ब्रह्मसूत्रम्/तृतीयः अध्यायः/तृतीयः पादः

विकिस्रोतः तः
Jump to navigation Jump to search
← द्वितीयः पादः ब्रह्मसूत्रम्
तृतीयाध्याये तृतीयः पादः
वेदव्यासः
चतुर्थः पादः →

अन्तर्विषयाः

सर्ववेदान्तप्रत्ययाधिकरणम्[सम्पाद्यताम्]

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । ( ब्रसू-३,३.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिन् तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति कुतः चोदनाद्यविशेषात् आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते संयोगरूपचोदनाख्याविशेषादित्यर्थः। यथा एकस्मिन्नग्निहोत्रे शाखाभेदेऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते जुहुयादिति एवम्यो ह वै ज्येष्ठं च श्रेष्ठं च वेद इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना। प्रयोजनसंयोगोऽप्यविशिष्ट एव ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति इति। रूपमप्युभयत्र तदेव विज्ञानस्य यदुत ज्येष्ठश्रेष्ठादिविशेषणान्वितं प्राणतत्त्वम् यथा च द्रव्यदेवते यागस्य रूपम् एवं विज्ञेयं रूपं विज्ञानस्य तेन हि तत् रूप्यते। समाख्यापि सैव प्राणविद्येति। तस्मात् सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम्। एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिष्वपि योजयितव्यम्। ये तु नामरूपादयो भेदहेत्वाभासाः ते प्रथम एव काण्डेन नाम्ना स्यादचोदनाभिधानत्वात् इत्यारभ्य परिहृताः।।

इहापि कंचिद्विशेषमाशङ्क्य परिहरति

भेदान् नेति चेद् एकस्याम् अपि । ( ब्रसू-३,३.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदात् नोपपद्यते तथा हि वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमपरमग्निमामनन्ति तस्याग्निरेवाग्निर्भवति इत्यादिना छन्दोगास्तु तं न आमनन्ति पञ्चसंख्ययैव च ते उपसंहरन्ति अथ ह य एतानेवं पञ्चाग्नीन्वेद इति येषां च स गुणोऽस्ति येषां च नास्ति कथमुभयेषामेका विद्योपपद्येत न च अत्र गुणोपसंहारः शक्यते प्रत्येतुम् पञ्चसंख्याविरोधात्। तथा प्राणसंवादे श्रेष्ठात् अन्यान् चतुरः प्राणान् वाक्चक्षुःश्रोत्रमनांसि छन्दोगा आमनन्ति वाजसनेयिनस्तु पञ्चममप्यामनन्ति रेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिर्य एवं वेद इति आवापोद्वापभेदाच्च वेद्यभेदो भवति वेद्यभेदाच्च विद्याभेदः द्रव्यदेवताभेदादिवयागस्येति चेत् नैष दोषः यत एकस्यामपि विद्यायामेवंजातीयको गुणभेद उपपद्यते यद्यपि षष्ठस्याग्नेरुपसंहारो न संभवति तथापि द्युप्रभृतीनां पञ्चानामग्नीनाम् उभयत्र प्रत्यभिज्ञायमानत्वात् न विद्याभेदो भवितुमर्हति न हि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते। पठ्यतेऽपि च षष्ठोऽग्निः छन्दोगैः तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति इति वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निषु अनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तयेतस्याग्निरेवाग्निर्भवति समित्समित् इत्यादि समामनन्ति स नित्यानुवादः अथाप्युपासनार्थ एष वादः तथापि स गुणः शक्यते छन्दोगैरप्युपसंहर्तुम्। न च अत्र पञ्चसंख्याविरोध आशङ्क्यः सांपादिकाग्न्यभिप्राया हि एषा पञ्चसंख्या नित्यानुवादभूता न विधिसमवायिनी इत्यदोषः। एवं प्राणसंवादादिष्वपि अधिकस्य गुणस्य इतरत्रोपसंहारो न विरुध्यते। न च आवापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्च आशङ्क्यः कस्यचिद्वेद्यांशस्य आवापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात्। तस्मादैकविद्यमेव।।

स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच् च सववच् च तन्नियमः । ( ब्रसू-३,३.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदात् नोपपद्यते तथा हि वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमपरमग्निमामनन्ति तस्याग्निरेवाग्निर्भवति इत्यादिना छन्दोगास्तु तं न आमनन्ति पञ्चसंख्ययैव च ते उपसंहरन्ति अथ ह य एतानेवं पञ्चाग्नीन्वेद इति येषां च स गुणोऽस्ति येषां च नास्ति कथमुभयेषामेका विद्योपपद्येत न च अत्र गुणोपसंहारः शक्यते प्रत्येतुम् पञ्चसंख्याविरोधात्। तथा प्राणसंवादे श्रेष्ठात् अन्यान् चतुरः प्राणान् वाक्चक्षुःश्रोत्रमनांसि छन्दोगा आमनन्ति वाजसनेयिनस्तु पञ्चममप्यामनन्ति रेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिर्य एवं वेद इति आवापोद्वापभेदाच्च वेद्यभेदो भवति वेद्यभेदाच्च विद्याभेदः द्रव्यदेवताभेदादिवयागस्येति चेत् नैष दोषः यत एकस्यामपि विद्यायामेवंजातीयको गुणभेद उपपद्यते यद्यपि षष्ठस्याग्नेरुपसंहारो न संभवति तथापि द्युप्रभृतीनां पञ्चानामग्नीनाम् उभयत्र प्रत्यभिज्ञायमानत्वात् न विद्याभेदो भवितुमर्हति न हि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते। पठ्यतेऽपि च षष्ठोऽग्निः छन्दोगैः तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति इति वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निषु अनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तयेतस्याग्निरेवाग्निर्भवति समित्समित् इत्यादि समामनन्ति स नित्यानुवादः अथाप्युपासनार्थ एष वादः तथापि स गुणः शक्यते छन्दोगैरप्युपसंहर्तुम्। न च अत्र पञ्चसंख्याविरोध आशङ्क्यः सांपादिकाग्न्यभिप्राया हि एषा पञ्चसंख्या नित्यानुवादभूता न विधिसमवायिनी इत्यदोषः। एवं प्राणसंवादादिष्वपि अधिकस्य गुणस्य इतरत्रोपसंहारो न विरुध्यते। न च आवापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्च आशङ्क्यः कस्यचिद्वेद्यांशस्य आवापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात्। तस्मादैकविद्यमेव।।

दर्शयति च । ( ब्रसू-३,३.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

दर्शयति च वेदोऽपि विद्यैकत्वं सर्ववेदान्तेषु वेद्यैकत्वोपदेशात् सर्वे वेदा यत्पदमामनन्ति इतितथैतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाः इति च। तथामहद्भयं वज्रमुद्यतम् इति काठके उक्तस्य ईश्वरगुणस्य भयहेतुत्वस्य तैत्तिरीयके भेददर्शननिन्दायै परामर्शो दृश्यते यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति। तत्त्वेव भयं विदुषोऽमन्वानस्य इति। तथा वाजसनेयके प्रादेशमात्रसंपादितस्य वैश्वानरस्य च्छान्दोग्ये सिद्धवदुपादानम् यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते इति। तथा सर्ववेदान्तप्रत्ययत्वेन अन्यत्र विहितानामुक्थादीनामन्यत्रोपासनविधानाय उपादानात् प्रायदर्शनन्यायेन उपासनानामपि सर्ववेदान्तप्रत्ययत्वसिद्धिः।।

उपसंहाराधिकरणम्[सम्पाद्यताम्]

उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च । ( ब्रसू-३,३.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

इदं प्रयोजनसूत्रम्। स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानाम् अन्यत्रोदितानां विज्ञानगुणानाम् अन्यत्रापि समाने विज्ञाने उपसंहारो भवति अर्थाभेदात् य एव हि तेषां गुणानामेकत्र अर्थो विशिष्टविज्ञानोपकारः स एव अन्यत्रापि उभयत्रापि हि तदेवैकं विज्ञानम् तस्मादुपसंहारः। विधिशेषवत् यथा विधिशेषाणामग्निहोत्रादिधर्माणाम् तदेव एकमग्निहोत्रादि कर्म सर्वत्रेति अर्थाभेदात् उपसंहरणम् एवमिहापि। यदि हि विज्ञानभेदो भवेत् ततो विज्ञानान्तरनिबद्धत्वाद्गुणानाम् प्रकृतिविकृतिभावाभावाच्च न स्यादुपसंहारः विज्ञानैकत्वे तु नैवमिति। अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चःसर्वाभेदात् इत्यारभ्य भविष्यति।।

अन्यथात्वाधिकरणम्[सम्पाद्यताम्]

अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् । ( ब्रसू-३,३.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

वाजसनेयकेते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेतिते ह वाचमूचुस्त्वं न उद्गाय इति प्रक्रम्य वागादीन्प्राणान् असुरपाप्मविद्धत्वेन निन्दित्वा मुख्यप्राणपरिग्रहः पठ्यते अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत् इति। तथा छान्दोग्येऽपितद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्यामः इति प्रक्रम्य इतरान्प्राणान् असुरपाप्मविद्धत्वेन निन्दित्वा तथैव मुख्यप्राणपरिग्रहः पठ्यते अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे इति। उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते। तत्र संशयः किमत्र विद्याभेदः स्यात् आहोस्वित् विद्यैकत्वमिति। किं तावत्प्राप्तम् पूर्वेण न्यायेन विद्यैकत्वमिति। ननु न युक्तं विद्यैकत्वम् प्रक्रमभेदात् अन्यथा हि प्रक्रमन्ते वाजसनेयिनः अन्यथा छन्दोगाः त्वं न उद्गाय इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति छन्दोगास्तु उद्गीथत्वेनतमुद्गीथमुपासांचक्रिरे इति तत्कथं विद्यैकत्वं स्यादिति चेत् नैष दोषः न हि एतावता विशेषेण विद्यैकत्वम् अपगच्छति अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् तथा हि देवासुरसंग्रामोपक्रमत्वम् असुरात्ययाभिप्रायः उद्गीथोपन्यासः वागादिसंकीर्तनम् तन्निन्दया मुख्यप्राणव्यपाश्रयः तद्वीर्याच्च असुरविध्वंसनम् अश्मलोष्टनिदर्शनेन इत्येवं बहवोऽर्था उभयत्राप्यविशिष्टाः प्रतीयन्ते। वाजसनेयकेऽपि च उद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम् एष उ वा उद्गीथः इति। तस्माच्छान्दोग्येऽपि कर्तृत्वं लक्षयितव्यम्। तस्माच्च विद्यैकत्वमिति।।

न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् । ( ब्रसू-३,३.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

न वा विद्यैकत्वमत्र न्याय्यम् विद्याभेद एव अत्र न्याय्यः कस्मात् प्रकरणभेदात् प्रक्रमभेदादित्यर्थः तथा हि इह प्रक्रमभेदो दृश्यते छान्दोग्ये तावत् ओमित्येतदक्षरमुद्गीथमुपासीत इत्येवमुद्गीथावयवस्य ओंकारस्य उपास्यत्वं प्रस्तुत्य रसतमत्वादिगुणोपव्याख्यानं तत्र कृत्वा अथखल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति इति पुनरपि तमेव उद्गीथावयवमोंकारमनुवर्त्य देवासुराख्यायिकाद्वारेण तम्प्राणमुद्गीथमुपासांचक्रिरे इत्याह तत्र यदि उद्गीथशब्देन सकला भक्तिरभिप्रेयेत तस्याश्च कर्ता उद्गाता ऋत्विक् तत उपक्रमश्चोपरुध्येत लक्षणा च प्रसज्येत उपक्रमतन्त्रेण च एकस्मिन्वाक्ये उपसंहारेण भवितव्यम् तस्मात् अत्र तावत् उद्गीथावयवे ओंकारे प्राणदृष्टिरूपदिश्यते वाजसनेयके तु उद्गीथशब्देन अवयवग्रहणे कारणाभावात् सकलैव भक्तिरावेद्यतेत्वं न उद्गाय इत्यपि तस्याः कर्ता उद्गाता ऋत्विक् प्राणत्वेन निरूप्यत इति प्रस्थानान्तरम्। यदपि तत्र उद्गीथसामानाधिकरण्यं प्राणस्य तदपि उद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति। सकलभक्तिविषय एव च तत्रापि उद्गीथशब्द इति वैषम्यम्। न च प्राणस्योद्गातृत्वम् असंभवेन हेतुना परित्यज्यते उद्गीथभाववत् उद्गातृभावस्यापि उपासनार्थत्वेन उपदिश्यमानत्वात् प्राणवीर्येणैव च उद्गाता औद्गात्रं करोतीति नास्त्यसंभवः तथा च तत्रैव श्रावितम् वाचा च ह्येव स प्राणेन चोदगायत् इति। न च विवक्षितार्थभेदेऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम् तथा हि अभ्युदयवाक्ये पशुकामवाक्ये चत्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात् इत्यादिनिर्देशसाम्येऽपि उपक्रमभेदात् अभ्युदयवाक्ये देवतापनयोऽध्यवसितः पशुकामवाक्ये तु यागविधिः तथा इहापि उपक्रमभेदात् विद्याभेदः। परोवरीयस्त्वादिवत् यथा परमात्मदृष्ट्यध्याससाम्येऽपिआकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्स एष परोवरीयानुद्गीथः स एषोऽनन्तः इति परोवरीयस्त्वगुणविशिष्टम् उद्गीथोपासनम् अक्ष्यादित्यादिगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोद्गीथोपासनात् भिन्नम् न च इतरेतरगुणोपसंहार एकस्यामपि शाखायाम् तद्वत् शाखान्तरस्थेष्वपि एवंजातीयकेषु उपासनेष्विति।।

संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि । ( ब्रसू-३,३.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथोच्येत संज्ञैकत्वात् विद्यैकत्वमत्र न्याय्यम् उद्गीथविद्येत्युपभयत्रापि एका संज्ञेति तदपि नोपपद्यते उक्तं ह्येतत् न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् इति तदेव च अत्र न्याय्यतरं श्रुत्यक्षरानुगतं हि तत् संज्ञैकत्वं तु श्रुत्यक्षरबाह्यम् उद्गीथशब्दमात्रयोगात् लौकिकैर्व्यवहर्तृभिरुपचर्यते। अस्ति च एतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषु उद्गीथविद्येति तथा प्रसिद्धभेदानामपि अग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपठितानां काठकसंज्ञैकत्वं दृश्यते तथेहापि भविष्यति। यत्र तु नास्ति कश्चित् एवंजातीयको भेदहेतुः तत्र भवतु संज्ञैकत्वात् विद्यैकत्वम् यथा संवर्गविद्यादिषु।।

व्याप्त्यधिकरणम्[सम्पाद्यताम्]

व्याप्तेश् च समञ्जसम् । ( ब्रसू-३,३.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

ओमित्येतदक्षरमुद्गीथमुपासीत इत्यत्र अक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे अध्यासापवादैकत्वविशेषणपक्षाणां प्रतिभासनात् कतमोऽत्र पक्षोन्याय्यः स्यादिति विचारः। तत्र अध्यासो नाम द्वयोर्वस्तुनोः अनिवर्तितायामेव अन्यतरबुद्धौ अन्यतरबुद्धिरध्यस्यते यस्मिन् इतरबुद्धिरध्यस्यते अनुवर्तत एव तस्मिन् तद्बुद्धिः अध्यस्तेतरबुद्धावपि यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामपि अनुवर्तत एव नामबुद्धिः न ब्रह्मबुद्ध्या निवर्तते यथा वा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः एवमिहापि अक्षरे उद्गीथबुद्धिरध्यस्येत उद्गीथे वा अक्षरबुद्धिरिति। अपवादो नाम यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायाम् पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेः निवर्तिका भवति यथा देहेन्द्रियसंघाते आत्मबुद्धिः आत्मन्येव आत्मबुद्ध्या पश्चाद्भाविन्यातत्त्वमसि इत्यनया यथार्थबुद्ध्या निवर्त्यते यथा वा दिग्भ्रान्तिबुद्धिः दिग्याथात्म्यबुद्ध्या निवर्त्यते एवमिहापि अक्षरबुद्ध्या उद्गीथबुद्धिर्निवर्त्येत उद्गीथबुद्ध्या वा अक्षरबुद्धिरिति। एकत्वं तु अक्षरोद्गीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति। विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्गे औद्गात्रविशेषस्य समर्पणम् यथा नीलं यदुत्पलम् तदानयेति एवमिहापि उद्गीथो य ओंकारः तमुपासीतेति। एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमाने एते पक्षाः प्रतिभान्ति तत्रान्यतमनिर्धारणकारणाभावात् अनिर्धारणप्राप्तौ

