सामग्री पर जाएँ

ब्रह्मसूत्रम्/तृतीयः अध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः ब्रह्मसूत्रम्
तृतीयाध्याये चतुर्थः पादः
वेदव्यासः

पुरुषार्थाधिकरणम्

[सम्पाद्यताम्]

पुरुषार्थो ऽतः शब्दाद् इति बादरायणः । ( ब्रसू-३,४.१ । )
<br

भाष्यम्

शाङ्करभाष्यम्॥

पुरुषार्थोऽत इति। अस्माद्वेदान्तविहितादात्मज्ञानात् स्वतन्त्रात् पुरुषार्थः सिध्यतीति बादरायण आचार्यो मन्यते कुत एतदवगम्यते शब्दादित्याह। तथा हि तरति शोकमात्मवित् स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति ब्रह्मविदाप्नोति परम् आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये य आत्मापहतपाप्मा इत्युपक्रम्य स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति इति आत्मा वा अरे द्रष्टव्यः इत्युपक्रम्य एतावदरे खल्वमृतत्वम् इति एवंजातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति।।

अथात्र प्रत्यवतिष्ठते

शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः ।

भाष्यम्

शाङ्करभाष्यम्॥

कर्तृत्वेन आत्मनः कर्मशेषत्वात् तद्विज्ञानमपि व्रीहिप्रोक्षणादिवत् विषयद्वारेण कर्मसंबन्ध्येव इत्यतः तस्मिन् अवगतप्रयोजने आत्मज्ञाने या फलश्रुतिः सा अर्थवादः इति जैमिनिराचार्यो मन्यते। यथा अन्येषु द्रव्यसंस्कारकर्मसु यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते यत्प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै इत्येवंजातीयका फलश्रुतिः अर्थवादः तद्वत्। कथं पुनः अस्य अनारभ्याधीतस्य आत्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते कर्तृद्वारेण वाक्यात् तद्विज्ञानस्य क्रतुसंबन्ध इति चेत् न वाक्याद्विनियोगानुपपत्तेः अव्यभिचारिणा हि केनचिद्द्वारेण अनारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसंबन्धोऽवकल्पते कर्ता तु व्यभिचारि द्वारम् लौकिकवैदिककर्मसाधारण्यात् तस्मान्न तद्द्वारेण आत्मज्ञानस्य क्रतुसंबन्धसिद्धिरिति न व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्योऽन्यत्र अनुपयोगात् न हि देहव्यतिरिक्तात्मज्ञानं लौकिकेषु कर्मसु उपयुज्यते सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः वैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिः नोपपद्यत इति उपयुज्यते व्यतिरेकविज्ञानम्। ननु अपहतपाप्मत्वादिविशेषणात् असंसार्यात्मविषयम् औपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् न प्रियादिसंसूचितस्य संसारिण एव आत्मनो द्रष्टव्यत्वोपदेशात् अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति। ननु तत्र तत्र प्रसाधितमेतत् अधिकमसंसारि ब्रह्म जगत्कारणम् तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपम् उपनिषत्सु उपदिश्यत इति सत्यं प्रसाधितम् तस्यैव तु स्थूणानिखननवत् फलद्वारेण आक्षेपसमाधाने क्रियेते दार्ढ्याय।।

आचारदर्शनात् । ( ब्रसू-३,४.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे यक्ष्यमाणो वै भगवन्तोऽहमस्मि इत्येवमादीनि ब्रह्मविदामपि अन्यपरेषु वाक्येषु कर्मसंबन्धदर्शनानि भवन्ति। तथा उद्दालकादीनामपि पुत्रानुशासनादिदर्शनात् गार्हस्थ्यसंबन्धोऽवगम्यते। केवलाच्चेत् ज्ञानात् पुरुषार्थसिद्धिः स्यात् किमर्थम् अनेकायाससमन्वितानि कर्माणि ते कुर्युः अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् इति न्यायात्।।

तच्छ्रुतेः । ( ब्रसू-३,४.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इति च कर्मशेषत्वश्रवणात् विद्याया न केवलायाः पुरुषार्थहेतुत्वम्।।

समन्वारम्भणात् । ( ब्रसू-३,४.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

तं विद्याकर्मणी समन्वारभेते इति च विद्याकर्मणोः फलारम्भे साहित्यदर्शनात् न स्वातन्त्र्यं विद्यायाः।।

तद्वतो विधानात् । ( ब्रसू-३,४.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः इति च एवंजातीयका श्रुतिः समस्तवेदार्थविज्ञानवतः कर्माधिकारं दर्शयति तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम्। ननु अत्र अधीत्य इत्यध्ययनमात्रं वेदस्य श्रूयते न अर्थविज्ञानम् नैष दोषः दृष्टार्थत्वात् वेदाध्ययनम् अर्थावबोधपर्यन्तमिति स्थितम्।।

नियमात् । ( ब्रसू-३,४.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे इति तथा एतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यते मृत्युना वा इत्येवंजातीयकात् नियमादपि कर्मशेषत्वमेव विद्याया इति।।

एवं प्राप्ते प्रतिविधत्ते

अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् । ( ब्रसू-३,४.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दात् पक्षो विपरिवर्तते। यदुक्तम् शेषत्वात्पुरुषार्थवादः इति तत् नोपपद्यते कस्मात् अधिकोपदेशात् यदि संसार्येव आत्मा शारीरः कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेषु उपदिष्टः स्यात् ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात् अधिकस्तावत् शारीरादात्मनः असंसारी ईश्वरः कर्तृत्वादिसंसारिधर्मरहितोऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु। न च तद्विज्ञानं कर्मणां प्रवर्तकं भवति प्रत्युत कर्माण्युच्छिनत्ति इति वक्ष्यति उपमर्दं च इत्यत्र। तस्मात् पुरुषार्थोऽतः शब्दात् इति यन्मतं भगवतो बादरायणस्य तत् तथैव तिष्ठति न शेषत्वप्रभृतिभिर्हेत्वाभासैश्चालयितुं शक्यते। तथा हि तमधिकं शारीरात् ईश्वरमात्मानं दर्शयन्ति श्रुतयः यः सर्वज्ञः सर्ववित् भीषास्माद्वातः पवते महद्भयं वज्रमुद्यतम् एतस्य वा अक्षरस्य प्रशासने गार्गि तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत इत्येवमाद्याः। यत्तु प्रियादिसंसूचितस्य संसारिण एव आत्मनो वेद्यतया अनुकर्षणम् आत्मनस्तु कामाय सर्वं प्रियं भवति। आत्मा वा अरे द्रष्टव्यः यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः य एषोऽक्षिणि पुरुषो दृश्यते इत्युपक्रम्य एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इति चैवमादि तदपि अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः इत्येवमादिभिर्वाक्यशेषैः सत्यामेव अधिकोपदिदिक्षायाम् अत्यन्ताभेदाभिप्रायमित्यविरोधः। पारमेश्वरमेव हि शारीरस्य पारमार्थिकं स्वरूपम् उपाधिकृतं तु शारीरत्वम् तत्त्वमसि नान्यदतोऽस्ति द्रष्टृ इत्यादिश्रुतिभ्यः। सर्वं च एतत् विस्तरेणास्माभिः पुरस्तात् तत्र तत्र वर्णितम्।।

तुल्यं तु दर्शनम् । ( ब्रसू-३,४.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

