब्रसू-३,२.३६ । )

भाष्यम्

शाङ्करभाष्यम्॥

अनेन सेत्वादिव्यपदेशनिराकरणेन अन्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति अन्यथा हि तन्न सिध्येत्। सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मनः प्रसज्येत सेत्वादीनामेवमात्मकत्वात् तथा अन्यप्रतिषेधेऽप्यसति वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एव आत्मनः प्रसज्येत। सर्वगतत्वं च अस्य आयामशब्दादिभ्योऽवगम्यते आयामशब्दः व्याप्तिवचनः शब्दःयावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःआकाशवत्सर्वगतश्च नित्यःज्यायान्दिवःज्यायानाकाशात् नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः इत्येवमादयो हि श्रुतिस्मृतिन्यायाः सर्वगतत्वमात्मनोऽवबोधयन्ति।।

फलाधिकरणम्[सम्पाद्यताम्]

फलमत उपपत्तेः । ( ब्रसू-३,२.३७ । )

भाष्यम्

शाङ्करभाष्यम्॥

तस्यैव ब्रह्मणो व्यावहारिक्याम् ईशित्रीशितव्यविभागावस्थायाम् अयमन्यः स्वभावो वर्ण्यते। यदेतत् इष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनाम् किमेतत् कर्मणो भवति आहोस्विदीश्वरादिति भवति विचारणा। तत्र तावत्प्रतिपाद्यते फलम् अतः ईश्वरात् भवितुमर्हति कुतः उपपत्तेः स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान् विदधत् देशकालविशेषाभिज्ञत्वात् कर्मिणां कर्मानुरूपं फलं संपादयतीत्युपपद्यते कर्मणस्तु अनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् अभावाद्भावानुत्पत्तेः। स्यादेतत् कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति तदपि न परिशुध्यति प्राग्भोक्तृसंबन्धात् फलत्वानुपपत्तेः यत्कालं हि यत् सुखं दुःखं वा आत्मना भुज्यते तस्यैव लोके फलत्वं प्रसिद्धम् न हि असंबद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः। अथोच्येत मा भूत्कर्मानन्तरं फलोत्पादः कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति तदपि नोपपद्यते अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तेः तदस्तित्वे एव प्रमाणाभावात् अर्थापत्तिः प्रमाणमिति चेत् न ईश्वरसिद्धेरर्थापत्तिक्षयात्।।

श्रुतत्वाच् च । ( ब्रसू-३,२.३८ । )

भाष्यम्

शाङ्करभाष्यम्॥

न केवलम् उपपत्तेरेव ईश्वरं फलहेतुं कल्पयामः किं तर्हि श्रुतत्वादपि ईश्वरमेव फलहेतुं मन्यामहे तथा च श्रुतिर्भवति स वा एष महानज आत्मान्नादो वसुदानः इत्येवंजातीयका।।

धर्मं जैमिनिरत एव । ( ब्रसू-३,२.३९ । )

भाष्यम्

शाङ्करभाष्यम्॥

जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते अत एव हेतोः श्रुतेः उपपत्तेश्च। श्रूयते तावदयमर्थःस्वर्गकामो यजेत इत्येवमादिषु वाक्येषु तत्र च विधिश्रुतेर्विषयभावोपगमात् यागः स्वर्गस्योत्पादक इति गम्यते अन्यथा हि अननुष्ठातृको याग आपद्येत तत्र अस्य उपदेशवैयर्थ्यं स्यात्। ननु अनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति परित्यक्तोऽयं पक्षः नैष दोषः श्रुतिप्रामाण्यात् श्रुतिश्चेत् प्रमाणम् यथायं कर्मफलसंबन्धः श्रुत उपपद्यते तथा कल्पयितव्यः न च अनुत्पाद्य किमप्यपूर्वं कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्था अपूर्वं नाम अस्तीति तर्क्यते। उपपद्यते च अयमर्थं उक्तेन प्रकारेण। ईश्वरस्तु फलं ददातीत्यनुपपन्नम् अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनैर्घृण्यप्रसङ्गात् तदनुष्ठानवैयर्थ्यापत्तेश्च। तस्मात् धर्मादेव फलमिति।।

पूर्वं तु बादरायणो हेतुव्यपदेशात् । ( ब्रसू-३,२.४० । )

भाष्यम्

शाङ्करभाष्यम्॥

बादरायणस्त्वाचार्यः पूर्वोक्तमेव ईश्वरं फलहेतुं मन्यते। केवलात्कर्मणः अपूर्वाद्वा केवलात् फलमित्ययं पक्षः तुशब्देन व्यावर्त्यते। कर्मापेक्षात् अपूर्वापेक्षाद्वा यथा तथास्तु ईश्वरात्फलमिति सिद्धान्तः कुतः हेतुव्यपदेशात् धर्माधर्मयोरपि हि कारयितृत्वेन ईश्वरो हेतुः व्यपदिश्यते फलस्य च दातृत्वेन एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते। एष उ एवासाधु कर्म कारयति तं यमधो निनीषते इति स्मर्यते च अयमर्थो भगवद्गीतासु यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।। स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहितान्हितान् इति। सर्ववेदान्तेषु च ईश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते तदेव च ईश्वरस्य फलहेतुत्वम् यत् स्वकर्मानुरूपाः प्रजाः सृजति। विचित्रकार्यानुपपत्त्यादयोऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य द्वितीयः पादः।।