इदमुच्यते व्याप्तेश्च समञ्जसमिति। चशब्दो़ऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजनः। तदिह त्रयः पक्षाः सावद्या इति पर्युदस्यन्ते विशेषणपक्ष एवैको निरवद्य इत्युपादीयते। तत्राध्यासे तावत् या बुद्धिः इतरत्र अध्यस्यते तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत तत्फलं च कल्प्येत श्रूयत एव फलम्आपयिता ह वै कामानां भवति इत्यादि इति चेत् तन्न तस्य अन्यफलत्वात् आप्त्यादिदृष्टिफलं हि तत् नोद्गीथाध्यासफलम्। अपवादेऽपि समानः फलाभावः मिथ्याज्ञाननिवृत्तिः फलमिति चेत् न पुरुषार्थोपयोगानवगमात् न च कदाचिदपि ओंकारात् ओकारबुद्धिर्निवर्तेत उद्गीथाद्वा उद्गीथबुद्धिः न चेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम् उपासनाविधिपरत्वात्। नापि एकत्वपक्षः संगच्छते निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात् एकेनैव विवक्षितार्थसमर्पणात्। न च हौत्रविषये आध्वर्यवविषये वा अक्षरे ओंकारशब्दवाच्ये उद्गीथशब्दप्रसिद्धिरस्ति नापि सकलायाम् साम्नो द्वितीयायां भक्तौ उद्गीथशब्दवाच्यायाम् ओंकारशब्दप्रसिद्धिः येनानतिरिक्तार्थता स्यात्। परिशेषाद्विशेषणपक्षः परिगृह्यते व्याप्तेः सर्ववेदसाधारण्यात् सर्वव्याप्यक्षरमिह मा प्रसञ्जि इत्यत उद्गीथशब्देन अक्षरं विशेष्यते कथं नाम उद्गीथावयवभूत ओंकारो गृह्येतेति। नन्वस्मिन्नपि पक्षे समाना लक्षणा उद्गीथशब्दस्य अवयवलक्षणार्थत्वात् सत्यमेवमेतत् लक्षणायामपि तु संनिकर्षविप्रकर्षौ भवत एव अध्यासपक्षे हि अर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा विशेषणपक्षे तु अवयविवचनेन शब्देन अवयवः समर्प्यत इति संनिकृष्टा समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तमाना दृष्टाः पटग्रामादिषु। अतश्च व्याप्तेर्हेतोःओमित्येतदक्षरम् इत्येतस्यउद्गीथम् इत्येतद्विशेषणमिति समञ्जसमेतत् निरवद्यमित्यर्थः।।

सर्वाभेदाधिकरणम्[सम्पाद्यताम्]

सर्वाभेदादन्यत्रेमे । ( ब्रसू-३,३.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठ्यगुणान्वितस्य प्राणस्य उपास्यत्वमुक्तम् वागादयोऽपि हि तत्र वसिष्ठत्वादिगुणान्विता उक्ताः ते च गुणाः प्राणे पुनः प्रत्यर्पिताः यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि इत्यादिना। अन्येषामपि तु शाखिनां कोषीतकिप्रभृतीनां प्राणसंवादेषुअथातो निःश्रेयसादानमेता ह वै देवता अहंश्रेयसे विवदमानाः इत्येवंजातीयकेषु प्राणस्य श्रैष्ठ्यमुक्तम् न त्विमे वसिष्ठत्वादयोऽपि गुणा उक्ताः। तत्र संशयः किमिमे वसिष्ठत्वादयो गुणाः क्वचिदुक्ता अन्यत्रापि अस्येरन् उत नास्येरन्निति। तत्र प्राप्तं तावत् नास्येरन्निति कुतः एवंशब्दसंयोगात्अथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वा इति हि तत्र तत्र एवंशब्देन वेद्यं वस्तु निवेद्यते एवंशब्दश्च संनिहितावलम्बनः न शाखान्तरपरिपठितम् एवंजातीयकं गुणजातं शक्नोति निवेदयितुम् तस्मात् स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमित्येवं प्राप्ते

प्रत्याह अस्येरन् इमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयः अन्यत्रापि कुतः सर्वाभेदात् सर्वत्रैव तदेव एकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते प्राणसंवादादिसारूप्यात् अभेदे च विज्ञानस्य कथम् इमे गुणाः क्वचिदुक्ता अन्यत्र न अस्येरन्। ननु एवंशब्दः तत्र तत्र भेदेन एवंजातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम् अत्रोच्यते यद्यपि कौषीतकिब्राह्मणगतेन एवंशब्देन वाजसनेयिब्राह्मणगतं गुणजातम् असंशब्दितम् असंनिहितत्वात् तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेन एवंशब्देन तत् संशब्दितमिति न परशाखागतमपि अभिन्नविज्ञानावबद्धं गुणजातं स्वशाखागताद्विशिष्यते न चैवं सति श्रुतहानिः अश्रुतकल्पना वा भवति एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति गुणवतो भेदाभावात् न हि देवदत्तः शौर्यादिगुणत्वेन स्वदेशे प्रसिद्धः देशान्तरं गतः तद्देश्यैरविभावितशौर्यादिगुणोऽपि अतद्गुणो भवति यथा च तत्र परिचयविशेषात् देशान्तरेऽपि देवदत्तगुणा विभाव्यन्ते एवम् अभियोगविशेषात् शाखान्तरेऽप्युपास्या गुणाः शाखान्तरेऽप्यस्येरन्। तस्मादेकप्रधानसंबद्धा धर्मा एकत्राप्युच्यमानाः सर्वत्रैव उपसंहर्तव्या इति।।

आनन्दाद्यधिकरणम्[सम्पाद्यताम्]

आनन्दादयः प्रधानस्य । ( ब्रसू-३,३.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिषु आनन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मत्वंमित्येवंजातीयका ब्रह्मणो धर्माः क्वचित् केचित् श्रूयन्ते। तेषु संशयः किमानन्दादयो ब्रह्मधर्माः यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः किं वा सर्वे सर्वत्रेति। तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायाम् इदमुच्यते आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः कस्मात् सर्वाभेदादेव सर्वत्र हि तदेव एकं प्रधानं विशेष्यं ब्रह्म न भिद्यते तस्मात् सार्वत्रिकत्वं ब्रह्मधर्माणाम् तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यादिनिदर्शनेन।।

ननु एवं सति प्रियशिरस्त्वादयोऽपि धर्माः सर्वे सर्वत्र संकीर्येरन् तथा हि तैत्तिरीयके आनन्दमयमात्मानं प्रक्रम्य आम्नायते तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्रह्म पुच्छं प्रतिष्ठा इति। अत उत्तरं पठति

प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । ( ब्रसू-३,३.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयके आम्नातानां नास्ति अन्यत्र प्राप्तिः यत्कारणम् प्रियं मोदः प्रमोद आनन्द इत्येते परस्परापेक्षया भोक्त्रन्तरापेक्षया च उपचितापचितरूपा उपलभ्यन्ते उपचयापचयौ च सति भेदे संभवतः निर्भेदं तु ब्रह्मएकमेवाद्वितीयम् इत्यादिश्रुतिभ्यः। न च एते प्रियशिरस्त्वादयो ब्रह्मधर्माः कोशधर्मास्तु एते इत्युपदिष्टमस्माभिःआनन्दमयोऽभ्यासात् इत्यत्र। अपि च परस्मिन् ब्रह्मणि चित्तावतारोपायमात्रत्वेन एते परिकल्प्यन्ते न द्रष्टव्यत्वेन एवमपि सुतरामन्यत्राप्राप्तिः प्रियशिरस्त्वादीनाम्। ब्रह्मधर्मांस्तु एतान्कृत्वा न्यायमात्रमिदम् आचार्येण प्रदर्शितम् प्रियशिरस्त्वाद्यप्राप्तिरिति स च न्यायः अन्येषु निश्चितेषु ब्रह्मधर्मेषु उपासनायोपदिश्यमानेषु नेतव्यः संयद्वामत्वादिषु सत्यकामत्वादिषु च तेषु हि सत्यपि उपास्यस्य ब्रह्मण एकत्वे प्रक्रमभेदादुपासनाभेदे सति न अन्योन्यधर्माणाम् अन्योन्यत्र प्राप्तिः यथा च द्वे नार्यौ एकं नृपतिमुपासाते छत्रेण अन्या चामरेण अन्या तत्रोपास्यैकत्वेऽपि उपासनभेदो धर्मव्यवस्था च भवति एवमिहापीति। उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रह्मण्युपपद्यते न निर्गुणे परस्मिन्ब्रह्मणि। अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छ्रुतानां सर्वत्र प्राप्तिरित्यर्थः।।

इतरे त्वर्थसामान्यात् । ( ब्रसू-३,३.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतरे तु आनन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपादनायैव उच्यमानाः अर्थसामान्यात् प्रतिपाद्यस्य ब्रह्मणो धर्मिण एकत्वात् सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यम् प्रतिपत्तिमात्रप्रयोजना हि ते इति।।

आध्यात्माधिकरणम्[सम्पाद्यताम्]

आध्यानाय प्रयोजनाभावात् । ( ब्रसू-३,३.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

काठके हि पठ्यते इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिः इत्यारभ्यपुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इति। तत्र संशयः किमिमे सर्व एव अर्थादयः ततस्ततः परत्वेन प्रतिपाद्यन्ते उत पुरुष एव एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति। तत्र तावत् सर्वेषामेवैषां परत्वेन प्रतिपादनमिति भवति मतिः तथाहि श्रूयते इदमस्मात्परम् इदमस्मात्परमिति। ननु बहुष्वर्थेषु परत्वेन प्रतिपिपादयिषितेषु वाक्यभेदः स्यात् नैष दोषः वाक्यबहुत्वोपपत्तेः बहून्येव हि एतानि वाक्यानि प्रभवन्ति बहूनर्थान् परत्वोपेतान् प्रतिपादयितुम्। तस्मात् प्रत्येकमेषां परत्वप्रतिपादनमित्येवं प्राप्ते

ब्रूमः पुरुष एव हि एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति युक्तम् न प्रत्येकमेषां परत्वप्रतिपादनम् कस्मात् प्रयोजनाभावात् न हि इतरेषु परत्वेन प्रतिपन्नेषु किंचित्प्रयोजनं दृश्यते श्रूयते वा पुरुषे तु इन्द्रियादिभ्यः परस्मिन् सर्वानर्थव्रातातीते प्रतिपन्ने दृश्यते प्रयोजनम् मोक्षसिद्धिः तथा च श्रुतिः निचाय्य तन्मृत्युमुखात्प्रमुच्यते इति। अपि च परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन् पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति। आध्यानायेति आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थः सम्यग्दर्शनार्थमेव हि इह आध्यानमुपदिश्यते न तु आध्यानमेव स्वप्रधानम्।।

आत्मशब्दाच् च । ( ब्रसू-३,३.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च पुरुषप्रतिपत्त्यर्थैव इयमिन्द्रियादिप्रवाहोक्तिः यत्कारणम्एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः इति प्रकृतं पुरुषम् आत्मेत्याह अतश्च अनात्मत्वमितरेषां विवक्षितमिति गम्यते तस्यैव च दुर्विज्ञानतां संस्कृतमतिगम्यतां च दर्शयति तद्विज्ञानायैव च यच्छेद्वाङ्मनसी प्राज्ञः इति आध्यानं विदधाति। तत् व्याख्यातम्आनुमानिकमप्येकेषाम् इत्यत्र। एवम् अनेकप्रकार आशयातिशयः श्रुतेः पुरुषे लक्ष्यते नेतरेषु। अपि चसोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इत्युक्ते किं तत् अध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम् इन्द्रियाद्यनुक्रमणात् परमपदप्रतिपत्त्यर्थ एवायम् आम्नाय इत्यवसीयते।।

आत्मगृहीत्यधिकरणम्[सम्पाद्यताम्]

आत्मगृहीतिर् इतरवद् उत्तरात् । ( ब्रसू-३,३.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

ऐतरेयके श्रूयते आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्स ईक्षत लोकान्नु सृजा इतिस इमा्लोकानसृजताम्भो मरीचीर्मरमापः इत्यादि। तत्र संशयः किं पर एवात्मा इह आत्मशब्देनाभिलप्यते उत अन्यः कश्चिदिति। किं तावत्प्राप्तम् न परमात्मा इह आत्मशब्दाभिलप्यो भवितुमर्हतीति कस्मात् वाक्यान्वयदर्शनात्। ननु वाक्यान्वयः सुतरां परमात्मविषयो दृश्यते प्रागुत्पत्तेः आत्मैकत्वावधारणात् ईक्षणपूर्वकस्रष्टृत्ववचनाच्च नेत्युच्यते लोकसृष्टिवचनात् परमात्मनि हि स्रष्टरि परिगृह्यमाणे महाभूतसृष्टिः आदौ वक्तव्या लोकसृष्टिस्तु इह आदावुच्यते लोकाश्च महाभूतसंनिवेशविशेषाः तथा च अम्भःप्रभृतीन् लोकत्वेनैव निर्ब्रवीति अदोऽम्भः परेण दिवम् इत्यादिना। लोकसृष्टिश्च परमेश्वराधिष्ठितेन अपरेण केनचिदीश्वरेण क्रियत इति श्रुतिस्मृत्योरुपलभ्यते तथा हि श्रुतिर्भवति आत्मैवेदमग्र आसीत्पुरुषविधः इत्याद्या स्मृतिरपि स वै शरीरी प्रथमः स वै पुरुष उच्यते। आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत इति ऐतरेयिणोऽपिअथातो रेतसः सृष्टिः प्रजापते रेतो देवाः इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकां विचित्रां सृष्टिमामनन्ति आत्मशब्दोऽपि तस्मिन्प्रयुज्यमानो दृश्यते आत्मैवेदमग्र आसीत्पुरुषविधः इत्यत्र। एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपपद्यते ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम्। अपि चताभ्यो गामानयत्ताभ्योऽश्वमानयत्ताभ्यः पुरुषमानयत्ता अब्रुवन् इत्येवंजातीयको भूयान् व्यापारविशेषः लौकिकेषु विशेषवत्सु आत्मसु प्रसिद्धः इहानुगम्यते। तस्मात् विशेषवानेव कश्चिदिह आत्मा स्यादित्येवं प्राप्ते

ब्रूमः पर एव आत्मा इह आत्मशब्देन गृह्यते इतरवत् यथा इतरेषु सृष्टिश्रवणेषुतस्माद्वा एतस्मादात्मन आकाशः संभूतः इत्येवमादिषु परस्यात्मनो ग्रहणम् यथा च इतरस्मिन् लौकिकात्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते तथा इहापि भवितुमर्हति। यत्र तुआत्मैवेदमग्र आसीत् इत्येवमादौपुरुषविधः इत्येवमादि विशेषणान्तरं श्रूयते भवेत् तत्र विशेषवत आत्मनो ग्रहणम् अत्र पुनः परमात्मग्रहणानुगुणमेव विशेषणमपि उत्तरम् उपलभ्यते स ईक्षत लोकान्नु सृजा इतिस इमा्लोकानसृजत इत्येवमादि तस्मात् तस्यैव ग्रहणमिति न्याय्यम्।।

अन्वयाद् इति चेत् स्याद् अवधारणात् । ( ब्रसू-३,३.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

वाक्यान्वयदर्शनात् न परमात्मग्रहणमिति पुनः यदुक्तम् तत्परिहर्तव्यमिति अत्रोच्यते स्यादवधारणादिति। भवेदुपपन्नं परमात्मनो ग्रहणम् कस्मात् अवधारणात् परमात्मग्रहणे हि प्रागुत्पत्तेरात्मैकत्वावधारणमाञ्जसमवकल्पते अन्यथा हि अनाञ्जसं तत्परिकल्प्येत। लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्ट्यनन्तरमिति योजयिष्यामि यथातत्तेजोऽसृजत इत्येतत् श्रुत्यन्तरप्रसिद्धवियद्वायुसृष्ट्यनन्तरमिति अयूयुजम् एवमिहापि श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेषः श्रुत्यन्तरेषु उपसंहर्तव्यो भवति। योऽपि अयं व्यापारविशेषानुगमःताभ्यो गामानयत् इत्येवमादिः सोऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्यः न ह्ययं सकलः कथाप्रबन्धो विवक्षित इति शक्यते वक्तुम् तत्प्रतिपत्तौ पुरुषार्थाभावात् ब्रह्मात्मत्वं तु इह विवक्षितम् तथा हि अम्भःप्रभृतीनां लोकानां लोकपालानां चाग्न्यादीनां सृष्टिं शिष्ट्वा करणानि करणायतनं च शरीरमुपदिश्य स एव स्रष्टाकथं न्विदं मदृते स्यात् इति वीक्ष्य इदं शरीरं प्रविवेशेति दर्शयति स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत इति पुनश्चयदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितम् इत्येवमादिना करणव्यापारविवेचनपूर्वकम्अथ कोऽहम् इति वीक्ष्यस एतमेव पुरुषं ब्रह्म ततममपश्यत् इति ब्रह्मात्मत्वदर्शनमवधारयति तथोपरिष्टात् एष ब्रह्मैष इन्द्रः इत्यादिना समस्तं भेदजातं सह महाभूतैरनुक्रम्यसर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म इति ब्रह्मात्मत्वदर्शनमेव अवधारयति। तस्मात् इह आत्मगृहीतिरित्यनपवादम्।।