यत्तूक्तम् आचारदर्शनात्कर्मशेषो विद्येति अत्र ब्रूमः तुल्यमाचारदर्शनम् अकर्मशेषत्वेऽपि विद्यायाः। तथा हि श्रुतिर्भवति एतद्ध स्म वै तद्विद्वांस आहुऋर््षयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे। एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवांचक्रिरे एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति इत्येवंजातीयका। याज्ञवल्क्यादीनामपि ब्रह्मविदाम् अकर्मनिष्ठत्वं दृश्यते एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राज इत्यादिश्रुतिभ्यः। अपि च यक्ष्यमाणो वै भगवन्तोऽहमस्मि इत्येतत् लिङ्गदर्शनं वैश्वानरविद्याविषयम् संभवति च सोपाधिकायां ब्रह्मविद्यायां कर्मसाहित्यदर्शनम् न तु अत्रापि कर्माङ्गत्वमस्ति प्रकरणाद्यभावात्।।

यत्पुनरुक्तम् तच्छ्रुतेः इति अत्र ब्रूमः

असार्वत्रिकी । ( ब्रसू-३,४.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

यदेव विद्यया करोति इत्येषा श्रुतिर्न सर्वविद्याविषया प्रकृतविद्याभिसंबन्धात्। प्रकृता च उद्गीथविद्या ओमित्येतदक्षरमुद्गीथमुपासीत इत्यत्र।।

विभागः शतवत् । ( ब्रसू-३,४.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदप्युक्तम् तं विद्याकर्मणी समन्वारभेते इत्येतत् समन्वारम्भवचनम् अस्वातन्त्र्ये विद्याया लिङ्गमिति तत् प्रत्युच्यते विभागोऽत्र द्रष्टव्यः विद्या अन्यं पुरुषमन्वारभते कर्म अन्यमिति। शतवत् यथा शतम् आभ्यां दीयतामित्युक्ते विभज्य दीयते पञ्चाशदेकस्मै पञ्चाशदपरस्मै तद्वत्। न च इदं समन्वारम्भवचनं मुमुक्षुविषयम् इति नु कामयमानः इति संसारिविषयत्वोपसंहारात् अथाकामयमानः इति च मुमुक्षोः पृथगुपक्रमात् तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्यते विशेषाभावात् कर्मापि विहितं प्रतिषिद्धं च यथाप्राप्तानुवादित्वात् एवं सति अविभागेनापि इदं समन्वारम्भवचनमवकल्पते।।

यच्चैतत् तद्वतो विधानात् इति अत उत्तरं पठति

अध्ययनमात्रवतः । ( ब्रसू-३,४.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

आचार्यकुलाद्वेदमधीत्य इत्यत्र अध्ययनमात्रस्य श्रवणात् अध्ययनमात्रक्षवत एव कर्मविधिरित्यध्यवस्यामः। ननु एवं सति अविद्यत्वात् अनधिकारः कर्मसु प्रसज्येत नैष दोषः न वयम् अध्ययनप्रभवं कर्मावबोधनम् अधिकारकारणं वारयामः किं तर्हि औपनिषदमात्मज्ञानम् स्वातन्त्र्येणैव प्रयोजनवत् प्रतीयमानम् न कर्माधिकारकारणतां प्रतिपद्यते इत्येतत्प्रतिपादयामः। यथा च न क्रत्वन्तरज्ञानं क्रत्वन्तराधिकारेण अपेक्ष्यते एवमेतदपि द्रष्टव्यमिति।।

यदप्युक्तम् नियमाच्च इति अत्राभिधीयते

नाविशेषात् । ( ब्रसू-३,४.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

कुर्वन्नेवेह कर्माणि जिजीविषेत् इत्येवमादिषु नियमश्रवणेषु न विदुष इति विशेषोऽस्ति अविशेषेण नियमविधानात्।।

स्तुतयेऽनुमतिर्वा । ( ब्रसू-३,४.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

कुर्वन्नेवेह कर्माणि इत्यत्र अपरो विशेष आख्यायते। यद्यपि अत्र प्रकरणसामर्थ्यात् विद्वानेव कुर्वन् इति संबध्येत तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्द्रष्टव्यम् न कर्म लिप्यते नरे इति हि वक्ष्यति। एतदुक्तं भवति यावज्जीवं कर्म कुर्वत्यपि त्वयि विदुषि पुरुषे न कर्म लेपाय भवति विद्यासामर्थ्यादिति तदेवं विद्या स्तूयते।।

कामकारेण चैके । ( ब्रसू-३,४.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च एके विद्वांसः प्रत्यक्षीकृतविद्याफलाः सन्तः तदवष्टम्भात् फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परामृशन्ति कामकारेण इति श्रुतिर्भवति वाजसनेयिनाम् एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति। अनुभवारूढमेव च विद्याफलं न क्रियाफलवत् कालान्तरभावि इत्यसकृदवोचाम। अतोऽपि न विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फलश्रुतेरयथार्थत्वं शक्यमाश्रयितुम्।।

उपमर्दं च । ( ब्रसू-३,४.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च कर्माधिकारहेतोः क्रियाकारकफललक्षणस्य समस्तस्य प्रपञ्चस्य अविद्याकृतस्य विद्यासामर्थ्यात् स्वरूपोपमर्दमामनन्ति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत् इत्यादिना। वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं प्रत्याशासानस्य कर्माधिकारोच्छित्तिरेव प्रसज्येत। तस्मादपि स्वातन्त्र्यं विद्यायाः।।

ऊर्ध्वरेतस्सु च शब्दे हि । ( ब्रसू-३,४.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

ऊर्ध्वरेतःसु च आश्रमेषु विद्या श्रूयते न च तत्र कर्माङ्गत्वं विद्याया उपपद्यते कर्माभावात् न हि अग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति। स्यादेतत् ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति तदपि नास्ति तेऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते त्रयो धर्मस्कन्धाः ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तपःश्रद्धे ये ह्युपवसन्त्यरण्ये एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ब्रह्मचर्यादेव प्रव्रजेत् इत्येवमादिषु। प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम् अपाकृतानपाकृतर्णत्रयाणां च ऊर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम्। तस्मादपि स्वातन्त्र्यं विद्यायाः।।

परामर्शाधिकरणम्

[सम्पाद्यताम्]

परामर्शं जैमिनिरचोदनाच्चापवदति हि । ( ब्रसू-३,४.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