अपरा योजना आत्मगृहीतिरितरवदुत्तरात्। वाजसनेयकेकतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः इत्यात्मशब्देनोपक्रम्य तस्यैव सर्वसङ्गविनिर्मुक्तत्वप्रतिपादनेन ब्रह्मात्मतामवधारयति तथा हि उपसंहरति स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म इति। छान्दोग्ये तुसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति अन्तरेणैवात्मशब्दम् उपक्रम्य उदर्केस आत्मा तत्त्वमसि इति तादात्म्यमुपदिशति। तत्र संशयः तुल्यार्थत्वं किमनयोराम्नानयोः स्यात् अतुल्यार्थत्वं वेति। अतुल्यार्थत्वमिति तावत् प्राप्तम् अतुल्यत्वादाम्नानयोः न हि आम्नानवैषम्ये सति अर्थसाम्यं युक्तं प्रतिपत्तुम् आम्नानतन्त्रत्वादर्थपरिग्रहस्य वाजसनेयके च आत्मशब्दोपक्रमात् आत्मतत्त्वोपदेश इति गम्यते छान्दोग्ये तु उपक्रमविपर्ययात् उपदेशविपर्ययः। ननु छन्दोगानामपि अस्त्युदर्के तादात्म्योपदेश इत्युक्तम् सत्यमुक्तम् उपक्रमतन्त्रत्वादुपसंहारस्य तादात्म्यसंपत्तिः सा इति मन्यते। तथा प्राप्ते अभिधीयते आत्मगृहीतिःसदेव सोम्येदमग्र आसीत् इत्यत्र च्छन्दोगानामपि भवितुमर्हति इतरवत् यथाकतम आत्मा इत्यत्र वाजसनेयिनामात्मगृहीतिः तथैव कस्मात् उत्तरात् तादात्म्योपदेशात्।अन्वयादिति चेदवधारणात् यदुक्तम् उपक्रमान्वयात् उपक्रमे च आत्मशब्दश्रवणाभावात् न आत्मगृहीतिरिति तस्य कः परिहार इति चेत् सोऽभिधीयते स्यादवधारणादिति। भवेदुपपन्ना इह आत्मगृहीतिः अवधारणात् तथा हि येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् इत्येकविज्ञानेन सर्वविज्ञानमवधार्य तत्संपिपादयिषयासदेव इत्याह तच्च आत्मगृहीतौ सत्यां संपद्यते अन्यथा हि योऽयं मुख्य आत्मा स न विज्ञात इति नैव सर्वविज्ञानं संपद्येत। तथा प्रागुत्पत्तेः एकत्वाधारणम् जीवस्य च आत्मशब्देन परामर्शः स्वापावस्थायां च तत्स्वभावसंपत्तिकथनम् परिचोदनापूर्वकं च पुनः पुनःतत्त्वमसि इत्यवधारणम् इति च सर्वमेतत् तादात्म्यप्रतिपादनायामेव अवकल्पते न तादात्म्यसंपादनायाम्। न च अत्र उपक्रमतन्त्रत्वोपन्यासो न्याय्यः न हि उपक्रमे आत्मत्वसंकीर्तनम् अनात्मत्वसंकीर्तनं वा अस्ति सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते विशेषाकङ्क्षित्वात्सामान्यस्य। सच्छब्दार्थोऽपि च पर्यालोच्यमानः न मुख्यादात्मनोऽन्यः संभवति अतोऽन्यस्य वस्तुजातस्य आरम्भणशब्दादिभ्योऽनृतत्वोपपत्तेः। आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहतिआहर पात्रम्पात्रमाहर इत्येवमादिषु अर्थसाम्येऽपि तद्दर्शनात्। तस्मात् एवंजातीयकेषु वाक्येषु प्रतिपादनप्रकारभेदेऽपि प्रतिपाद्यार्थाभेद इति सिद्धम्।।

कार्याख्यानाधिकरणम्[सम्पाद्यताम्]

कार्याख्यानादपूर्वम् । ( ब्रसू-३,३.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिमर्यादं प्राणस्य अन्नमाम्नाय तस्यैव आपो वास आमनन्ति अनन्तरं च च्छन्दोगा आमनन्ति तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति इति वाजसनेयिनश्चामनन्ति तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते इति। तत्र च आचमनम् अनग्नताचिन्तनं च प्राणस्य प्रतीयते तत्किमुभयमपि विधीयते उत आचमनमेव उन अनग्नताचिन्तनमेवेति विचार्यते। किं तावत्प्राप्तम् उभयमपि विधीयत इति कुतः उभयस्याप्यवगम्यमानत्वात् उभयमपि च एतत् अपूर्वत्वात् विध्यर्हम्। अथवा आचमनमेव विधीयते विस्पष्टा हि तस्मिन्विधिविभक्तिः तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेत् इति तस्यैव स्तुत्यर्थम् अनग्नतासंकीर्तनमित्येवं प्राप्ते

ब्रूमः न आचमनस्य विधेयत्वमुपपद्यते कार्याख्यानात्0 0प्राप्तमेव हि इदं कार्यत्वेन आचमनं प्रायत्यार्थं स्मृतिप्रसिद्धम् अन्वाख्यायते। ननु इयं श्रुतिः तस्याः स्मृतेर्मूलं स्यात् नेत्युच्यते विषयनानात्वात् सामान्यविषया हि स्मृतिः पुरुषमात्रसंबद्धं प्रायत्यार्थमाचमनं प्रापयति श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्विषयमेव आचमनं विदधती विदध्यात् न च भिन्नविषययोः श्रुतिस्मृत्योः मूलमूलिभावोऽवकल्पते न च इयं श्रुतिः प्राणविद्यासंयोगि अपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्य इह प्रत्यभिज्ञायमानत्वात् अत एव च नोभयविधानम् उभयविधाने च वाक्यं भिद्येत तस्मात् प्राप्तमेव अशिशिषतामशितवतां च उभयत आचमनम् अनूद्यएतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते इति प्राणस्य अनग्नताकरणसंकल्पः अनेन वाक्येन आचमनीयास्वप्सु प्राणविद्यासंबन्धित्वेन अपूर्व उपदिश्यते। न च अयमनग्नतावादः आचमनस्तुत्यर्थ इति न्याय्यम् आचमनस्याविधेयत्वात्। स्वयं च अनग्नतासंकल्पस्य विधेयत्वप्रतीतेः। न च एवं सति एकस्य आचमनस्य उभयार्थता अभ्युपगता भवति प्रायत्यार्थता परिधानार्थता चेति क्रियान्तरत्वाभ्युपगमात् क्रियान्तरमेव हि आचमनं नाम प्रायत्यार्थं पुरुषस्य अभ्युपगम्यते तदीयासु तु अप्सु वासःसंकल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्य अभ्युपगम्यत इत्यनवद्यम्। अपि चयदिदं किंचा श्वभ्य आ कृमिभ्य आ कीटपतंगेभ्यस्तत्तेऽन्नम् इत्यत्र तावत् न सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम् अशब्दत्वादशक्यत्वाच्च सर्वं तु प्राणस्यान्नमिति इयमन्नदृष्टिश्चोद्यते तत्साहचर्याच्चआपो वासः इत्यत्रापि न अपामाचमनं चोद्यते प्रसिद्धास्वेव तु आचमनीयास्वप्सु परिधानदृष्टिश्चोद्यत इति युक्तम् न हि अर्धवैशसं संभवति। अपि च आचामन्तीति वर्तमानापदेशित्वात् नायं शब्दो विधिक्षमः। ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम् सत्यमेव तत् अवश्यविधेये तु अन्यतरस्मिन् वासःकार्याख्यानात् अपां वासःसंकल्पनमेव अपूर्वं विधीयते न आचमनम् पूर्ववद्धि तत् इत्युपपादितम्। यदप्युक्तम् विस्पष्टा च आचमने विधिविभक्तिरिति तदपि पूर्ववत्त्वेनैव आचमनस्य प्रत्युक्तम् अत एव आचमनस्याविधित्सितत्वात्एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते इत्यत्रैव काण्वाः पर्यवस्यन्ति न आमनन्तितस्मादेवंवित् इत्यादि तस्मात् माध्यंदिनानामपि पाठे आचमनानुवादेन एवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम्। योऽप्ययमभ्युपगमः क्वचिदाचमनं विधीयताम् क्वचिद्वासोविज्ञानमिति सोऽपि न साधुःआपो वासः इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात्। तस्मात् वासोविज्ञानमेव इह विधीयते न आचमनमिति न्याय्यम्।।

समानाधिकरणम्[सम्पाद्यताम्]

समान एवं चाभेदात् । ( ब्रसू-३,३.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

वाजसनेयिशाखायाम् अग्निरहस्ये शाण्डिल्यनामाङ्किता विद्या विज्ञाता तत्र च गुणाः श्रूयन्ते स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम् इत्येवमादयः तस्यामेव शाखायां बृहदारण्यके पुनः पठ्यते मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच इति। तत्र संशयः किमियम् एका विद्या अग्निरहस्यबृहदारण्यकयोः गुणोपसंहारश्च उत द्वे इमे विद्ये गुणानुपसंहारश्चेति। किं तावत्प्राप्तम् विद्याभेदः गुणव्यवस्था चेति कुतः पौनरुक्त्यप्रसङ्गात् भिन्नासु हि शाखासु अध्येतृवेदितृभेदात् पौनरुक्त्यपरिहारमालोच्य विद्यैकत्वमध्यवसाय एकत्रातिरिक्ता गुणा इतरत्रोपसंह्रियन्ते प्राणसंवादादिषु इत्युक्तम् एकस्यां पुनः शाखायाम् अध्येतृवेदितृभेदाभावात् अशक्यपरिहारे पौनरुक्त्ये न विप्रक्रष्टदेशस्था एका विद्या भवितुमर्हति। न च अत्र एकमाम्नानं विद्याविधानार्थम् अपरं गुणविधानार्थम् इति विभागः संभवति तदा हि अतिरिक्ता एव गुणा इतरत्रेतरत्र च आम्नायेरन् न समानाः समाना अपि तु उभयत्राम्नायन्ते मनोमयत्वादयः। तस्मात् नान्योन्यगुणोपसंहार इत्येवं प्राप्ते

ब्रूमहे यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवति एवमेकस्यामपि शाखायां भवितुमर्हति उपास्याभेदात्। तदेव हि ब्रह्म मनोमयत्वादिगुणकम् उभयत्रापि उपास्यम् अभिन्नं प्रत्यभिजानीमः उपास्यं च रूपं विद्यायाः न च विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः नापि विद्याभेदे गुणव्यवस्थानम्। ननु पौनरुक्त्यप्रसङ्गात् विद्याभेदोऽध्यवसितः नेत्युच्यते अर्थविभागोपपत्तेः एकं हि आम्नानं विद्याविधानार्थम् अपरं गुणविधानार्थम् इति न किंचिन्नोपपद्यते। ननु एवं सति यदपठितमग्निरहस्ये तदेव बृहदारण्यके पठितव्यम् स एष सर्वस्येशानः इत्यादि यत्तु पठितमेवमनोमयः इत्यादि तन्न पठितव्यम् नैष दोषः तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् समानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्याम् ईशानत्वादि उपदिश्यते अन्यथा हि कथं तस्याम् अयं गुणविधिरभिधीयते। अपि च अप्राप्तांशोपदेशेन अर्थवति वाक्ये संजाते प्राप्तांशपरामर्शस्य नित्यानुवादतयापि उपपद्यमानत्वात् न तद्बलेन प्रत्यभिज्ञा उपेक्षितुं शक्यते। तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम्।।

सम्बन्धाधिकरणम्[सम्पाद्यताम्]

सम्बन्धादेवमन्यत्रापि । ( ब्रसू-३,३.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

बृहदारण्यकेसत्यं ब्रह्म इत्युपक्रम्य तद्यत्तत्सत्यमसौस आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः इति तस्यैव सत्यस्य ब्रह्मणः अधिदैवतमध्यात्मं च आयतनविशेषमुपदिश्य व्याहृतिशरीरत्वं च संपाद्य द्वे उपनिषदावादिश्येते तस्योपनिषदहः इति अधिदैवतम्तस्योपनिषदहम् इति अध्यात्मम्। तत्र संशयः किमविभागेनैव उभे अपि उपनिषदावुभयत्रानुसंधातव्ये उत विभागेन एका अधिदैवतम् एका अध्यात्ममिति। तत्र सूत्रेणैवोपक्रमते यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्तः एवमन्यत्रापि एवंजातीयके विषये भवितुमर्हति एकविद्याभिसंबन्धात् एका हि इयं सत्यविद्या अधिदैवतम् अध्यात्मं च अधीता उपक्रमाभेदात् व्यतिषक्तपाठाच्च कथं तस्यामुदितो धर्मः तस्यामेव न स्यात्। यो ह्याचार्ये कश्चिदनुगमनादिराचारश्चोदितः स ग्रामगतेऽरण्यगते च तुल्यवदेव भवति। तस्मात् उभयोरप्युपनिषदोः उभयत्र प्राप्तिरिति।।

एवं प्राप्ते प्रतिविधत्ते

न वा विशेषात् । ( ब्रसू-३,३.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

नैव उभयोः उभयत्र प्राप्तिः कस्मात् विशेषात् उपासनस्थानविशेषोपनिबन्धादित्यर्थः। कथं स्थानविशेषोपनिबन्ध इति उच्यते य एष एतस्मिन्मण्डले पुरुषः इति हि आधिदैविकं पुरुषं प्रकृत्यतस्योपनिषदहः इति श्रावयतियोऽयं दक्षिणेऽक्षन्पुरुषः इति च आध्यात्मिकं पुरुषं प्रकृत्यतस्योपनिषदहम् इति तस्येति च एतत् संनिहितावलम्बनं सर्वनाम तस्मात् आयतनविशेषव्यपाश्रयेणैव एते उपनिषदावुपदिश्येते कुत उभयोरुभयत्र प्राप्तिः। ननु एक एवायम् अधिदैवतमध्यात्मं च पुरुषः एकस्यैव सत्यस्य ब्रह्मण आयतनद्वयप्रतिपादनात् सत्यमेवमेतत् एकस्यापि तु अवस्थाविशेषोपादानेनैव उपनिषद्विशेषोपदेशात् तदवस्थस्यैव सा भवितुमर्हति अस्ति चायं दृष्टान्तः सत्यपि आचार्यस्वरूपानपाये यत् आचार्यस्य आसीनस्य अनुवर्तनमुक्तम् न तत् तिष्ठतो भवति यच्च तिष्ठत उक्तम् न तदासीनस्येति। ग्रामारण्ययोस्तु आचार्यस्वरूपानपायात् तत्स्वरूपानुबद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावात् उभयत्र तुल्यवद्भाव इति अदृष्टान्तः सः। तस्मात् व्यवस्था अनयोरुपनिषदोः।।

दर्शयति च । ( ब्रसू-३,३.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च एवंजातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम इति। कथमस्य लिङ्गत्वमिति तदुच्यते अक्ष्यादित्यस्थानभेदभिन्नान् धर्मान् अन्योन्यस्मिन्ननुपसंहार्यान् पश्यन् इह अतिदेशेन आदित्यपुरुषगतान्रूपादीन् अक्षिपुरुषे उपसंहरति तस्यैतस्य तदेव रूपम् इत्यादिना। तस्माद्व्यवतिष्ठेते एव एते उपनिषदाविति निर्णयः।।

संभृत्यधिकरणम्[सम्पाद्यताम्]

संभृतिद्युव्याप्त्यपि चातः । ( ब्रसू-३,३.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

ब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान इत्येवं राणायनीयानां खिलेषु वीर्यसंभृतिद्युनिवेशप्रभृतयो ब्रह्मणो विभूतयः पठ्यन्ते तेषामेव च उपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्रह्मविद्याः पठ्यन्ते तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उपसंह्रियेरन् न वेति विचारणायाम् ब्रह्मसंबन्धादुपसंहारप्राप्तौ एवं पठति। संभृतिद्युव्याप्तिप्रभृतयो विभूतयः शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्याः अत एव च आयतनविशेषयोगात्। तथा हि शाण्डिल्यविद्यायां हृदयायतनत्वं ब्रह्मण उक्तम् एष म आत्मान्तर्हृदये इति तद्वदेव दहरविद्यायामपि दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः इति उपकोसलविद्यायां तु अक्ष्यायतनत्वम् य एषोऽक्षिणि पुरुषो दृश्यते इति एवं तत्र तत्र तत्तत् आध्यात्मिकमायतनम् एतासु विद्यासु प्रतीयते आधिदैविक्यस्तु एता विभूतयः संभृतिद्युव्याप्तिप्रभृतयः तासां कुत एतासु प्राप्तिः। नन्वेतास्वपि आधिदैविक्यो विभूतयः श्रूयन्ते ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यःएष उ एव भामनीरेष हि सर्वेषु लोकेषु भातियावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते इत्येवमाद्याः सन्ति च अन्या आयतनविशेषहीना अपि इह ब्रह्मविद्याः षोडशकलाद्याः सत्यमेवमेतत् तथाप्यत्र विद्यते विशेषः संभृत्याद्यनुपसंहारहेतुः समानगुणाम्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशास्वपि विद्यासु विप्रकृष्टदेशगुणा उपसंह्रियेरन्निति युक्तम् संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्च गुणाः परस्परव्यावृत्तस्वरूपत्वात् न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनक्षमाः। न च ब्रह्मसंबन्धमात्रेण प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमित्युच्यते विद्याभेदेऽपि तदुपपत्तेः एकमपि हि ब्रह्म विभूतिभेदैरनेकधा उपास्यत इति स्थितिः परोवरीयस्त्वादिवद्भेददर्शनात्। तस्मात् वीर्यसंभृत्यादीनां शाण्डिल्यविद्यादिषु अनुपसंहार इति।।