त्रयो धर्मस्कन्धाः इत्यादयो ये शब्दा ऊर्ध्वरेतसामाश्रमाणां सद्भावाय उदाहृताः न ते तत्प्रतिपादनाय प्रभवन्ति यतः परामर्शम् एषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते न विधिम्। कुतः न हि अत्र लिङादीनामन्यतमश्चोदनाशब्दोऽस्ति अर्थान्तरपरत्वं च एषु प्रत्येकमुपलभ्यते। त्रयो धर्मस्कन्धाः इत्यत्र तावत् यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति इति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं संकीर्त्य आत्यन्तिकफलतया ब्रह्मसंस्थता स्तूयते ब्रह्मसंस्थोऽमृतत्वमेति इति। ननु परामर्शेऽपि आश्रमा गम्यन्त एव सत्यं गम्यन्ते स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिः न प्रत्यक्षश्रुतेः अतश्च प्रत्यक्षश्रुतिविरोधे सति अनादरणीयास्ते भविष्यन्ति अनधिकृतविषया वा। ननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभिः परामृष्टम् यज्ञोऽध्ययनं दानमिति प्रथमः इति सत्यमेवम् तथापि तु गृहस्थं प्रत्येव अग्निहोत्रादीनां कर्मणां विधानात् श्रुतिप्रसिद्धमेव हि तदस्तित्वम् तस्मात्स्तुत्यर्थ एव अयं परामर्शः न चोदनार्थः। अपि च अपवदति हि प्रत्यक्षा श्रुतिराश्रमान्तरम् वीरहा वा एष देवानां योऽग्निमुद्वासयते आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुः इत्येवमाद्या। तथा ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तपःश्रद्धे ये ह्युपवसन्त्यरण्ये इति च देवयानोपदेशः न आश्रमान्तरोपदेशः। संदिग्धं च आश्रमान्तराभिधानम् तप एव द्वितीयः इत्येवमादिषु। तथा एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति इति लोकसंस्तवोऽयम् न पारिव्राज्यविधिः। ननु ब्रह्मचर्यादेव प्रव्रजेत् इति विस्पष्टमिदं प्रत्यक्षं पारिव्राज्यविधानं जाबालानाम् सत्यमेवमेतत् अनपेक्ष्य तु एतां श्रुतिम् अयं विचार इति द्रष्टव्यम्।।

अनुष्ठेयं बादरायणस्साम्यश्रुतेः । ( ब्रसू-३,४.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अनुष्ठेयम् आश्रमान्तरं बादरायण आचार्यो मन्यते वेदेऽश्रवणादग्निहोत्रादीनां च अवश्यानुष्ठेयत्वात् तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरम् इति हि इमां मतिं निराकरोति गार्हस्थ्यवदेव आश्रमान्तरमपि अनिच्छता प्रतिपत्तव्यमिति मन्यमानः। कुतः साम्यश्रुतेः समा हि गार्हस्थ्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यते त्रयो धर्मस्कन्धाः इत्याद्या यथा इह श्रुत्यन्तरविहितमेव गार्हस्थ्यं परामृष्टम् एवमाश्रमान्तरमपीति प्रतिपत्तव्यम् यथा च शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनावीतयोः परामर्श उपवीतविधिपरे वाक्ये तस्मात् तुल्यमनुष्ठेयत्वं गार्हस्थ्येन आश्रमान्तरस्य। तथा एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति इत्यस्य वेदानुवचनादिभिः समभिव्याहारः ये चेमेऽरण्ये श्रद्धा तप इत्युपासते इत्यस्य च पञ्चाग्निविद्यया। यत्तूक्तम् तप एव द्वितीयः इत्यादिष्वाश्रमान्तराभिधानं संदिग्धमिति नैष दोषः निश्चयकारणसद्भावात् त्रयो धर्मस्कन्धाः इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् न च यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तः अन्यत्राश्रमसंबन्धात् त्रित्वेऽन्तर्भावयितुं शक्यन्ते तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टः ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशः तप इत्यपि कोऽन्यस्तपःप्रधानादाश्रमात् धर्मस्कन्धोऽभ्युपगम्येत। ये चेमेऽरण्ये इति च अरण्यलिङ्गात् श्रद्धातपोभ्यामाश्रमगृहीतिः। तस्मात् परामर्शेऽप्यनुष्ठेयमाश्रमान्तरम्।।

विधिर् वा धारणवत् । ( ब्रसू-३,४.२० । )

भाष्यम्

शाङ्करभाष्यम्॥


विधिर्वा अयमाश्रमान्तरस्य न परामर्शमात्रम्। ननु विधित्वाभ्युपगमे एकवाक्यताप्रतीतिरुपरुध्येत प्रतीयते चं अत्र एकवाक्यता पुण्यलोकफलास्त्रयो धर्मस्कन्धाः ब्रह्मसंस्थता त्वमृतत्वफलेति सत्यमेतत् सतीमपि तु एकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यः अपूर्वत्वात् विध्यन्तरस्यादर्शनात् विस्पष्टाच्चाश्रमान्तरप्रत्ययात् गुणवादकल्पनया एकवाक्यत्वयोजनानुपपत्तेः। धारणवत् यथा अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति इत्यत्र सत्यामप्यधोधारणेन एकवाक्यताप्रतीतौ विधीयत एव उपरिधारणम् अपूर्वत्वात् तथा च उक्तं शेषलक्षणे विधिस्तु धारणेऽपूर्वत्वात् इति तद्वत् इहापि आश्रमपरामर्शश्रुतिः विधिरेवेति कल्प्यते।।

यदापि परामर्श एवायमाश्रमान्तराणाम् तदापि ब्रह्मसंस्थता तावत् संस्तवसामर्थ्यादवश्यं विधेया अभ्युपगन्तव्या। सा च किं चतुर्ष्वाश्रमेषु यस्य कस्य चित् आहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम्। यदि च ब्रह्मचर्यान्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टः ततश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषात् अनाश्रमित्वानुपपत्तेश्च यः कश्चिच्चतुर्ष्वाश्रमेषु ब्रह्मसंस्थो भविष्यति अथ न परामृष्टः ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति सेत्स्यति। तत्र तपःशब्देन वैखानसग्राहिणा परामृष्टः परिव्राडपि इति केचित्। तदयुक्तम् न हि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमर्हति यथा अत्र ब्रह्मचारिगृहमेधिनौ असाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितौ एवं भिक्षुवैखानसावपीति युक्तम् तपश्च असाधारणो धर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात् तपःशब्दस्य तत्र रूढेः भिक्षोस्तु धर्म इन्द्रियसंयमादिः लक्षणयैव तपःशब्देनाभिलप्येत। चतुष्ट्वेन च प्रसिद्धा आश्रमाः त्रित्वेन परामृश्यन्त इत्यन्याय्यम्। अपि च भेदव्यपदेशोऽत्र भवति त्रय एते पुण्यलोकभाजः एकोऽमृतत्वभागिति पृथक्त्वे च भेदव्यपदेशोऽवकल्पते न ह्येवं भवति देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ अन्यतरस्त्वनयोर्महाप्रज्ञ इति भवति त्वेवम् देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ विष्णुमित्रस्तु महाप्रज्ञ इति तस्मात् पूर्वे त्रय आश्रमिणः पुण्यलोकभाजः परिशिष्यमाणः परिव्राट् अमृतत्वभाक्। कथं पुनः ब्रह्मसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र संभवन् परिव्राजक एवावतिष्ठेत रूढ्यभ्युपगमे च आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति अत्रोच्यते ब्रह्मसंस्थ इति हि ब्रह्मणि परिसमाप्तिः अनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते तच्च त्रयाणामाश्रमाणां न संभवति स्वाश्रमविहितकर्माननुष्ठाने प्रत्यवायश्रवणात् परिव्राजकस्य तु सर्वकर्मसंन्यासात् प्रत्यवायो न संभवति अननुष्ठाननिमित्तः शमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थाया उपोद्बलकः न विरोधी ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म यज्ञादीनि च इतरेषाम् तद्व्यतिक्रमे च तस्य प्रत्यवायः। तथा च न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा। तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत् वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः इत्याद्याः श्रुतयः स्मृतयश्च तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः इत्याद्याः ब्रह्मसंस्थस्य कर्माभावं दर्शयन्ति। तस्मात् परिव्राजकस्य आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येषोऽपि दोषो नावतरति। तदेवं परामर्शेऽपि इतरेषामाश्रमाणाम् पारिव्राज्यं तावद्ब्रह्मसंस्थतालक्षणं लभ्येतैव। अनपेक्ष्यैव जाबालश्रुतिमाश्रमान्तरविधायिनीम् अयमाचार्येण विचारः प्रवर्तितः विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षा ब्रह्मचर्यं समाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत्। यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा इति न च इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम् अविशेषश्रवणात् पृथग्विधानाच्च अनधिकृतानाम् अथ पुन रेव व्रती वाव्रती वा स्नातको वास्नातको वोत्सन्नाग्निरनग्निको वा इत्यादिना ब्रह्मज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य न अनधिकृतविषयत्वम् तच्च दर्शयति अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति इति। तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः। सिद्धं च ऊर्ध्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति।।