पुरुषविद्याधिकरणम्[सम्पाद्यताम्]

पुरुषविद्यायामपि चेतरेषामनाम्नानात् । ( ब्रसू-३,३.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या तत्र पुरुषो यज्ञः कल्पितः तदीयमायुः त्रेधा विभज्य सवनत्रयं कल्पितम् अशिशिषादीनि च दीक्षादिभावेन कल्पितानि अन्ये च धर्मास्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः। तैत्तिरीयका अपि कंचित् पुरुषयज्ञं कल्पयन्ति तस्यैवंविदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी इत्येतेनानुवाकेन। तत्र संशयः किमितरत्र उक्ताः पुरुषयज्ञस्य धर्माः तैत्तिरीयकेषु उपसंहर्तव्याः किं वा नोपसंहर्तव्या इति। पुरुषयज्ञत्वाविशेषात् उपसंहारप्राप्तौ आचक्ष्महे नोपसंहर्तव्या इति कस्मात् तद्रूपप्रत्यभिज्ञानाभावात तदाहाचार्यः पुरुषविद्यायामिवेति यथा एकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानम् नैवम् इतरेषां तैत्तिरीयाणामाम्नानमस्ति तेषां हि इतरविलक्षणमेव यज्ञसंपादनं दृश्यते पत्नीयजमानवेदिवेदबर्हिर्यूपाज्यपश्वृत्विगाद्यनुक्रमणात्। यदपि सवनसंपादनम् तदपि इतरविलक्षणमेव यत्प्रातर्मध्यंदिन्ायं च तानि इति। यदपि किंचित् मरणावभृथत्वादिसामान्यम् तदपि अल्पीयस्त्वात् भूयसा वैलक्षण्येन अभिभूयमानं न प्रत्यभिज्ञापनक्षमम्। न च तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयतेविदुषःयज्ञस्य इति हि न च एते समानाधिकरणे षष्ठ्यौ विद्वानेव यो यज्ञस्तस्येति न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति व्यधिकरणे तु एते षष्ठ्यौ विदुषो यो यज्ञस्तस्येति भवति हि पुरुषस्य मुख्यो यज्ञसंबन्धः सत्यां च गतौ मुख्य एवार्थ आश्रयितव्यः न भाक्तः।आत्मा यजमानः इति च यजमानत्वं पुरुषस्य निर्ब्रुवन् वैयधिकरण्येनैव अस्य यज्ञसंबन्धं दर्शयति। अपि चतस्यैवंविदुषः इति सिद्धवदनुवादश्रुतौ सत्याम् पुरुषस्य यज्ञभावम् आत्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात्। अपि च ससंन्यासामात्मविद्यां पुरस्तादुपदिश्य अनन्तरम्तस्यैवंविदुषः इत्याद्यनुक्रमणं पश्यन्तः पूर्वशेष एव एष आम्नायः न स्वतन्त्र इति प्रतीमः तथा च एकमेव फलमुभयोरप्यनुवाकयोरुपलभामहे ब्रह्मणो महिमानमाप्नोति इति इतरेषां तु अनन्यशेषः पुरुषविद्याम्नायः आयुरभिवृद्धिफलो ह्यसौप्रह षोडशं वर्षशतं जीवति य एवं वेद इति समभिव्याहारात्। तस्मात् शाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिः तैत्तिरीयके।।

वेधाद्यधिकरणम्[सम्पाद्यताम्]

वेधाद्यर्थभेदात् । ( ब्रसू-३,३.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः सर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरोऽभिप्रवृज्य त्रिधा विपृक्तः इत्यादिः ताण्डिनाम् देव सवितः प्रसुव यज्ञम् इत्यादिः शाट्यायनिनाम् श्वेताश्वो हरितनीलोऽसि इत्यादिः कठानां तैत्तिरीयाणां च शं नो मित्रः शं वरुणः इत्यादिः वाजसनेयिनां तु उपनिषदारम्भे प्रवर्ग्यब्राह्मणं पठ्यते देवा ह वै सत्रं निषेदुः इत्यादि कौषीतकिनामपि अग्निष्टोमब्राह्मणम् ब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति तेऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्ति इति। किमिमे सर्वे प्रविध्यादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासु उपसंह्रियेरन् किं वा न उपसंह्रियेरन् इति मीमांसामहे। किं तावत् नः प्रतिभाति उपसंहार एव एषां विद्यास्विति कुतः विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात्। ननु एषां विद्यार्थतया विधानं नोपलभामहे बाढम् अनुपलभमाना अपि तु अनुमास्यामहे संनिधिसामर्थ्यात् न हि संनिधेः अर्थवत्त्वे संभवति अकस्मादसावनाश्रयितुं युक्तः। ननु नैषां मन्त्राणां विद्याविषयं किंचित्सामर्थ्यं पश्यामः कथं च प्रवर्ग्यादीनि कर्माणि अन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति नैष दोषः सामर्थ्यं तावत् मन्त्राणां विद्याविषयमपि किंचित् शक्यं कल्पयितुम् हृदयादिसंकीर्तनात् हृदयादीनि हि प्रायेण उपासनेषु आयतनादिभावेनोपदिष्टानि तद्द्वारेण चहृदयं प्रविध्य इत्येवंजातीयकानां मन्त्राणाम् उपपन्नमुपासनाङ्गत्वम् दृष्टश्च उपासनेष्वपि मन्त्रविनियोगः भूः प्रपद्येऽमुनामुनामुना इत्येवमादिः तथा प्रवर्ग्यादीनां कर्मणाम् अन्यत्रापि विनियुक्तानां सताम् अविरुद्धो विद्यासु विनियोगः वाजपेय इव बृहस्पतिसवस्य इत्येवं प्राप्ते

ब्रूमः नैषामुपसंहारो विद्यास्विति कस्मात् वेधाद्यर्थभेदात् हृदयं प्रविध्य इत्येवंजातीयकानां हि मन्त्राणां येऽर्था हृदयवेधादयः भिन्नाः अनभिसंबद्धाः ते उपनिषदुदिताभिर्विद्याभिः न तेषां ताभिः संगन्तुं सामर्थ्यमस्ति। ननु हृदयस्य उपासनेष्वप्युपयोगात् तद्द्वारक उपासनासंबन्ध उपन्यस्तः नेत्युच्यते हृदयमात्रसंकीर्तनस्य हि एवमुपयोगः कथंचिदुत्प्रेक्ष्येत न च हृदयमात्रमत्र मन्त्रार्थःहृदयं प्रविध्य धमनीः प्रवृज्य इत्येवंजातीयको हि न सकलो मन्त्रार्थो विद्याभिरभिसंबध्यते अभिचारविषयो ह्येषोऽर्थः तस्मादाभिचारिकेण कर्मणासर्वं प्रविध्य इत्येतस्य मन्त्रस्याभिसंबन्धः तथादेव सवितः प्रसुव यज्ञम् इत्यस्य यज्ञप्रसवलिङ्गत्वात् यज्ञेन कर्मणा अभिसंबन्धः तद्विशेषसंबन्धस्तु प्रमाणान्तरादनुसर्तव्यः एवमन्येषामपि मन्त्राणाम् केषांचित् लिङ्गेन केषांचिद्वचनेन केषांचित्प्रमाणान्तरेणेत्येवम् अर्थान्तरेषु विनियुक्तानाम् रहस्यपठितानामपि सताम् न संनिधिमात्रेण विद्याशेषत्वोपपत्तिः दुर्बलो हि संनिधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् इत्यत्र। तथा कर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः न ह्येषां विद्याभिः सह ऐकार्थ्यं किंचिदस्ति वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत इति अपि च एकोऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेन अन्यत्र विनियुक्तः न दुर्बलेन प्रमाणेन अन्यत्रापि विनियोगमर्हति अगृह्यमाणविशेषत्वे हि प्रमाणयोः एवं स्यात् न तु बलवदबलवतोः प्रमाणयोरगृह्यमाणविशेषता संभवति बलवदबलवत्त्वविशेषादेव। तस्मात् एवंजातीयकानां मन्त्राणां कर्मणां वा न संनिधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम् अरण्यानुवचनादिधर्मसामान्यात्तु संनिधिपाठ इति संतोष्टव्यम्।।

हान्यधिकरणम्[सम्पाद्यताम्]

हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् । ( ब्रसू-३,३.२६ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्ति ताण्डिनां श्रुतिः अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि इति तथा आथर्वणिकानाम् तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् इति तथा शाट्यायनिनः पठन्ति तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम् इति तथैव कौषीतकिनः तत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम् इति। तदिह क्वचित् सुकृतदुष्कृतयोर्हानं श्रूयते क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपायनम् क्वचित्तु उभयमपि हानमुपायनं च तद्यत्रोभयं श्रूयते तत्र तावत् न किंचिद्वक्तव्यमस्ति यत्राप्युपायनमेव श्रूयते न हानम् तत्राप्यर्थादेव हानं संनिपतति अन्यैरात्मीययोः सुकृतदुष्कृतयोरुपेयमानयोः आवश्यकत्वात्तद्धानस्य यत्र तु हानमेव श्रूयते नोपायनम् तत्रोपायनं संनिपतेद्वा न वेति विचिकित्सायाम् अश्रवणादसंनिपातः विद्यान्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य। अपि च आत्मकर्तृकं सुकृतदुष्कृतयोर्हानम् परकर्तृकं तु उपायनम् तयोरसत्यावश्यकभावे कथं हानेनोपायनमाक्षिप्येत तस्मादसंनिपातो हानावुपायनस्येति।।

अस्यां प्राप्तौ पठति हानाविति। हानौ तु एतस्यां केवलायामपि श्रूयमाणायाम् उपायनं संनिपतितुमर्हति तच्छेषत्वात् हानशब्दशेषो हि उपायनशब्दः समधिगतः कौषीतकिरहस्ये तस्मादन्यत्र केवलहानश्रवणेऽप्युपायनानुवृत्तिः। यदुक्तम् अश्रवणात् विद्यान्तरगोचरत्वात् अनावश्यकत्वाच्च असंनिपात इति तदुच्यते भवेदेषा व्यवस्थोक्तिः यद्यनुष्ठेयं किंचिदन्यत्र श्रुतम् अन्यत्र निनीष्येत न त्विह हानमुपायनं वा अनुष्ठेयत्वेन संकीर्त्यते विद्यास्तुत्यर्थं तु अनयोः संकीर्तनम् इत्थं महाभागा विद्या यत्सामर्थ्यादस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयेते ते च अस्य सुहृद्दुर्हृत्सु निविशेते इति स्तुत्यर्थे च अस्मिन्संकीर्तने हानानन्तरभावित्वेनोपायनस्य क्वचिच्छ्रुतत्वात् अन्यत्रापि हानश्रुतावुपायनानुवृत्तिं मन्यते स्तुतिप्रकर्षलाभाय प्रसिद्धा च अर्थवादान्तरापेक्षा अर्थवादान्तरप्रवृत्तिः एकविंशो वा इतोऽसावादित्यः इत्येवमादिषु कथं हि इह एकविंशता आदित्यस्याभिधीयेत अनपेक्ष्यमाणेऽर्थवादान्तरे द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः इत्यस्मिन् तथात्रिष्टुभौ भवतः सेन्द्रियत्वाय इत्येवमादिवादेषुइन्द्रियं वै त्रिष्टुप् इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते। विद्यास्तुत्यर्थत्वाच्च अस्योपायनवादस्य कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम्। उपायनशब्दशेषत्वादिति च शब्दशब्दं समुच्चारयन् स्तुत्यर्थामेव हानावुपायनानुवृत्तिं सूचयति गुणोपसंहारविवक्षायां हि उपायनार्थस्यैव हानावनुवृत्तिं ब्रूयात्। तस्मात् गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम्। कुशाच्छन्दस्तुत्युपगानवदिति उपमोपादानम् तद्यथा भाल्लविनाम्कुशा वानस्पत्याः स्थता मा पात इत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पतियोनित्वश्रवणे शाट्यायनिनाम्औदुम्बराः इति विशेषवचनात् औदुम्बर्यः कुशा आश्रीयन्ते यथा च क्वचित् देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे देवच्छन्दांसि पूर्वाणीति पैङ्ग्याम्नानात्प्रतीयते यथा च षोडशिस्तोत्रे केषांचित्कालाविशेषप्राप्तौसमयाध्युषिते सूर्ये इत्यार्चश्रुतेः कालविशेषप्रतिपत्तिः यथैव च अविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः यथा एतेषु कुशादिषु श्रुत्यन्तरगतविशेषान्वयः एवं हानावप्युपायनान्वय इत्यर्थः। श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरेऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात् स च अन्याय्यः सत्यां गतौ तदुक्तं द्वादशलक्षण्याम् अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात् इति।।

अथवा एतास्वेव विधूननश्रुतिषु एतेन सूत्रेण एतच्चिन्तयितव्यम् किमनेन विधूननवचनेन सुकृतदुष्कृतयोर्हानमभिधीयते किं वा अर्थान्तरमिति। तत्र च एवं प्रापयितव्यम् न हानं विधूननमभिधीयतेधूञ्कम्पने इति स्मरणात्दोधूयन्ते ध्वजाग्राणि इति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात् तस्मात् चालनं विधूननमभिधीयते चालनं तु सुकृतदुष्कृतयोः कंचित्कालं फलप्रतिबन्धनात् इत्येवं प्रापय्य प्रतिवक्तव्यम् हानावेव एष विधूननशब्दो वर्तितुमर्हति उपायनशब्दशेषत्वात् न हि परपरिग्रहभूतयोः सुकृतदुष्कृतयोः अप्रहीणयोः परैरुपायनं संभवति यद्यपि इदं परकीययोः सुकृतदुष्कृतयोः परैरुपायनं न आञ्जसं संभाव्यते तथापि तत्संकीर्तनात्तावत् तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते। क्वचिदपि च इदं विधूननसंनिधावुपायनं श्रूयमाणं कुशाच्छन्दस्तुत्युपगानवत् विधूननश्रुत्या सर्वत्रापेक्ष्यमाणं सार्वत्रिकं निर्णयकारणं संपद्यते। न च चालनं ध्वजाग्रवत् सुकृतदुष्कृतयोर्मुख्यं संभवति अद्रव्यत्वात्। अश्वश्च रोमाणि विधून्वानः त्यजन् रजः सहैव तेन रोमाण्यपि जीर्णानि शातयति अश्व इव रोमाणि विधूय पापम् इति च ब्राह्मणम् अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणविरोधः। तदुक्तमिति व्याख्यातम्।।

सांपरायाधिकरणम्[सम्पाद्यताम्]

सांपराये तर्तव्याभावात् तथा ह्य् अन्ये । ( ब्रसू-३,३.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

देवयानेन पथा पर्यङ्कस्थं ब्रह्म अभिप्रस्थितस्य व्यध्वनि सुकृतदुष्कृतयोर्वियोगं कौषीतकिनः पर्यङ्कविद्यायामामनन्ति स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति इत्युपक्रम्यस आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते इति। तत् किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रतिपत्तव्यम् आहोस्वित् आदावेव देहादपसर्पणे इति विचारणायाम् श्रुतिप्रामाण्यात् यथाश्रुति प्रतिपत्तिप्रसक्तौ पठति सांपराय इति। सांपराये गमन एव देहादपसर्पणे इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवति इति प्रतिजानीते हेतुं च आचष्टे तर्तव्याभावादिति न हि विदुषः संपरेतस्य विद्यया ब्रह्म संप्रेप्सतः अन्तराले सुकृतदुष्कृताभ्यां किंचित्प्राप्तव्यमस्ति यदर्थं कतिचित्क्षणानक्षीणे ते कल्पेयाताम्। विद्याविरुद्धफलत्वाच्च विद्यासामर्थ्येन तयोः क्षयः स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति। तस्मात् प्रागेव सन् अयं सुकृतदुष्कृतक्षयः पश्चात्पठ्यते। तथा हि अन्येऽपि शाखिनः ताण्डिनः शाट्यायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति अश्व इव रोमाणि विधूय पापम् इतितस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम् इति च।।

छन्दत उभयाविरोधात् । ( ब्रसू-३,३.२८ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्य अर्धपथे सुकृतदुष्कृतक्षयोऽभ्युपगम्येत ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषयत्नस्य इच्छातोऽनुष्ठानानुपपत्तेः अनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् तस्मात् पूर्वमेव साधकावस्थायां छन्दतोऽनुष्ठानं तस्य स्यात् तत्पूर्वकं च सुकृतदुष्कृतहानम् इति द्रष्टव्यम् एवं निमित्तनैमित्तिकयोरुपपत्तिः ताण्डिशाट्यायनिश्रुत्योश्च संगतिरिति।।