स्तुतिमात्राधिकरणम्

[सम्पाद्यताम्]

स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् । ( ब्रसू-३,४.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः इयमेवर्गग्निः साम अयं वाव लोकः एषोऽग्निश्चितः तदिदमेवोक्थम् इयमेव पृथिवी इत्येवंजातीयकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्थाः आहोस्वित् उपासनाविध्यर्था इत्यस्मिन्संशये स्तुत्यर्था इति युक्तम् उद्गीथादीनि कर्माङ्गान्युपादाय श्रवणात् यथा इयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनीयः इत्याद्या जुह्वादिस्तुत्यर्थाः तद्वत् इति चेत् नेत्याह न हि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तम् अपूर्वत्वात् विध्यर्थतायां हि अपूर्वोऽर्थो विहितो भवति स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात् विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः इत्यत्र प्रदेशान्तरविहितानां तु उद्गीथादीनाम् इयं प्रदेशान्तरपठिता स्तुतिः वाक्यशेषभावमप्रतिपद्यमाना अनर्थिकैव स्यात् इयमेव जुहूः इत्यादि तु विधिसंनिधावेवाम्नातमिति वैषम्यम्। तस्मात् विध्यर्था एव एवंजातीयकाः श्रुतयः।।

भावशब्दाच् च । ( ब्रसू-३,४.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

उद्गीथमुपासीत सामोपासीत अहमुक्थमस्मीति विद्यात् इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्ते ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन्। तथा च न्यायविदां स्मरणम् कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्। एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम् इति लिङाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति। प्रतिप्रकरणं च फलानि श्राव्यन्ते आपयिता ह वै कामानां भवति एष ह्येव कामागानस्येष्टे कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च इत्यादीनि तस्मादप्युपासनविधानार्था उद्गीथादिश्रुतयः।।

पारिप्लवाधिकरणम्

[सम्पाद्यताम्]

पारिप्लवार्था इति चेन् न विशेषितत्वात् । ( ब्रसू-३,४.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयः किमिमानि पारिप्लवप्रयोगार्थानि आहोस्वित्संनिहितविद्याप्रतिपत्त्यर्थानीति। पारिप्लवार्था इमा आख्यानश्रुतयः आख्यानसामान्यात् आख्यानप्रयोगस्य च पारिप्लवे चोदितत्वात् ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात् मन्त्रवत् प्रयोगशेषत्वादिति चेत् तन्न कस्मात् विशेषितत्वात् पारिप्लवमाचक्षीत इति हि प्रकृत्य मनुर्वैवस्वतो राजा इत्येवमादीनि कानिचिदेव आख्यानानि तत्र विशेष्यन्ते आख्यानसामान्याच्चेत् सर्वगृहीतिः स्यात् अनर्थकमेवेदं विशेषणं भवेत्। तस्मात् न पारिप्लवार्था एता आख्यानश्रुतयः।।

तथा चैकवाक्योपबन्धात् । ( ब्रसू-३,४.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

असति च पारिप्लवार्थत्वे आख्यानानां संनिहितविद्याप्रतिपादनोपयोगितैव न्याय्या एकवाक्यतोपबन्धात् तथा हि तत्र तत्र संनिहिताभिर्विद्याभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात् प्रतिपत्तिसौकर्योपयोगाच्च मैत्रेयीब्राह्मणे तावत् आत्मा वा अरे द्रष्टव्यः इत्याद्यया विद्यया एकवाक्यता दृश्यते प्रातर्दनेऽपि प्राणोऽस्मि प्रज्ञात्मा इत्याद्यया जानश्रुतिः इत्यत्रापि वायुर्वाव संवर्गः इत्याद्यया यथा स आत्मनो वपामुदखिदत् इत्येवमादीनां कर्मश्रुतिगतानामाख्यानानां संनिहितविधिस्तुत्यर्थता तद्वत्। तस्मान्न पारिप्लवार्थत्वम्।।

अग्नीन्धनाद्यधिकरणम्

[सम्पाद्यताम्]

अत एव चाग्नीन्धनाद्यनपेक्षा । ( ब्रसू-३,४.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

पुरुषार्थोऽतः शब्दात् इत्येतत् व्यवहितमपि संभवात् अतः इति परामृश्यते। अत एव च विद्यायाः पुरुषार्थहेतुत्वात् अग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति आद्यस्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया।।

सर्वापेक्षाधिकरणम्

[सम्पाद्यताम्]

सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् । ( ब्रसू-३,४.२६ । )

भाष्यम्

शाङ्करभाष्यम्॥

इदमिदानीं चिन्त्यते किं विद्याया अत्यन्तमेवानपेक्षा आश्रमकर्मणाम् उत अस्ति काचिदपेक्षेति। तत्र अत एवाग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्ष्यन्ते एवमत्यन्तमेवानपेक्षायां प्राप्तायाम् इदमुच्यते सर्वापेक्षा चेति अपेक्षते च विद्या सर्वाण्याश्रमकर्माणि नात्यन्तमनपेक्षैव। ननु विरुद्धमिदं वचनम् अपेक्षते च आश्रमकर्माणि विद्या नापेक्षते चेति। नेति ब्रूमः उत्पन्ना हि विद्या फलसिद्धिं प्रति न किंचिदन्यदपेक्षते उत्पत्तिं प्रति तु अपेक्षते कुतः यज्ञादिश्रुतेः तथा हि श्रुतिः तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति यज्ञादीनां विद्यासाधनभावं दर्शयति विविदिषासंयोगाच्चैषामुत्पत्तिसाधनभावोऽवसीयते अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत् इत्यत्र च विद्यासाधनभूतस्य ब्रह्मचर्यस्य यज्ञादिभिः संस्तवात् यज्ञादीनामपि हि साधनभावः सूच्यते सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि इत्येवमाद्या च श्रुतिः आश्रमकर्मणां विद्यासाधनभावं सूचयति स्मृतिरपि कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः। कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते इत्येवमाद्या। अश्ववदिति योग्यतानिदर्शनम् यथा च योग्यतावशेन अश्वो न लाङ्गलाकर्षणे युज्यते रथचर्यायां तु युज्यते एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्ते उत्पत्तौ च अपेक्ष्यन्त इति।।

शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् । ( ब्रसू-३,४.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदि कश्चिन्मन्येत यज्ञादीनां विद्यासाधनभावो न न्याय्यः विध्यभावात् यज्ञेन विविदिषन्ति इत्येवंजातीयका हि श्रुतिः अनुवादस्वरूपा विद्याभिष्टवपरा न यज्ञादिविधिपरा इत्थं महाभागा विद्या यत् यज्ञादिभिरेतामवाप्तुमिच्छन्तीति तथापि तु शमदमाद्युपेतः स्यात् विद्यार्थी तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति इति विद्यासाधनत्वेन शमदमादीनां विधानात् विहितानां च अवश्यानुष्ठेयत्वात्। ननु अत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते न विधिः नेति ब्रूमः तस्मात् इति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः पश्येत् इति च माध्यंदिना विस्पष्टमेव विधिमधीयते। तस्मात् यज्ञाद्यनपेक्षायामपि शमादीन्यपेक्षितव्यानि। यज्ञादीन्यपि तु अपेक्षितव्यानि यज्ञादिश्रुतेरेव। ननु उक्तम् यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति सत्यमुक्तम् तथापि तु अपूर्वत्वात्संयोगस्य विधिः परिकल्प्यते न हि अयं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तः येनानूद्येत तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि इत्येवमादिषु च अश्रुतविधिकेष्वपि वाक्येषु अपूर्वत्वाद्विधिं परिकल्प्य पौष्णं पेषणं विकृतौ प्रतीयेत इत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः तथा च उक्तम् विधिर्वा धारणवत् इति। स्मृतिष्वपि भगवद्गीताद्यासु अनभिसंधाय फलम् अनुष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम्। तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येव आश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि। तत्रापि एवंवित् इति विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि विविदिषासंयोगात्तु बाह्यतराणि यज्ञादीनीति विवेक्तव्यम्।।

सर्वान्नानुमित्यधिकरणम्

[सम्पाद्यताम्]

सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् । ( ब्रसू-३,४.२८ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्राणसंवादे श्रूयते छन्दोगानाम् न ह वा एवंविदि किंचनानन्नं भवति इति तथा वाजसनेयिनाम् न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतम् इति सर्वमस्यादनीयमेव भवतीत्यर्थः। किमिदं सर्वान्नानुज्ञानं शमादिवत् विद्याङ्गं विधीयते उत स्तुत्यर्थं संकीर्त्यत इति संशये विधिरिति तावत्प्राप्तम् तथा हि प्रवृत्तिविशेषकर उपदेशो भवति अतः प्राणविद्यासंनिधानात् तदङ्गत्वेन इयं नियमनिवृत्तिरुपदिश्यते। ननु एवं सति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात् नैष दोषः सामान्यविशेषभावात् बाधोपपत्तेः यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञपनविधिना बाधः यथा च न कांचन स्त्रियं परिहरेत्तद्व्रतम् इत्यनेन वामदेव्यविद्याविषयेण सर्वस्त्र्यपरिहारवचनेन सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यते एवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्येतेत्येवं प्राप्ते

ब्रूमः नेदं सर्वान्नानुज्ञानं विधीयत इति न हि अत्र विधायकः शब्द उपलभ्यते न ह वा एवंविदि किंचनानन्नं भवति इति वर्तमानापदेशात्। न च असत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते। अपि च श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वा इदमुच्यते नैवंविदः किंचिदनन्नं भवतीति न च श्वादिमर्यादमन्नं मानुषेण देहेनोपभोक्तुं शक्यते शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम्। तस्मात् प्राणान्नविज्ञानप्रशंसार्थोऽयमर्थवादः न सर्वान्नानुज्ञानविधिः। तद्दर्शयति सर्वान्नानुमतिश्च प्राणात्यये इति एतदुक्तं भवति प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते तद्दर्शनात् तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टायामवस्थायाम् अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति मटचीहतेषु कुरुषु इत्यस्मिन् ब्राह्मणे चाक्रायणः किल ऋषिः आपद्गतः इभ्येन सामिखादितान्कुल्माषांश्चखाद अनुपानं तु तदीयम् उच्छिष्टदोषात्प्रत्याचचक्षे कारणं चात्रोवाच न वा अजीविष्यमिमानखादन् इति कामो म उदपानम् इति च पुनश्च उत्तरेद्युः तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान् भक्षयांबभूव इति तदेतत् उच्छिष्टोच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यते प्राणात्ययप्रसङ्गे प्राणसंधारणाय अभक्ष्यमपि भक्षयितव्यमिति स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापि इत्यनुपानप्रत्याख्यानाद्गम्यते। तस्मात् अर्थवादः न ह वा एवंविदि इत्येवमादिः।।

अबाधाच् च । ( ब्रसू-३,४.२९ । )

भाष्यम्

शाङ्करभाष्यम्॥

एवं च सति आहारशुद्धौ सत्त्वशुद्धिः इत्येवमादि भक्ष्याभक्ष्यविभागशास्त्रम् अबाधितं भविष्यति।।

अपि स्मर्यते । ( ब्रसू-३,४.३० । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च आपदि सर्वान्नभक्षणमपि स्मर्यते विदुषोऽविदुषश्च अविशेषेण जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा इति। तथा मद्यं नित्यं ब्राह्मणः सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात् इति च स्मर्यते वर्जनमनन्नस्य।।

शब्दश् चातोऽकामकारे । ( ब्रसू-३,४.३१ । )

भाष्यम्

शाङ्करभाष्यम्॥

शब्दश्च अनन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः कठानां संहितायां श्रूयते तस्माद्ब्राह्मणः सुरां न पिबेत् इति। सोऽपि न ह वा एवंविदि इत्यस्यार्थवादत्वात् उपपन्नतरो भवति। तस्मादेवंजातीयका अर्थवादा न विधय इति।।

आश्रयाधिकरणम्

[सम्पाद्यताम्]

विहितत्वाच् चाऽश्रमकर्मापि । ( ब्रसू-३,४.३२ । )

भाष्यम्

शाङ्करभाष्यम्॥

सर्वापेक्षा च इत्यत्र आश्रमकर्मणां विद्यासाधनत्वमवधारितम् इदानीं तु किममुमुक्षोरप्याश्रममात्रनिष्ठस्य विद्यामकामयमानस्य तान्यनुष्ठेयानि उताहो नेति चिन्त्यते। तत्र तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति इत्यादिना आश्रमकर्मणां विद्यासाधनत्वेन विहितत्वात् विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्यान्यननुष्ठेयानि अथ तस्याप्यनुष्ठेयानि न तर्हि एषां विद्यासाधनत्वम् नित्यानित्यसंयोगविरोधात् इत्यस्यां प्राप्तौ पठति आश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि यावज्जीवमग्निहोत्रं जुहोति इत्यादिना विहितत्वात् न हि वचनस्यातिभारो नाम कश्चिदस्ति।।

अथ यदुक्तम् नैवं सति विद्यासाधनत्वमेषां स्यादिति अत उत्तरं पठति

सहकारित्वेन च । ( ब्रसू-३,४.३३ । )