मतेरर्थवत्त्वाधिकरणम्[सम्पाद्यताम्]

गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः । ( ब्रसू-३,३.२९ । )

भाष्यम्

शाङ्करभाष्यम्॥

क्वचित् पुण्यपापाहानसंनिधौ देवयानः पन्थाः श्रूयते क्वचिन्न तत्र संशयः किं हानावविशेषेणैव देवयानः पन्थाः संनिपतेत् उत विभागेन क्वचित्संनिपतेत् क्वचिन्नेति। यथा तावत् हानावविशेषेणैव उपायनानुवृत्तिरुक्ता एवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तौ आचक्ष्महे गतेः देवयानस्य पथः अर्थवत्त्वम् उभयथा विभागेन भवितुमर्हति क्वचिदर्थवती गतिः क्वचिन्नेति न अविशेषेण। अन्यथा हि अविशेषेणैव एतस्यां गतावङ्गीक्रियमाणायां विरोधः स्यात् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत कथं हि निरञ्जनोऽगन्ता देशान्तरं गच्छेत् गन्तव्यं च परमं साम्यं न देशान्तरप्राप्त्यायत्तम् इत्यानर्थक्यमेवात्र गतेर्मन्यामहे।।

उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत् । ( ब्रसू-३,३.३० । )

भाष्यम्

शाङ्करभाष्यम्॥

उपपन्नश्चायम् उभयथाभावः क्वचिदर्थवती गतिः क्वचिन्नेति तल्लक्षणार्थोपलब्धेः गतिकारणभूतोऽर्थः पर्यङ्कविद्यादिषु सगुणेषु उपासनेषु उपलभ्यते तत्र हि पर्यङ्कारोहणम् पर्यङ्कस्थेन ब्रह्मणा सह संवदनम् विशिष्टगन्धादिप्राप्तिश्च इत्येवमादि बहुदेशान्तरप्राप्त्यायत्तं फलं श्रूयते तत्र अर्थवती गतिः न तु सम्यग्दर्शने तल्लक्षणार्थोपलब्धिरस्ति न हि आत्मैकत्वदर्शिनामाप्तकामानाम् इहैव दग्धाशेषक्लेशबीजानाम् आरब्धभोगकर्माशयक्षपणव्यतिरेकेण अपेक्षितव्यं किंचिदस्ति तत्र अनर्थिका गतिः। लोकवच्च एष विभागो द्रष्टव्यः यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते न आरोग्यप्राप्तौ एवमिहापीति। भूयश्च एनं विभागं चतुर्थाध्याये निपुणतरमुपपादयिष्यामः।।

अनियमाधिकरणम्[सम्पाद्यताम्]

अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् । ( ब्रसू-३,३.३१ । )

भाष्यम्

शाङ्करभाष्यम्॥

सगुणासु विद्यासु गतिरर्थवती न निर्गुणायां परमात्मविद्यायाम् इत्युक्तम् सगुणास्वपि विद्यासु कासुचिद्गतिः श्रूयते यथा पर्यङ्कविद्यायाम् उपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति न अन्यासु यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडशकलविद्यायां वैश्वानरविद्यायामिति। तत्र संशयः किं यास्वेषा गतिः श्रूयते तास्वेव नियम्येत उत अनियमेन सर्वाभिरेव एवंजातीयकाभिर्विद्याभिरभिसंबध्येतेति। किं तावत्प्राप्तम् नियम इति यत्रैव श्रूयते तत्रैव भवितुमर्हति प्रकरणस्य नियामकत्वात् यद्यन्यत्र अश्रूयमाणापि गतिः विद्यान्तरं गच्छेत् श्रुत्यादीनां प्रामाण्यं हीयेत सर्वस्य सर्वार्थत्वप्रसङ्गात्। अपि च अर्चिरादिका एकैव गतिः उपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठ्यते तत् सर्वार्थत्वेऽनर्थकं पुनर्वचनं स्यात्। तस्मान्नियम इत्येवं प्राप्ते

पठति अनियम इति। सर्वासामेव अभ्युदयप्राप्तिफलानां सगुणानां विद्यानाम् अविशेषेण एषा देवयानाख्या गतिर्भवितुमर्हति। ननु अनियमाभ्युपगमे प्रकरणविरोध उक्तः नैषोऽस्ति विरोधः शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः तथा हि श्रुतिः तद्य इत्थं विदुः इति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्तीये चेमेऽरण्ये श्रद्धा तप इत्युपासते इति विद्यान्तरशीलिनामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां गमयति। कथं पुनरवगम्यते विद्यान्तरशीलिनामियं गतिरिति ननु श्रद्धातपःपरायणानामेव स्यात् तन्मात्रश्रवणात् नैष दोषः न हि केवलाभ्यां श्रद्धातपोभ्याम् अन्तरेण विद्याबलम् एषा गतिर्लभ्यते विद्यया तदारोहन्ति यत्र कामाः परागताः। न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः इति श्रुत्यन्तरात् तस्मात् इह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम्। वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारेऽधीयते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते इति तत्र श्रद्धालवो ये सत्यं ब्रह्मोपासते इति व्याख्येयम् सत्यशब्दस्य ब्रह्मणि असकृत्प्रयुक्तत्वात्। पञ्चाग्निविद्याविदां च इत्थंवित्तयैव उपात्तत्वात् विद्यान्तरपरायणानामेव एतदुपादानं न्याय्यम्।अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिः देवयानपितृयाणयोरेव एनान् अन्तर्भावयति। तत्रापि विद्याविशेषादेषां देवयानप्रतिपत्तिः। स्मृतिरपि शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययावर्तते पुनः इति। यत्पुनः देवयानस्य पथो द्विराम्नानम् उपकोसलविद्यायां पञ्चाग्निविद्यायां च तत् उभयत्रापि अनुचिन्तनार्थम्। तस्मादनियमः।।

यावदधिकाराधिकरणम्[सम्पाद्यताम्]

यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् । ( ब्रसू-३,३.३२ । )

भाष्यम्

शाङ्करभाष्यम्॥

विदुषो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते न वा इति चिन्त्यते। ननु विद्यायाः साधनभूतायाः संपत्तौ कैवल्यनिर्वृत्तिः स्यात् न वेति नेयं चिन्ता उपपद्यते न हि पाकसाधनसंपत्तौ ओदनो भवेत् न वेति चिन्ता संभवति नापि भुञ्जानः तृप्येत् न वेति चिन्त्यते उपपन्ना तु इयं चिन्ता ब्रह्मविदामपि केषांचित् इतिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् तथा हि अपान्तरतमा नाम वेदाचार्यः पुराणर्षिः विष्णुनियोगात् कलिद्वापरयोः संधौ कृष्णद्वैपायनः संबभूवेति स्मरन्ति वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन् निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां संबभूवेति भृग्वादीनामपि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः स्मर्यते सनत्कुमारोऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ। श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलक्ष्यते। ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशात् अनेकदेहादानन्यायेन। सर्वे च एते समधिगतसकलवेदार्थाः स्मर्यन्ते। तत् एतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वेति।।

अत उत्तरमुच्यते न तेषाम् अपान्तरतमःप्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानाम् अधिकारतन्त्रत्वात्स्थितेः। यथासौ भगवान्सविता सहस्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता इति श्रुतेः यथा च वर्तमाना ब्रह्मविदः आरब्धभोगक्षये कैवल्यमनुभवन्ति तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये इति श्रुतेः एवम् अपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतौ अक्षीणकर्माणो यावदधिकारमवतिष्ठन्ते तदवसाने च अपवृज्यन्त इत्यविरुद्धम्। सकृत्प्रवृत्तमेव हि ते फलादानाय कर्माशयमतिवाहयन्तः स्वातन्त्र्येणैव गृहादिव गृहान्तरम् अन्यमन्यं देहं संचरन्तः स्वाधिकारनिर्वर्तनाय अपरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वात् निर्माय देहान् युगपत् क्रमेण वा अधितिष्ठन्ति न च एते जातिस्मरा इत्युच्यन्ते त एवैते इति स्मृतिप्रसिद्धेः यथा हि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहम् जानकं देहमाविश्य व्युद्य तेन पश्चात् स्वमेव देहमाविवेश इति स्मर्यते। यदि हि उपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत् ततः अन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वा शङ्क्येत न तु इयमाशङ्का युक्ता ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात्। तथा हि श्रुतिः भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इतिस्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः इति चैवमाद्या। स्मृतिरपि यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन। ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा इतिबाजीन्यग्न्युपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः इति चैवमाद्या। न च अविद्यादिक्लेशदाहे सति क्लेशबीजस्य कर्माशयस्य एकदेशदाहः एकदेशप्ररोहश्च इत्युपपद्यते न हि अग्निदग्धस्य शालिबीजस्य एकदेशप्ररोहो दृश्यते प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिःतस्य तावदेव चिरम् इति शरीरपातावधिक्षेपकरणात्। तस्मादुपपन्ना यावदधिकारम् आधिकारिकाणामवस्थितिः। न च ज्ञानफलस्य अनैकान्तिकता तथा च श्रुतिः अविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् इति। ज्ञानान्तरेषु च ऐश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाय कैवल्यं प्रापुरित्युपपद्यते ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् इति स्मरणात्। प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का भवेद्वा न वेति अनुभवारूढं तु ज्ञानफलम् यत्सांक्षादपरोक्षाद्ब्रह्म इति श्रुतेःतत्त्वमसि इति सिद्धवदुपदेशात् न हितत्त्वमसि इत्यस्य वाक्यस्य अर्थः तत् त्वं मृतो भविष्यसीति एवं परिणेतुं शक्यः।तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति। तस्मात् ऐकान्तिकी विदुषः कैवल्यसिद्धिः।

अक्षरध्यधिकरणम्[सम्पाद्यताम्]

अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् । ( ब्रसू-३,३.३३ । )

भाष्यम्

शाङ्करभाष्यम्॥

वाजसनेयके श्रूयते एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहम् इत्यादि तथा आथर्वणे श्रूयते अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम् इत्यादि तथैव अन्यत्रापि विशेषनिराकरणद्वारेण अक्षरं परं ब्रह्म श्राव्यते तत्र च क्वचित् केचित् अतिरिक्ता विशेषाः प्रतिषिध्यन्ते तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासां सर्वत्र प्राप्तिः उत व्यवस्थेति संशये श्रुतिविभागात् व्यवस्थाप्राप्तौ उच्यते अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः सामान्यतद्भावाभ्याम् समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः तदेव च सर्वत्र प्रतिपाद्यं ब्रह्म अभिन्नं प्रत्यभिज्ञायते तत्र किमिति अन्यत्र कृता बुद्धयः अन्यत्र न स्युः। तथा चआनन्दादयः प्रधानस्य इत्यत्र व्याख्यातम् तत्र विधिरूपाणि विशेषणानि चिन्तितानि इह प्रतिषेधरूपाणीति विशेषः प्रपञ्चार्थश्चायं चिन्ताभेदः। औपसदवदिति निदर्शनम् यथा जामदग्न्येऽहीने पुरोडाशिनीषूपसत्सु चोदितासु पुरोडाशप्रदानमन्त्राणाम्अग्नेर्वेर्होत्रं वेरध्वरम् इत्येवमादीनाम् उद्गातृवेदोत्पन्नानामपि अध्वर्युभिरभिसंबन्धो भवति अध्वर्युकर्तृकत्वात्पुरोडाशप्रदानस्य प्रधानतन्त्रत्वाच्चाङ्गानाम् एवमिहापि अक्षरतन्त्रत्वात् तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानाम् अक्षरेण सर्वत्राभिसंबन्ध इत्यर्थः। तदुक्तं प्रथमे काण्डे गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः इत्यत्र।।

इयदधिकरणम्[सम्पाद्यताम्]

इयदामननात् । ( ब्रसू-३,३.३४ । )

भाष्यम्

शाङ्करभाष्यम्॥

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति इत्यध्यात्माधिकारे मन्त्रमाथर्वणिकाः श्वेताश्वतराश्च पठन्ति तथा कठाः ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः इति। किमत्र विद्यैकत्वम् उत विद्यानानात्वमिति संशयः। किं तावत्प्राप्तम् विद्यानानात्वमिति कुतः विशेषदर्शनात् द्वा सुपर्णा इत्यत्र हि एकस्य भोक्तृत्वं दृश्यते एकस्य च अभोक्तृत्वं दृश्यतेऋतं पिबन्तौ इत्यत्र उभयोरपि भोक्तृत्वमेव दृश्यते तत् वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते

ब्रवीति विद्यैकत्वमिति कुतः यतः उभयोरप्यनयोर्मन्त्रयोः इयत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यं रूपम् अभिन्नम् आमनन्ति। ननु दर्शितो रूपभेदः नेत्युच्यते उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतः नार्थान्तरम्।द्वा सुपर्णा इत्यत्र तावत् अनश्नन्नन्यो अभिचाकशीति इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते वाक्यशेषेऽपि च स एव प्रतिपाद्यमानो दृश्यतेजुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम् इतिऋतं पिबन्तौ इत्यत्र तु जीवे पिबति अशनायाद्यतीतः परमात्मापि साहचर्यात् छत्रिन्यायेन पिबतीत्युपचर्यते परमात्मप्रकरणं हि एतत् अन्यत्र धर्मादन्यत्राधर्मात् इत्युपक्रमात् तद्विषय एव च अत्रापि वाक्यशेषो भवति यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् इति।गुहां प्रविष्टावात्मानौ हि इत्यत्र च एतत्प्रपञ्चितम्। तस्मान्नास्ति वेद्यभेदः तस्माच्च विद्यैकत्वम्। अपि च त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यालोचने परमात्मविद्यैव अवगम्यते तादात्म्यविवक्षयैव जीवोपादानम् नार्थान्तरविवक्षया न च परमात्मविद्यायां भेदाभेदविचारावतारोऽस्तीत्युक्तम्। तस्मात्प्रपञ्चार्थ एव एष प्रयोगः तस्माच्चाधिकधर्मोपसंहार इति।।

अन्तरत्वाधिकरणम्[सम्पाद्यताम्]

अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशवत् । ( ब्रसू-३,३.३५ । )

भाष्यम्

शाङ्करभाष्यम्॥

यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः इत्येवं द्विः उषस्तकहोलप्रश्नयोः नैरन्तर्येण वाजसनेयिनः समामनन्ति। तत्र संशयः विद्यैकत्वं वा स्यात् विद्यानानात्वं वेति। विद्यानानात्वमिति तावत्प्राप्तम् अभ्याससामर्थ्यात् अन्यथा हि अनूनानतिरिक्तार्थे द्विराम्नानम् अनर्थकमेव स्यात् तस्मात् यथा अभ्यासात्कर्मभेदः एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते प्रत्याह अन्तरा आम्नानाविशेषात् स्वात्मनः विद्यैकत्वमिति सर्वान्तरो हि स्वात्मा उभयत्राप्यविशिष्टः पृच्छयते प्रत्युच्यते च न हि द्वावात्मानौ एकस्मिन्देहे सर्वान्तरौ संभवतः तदा हि एकस्य आञ्जसं सर्वान्तरत्वमवकल्पेत एकस्य तु भूतग्रामवत् नैव सर्वान्तरत्वं स्यात् यथा च पञ्चभूतसमूहे देहे पृथिव्या आपोऽन्तराः अद्भ्यस्तेजोऽन्तरमिति सत्यप्यापेक्षिकेऽन्तरत्वे नैव मुख्यं सर्वान्तरत्वं भवति तथेहापीत्यर्थः। अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति यथा एको देवाः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा इत्यस्मिन्मन्त्रे समस्तेषु भूतग्रामेष्वेक एव सर्वान्तर आत्मा आम्नायते एवमनयोरपि ब्राह्मणयोरित्यर्थः। तस्मात् वेद्यैक्यात् विद्यैकत्वमिति।।

व्यतिहाराधिकरणम्[सम्पाद्यताम्]