भाष्यम्

शाङ्करभाष्यम्॥

विद्यासहकारीणि च एतानि स्युः विहितत्वादेव तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति इत्यादिना तदुक्तम् सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् इति। न चेदं विद्यासहकारित्ववचनमाश्रमकर्मणां प्रयाजादिवत् विद्याफलविषयं मन्तव्यम् अविधिलक्षणत्वाद्विद्यायाः असाध्यत्वाच्च विद्याफलस्य विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरम् अपेक्षते नैवं विद्या तथा चोक्तम् अत एव चाग्नीन्धनाद्यनपेक्षा इति तस्मादुत्पत्तिसाधनत्व एव एषां सहकारित्ववाचोयुक्तिः। न च अत्र नित्यानित्यसंयोगविरोध आशङ्क्यः कर्माभेदेऽपि संयोगभेदात् नित्यो हि एकः संयोगो यावज्जीवादिवाक्यकल्पितः न तस्य विद्याफलत्वम् अनित्यस्तु अपरः संयोगः तमेतं वेदानुवचनेन इत्यादिवाक्यकल्पितः तस्य विद्याफलत्वम् यथा एकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वम् अनित्येन संयोगेन पुरुषार्थत्वम् तद्वत्।।

सर्वथापि त एवोभयलिङ्गात् । ( ब्रसू-३,४.३४ । )

भाष्यम्

शाङ्करभाष्यम्॥

सर्वथापि आश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च त एव अग्निहोत्रादयो धर्मा अनुष्ठेयाः। त एव इत्यवधारयन्नाचार्यः किं निवर्तयति कर्मभेदशङ्कामिति ब्रूमः यथा कुण्डपायिनामयने मासमग्निहोत्रं जुह्वति इत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते नैवमिह कर्मभेदोऽस्तीत्यर्थः। कुतः उभयलिङ्गात् श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च। श्रुतिलिङ्गं तावत् तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ्क्ते न तु जुह्वति इत्यादिवत् अपूर्वमेषां रूपमुत्पादयतीति। स्मृतिलिङ्गमपि अनाश्रितः कर्मफलं कार्यं कर्म करोति यः इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति यस्यैतेऽष्टाचत्वारिंशत्संस्काराः इत्याद्या च संस्कारत्वप्रसिद्धिः वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति। तस्मात्साध्विदम् अभेदावधारणम्।।

अनभिभवं च दर्शयति । ( ब्रसू-३,४.३५ । )

भाष्यम्

शाङ्करभाष्यम्॥

सहकारित्वस्यैव एतदुपोद्बलकं लिङ्गदर्शनम्। अनभिभवं च दर्शयति श्रुतिः ब्रह्मचर्यादिसाधनसंपन्नस्य रागादिभिः क्लेशैः एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते इत्यादिना। तस्मात् यज्ञादीन्याश्रमकर्माणि च भवन्ति विद्यासहकारीणि चेति स्थितम्।।

विधुराधिकरणम्

[सम्पाद्यताम्]

अन्तरा चापि तु तद्दृष्टेः । ( ब्रसू-३,४.३६ । )

भाष्यम्

शाङ्करभाष्यम्॥

विधुरादीनां द्रव्यादिसंपद्रहितानां च अन्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति किंवा नास्ति इति संशये नास्तीति तावत्प्राप्तम् आश्रमकर्मणां विद्याहेतुत्वावधारणात् आश्रमकर्मासंभवाच्चैतेषाम् इत्येवं प्राप्ते इदमाह अन्तरा चापि तु अनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियते कुतः तद्दृष्टेः रैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मवित्त्वश्रुत्युपलब्धेः।।

अपि स्मर्यते । ( ब्रसू-३,४.३७ । )

भाष्यम्

शाङ्करभाष्यम्॥

संवर्तप्रभृतीनां च नग्नचर्यादियोगात् अनपेक्षिताश्रमकर्मणामपि महायोगित्वं स्मर्यत इतिहासे।।

ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमुपन्यस्तम् का नु खलु प्राप्तिरिति सा अभिधीयते

विशेषानुग्रहश् च । ( ब्रसू-३,४.३८ । )

भाष्यम्

शाङ्करभाष्यम्॥

तेषामपि च विधुरादीनाम् अविरुद्धैः पुरुषमात्रसंबन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः संभवति। तथा च स्मृतिः जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते इति असंभवदाश्रमकर्मणोऽपि जप्येऽधिकारं दर्शयति। जन्मान्तरानुष्ठितैरपि च आश्रमकर्मभिः संभवत्येव विद्याया अनुग्रहः तथा च स्मृतिः अनेकजन्मसंसिद्धस्ततो याति परां गतिम् इति जन्मान्तरसंचितानपि संस्कारविशेषान् अनुग्रहीतृ़न् विद्यायां दर्शयति। दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणापि अर्थिनमधिकरोति श्रवणादिषु। तस्मात् विधुरादीनामप्यधिकारो न विरुध्यते।।

अतस् त्व् इतरज्ज्यायो लिङ्गाच् च । ( ब्रसू-३,४.३९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अतस्तु अन्तरालवर्तित्वात् इतरत् आश्रमवर्तित्वं ज्यायो विद्यासाधनम् श्रुतिस्मृतिसंदृब्धत्वात् श्रुतिलिङ्गाच्च तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च इति अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः। संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत् इति च स्मृतिलिङ्गात्।।

तद्भूताधिकरणम्

[सम्पाद्यताम्]

तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः । ( ब्रसू-३,४.४० । )

भाष्यम्

शाङ्करभाष्यम्॥

सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् तांस्तु प्राप्तस्य कथंचित् ततः प्रच्युतिरस्ति नास्ति वेति संशयः। पूर्वधर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते उच्यते तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथंचिदपि अतद्भावः न ततः प्रच्युतिः स्यात् कुतः नियमातद्रूपाभावेभ्यः। तथा हि अत्यन्तमात्मानमाचार्यकुलेऽवसादयन् इति अरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत् इति आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम्। आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति। यथा च ब्रह्मचर्यं समाप्य गृही भवेत् ब्रह्मचर्यादेव प्रव्रजेत् इति च एवमादीनि आरोहरूपाणि वचांस्युपलभ्यन्ते नैवं प्रत्यवरोहरूपाणि। न चैवमाचाराः शिष्टा विद्यन्ते। यत्तु पूर्वधर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति तदसत् श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् इति स्मरणात् न्यायाच्च यो हि यं प्रति विधीयते स तस्य धर्मः न तु यो येन स्वनुष्ठातुं शक्यते चोदनालक्षणत्वाद्धर्मस्य। न च रागादिवशात्प्रच्युतिः नियमशास्त्रस्य बलीयस्त्वात्। जैमिनेरपीति अपिशब्देन जैमिनिबादरायणयोरत्र संप्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय।

आधिकारिकाधिकरणम्

[सम्पाद्यताम्]

न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् । ( ब्रसू-३,४.४१ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत किं तस्य ब्रह्मचार्यवकीर्णी नैऋर््तं गर्दभमालभेत इत्येतत्प्रायश्चित्तं स्यात् उत नेति। नेत्युच्यते यदपि अधिकारलक्षणे निर्णीतं प्रायश्चित्तम् अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात् इति तदपि न नैष्ठिकस्य भवितुमर्हति किं कारणम् आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः। प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा इति अप्रतिसमाधेयपतनस्मरणात् छिन्नशिरस इव प्रतिक्रियानुपपत्तेः उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम्।।

उपपूर्वम् अपीत्य् एके भावमशनवत् तद् उक्तम् । ( ब्रसू-३,४.४२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि तु एके आचार्या उपपातकमेवैतदिति मन्यन्ते यत् नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रह्मचर्यं विशीर्येत न तत् महापातकं भवति गुरुतल्पादिषु महापातकेष्वपरिगणनात् तस्मात् उपकुर्वाणवत् नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति ब्रह्मचारित्वाविशेषात् अवकीर्णित्वाविशेषाच्च अशनवत् यथा ब्रह्मचारिणो मधुमांसाशाने व्रतलोपः पुनः संस्कारश्च एवमिति। ये हि प्रायश्चित्तस्याभावमिच्छन्ति तेषां न मूलमुपलभ्यते ये तु भावमिच्छन्ति तेषां ब्रह्मचार्यवकीर्णी इत्येतदविशेषश्रवणं मूलम् तस्मात् भावो युक्ततरः तदुक्तं प्रमाणलक्षणे समा विप्रतिपत्तिः स्यात् शास्त्रस्था वा तन्निमित्तत्वात् इति प्रायश्चित्ताभावस्मरणं तु एवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम्। एवं भिक्षुवैखानसयोरपि वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत् भिक्षुर्वानप्रस्थवत्सोमवृद्धिवर्जं स्वशास्त्रसंस्कारश्च इत्येवमादि प्रायश्चित्तस्मरणम् अनुसर्तव्यम्।।

बहिरधिकरणम्

[सम्पाद्यताम्]

बहिस् तूभयथापि स्मृतेर् आचाराच् च । ( ब्रसू-३,४.४३ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदि ऊर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम् यदि वा उपपातकम् उभयथापि शिष्टैस्ते बहिष्कर्तव्याः आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः। प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा इति आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम्। उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत् इति च एवमादिनिन्दातिशयस्मृतिभ्यः शिष्टाचाराच्च न हि यज्ञाध्ययनविवाहादीनि तैः सह आचरन्ति शिष्टाः।।

स्वाम्यधिकरणम्

[सम्पाद्यताम्]

स्वामिनः फलश्रुतेर् इत्य् आत्रेयः । ( ब्रसू-३,४.४४ । )

भाष्यम्

शाङ्करभाष्यम्॥

अङ्गेषूपासनेषु संशयः किं तानि यजमानकर्माणि आहोस्वित् ऋत्विक्कर्माणीति। किं तावत्प्राप्तम् यजमानकर्माणीति कुतः फलश्रुतेः फलं हि श्रूयते वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधं सामोपास्ते इत्यादि तच्च स्वामिगामि न्याय्यम् तस्य साङ्गे प्रयोगेऽधिकृतत्वात् अधिकृताधिकारत्वाच्च एवंजातीयकस्य फलं च कर्तरि उपासनानां श्रूयते वर्षत्यस्मै य उपास्ते इत्यादि। ननु ऋत्विजोऽपि फलं दृष्टम् आत्मने वा यजमानाय वा यं कामं कामयते तमागायति इति न तस्य वाचनिकत्वात्। तस्मात् स्वामिन एव फलवत्सु उपासनेषु कर्तृत्वम् इत्यात्रेय आचार्यो मन्यते।।

आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते । ( ब्रसू-३,४.४५ । )

भाष्यम्

शाङ्करभाष्यम्॥

नैतदस्ति स्वामिकर्माण्युपासनानीति ऋत्विक्कर्माण्येतानि स्युः इत्यौडुलोमिराचार्यो मन्यते किं कारणम् तस्मै हि साङ्गाय कर्मणे यजमानेन ऋत्विक् परिक्रियते तत्प्रयोगान्तःपातीनि च उद्गीथाद्युपासनानि अधिकृताधिकारत्वात् तस्मात् गोदोहनादिनियमवदेव ऋत्विग्भिर्निर्वर्त्येरन् तथा च तं ह बको दाल्भ्यो विदांचकार स ह नैमिशीयानामुद्गाता बभूव इत्युद्गातृकर्तृकतां विज्ञानस्य दर्शयति। यत्तूक्तं कर्त्राश्रयं फलं श्रूयत इति नैष दोषः परार्थत्वादृत्विजः अन्यत्र वचनात् फलसंबन्धानुपपत्तेः।।

सहकार्यन्तरविध्यधिकरणम्

[सम्पाद्यताम्]

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । ( ब्रसू-३,४.४६ । )

भाष्यम्

शाङ्करभाष्यम्॥

तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः इति बृहदारण्यके श्रूयते। तत्र संशयः मौनं विधीयते न वेति। न विधीयत इति तावत्प्राप्तम् बाल्येन तिष्ठासेत् इत्यत्रैव विधेरवसितत्वात् न हि अथ मुनिः इत्यत्र विधायिका विभक्तिरुपलभ्यते तस्मादयमनुवादो युक्तः कुतः प्राप्तिरिति चेत् मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात् पाण्डित्यं निर्विद्य इत्येवं प्राप्तं मौनम्। अपि च अमौनं च मौनं च निर्विद्याथ ब्राह्मणः इत्यत्र तावत् न ब्राह्मणत्वं विधीयते प्रागेव प्राप्तत्वात् तस्मात् अथ ब्राह्मणः इति प्रशंसावादः तथैव अथ मुनिः इत्यपि भवितुमर्हति समाननिर्देशत्वादित्येवं प्राप्ते

ब्रूमः सहकार्यन्तरविधिरिति। विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेव आश्रयितव्यः अपूर्वत्वात्। ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् नैष दोषः मुनिशब्दस्य ज्ञानातिशयार्थत्वात् मननान्मुनिरिति च व्युत्पत्तिसंभवात् मुनीनामप्यहं व्यासः इति च प्रयोगदर्शनात्। ननु मुनिशब्द उत्तमाश्रमवचनोऽपि श्रूयते गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम् इत्यत्र न वाल्मीकिर्मुनिपुंगवः इत्यादिषु व्यभिचारदर्शनात् इतराश्रमसंनिधानात्तु पारिशेष्यात् तत्र उत्तमाश्रमोपादानम् ज्ञानप्रधानत्वादुत्तमाश्रमस्य। तस्मात् बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते। यत्तु बाल्य एव विधिपर्यवसानमिति तथापि अपूर्वत्वान्मुनित्वस्य विधेयत्वमाश्रीयते मुनिः स्यादिति निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम्। तद्वतः विद्यावतः संन्यासिनः कथं च विद्यावतः संन्यासिन इत्यवगम्यते तदधिकारात् आत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थाय अथ भिक्षाचर्यं चरन्ति इति। ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः किं मौनविधिना इत्यत आह पक्षेणेति। एतदुक्तं भवति यस्मिन्पक्षे भेददर्शनप्राबल्यात् न प्राप्नोति तस्मिन् एष विधिरिति। विध्यादिवत् यथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इत्येवंजातीयके विध्यादौ सहकारित्वेन अग्न्यन्वाधानादिकम् अङ्गजातं विधीयते एवम् अविधिप्रधानेऽपि अस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः।।

एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने कस्मात् छान्दोग्ये गृहिणा उपसंहारः अभिसमावृत्य कुटुम्बे इत्यत्र तेन हि उपसंहरन् तद्विषयमादरं दर्शयति इत्यत उत्तरं पठति

कृत्स्नभावात् तु गृहिणोपसंहारः । ( ब्रसू-३,४.४७ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दो विशेषणार्थः कृत्स्नभावोऽस्य विशेष्यते बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टानि आश्रमान्तरकर्माणि च यथासंभवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते। तस्मात् गृहमेधिना उपसंहारो न विरुध्यते।।