व्यतिहारो विशिंषन्ति हीतरवत् । ( ब्रसू-३,३.३६ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा तद्योऽहं सोऽसौ योऽसौ सोऽहम् इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति तथा जाबालाः त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि इति। तत्र संशयः किमिह व्यतिहारेण उभयरूपा मतिः कर्तव्या उत एकरूपैवेति। एकरूपैवेति तावदाह न हि अत्र आत्मन ईश्वरेणैकत्वं मुक्त्वा अन्यत्किंचिच्चिन्तयितव्यमस्ति यदि चैवं चिन्तयितव्यविशेषः परिकल्प्येत संसारिणश्च ईश्वरात्मत्वम् ईश्वरस्य संसार्यात्मत्वमिति तत्र संसारिणस्तावदीश्वरात्मत्वे उत्कर्षो भवेत् ईश्वरस्य तु संसार्यात्मत्वे निकर्षः कृतः स्यात्। तस्मात् ए्ैकरूप्यमेव मतेः। व्यतिहाराम्नायस्तु एकत्वदृढीकारार्थ इत्येवं प्राप्ते प्रत्याह व्यतिहारोऽयम् आध्यानायाम्नायते इतरवत् यथा इतरे गुणाः सर्वात्मत्वप्रभृतयः आध्यानाय आम्नायन्ते तद्वत्। तथा हि विशिंषन्ति समाम्नातारः उभयोच्चारणेन त्वमहमस्म्यहं च त्वमसि इति तच्च उभयरूपायां मतौ कर्तव्यायाम् अर्थवद्भवति अन्यथा हि इदं विशेषेणोभयाम्नम् अनर्थकं स्यात् एकेनैव कृतत्वात्। ननु उभयाम्नानस्य अर्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेः निकर्षः प्रसज्येतेत्युक्तम् नैष दोषः ऐकात्म्यस्यैव अनेन प्रकारेणानुचिन्त्यमानत्वात्। ननु एवं सति स एव एकत्वदृढीकार आपद्येत न वयमेकत्वदृढीकारं वारयामः किं तर्हि व्यतिहारेण इह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यात् नैकरूपेत्येतावत् उपपादयामः फलतस्तु एकत्वमपि दृढीभवति। यथा आध्यानार्थेऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिध्यति तद्वत्। तस्मादयमाध्यातव्यो व्यतिहारः समाने च विषये उपसंहर्तव्यो भवतीति।।

सत्याद्यधिकरणम्[सम्पाद्यताम्]

सैव हि सत्यादयः । ( ब्रसू-३,३.३७ । )

भाष्यम्

शाङ्करभाष्यम्॥

स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधाय अनन्तरमाम्नायते तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः इत्यादि। तत्र संशयः किं द्वे एते सत्यविद्ये किं वा एकैवेति। द्वे इति तावत्प्राप्तम् भेदेन हि फलसंयोगो भवति जयतीमाल्ोकान् इति पुरस्तात्हन्ति पाप्मानं जहाति च इत्युपरिष्टात्। प्रकृताकर्षणं तु उपास्यैकत्वादित्येवं प्राप्ते

ब्रूमः एकैवेयं सत्यविद्येति कुतःतद्यत्तत्सत्यम् इति प्रकृताकर्षणात्। ननु विद्याभेदेऽपि प्रकृताकर्षणम् उपास्यैकत्वादुपपद्यत इत्युक्तम् नैतदेवम् यत्र तु विस्पष्टात् कारणान्तरात् विद्याभेदः प्रतीयते तत्र एतदेवं स्यात् अत्र तु उभयथा संभवेतद्यत्तत्सत्यम् इति प्रकृताकर्षणात् पूर्वविद्यासंबद्धमेव सत्यम् उत्तरत्र आकृष्यत इति एकविद्यात्वनिश्चयः। यत्पुनरुक्तम् फलान्तरश्रवणाद्विद्यान्तरमिति अत्रोच्यते तस्योपनिषदहः

कामाद्यधिकरणम्[सम्पाद्यताम्]

कामादीतरत्र तत्र चाऽयतनादिभ्यः । ( ब्रसू-३,३.३८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः इति प्रस्तुत्य छन्दोगा अधीयते एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः इत्यादि तथा वाजसनेयिनः स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते सर्वस्य वशी इत्यादि। तत्र विद्यैकत्वं परस्परगुणयोगश्च किं वा नेति संशये विद्यैकत्वमिति। तत्रेदमुच्यते कामादीति सत्यकामादीत्यर्थः यथा देवदत्तो दत्तः सत्यभामा भामेति। यदेतत् छान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमुपलभ्यते तदितरत्र वाजसनेयकेस वा एष महानज आत्मा इत्यत्र संबध्येत यच्च वाजसनेयके वशित्वादि उपलभ्यते तदपि इतरत्र छान्दोग्येएष आत्मापहतपाप्मा इत्यत्र संबध्येत कुतः आयतनादिसामान्यात् समानं हि उभयत्रापि हृदयमायतनम् समानश्च वेद्य ईश्वरः समानं च तस्य सेतुत्वं लोकासंभेदप्रयोजनम् इत्येवमादि बहुसामान्यं दृश्यते। ननु विशेषोऽपि दृश्यते छान्दोग्ये हृदयाकाशस्य गुणयोगः वाजसनेयके तु आकाशाश्रयस्य ब्रह्मण इति नदहर उत्तरेभ्यः इत्यत्र च्छान्दोग्येऽपि आकाशशब्दं ब्रह्मैवेति प्रतिष्ठापितत्वात्। अयं तु अत्र विद्यते विशेषः सगुणा हि ब्रह्मविद्या छान्दोग्ये उपदिश्यते अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् इत्यात्मवत् कामानामपि वेद्यत्वश्रवणात् वाजसनेयके तु निर्गुणमेव ब्रह्म उपदिश्यमानं दृश्यते अथ उर्ध्वं विमोक्षाय ब्रूहिअसङ्गो ह्ययं पुरुषः इत्यादिप्रश्नप्रतिवचनसमन्वयात्। वशित्वादि तु स्तुत्यर्थमेव गुणजातं वाजसनेयके संकीर्त्यते तथा च उपरिष्टात्स एष नेति नेत्यात्मा इत्यादिना निर्गुणमेव ब्रह्म उपसंहरति। गुणवतस्तु ब्रह्मण एकत्वात् विभूतिप्रदर्शनाय अयं गुणोपसंहारः सूत्रितः नोपासनाय इति द्रष्टव्यम्।।

आदराधिकरणम्[सम्पाद्यताम्]

आदरादलोपः । ( ब्रसू-३,३.३९ । )

भाष्यम्

शाङ्करभाष्यम्॥

छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहा इत्यादि तत्र पञ्च प्राणाहुतयो विहिताः तासु च परस्तादग्निहोत्रशब्दः प्रयुक्तःय एतदेवं विद्वानग्निहोत्रं जुहोति इतियथेह क्षुधिता बाला मातरं पर्युपासते। एवं सर्वाणि भूतान्यग्निहोत्रमुपासते इति च। तत्रेदं विचार्यते किं भोजनलोपे लोपः प्राणाग्निहोत्रस्य उत अलोप इति।तद्यद्भक्तम् इति भक्तागमनसंयोगश्रवणात् भक्तागमनस्य च भोजनार्थत्वात् भोजनलोपे लोपः प्राणाग्निहोत्रस्येत्येवं प्राप्ते न लुप्येतेति तावदाह कस्मात् आदरात् तथा हि वैश्वानरविद्यायामेव जाबालानां श्रुतिः पूर्वोऽतिथिभ्योऽश्नीयात्। यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत् इति अतिथिभोजनस्य प्राथम्यं निन्दित्वा स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्रे आदरं करोति या हि न प्राथम्यलोपं सहते नतरां सा प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते। ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोपः प्रापितः न तस्य द्रव्यविशेषविधानार्थत्वात् प्राकृते हि अग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वात् इहापि अग्निहोत्रशब्दात् कौण्डपायिनामयनवत् तद्धर्मप्राप्तौ सत्याम् भक्तद्रव्यतागुणविशेषविधानार्थम् इदं वाक्यम्तद्यद्भक्तम् इति अतो गुणलोपे न मुख्यस्येत्येवं प्राप्तम् भोजनलोपेऽपि अद्भिर्वा अन्येन वा द्रव्येणाविरुद्धेन प्रतिनिधानन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति।।

अत उत्तरं पठति

उपस्थितेऽतस्तद्वचनात् । ( ब्रसू-३,३.४० । )

भाष्यम्

शाङ्करभाष्यम्॥

उपस्थिते भोजने अतः तस्मादेव भोजनद्रव्यात् प्रथमोपनिपतितात् प्राणाग्निहोत्रं निर्वर्तयितव्यम् कस्मात् तद्वचनात् तथा हि तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम् इति सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति। ताः अप्रयोजकलक्षणापन्नाः सत्यः कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः। न च अत्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति कुण्डपायिनामयने हिमासमग्निहोत्रं जुहोति इति विध्युद्देशगतोऽग्निहोत्रशब्दः तद्वद्भावं विधापयेदिति युक्ता तद्धर्मप्राप्तिः इह पुनः अर्थवादगतोऽग्निहोत्रशब्दः न तद्वद्भावं विधापयितुमर्हति तद्धर्मप्राप्तौ च अभ्युपगम्यमानायाम् अग्न्युद्धरणादयोऽपि प्राप्येरन् न च अस्ति संभवः अग्न्युद्धरणं तावत् होमाधिकरणभावाय न च अयम् अग्नौ होमः भोजनार्थताव्याघातप्रसङ्गात् भोजनार्थोपनीतद्रव्यसंबन्धाच्च आस्य एव एष होमः तथा च जाबालश्रुतिःपूर्वोऽतिथिभ्योऽश्नीयात् इति आस्याधारामेव इमां होमनिर्वृत्तिं दर्शयति अत एव च इहापि सांपादिकान्येवाग्निहोत्राङ्गानि दर्शयति उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः इति वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या मुख्याग्निहोत्रे वेद्यभावात् तदङ्गानां च इह संपिपादयिषितत्वात् भोजनेनैव च कृतकालेन संयोगात् न अग्निहोत्रकालावरोधसंभवः एवमन्येऽपि उपस्थानादयो धर्माः केचित्कथंचित् विरुध्यन्ते। तस्माद्भोजनपक्ष एव एते मन्त्रद्रव्यदेवतासंयोगात् पञ्च होमा निर्वर्तयितव्याः। यत्तु आदरदर्शनवचनम् तत् भोजनपक्षे प्राथम्यविधानार्थम् न ह्यस्ति वचनस्य अतिभारः न तु अनेन अस्य नित्यता शक्यते दर्शयितुम्। तस्मात् भोजनलोपे लोप एव प्राणाग्निहोत्रस्येति।।

सन्निर्धारणाधिकरणम्[सम्पाद्यताम्]

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् । ( ब्रसू-३,३.४१ । )

भाष्यम्

शाङ्करभाष्यम्॥

सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि ओमित्येतदक्षरमुद्गीथमुपासीत इत्येवमादीनि। किं तानि नित्यान्येव स्युः कर्मसु पर्णमयीत्वादिवत् उत अनित्यानि गोदोहनादिवदिति विचारयामः। किं तावत्प्राप्तम् नित्यानीति कुतः प्रयोगवचनपरिग्रहात् अनारभ्याधीतान्यपि हि एतानि उद्गीथादिद्वारेण क्रतुसंबन्धात् क्रतुप्रयोगवचनेनैव अङ्गान्तरवत् संस्पृश्यन्ते यत्तु एषां स्ववाक्येषु फलश्रवणम् आपयिता ह वै कामानां भवति इत्यादि तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेव अपापश्लोकश्रवणादिवत् न फलप्रधानम् तस्मात् यथायस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति इत्येवमादीनाम् अप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात् प्रकरणपठितवत् नित्यता एवमुद्गीथाद्युपासनानामपीत्येवं प्राप्ते

ब्रूमः तन्निर्धारणानियम इति। यान्येतानि उद्गीथादिकर्मगुणयाथात्म्यनिर्धारणानि रसतमः आप्तिः समृद्धिः मुख्यप्राणः आदित्यः इत्येवमादीनि नैतानि नित्यवत् कर्मसु नियम्येरन् कुतः तद्दृष्टेः तथा हि अनित्यत्वमेवंजातीयकानां दर्शयति श्रुतिः तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद इत्यविदुषोऽपि क्रियाभ्यनुज्ञानात् प्रस्तावादिदेवताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्शनात् प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसितां चेदविद्वानुद्गास्यसितां चेदविद्वान्प्रतिहरिष्यसि इति च। अपि च एवंजातीयकस्य कर्मव्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मणः फलम् उपलभ्यते कर्मफलसिद्ध्यप्रतिबन्धः तत्समृद्धिः अतिशयविशेषः कश्चित् तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद। नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इति तत्रनाना तु इति विद्वदविद्वत्प्रयोगयोः पृथक्करणात्वीर्यवत्तरम् इति च तरप्प्रत्ययप्रयोगात् विद्याहीनमपि वीर्यवदिति गम्यते तच्च अनित्यत्वे विद्याया उपपद्यते नित्यत्वे तु कथं तद्विहीनं कर्म वीर्यवदित्यनुज्ञायेत सर्वाङ्गोपसंहारे हि वीर्यवत्कर्मेति स्थितिः। तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च इत्येवमादीनि। न चेदं फलश्रवणम् अर्थवादमात्रं युक्तं प्रतिपत्तुम् तथा हि गुणवाद आपद्येत फलोपदेशे तु मुख्यवादोपपत्तिः प्रयाजादिषु तु इतिकर्तव्यताकाङ्क्षस्य क्रतोः प्रकृतत्वात् तादर्थ्ये सति युक्तं फलश्रुतेरर्थवादत्वम्। तथा अनारभ्याधीतेष्वपि पर्णमयीत्वादिषु न हि पर्णमयीत्वादीनामक्रियात्मकानाम् आश्रयमन्तरेण फलसंबन्धोऽवकल्पते गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्नः फलविधिः तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्नः फलविधिः न तु पर्णमयीत्वादिषु एवंविधः कश्चिदाश्रयः प्रकृतोऽस्ति वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फलेऽपि विधिं विवक्षतो वाक्यभेदः स्यात्। उपासनानां तु क्रियात्मकत्वात् विशिष्टविधानोपपत्तेः उद्गीथाद्याश्रयाणां फले विधानं न विरुध्यते। तस्मात् यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि एवमुद्गीथाद्युपासनान्यपि इति द्रष्टव्यम्। अत एव च कल्पसूत्रकारा नैवंजातीयकान्युपासनानि क्रतुषु कल्पयांचक्रुः।।

प्रदानाधिकरणम्[सम्पाद्यताम्]

प्रदानवदेव तदुक्तम् । ( ब्रसू-३,३.४२ । )

भाष्यम्

शाङ्करभाष्यम्॥

सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि ओमित्येतदक्षरमुद्गीथमुपासीत इत्येवमादीनि। किं तानि नित्यान्येव स्युः कर्मसु पर्णमयीत्वादिवत् उत अनित्यानि गोदोहनादिवदिति विचारयामः। किं तावत्प्राप्तम् नित्यानीति कुतः प्रयोगवचनपरिग्रहात् अनारभ्याधीतान्यपि हि एतानि उद्गीथादिद्वारेण क्रतुसंबन्धात् क्रतुप्रयोगवचनेनैव अङ्गान्तरवत् संस्पृश्यन्ते यत्तु एषां स्ववाक्येषु फलश्रवणम् आपयिता ह वै कामानां भवति इत्यादि तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेव अपापश्लोकश्रवणादिवत् न फलप्रधानम् तस्मात् यथायस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति इत्येवमादीनाम् अप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात् प्रकरणपठितवत् नित्यता एवमुद्गीथाद्युपासनानामपीत्येवं प्राप्ते

ब्रूमः तन्निर्धारणानियम इति। यान्येतानि उद्गीथादिकर्मगुणयाथात्म्यनिर्धारणानि रसतमः आप्तिः समृद्धिः मुख्यप्राणः आदित्यः इत्येवमादीनि नैतानि नित्यवत् कर्मसु नियम्येरन् कुतः तद्दृष्टेः तथा हि अनित्यत्वमेवंजातीयकानां दर्शयति श्रुतिः तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद इत्यविदुषोऽपि क्रियाभ्यनुज्ञानात् प्रस्तावादिदेवताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्शनात् प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसितां चेदविद्वानुद्गास्यसितां चेदविद्वान्प्रतिहरिष्यसि इति च। अपि च एवंजातीयकस्य कर्मव्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मणः फलम् उपलभ्यते कर्मफलसिद्ध्यप्रतिबन्धः तत्समृद्धिः अतिशयविशेषः कश्चित् तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद। नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इति तत्रनाना तु इति विद्वदविद्वत्प्रयोगयोः पृथक्करणात्वीर्यवत्तरम् इति च तरप्प्रत्ययप्रयोगात् विद्याहीनमपि वीर्यवदिति गम्यते तच्च अनित्यत्वे विद्याया उपपद्यते नित्यत्वे तु कथं तद्विहीनं कर्म वीर्यवदित्यनुज्ञायेत सर्वाङ्गोपसंहारे हि वीर्यवत्कर्मेति स्थितिः। तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च इत्येवमादीनि। न चेदं फलश्रवणम् अर्थवादमात्रं युक्तं प्रतिपत्तुम् तथा हि गुणवाद आपद्येत फलोपदेशे तु मुख्यवादोपपत्तिः प्रयाजादिषु तु इतिकर्तव्यताकाङ्क्षस्य क्रतोः प्रकृतत्वात् तादर्थ्ये सति युक्तं फलश्रुतेरर्थवादत्वम्। तथा अनारभ्याधीतेष्वपि पर्णमयीत्वादिषु न हि पर्णमयीत्वादीनामक्रियात्मकानाम् आश्रयमन्तरेण फलसंबन्धोऽवकल्पते गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्नः फलविधिः तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्नः फलविधिः न तु पर्णमयीत्वादिषु एवंविधः कश्चिदाश्रयः प्रकृतोऽस्ति वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फलेऽपि विधिं विवक्षतो वाक्यभेदः स्यात्। उपासनानां तु क्रियात्मकत्वात् विशिष्टविधानोपपत्तेः उद्गीथाद्याश्रयाणां फले विधानं न विरुध्यते। तस्मात् यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि एवमुद्गीथाद्युपासनान्यपि इति द्रष्टव्यम्। अत एव च कल्पसूत्रकारा नैवंजातीयकान्युपासनानि क्रतुषु कल्पयांचक्रुः।।