मौनवद् इतरेषाम् अप्य् उपदेशात् । ( ब्रसू-३,४.४८ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा मौनं गार्हस्थ्यं च एतावाश्रमौ श्रुतिमन्तौ एवमितरावपि वानप्रस्थगुरुकुलावासौ दर्शिता हि पुरस्ताच्छ्रुतिः तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः इत्याद्या। तस्मात् चतुर्णामप्याश्रमाणाम् उपदेशाविशेषात् तुल्यवत् विकल्पसमुच्चयाभ्यां प्रतिपत्तिः। इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षया अनुष्ठातृभेदापेक्षया वा इति द्रष्टव्यम्।।

अनाविष्काराधिकरणम्

[सम्पाद्यताम्]

अनाविष्कुर्वन्न् अन्वयात् । ( ब्रसू-३,४.४९ । )

भाष्यम्

शाङ्करभाष्यम्॥

तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् इति बाल्यमनुष्ठेयतया श्रूयते तत्र बालस्य भावः कर्म वा बाल्यमिति तद्धिते सति बालभावस्य वयोविशेषस्य इच्छया संपादयितुमशक्यत्वात् यथोपपादमूत्रपुरीषत्वादि बालचरितम् अन्तर्गता वा भावविशुद्धिः अप्ररूढेन्द्रियत्वं दम्भादिरहितत्वं वा बाल्यं स्यादिति संशयः। किं तावत्प्राप्तम् कामचारवादभक्षता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम्। ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् न विद्यावतः संन्यासिनो वचनसामर्थ्यात् दोषनिवृत्तिः पशुहिंसादिष्विवेत्येवं प्राप्ते

अभिधीयते न वचनस्य गत्यन्तरसंभवात् अविरुद्धे हि अन्यस्मिन् बाल्यशब्दाभिलप्ये लभ्यमाने न विध्यन्तरव्याघातकल्पना युक्ता प्रधानोपकाराय च अङ्गं विधीयते ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् न च सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः संभाव्यते तस्मात् आन्तरो भावविशेषो बालस्य अप्ररूढेन्द्रियत्वादिः इह बाल्यमाश्रीयते तदाह अनाविष्कुर्वन्निति। ज्ञानाध्ययनधार्मिकत्वादिभिः आत्मानमविख्यापयन् दम्भदर्पादिरहितो भवेत् यथा बालः अप्ररूढेन्द्रियतया न परेषाम् आत्मानमाविष्कर्तुमीहते तद्वत्। एवं हि अस्य वाक्यस्य प्रधानोपकार्यर्थानुगम उपपद्यते तथा च उक्तं स्मृतिकारैः यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम्। न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः।। गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत्। अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् अव्यक्तलिङ्गोऽव्यक्ताचारः इति चैवमादि।।

ऐहिकाधिकरणम्

[सम्पाद्यताम्]

ऐहिकम् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ( ब्रसू-३,४.५० । )

भाष्यम्

शाङ्करभाष्यम्॥

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् इत्यत आरभ्य उच्चावचं विद्यासाधनमवधारितम् तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति उत कदाचित् अमुत्रापीति चिन्त्यते। किं तावत्प्राप्तम् इहैवेति किं कारणम् श्रवणादिपूर्विका हि विद्या न च कश्चित् अमुत्र मे विद्या जायतामित्यनुसंधाय श्रवणादिषु प्रवर्तते समान एव तु जन्मनि विद्याजन्म अभिसंधाय एतेषु प्रवर्तमानो दृश्यते। यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति प्रमाणजन्यत्वाद्विद्यायाः। तस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते

वदामः ऐहिकं विद्याजन्म भवति असति प्रस्तुतप्रतिबन्ध इति। एतदुक्तं भवति यदा प्रक्रान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो न क्रियते उपस्थितविपाकेन कर्मान्तरेण तदा इहैव विद्या उत्पद्यते यदा तु खलु तत्प्रतिबन्धः क्रियते तदा अमुत्रेति। उपस्थितविपाकत्वं च कर्मणो देशकालनिमित्तोपनिपाताद्भवति यानि च एकस्य कर्मणो विपाचकानि देशकालनिमित्तानि तान्येव अन्यस्यापीति न नियन्तुं शक्यते यतो विरुद्धफलान्यपि कर्माणि भवन्ति। शास्त्रमपि अस्य कर्मण इदं फलमित्येतावति पर्यवसितं न देशकालनिमित्तविशेषमपि संकीर्तयति। साधनवीर्यविशेषात्तु अतीन्द्रिया कस्यचिच्छक्तिराविर्भवति तत्प्रतिबद्धा परस्य तिष्ठति। न च अविशेषेण विद्यायाम् अभिसंधिर्नोत्पद्यते इह अमुत्र वा मे विद्या जायतामिति अभिसंधेर्निरङ्कुशत्वात्। श्रवणादिद्वारेणापि विद्या उत्पद्यमाना प्रतिबन्धक्षयापेक्षयैव उत्पद्यते। तथा च श्रुतिः दुर्बोधत्वमात्मनो दर्शयति श्रवणायापि बहुभिर्यो न लभ्यः श्रृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः इति। गर्भस्थ एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तरसंचितात् साधनात् जन्मान्तरे विद्योत्पत्तिं दर्शयति न हि गर्भस्थस्यैव ऐहिकं किंचित्साधनं संभाव्यते। स्मृतावपि अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति इत्यर्जुनेन पृष्टो भगवान्वासुदेवः न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति इत्युक्त्वा पुनस्तस्य पुण्यलोकप्राप्तिं साधुकुले संभूतिं च अभिधाय अनन्तरम् तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् इत्यादिना अनेकजन्मसंसिद्धस्ततो याति परां गतिम् इत्यन्तेन एतदेव दर्शयति। तस्मात् ऐहिकम् आमुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम्।।

मुक्तिफलाधिकरणम्

[सम्पाद्यताम्]

एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः । ( ब्रसू-३,४.५१ । )

भाष्यम्

शाङ्करभाष्यम्॥

यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमः स्यात् इत्याशङ्क्य आह मुक्तिफलानियम इति। न खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यः कुतः तदवस्थावधृतेः मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैव अवधार्यते ब्रह्मैव हि मुक्त्यवस्था न च ब्रह्मणोऽनेकाकारयोगोऽस्ति एकलिङ्गत्वावधारणात् अस्थूलमनणु स एष नेति नेत्यात्मा यत्र नान्यत्पश्यति ब्रह्मैवेदममृतं पुरस्तात् इदं सर्वं यदयमात्मा स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिश्रुतिभ्यः। अपि च विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कंचिदतिशयमासञ्जयेत् न विद्याफले मुक्तौ तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यत इत्यसकृदवादिष्म। न च तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते निकृष्टाया विद्यात्वाभावात् उत्कृष्टैव हि विद्या भवति तस्मात् तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन् भवेत्। न तु मुक्तौ कश्चित् अतिशयसंभवोऽस्ति। विद्याभेदाभावादपि तत्फलभेदनियमाभावः कर्मफलवत् न हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्ति। सगुणासु तु विद्यासु मनोमयः प्राणशरीरः इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्याम् उपपद्यते यथास्वं फलभेदनियमः कर्मफलवत् तथा च लिङ्गदर्शनम् तं यथा यथोपासते तदेव भवति इति नैवं निर्गुणायां विद्यायाम् गुणाभावात् तथा च स्मृतिः न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम् इति। तदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये तृतीयोऽध्यायः।।