लिङ्गभूयस्त्वाधिकरणम्[सम्पाद्यताम्]

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । ( ब्रसू-३,३.४३ । )

भाष्यम्

शाङ्करभाष्यम्॥

वाजसनेयिनोऽग्निरहस्येनैव वा इदमग्रे सदासीत् इत्येतस्मिन्ब्राह्मणे मनोऽधिकृत्य अधीयते तत्षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः इत्यादि तथैववाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः इति पृथगग्नीन् आमनन्ति सांपादिकान्। तेषु संशयः किमेते मनश्चिदादयः क्रियानुप्रवेशिनः तच्छेषभूताः उत स्वतन्त्राः केवलविद्यात्मका इति। तत्र प्रकरणात् क्रियानुप्रवेशे प्राप्ते स्वातन्त्र्यं तावत्प्रतिजानीते लिङ्गभूयस्त्वादिति। भूयांसि हि लिङ्गानि अस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते तद्यत्किंचेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः इतितान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते इति च एवंजातीयकानि। तद्धि लिङ्गं प्रकरणाद्बलीयः। तदप्युक्तं पूर्वस्मिन्काण्डे श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् इति।।

पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् । ( ब्रसू-३,३.४४ । )

भाष्यम्

शाङ्करभाष्यम्॥

नैतद्युक्तम् स्वतन्त्रा एतेऽग्नयः अनन्यशेषभूता इति पूर्वस्य क्रियामयस्य अग्नेः प्रकरणात् तद्विषय एव अयं विकल्पविशेषोपदेशः स्यात् न स्वतन्त्रः। ननु प्रकरणाल्लिङ्गं बलीयः सत्यमेवमेतत् लिङ्गमपि तु एवंजातीयकं न प्रकरणाद्बलीयो भवति अन्यार्थदर्शनं हि एतत् सांपादिकाग्निप्रशंसारूपत्वात् अन्यार्थदर्शनं च असत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते तस्मात् सांपादिका अप्येतेऽग्नयः प्रकरणात्िक्रयानुप्रवेशिन एव स्युः। मानसवत् यथा दशरात्रस्य दशमेऽहनि अविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येव आम्नायन्ते स च मानसोऽपि ग्रहकल्पः क्रियाप्रकरणात् क्रियाशेष एव भवति एवमयमप्यग्निकल्प इत्यर्थः।।

अतिदेशाच् च । ( ब्रसू-३,३.४५ । )

भाष्यम्

शाङ्करभाष्यम्॥

अतिदेशश्च एषामग्नीनां क्रियानुप्रवेशमुपोद्बलयति षट्त्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः इति सति हि सामान्ये अतिदेशः प्रवर्तते ततश्च पूर्वेण इष्टकाचितेन क्रियानुप्रवेशिना अग्निना सांपादिकानग्नीनतिदिशन् क्रियानुप्रवेशमेव एषां द्योतयति।।

विद्यैव तु निर्धारणाद्दर्शनाच् च । ( ब्रसू-३,३.४६ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दः पक्षं व्यावर्तयति। विद्यात्मका एव एते स्वतन्त्रा मनश्चिदादयोऽग्नयः स्युः न क्रियाशेषभूताः। तथा हि निर्धारयति ते हैते विद्याचित एव इतिविद्यया हैवैत एवंविदश्चिता भवन्ति इति च।।

श्रुत्यादिबलीयस्त्वाच् च न बाधः । ( ब्रसू-३,३.४७ । )

भाष्यम्

शाङ्करभाष्यम्॥ नैवं प्रकरणसामर्थ्यात्िक्रयाशेषत्वमध्यवसाय स्वातन्त्र्यपक्षो बाधितव्यः श्रुत्यादेर्बलीयस्त्वात् बलीयांसि हि प्रकरणात् श्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे तानि च इह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते कथम् श्रुतिस्तावत् ते हैते विद्याचित एव इति तथा लिङ्गम् सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते इति तथा वाक्यमपि विद्यया हैवैत एवंविदश्चिता भवन्ति इति।विद्याचित एव इति हि सावधारणां इयं श्रुतिः क्रियानुप्रवेशेऽमीषामभ्युपगम्यमाने पीडिता स्यात्। ननु अबाह्यसाधनत्वाभिप्रायमिदमवधारणं भविष्यति नेत्युच्यते तदभिप्रायतायां हिविद्याचितः इति इयता स्वरूपसंकीर्तनेनैव कृतत्वात् अनर्थकमवधारणं भवेत् स्वरूपमेव हि एषाम् अबाह्यसाधनत्वमिति अबाह्यसाधनत्वेऽपि तु मानसग्रहवत् क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलम् अवधारणम् अर्थवद्भविष्यति। तथास्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतानग्नींश्चिन्वन्ति इति सातत्यदर्शनम् एषां स्वातन्त्र्येऽवकल्पते यथा सांपादिके वाक्प्राणमयेऽग्निहोत्रेप्राणं तदा वाचि जुहोति

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् । ( ब्रसू-३,३.४८ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् यत् क्रियावयवान् मनआदिव्यापारेष्वनुबध्नाति ते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्मनसाशंसन्यत्किंच यज्ञे कर्म क्रियेत यत्किंच यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियते इत्यादिना संपत्फलो हि अयमनुबन्धः न च प्रत्यक्षाः क्रियावयवाः सन्तः संपदा लिप्सितव्याः। न च अत्र उद्गीथाद्युपासनवत् क्रियाङ्गसंबन्धात् तदनुप्रवेशित्वमाशङ्कितव्यम् श्रुतिवैरूप्यात् न हि अत्र क्रियाङ्गं किंचिदादाय तस्मिन् अदो नामाध्यवसितव्यमिति वदति षट्त्रिंशत्सहस्राणि तु मनोवृत्तिभेदान् आदाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति पुरुषयज्ञादिवत् संख्या च इयं पुरुषायुषस्याहःसुदृष्टा सती तत्संबन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम्। एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम्। आदिशब्दात् अतिदेशाद्यपि यथासंभवं योजयितव्यम् तथा हि तेषामेकैक एव तावान्यावानसौ पूर्वः इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्य अतिदिशन् क्रियायामनादरं दर्शयति न च सत्येव क्रियासंबन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम् न हि येन व्यापारेण आहवनीयधारणादिना पूर्वः क्रियायामुपकरोति तेन उत्तरे उपकर्तुं शक्नुवन्ति। यत्तु पूर्वपक्षेऽप्यतिदेश उपोद्बलक इत्युक्तम् सति हि सामान्येऽतिदेशः प्रवर्तत इति तत् अस्मत्पक्षेऽप्यग्नित्वसामान्येनातिदेशसंभवात्प्रत्युक्तम् अस्ति हि सांपादिकानामप्यग्नीनामग्नित्वमिति। श्रुत्यादीनि च कारणानि दर्शितानि। एवमनुबन्धादिभ्यः कारणेभ्यः स्वातन्त्र्यं मनश्चिदादीनाम् प्रज्ञान्तरपृथक्त्ववत् यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेन अनुबन्धेन अनुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्ति एवमिति दृष्टश्च अवेष्टेः राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षः वर्णत्रयानुबन्धात् राजयज्ञत्वाच्च राजसूयस्य तदुक्तं प्रथमे काण्डे क्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगात् इति।।

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । ( ब्रसू-३,३.४९ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदुक्तं मानसवदिति तत्प्रत्युच्यते। न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः न हि किंचित् कस्यचित् केनचित् सामान्यं न संभवति न च तावता यथास्वं वैषम्यं निवर्तते मृत्युवत् यथास वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषः इतिअग्निर्वै मृत्युः इति च अग्न्यादित्यपुरुषयोः समानेऽपि मृत्युशब्दप्रयोगे न अत्यन्तसाम्यापत्तिः यथा चअसौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित् इत्यत्र न समिदादिसामान्यात् लोकस्याग्निभावापत्तिः तद्वत्।।

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः । ( ब्रसू-३,३.५० । )

भाष्यम्

शाङ्करभाष्यम्॥

परस्तादपिअयं वाव लोक एषोऽग्निश्चितः इत्यस्मिन् अनन्तरे ब्राह्मणे ताद्विध्यं केवलविद्याविधित्वम् शब्दस्य प्रयोजनं लक्ष्यते न शुद्धकर्माङ्गविधित्वम् तत्र हि विद्यया तदारोहन्ति यत्र कामाः परागताः। न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्वनिः इत्यनेन श्लोकेन केवलं कर्म निन्दन् विद्यां च प्रशंसन् इदं गमयति। तथा पुरस्तादपियदेतन्मण्डलं तपति इत्यस्मिन्ब्राह्मणे विद्याप्रधानत्वमेव लक्ष्यते सोऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति इति विद्याफलेनैव उपसंहारात् न कर्मप्रधानता। तत्सामान्यात् इहापि तथात्वम्। भूयांस्तु अग्न्यवयवाः संपादयितव्या विद्यायाम् इत्येतस्मात्कारणात् अग्निना अनुबध्यते विद्या न कर्माङ्गत्वात्। तस्मात् मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धिः।।

ऐकात्म्याधिकरणम्[सम्पाद्यताम्]

एक आत्मनः शरीरे भावात् । ( ब्रसू-३,३.५१ । )

भाष्यम्

शाङ्करभाष्यम्॥

इह देहव्यतिरिक्तस्य आत्मनः सद्भावः समर्थ्यते बन्धमोक्षाधिकारसिद्धये न हि असति देहव्यतिरिक्त आत्मनि परलोकफलाश्चोदना उपपद्येरन् कस्य वा ब्रह्मात्मत्वमुपदिश्येत। ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोगयोग्यस्य देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुक्तम् सत्यमुक्तं भाष्यकृता न तु तत्रात्मास्तित्वे सूत्रमस्ति इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुरःसरं प्रतिष्ठापितम् इत एव च आकृष्य आचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् अत एव च भगवता उपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः। इह च इदं चोदनालक्षणेषु उपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते कृत्स्नशास्त्रशेषत्वप्रदर्शनाय अपि च पूर्वस्मिन्नधिकरणे प्रकरणोत्कर्षाभ्युपगमेन मनश्चिदादीनां पुरुषार्थत्वं वर्णितम् कोऽसौ पुरुषः यदर्था एते मनश्चिदादयः इत्यस्यां प्रसक्तौ इदं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुच्यते तदस्तित्वाक्षेपार्थमिदमादिमं सूत्रम् आक्षेपपूर्विका हि परिहारोक्तिः विवक्षितेऽर्थे स्थूणानिखननन्यायेन दृढां बुद्धिमुत्पादयेदिति।।

अत्र एके देहमात्रात्मदर्शिनो लोकायतिकाः देहव्यतिरिक्तस्य आत्मनोऽभावं मन्यमानाः समस्तव्यस्तेषु बाह्येषु पृथिव्यादिष्वदृष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति संभावयन्तस्तेभ्यश्चैतन्यम् मदशक्तिवत् विज्ञानम् चैतन्यविशिष्टः कायः पुरुषः इति च आहुः। न स्वर्गगमनाय अपवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मा अस्ति यत्कृतं चैतन्यं देहे स्यात् देह एव तु चेतनश्च आत्मा च इति प्रतिजानते। हेतुं च आचक्षते शरीरे भावादिति यद्धि यस्मिन्सति भवति असति च न भवति तत् तद्धर्मत्वेनाध्यवसीयते यथा अग्निधर्मावौष्ण्यप्रकाशौ। प्राणचेष्टाचैतन्यस्मृत्यादयश्च आत्मधर्मत्वेनाभिमता आत्मवादिनाम् तेऽपि अन्तरेव देहे उपलभ्यमानाः बहिश्च अनुपलभ्यमानाः असिद्धे देहव्यतिरिक्ते धर्मिणि देहधर्मा एव भवितुमर्हन्ति। तस्मादव्यतिरेको देहादात्मन इति।।

एवं प्राप्ते ब्रूमः

व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् । ( ब्रसू-३,३.५२ । )

भाष्यम्

शाङ्करभाष्यम्॥

न त्वेतदस्ति यदुक्तमव्यतिरेको देहादात्मन इति व्यतिरेक एव अस्य देहाद्भवितुमर्हति तद्भावाभावित्वात् यदि देहभावे भावात् देहधर्मत्वम् आत्मधर्माणां मन्येत ततो देहभावेऽपि अभावात् अतद्धर्मत्वमेव एषां किं न मन्येत देहधर्मवैलक्षण्यात् ये हि देहधर्मा रूपादयः ते यावद्देहं भवन्ति प्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां न भवन्ति देहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते न त्वात्मधर्माश्चैतन्यस्मृत्यादयः। अपि च सति हि तावत् देहे जीवदवस्थायाम् एषां भावः शक्यते निश्चेतुम् न तु असत्यभावः पतितेऽपि कदाचिदस्मिन्देहे देहान्तरसंचारेण आत्मधर्मा अनुवर्तेरन् संशयमात्रेणापि परपक्षः प्रतिषिध्यते। किमात्मकं च पुनरिदं चैतन्यं मन्यते यस्य भूतेभ्य उत्पत्तिमिच्छति इति परः पर्यनुयोक्तव्यः न हि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किंचित् तत्त्वं प्रत्येति यत् अनुभवनं भूतभौतिकानाम् तत् चैतन्यमिति चेत् तर्हि विषयत्वात्तेषाम् न तद्धर्मत्वमश्नुवीत स्वात्मनि क्रियाविरोधात्। न हि अग्निरुष्णः सन् स्वात्मानं दहति न हि नटः शिक्षितः सन् स्वस्कन्धमधिरोक्ष्यति। न हि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् न हि रूपादिभिः स्वरूपं पररूपं वा विषयीक्रियते विषयीक्रियन्ते तु बाह्याध्यात्मिकानि भूतभौतिकानि चैतन्येन। अतश्च यथैव अस्या भूतभौतिकविषयाया उपलब्धेर्भावोऽभ्युपगम्यते एवं व्यतिरेकोऽपि अस्यास्तेभ्यः अभ्युपगन्तव्यः उपलब्धिस्वरूप एव च न आत्मेति आत्मनो देहव्यतिरिक्तत्वम्। नित्यत्वं च उपलब्धेः ऐकरूप्यात्अहम् इदम् अद्राक्षम् इति च अवस्थान्तरयोगेऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात् स्मृत्याद्युपपत्तेश्च। यत्तूक्तम् शरीरे भावाच्छरीरधर्म उपलब्धिरिति तत् वर्णितेन प्रकारेण प्रत्युक्तम्। अपि च सत्सु प्रदीपादिषु उपकरणेषु उपलब्धिर्भवति असत्सु न भवतीति न च एतावता प्रदीपादिधर्म एव उपलब्धिर्भवति एवं सति देहे उपलब्धिर्भवति असति च न भवतीति न देहधर्मो भवितुमर्हति उपकरणत्वमात्रेणापि प्रदीपादिवत् देहोपयोगोपपत्तेः। न च अत्यन्तं देहस्य उपलब्धावुपयोगोऽपि दृश्यते निश्चेष्टेऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात्। तस्मादनवद्यं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वम्।।

अङ्गावबद्धाधिकरणम्[सम्पाद्यताम्]

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् । ( ब्रसू-३,३.५३ । )

भाष्यम्

शाङ्करभाष्यम्॥

समाप्ता प्रासङ्गिकी कथा संप्रति प्रकृतामेवानुवर्तामहे।ओमित्येतदक्षरमुद्गीथमुपासीतलोकेषु पञ्चविधं सामोपासीतउक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम्इयमेव पृथिवीअयं वाव लोकःएषोऽग्निश्चितः इत्येवमाद्या ये उद्गीथादिकर्माङ्गावबद्धाः प्रत्ययाः प्रतिवेदं शाखाभेदेषु विहिताः ते तच्छाखागतेष्वेव उद्गीथादिषु भवेयुः अथवा सर्वशाखागतेषु इति विशयः। प्रतिशाखं च स्वरादिभेदात् उद्गीथादिभेदानुपादाय अयमुपन्यासः। किं तावत्प्राप्तम् स्वशाखागतेष्वेव उद्गीथादिषु विधीयेरन्निति कुतः संनिधानात् उद्गीथमुपसीत इति हि सामान्यविहितानां विशेषाकाङ्क्षायां संनिकृष्टेनैव स्वशाखागतेन विशेषेण आकाङ्क्षादिनिवृत्तेः तदतिलङ्घनेन शाखान्तरविहितविशेषोपादाने कारणं नास्ति। तस्मात्प्रतिशाखं व्यवस्थेत्येवं प्राप्ते ब्रवीति अङ्गावबद्धास्त्विति। तुशब्दः पक्षं व्यावर्तयति। नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् अपि तु सर्वशाखास्वनुवर्तेरन् कुतः उद्गीथादिश्रुत्यविशेषात् स्वशाखाव्यवस्थायां हिउद्गीथमुपासीत इति सामान्यश्रुतिरविशेषप्रवृत्ता सती संनिधानवशेन विशेषे व्यवस्थाप्यमाना पी़डिता स्यात् न चैतन्न्याय्यम् संनिधानाद्धि श्रुतिर्बलीयसी न च सामान्याश्रयः प्रत्ययो नोपपद्यते। तस्मात् स्वरादिभेदे सत्यपि उद्गीथत्वाद्यविशेषात् सर्वशाखागतेष्वेव उद्गीथादिषु एवंजातीयकाः प्रत्ययाः स्युः।।

मन्त्रादिवद्वाविरोधः । ( ब्रसू-३,३.५४ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथवा नैवात्र विरोधः शङ्कितव्यः कथमन्यशाखागतेषु उद्गीथादिषु अन्यशाखाविहिताः प्रत्यया भवेयुरिति मन्त्रादिवत् अविरोधोपपत्तेः। तथा हि मन्त्राणां कर्मणां गुणानां च शाखान्तरोत्पन्नानामपि शाखान्तरे उपसंग्रहो दृश्यते येषामपि हि शाखिनाम्कुटरुरसि इत्यश्मादानमन्त्रो नाम्नातः तेषामपि असौ विनियोगो दृश्यते कुक्कुटोऽसीत्यश्मानमादत्ते कुटरुरसीति वा इति येषामपि समिदादयः प्रयाजा नाम्नाताः तेषामपि तेषु गुणविधिराम्नायते ऋतवो वै प्रयाजाः समानत्र होतव्याः इति तथा येषामपिअजोऽग्नीषोमीयः इति जातिविशेषोपदेशो नास्ति तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते छागस्य वपाया मेदसोऽनुब्रूहि इति तथा वेदान्तरोत्पन्नानामपिअग्नेर्वेर्होत्रं वेरध्वरम् इत्येवमादिमन्त्राणां वेदान्तरे परिग्रहो दृष्टः तथा बह्वृचपठितस्य सूक्तस्ययो जात एव प्रथमो मनस्वान् इत्यस्यअध्वर्यवे सजनीयं शस्यम् इत्यत्र परिग्रहो दृष्टः। तस्मात् यथा आश्रयाणां कर्माङ्गानां सर्वत्रानुवृत्तिः एवम् आश्रितानामपि प्रत्ययानाम् इत्यविरोधः।।

भूमज्यायस्त्वाधिकरणम्[सम्पाद्यताम्]

भूम्नः क्रतुवज्ज्यायस्वं तथा हि दर्शयति । ( ब्रसू-३,३.५५ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्राचीनशाल औपमन्यवः इत्यस्यामाख्यायिकायां व्यस्तस्य समस्तस्य च वैश्वानरस्य उपासनं श्रूयते। व्यस्तोपासनं तावत् औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से इत्यादि तथा समस्तोपासनमपि तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ इत्यादि। तत्र संशयः किमिह उभयथापि उपासनं स्यात् व्यस्तस्य समस्तस्य च उत समस्तस्यैवेति। किं तावत्प्राप्तम् प्रत्यवयवं सुतेजः प्रभृतिषुउपास्से इति क्रियापदश्रवणात्तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते इत्यादिफलभेदश्रवणाच्च व्यस्तान्यप्युपासनानि स्युः इति प्राप्तम्।।

ततोऽभिधीयते भूम्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्येन अस्मिन्वाक्ये विवक्षितं भवितुमर्हति न प्रत्येकम् अवयवोपासनानामपि क्रतुवत् यथा क्रतुषु दर्शपूर्णमासप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एव एको विवक्ष्यते न व्यस्तानामपि प्रयोगः प्रयाजादीनाम् नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य तद्वत्। कुत एतत् भूमैव ज्यायानिति तथा हि श्रुतिः भूम्नो ज्यायस्त्वं दर्शयति एकवाक्यतावगमात् एकं हि इदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयते तथा हि प्राचीनशालप्रभृतय उद्दालकावसानाः षट् ऋषयः वैश्वानरविद्यायां परिनिष्ठामप्रतिपद्यमानाः अश्वपतिं कैकेयं राजानमभ्याजग्मुः इत्युपक्रम्य एकैकस्य ऋषेरुपास्यं द्युप्रभृतीनामेकैकं श्रावयित्वामूर्धा त्वेष आत्मन इति होवाच इत्यादिना मूर्धादिभावं तेषां विदधातिमूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः इत्यादिना च व्यस्तोपासनमपवदति पुनश्च व्यस्तोपासनं व्यावर्त्य समस्तोपासनमेवानुवर्त्यस सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति इति भूमाश्रयमेव फलं दर्शयति। यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणम् तत् एवं सति अङ्गफलानि प्रधान एवाभ्युच्चिनोति इति द्रष्टव्यम्। तथाउपास्से इत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवादार्थम् न व्यस्तोपासनविधानार्थम्। तस्मात्समस्तोपासनपक्ष एव श्रेयानिति।।

केचित्तु अत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारोऽनुमन्यत इति कल्पयन्ति। तदयुक्तम्एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात् मूर्धा ते व्यपतिष्यत् इति च एवमादिनिन्दाविरोधात् स्पष्टे च उपसंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात् सौत्रस्य च ज्यायस्त्ववचनस्य प्रमाणवत्त्वाभिप्रायेणापि उपपद्यमानत्वात्।।

शब्दादिभेदाधिकरणम्[सम्पाद्यताम्]

नाना शब्दादिभेदात् । ( ब्रसू-३,३.५६ । )

भाष्यम्

शाङ्करभाष्यम्॥

पूर्वस्मिन्नधिकरणे सत्यामपि सुतेजःप्रभृतीनां फलभेदश्रुतौ समस्तस्योपासनं ज्याय इत्युक्तम् अतः प्राप्ता बुद्धिः अन्यान्यपि भिन्नश्रुतीन्युपासनानि समस्य उपासिष्यन्ते इति। अपि च नैव वेद्याभेदे विद्याभेदो विज्ञातुं शक्यते वेद्यं हि रूपं विद्यायाः द्रव्यदैवतमिव यागस्य वेद्यश्च एक एव ईश्वरः श्रुतिनानात्वेऽप्यवगम्यते मनोमयः प्राणशरीरःकं ब्रह्म खं ब्रह्मसत्यकामः सत्यसंकल्पः इत्येवमादिषु तथाएक एव प्राणःप्राणो वाव संवर्गःप्राणो वाव ज्येष्ठश्च श्रेष्ठश्चप्राणो ह पिता प्राणो माता इत्येवमादिषु वेद्यैकत्वाच्च विद्यैकत्वम्। श्रुतिनानात्वमपि अस्मिन्पक्षे गुणान्तरपरत्वात् न अनर्थकम्। तस्मात् स्वपरशाखाविहितम् एकवेद्यव्यपाश्रयं गुणजातमुपसंहर्तव्यं विद्याकात्स्न्र्याय इत्येवं प्राप्ते

प्रतिपाद्यते नानेति वेद्याभेदेऽपि एवंजातीयका विद्या भिन्ना भवितुमर्हति कुतः शब्दादिभेदात् भवति हि शब्दभेदः वेदउपासीतस क्रतुं कुर्वीत इत्येवमादिः शब्दभेदश्च कर्मभेदहेतुः समधिगतः पुरस्तात्शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् इति। आदिग्रहणात् गुणादयोऽपि यथासंभवं भेदहेतवो योजयितव्याः। ननुवेद इत्यादिषु शब्दभेद एव अवगम्यते नयजति इत्यादिवत् अर्थभेदः सर्वेषामेवैषां मनोवृत्त्यर्थत्वाभेदात् अर्थान्तरासंभवाच्च तत् कथं शब्दभेदाद्विद्याभेद इति नैष दोषः मनोवृत्त्यर्थत्वाभेदेऽपि अनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदोपपत्तेः एकस्यापीश्वरस्य उपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्ते तथा एकस्यापि प्राणस्य तत्र तत्र उपास्यस्य अभेदेऽपि अन्यादृग्गुणोऽन्यत्रोपासितव्यः अन्यादृग्गुणश्चान्यत्र इत्येवमनुबन्धभेदाद्विधिभेदे सति विद्याभेदो विज्ञायते। न च अत्र एको विद्याविधिः इतरे गुणविधय इति शक्यं वक्तुम् विनिगमनायां हेत्वभावात् अनेकत्वाच्च प्रतिप्रकरणं गुणानां प्राप्तविद्यानुवादेन विधानानुपपत्तेः। न च अस्मिन्पक्षे समानाः सन्तः सत्यकामादयो गुणा असकृच्छ्रावयितव्याः। प्रतिप्रकरणं च इदंकामेनेदमुपासितव्यम् इदंकामेन च इदम् इति नैराकाङ्क्ष्यावगमात् नैकवाक्यतापत्तिः। न च अत्र वैश्वानरविद्यायामिव समस्तचोदना अपरा अस्ति यद्बलेन प्रतिप्रकरणवर्तीन्यवयवोपासनानि भूत्वा एकवाक्यताम् इयुः। वेद्यैकत्वनिमित्ते च विद्यैकत्वे सर्वत्र निरङ्कुशे प्रतिज्ञायमाने समस्तगुणोपसंहारोऽशक्यः प्रतिज्ञायेत। तस्मात् सुष्ठु उच्यते नाना शब्दादिभेदादिति। स्थिते च एतस्मिन्नधिकरणे सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम्।।

विकल्पाधिकरणम्[सम्पाद्यताम्]

विकल्पोऽविशिष्टफलत्वात् । ( ब्रसू-३,३.५७ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्थिते विद्याभेदे विचार्यते किमासामिच्छया समुच्चयो विकल्पो वा स्यात् अथवा विकल्प एव नियमेनेति। तत्र स्थितत्वात् तावद्विद्याभेदस्य न समुच्चयनियमे किंचित्कारणमस्ति। ननु भिन्नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यते नैष दोषः नित्यताश्रुतिर्हि तत्र कारणम् नैवं विद्यानां काचिन्नित्यताश्रुतिरस्ति तस्मान्न समुच्चयनियमः। नापि विकल्पनियमः विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात्। पारिशेष्यात् याथाकाम्यमापद्यते। ननु अविशिष्टफलत्वादासां विकल्पो न्याय्यः तथा हि मनोमयः प्राणशरीरःकं ब्रह्म खं ब्रह्मसत्यकामः सत्यसंकल्पः इत्येवमाद्याः तुल्यवत् ईश्वरत्वप्राप्तिफला लक्ष्यन्ते नैष दोषः समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु याथाकाम्यदर्शनात्। तस्मात् याथाकाम्यप्राप्तौ उच्यते विकल्प एव आसां भवितुमर्हति न समुच्चयः कस्मात् अविशिष्टफलत्वात्। अविशिष्टं हि आसां फलमुपास्यविषयसाक्षात्करणम् एकेन च उपासनेन साक्षात्कृते उपास्ये विषये ईश्वरादौ द्वितीयमनर्थकम्। अपि च असंभव एव साक्षात्करणस्य समुच्चयपक्षे चित्तविक्षेपहेतुत्वात् साक्षात्करणसाध्यं च विद्याफलं दर्शयन्ति श्रुतयः यस्य स्यादद्धा न विचिकित्सास्ति इतिदेवो भूत्वा देवानप्येति इति च एवमाद्याः स्मृतयश्च सदा तद्भावभावितः इत्येवमाद्याः। तस्मात् अविशिष्टफलानां विद्यानामन्यतमामादाय तत्परः स्यात् यावदुपास्यविषयसाक्षात्करणेन तत्फलं प्राप्तमिति।।

काम्याधिकरणम्[सम्पाद्यताम्]

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् । ( ब्रसू-३,३.५८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अविशिष्टफलत्वादित्यस्य प्रत्युदाहरणम्। यासु पुनः काम्यासु विद्यासुस य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितिस यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति इति चैवमाद्यासु क्रियावत् अदृष्टेनात्मना आत्मीयं फलं साधयन्तीषु साक्षात्करणापेक्षा नास्ति ता यथाकामं समुच्चीयेरन् न वा समुच्चीयेरन् पूर्वहेत्वभावात् पूर्वस्य अविशिष्टफलत्वादित्यस्य विकल्पहेतोः अभावात्।।

यथाश्रयभावाधिकरणम्[सम्पाद्यताम्]

अङ्गेषु यथाश्रयभावः ।

( ब्रसू-३,३.५९ । )

भाष्यम्

शाङ्करभाष्यम्॥

कर्माङ्गेषु उद्गीथादिषु ये आश्रिताः प्रत्यया वेदत्रयविहिताः किं ते समुच्चीयेरन् किं वा यथाकामं स्युरिति संशये यथाश्रयभाव इत्याह। यथैव एषामाश्रयाः स्तोत्रादयः संभूय भवन्ति एवं प्रत्यया अपि आश्रयतन्त्रत्वात्प्रत्ययानाम्।।

शिष्टेश् च । ( ब्रसू-३,३.६० । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा वा आश्रयाः स्तोत्रादयः त्रिषु वेदेषु शिष्यन्ते एवमाश्रिता अपि प्रत्ययाः नोपदेशकृतोऽपि कश्चिद्विशेषः अङ्गानां तदाश्रयाणां च प्रत्ययानामित्यर्थः।।

समाहारात् । ( ब्रसू-३,३.६१ । )

भाष्यम्

शाङ्करभाष्यम्॥

होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरति इति च प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात् उद्गाता स्वकर्मण्युत्पन्नं क्षतं हौत्रात्कर्मणः प्रतिसमादधाति इति ब्रुवन् वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसंबन्धसामान्यात् सर्ववेदोदितप्रत्ययोपसंहारं सूचयति इति लिङ्गदर्शनम्।।

गुणसाधारण्यश्रुतेश् च । ( ब्रसू-३,३.६२ । )

भाष्यम्

शाङ्करभाष्यम्॥

विद्यागुणं च विद्याश्रयं सन्तम् ओंकारं वेदत्रयसाधारणं श्रावयति तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति इति च ततश्च आश्रयसाधारण्यात् आश्रितसाधारण्यमिति लिङ्गदर्शनमेव। अथवा गुणसाधारण्यश्रुतेश्चेति यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्वप्रयोगसाधारणा न स्युः न स्यात् ततः तदाश्रयाणां प्रत्ययानां सहभावः ते तु उद्गीथादयः सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणाः श्राव्यन्ते ततश्च आश्रयसहभावात्प्रत्ययसहभाव इति।।

न वा तत्सहभावाश्रुतेः । ( ब्रसू-३,३.६३ । )

भाष्यम्

शाङ्करभाष्यम्॥

न वेति पक्षव्यावर्तनम्। न यथाश्रयभाव आश्रितानामुपासनानां भवितुमर्हति कुतः तत्सहभावाश्रुतेः यथा हि त्रिवेदविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति स्तुतमनुशंसति प्रस्तोतः साम गाय होतरेतद्यज इत्यादिना नैवमुपासनानां सहभावश्रुतिरस्ति। ननु प्रयोगवचन एषां सहभावं प्रापयेत् नेति ब्रूमः पुरुषार्थत्वादुपासनानाम् प्रयोगवचनो हि क्रत्वर्थानामुद्गीथादीनां सहभावं प्रापयेत् उद्गीथाद्युपासनानि तु क्रत्वर्थाश्रयाण्यपि गोदोहनादिवत् पुरुषार्थानीत्यवोचामपृथग्घ्यप्रतिबन्धः फलम् इत्यत्र। अयमेव च उपदेशाश्रयो विशेषः अङ्गानां तदालम्बनानां च उपासनानाम् यदेकेषां क्रत्वर्थत्वम् एकेषां पुरुषार्थत्वमिति। परं च लिङ्गद्वयम् अकारणमुपासनसहभावस्य श्रुतिन्यायाभावात्। न च प्रतिप्रयोगम् आश्रयकात्स्न्र्योपसंहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम् अतत्प्रयुक्तत्वादुपासनानाम् आश्रयतन्त्राण्यपि हि उपासनानि कामम् आश्रयाभावे मा भूवन् न त्वाश्रयसहभावेन सहभावनियममर्हन्ति तत्सहभावाश्रुतेरेव। तस्मात् यथाकाममेव उपासनान्यनुष्ठीयेरन्।।

दर्शनाच् च । ( ब्रसू-३,३.६४ । )

भाष्यम्

शाङ्करभाष्यम्॥

दर्शयति च श्रुतिरसहभावं प्रत्ययानाम् एवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति इति। सर्वप्रत्ययोपसंहारे हि सर्वे सर्वविद इति न विज्ञानवता ब्रह्मणा परिपाल्यत्वमितरेषां संकीर्त्येत। तस्मात् यथाकाममुपासनानां समुच्चयो विकल्पो वेति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य तृतीयः पादः।।