सामग्री पर जाएँ

ब्रह्मसूत्रम्/तृतीयः अध्यायः/प्रथमः पादः

विकिस्रोतः तः
ब्रह्मसूत्रम्
तृतीयाध्याये प्रथमः पादः
वेदव्यासः
द्वितीयः पादः →

तदन्तरप्रतिपत्य्धधिकरणम्

[सम्पाद्यताम्]

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् । ( ब्रसू-३,१.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति। तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ देहबीजैर्भूतसूक्ष्मैः संपरिष्वक्तः रंहति गच्छति इत्यवगन्तव्यम् कुतः प्रश्ननिरूपणाभ्याम् तथा हि प्रश्नः वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति निरूपणं च प्रतिवचनम् द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्च आहुतीर्दर्शयित्वा इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते। नन्वन्या श्रुतिः जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति तद्यथा तृणजलायुका इति तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकयोपमीयत इत्यविरोधः। एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पनाः व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने उत्पद्यन्ते मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुक इव वृक्षाद्वृक्षान्तरम् इत्येवमाद्याः ताः सर्वा एव अनादर्तव्याः श्रुतिविरोधात्।।

ननु उदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहतीति प्राप्नोति अप्शब्दश्रवणसामर्थ्यात् तत्र कथं सामान्येन प्रतिज्ञायते सर्वैरेव भूतसूक्ष्मैः संपरिष्वक्तो रंहतीति अत उत्तरं पठति

त्र्यात्मकत्वात् तु भूयस्त्वात् । ( ब्रसू-३,१.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्देन चोदितामाशङ्कामुच्छिनत्ति। त्र्यात्मिका हि आपः त्रिवृत्करणश्रुतेः तास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति। त्र्यात्मकश्च देहः त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः। पुनश्च त्र्यात्मकः त्रिधातुत्वात् त्रिभिर्वातपित्तश्लेष्मभिः न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते। तस्माद्भूयस्त्वापेक्षोऽयम् आपः पुरुषवचसः इति प्रश्नप्रतिवचनयोरप्शब्दः न कैवल्यापेक्षः सर्वदेहेषु हि रसलोहितादिद्रवभूयस्त्वं दृश्यते। ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलभ्यते नैष दोषः इतरापेक्षया अपां बाहुल्यं भविष्यति दृश्यते च शुक्रशोणितलक्षणेऽपि देहबीजे द्रवबाहुल्यम्। कर्म च निमित्तकारणं देहान्तरारम्भे कर्माणि च अग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि कर्मसमवायिन्यश्च आपः श्रद्धाशब्दोदिताः सह कर्मभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति तस्मादप्यपां बाहुल्यप्रसिद्धिः। बाहुल्याच्च अप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम्।।

प्राणगतेश् च । ( ब्रसू-३,१.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इत्यादिश्रुतिभिः सा च प्राणानां गतिर्नाश्रयमन्तरेण संभवतीत्यतः प्राणगतिप्रयुक्ता तदाश्रयभूतानामपामपि भूतान्तरोपसृष्टानां गतिरर्थादवगम्यते न हि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतो दर्शनात्।।

अग्न्यादिश्रुतेर् इति चेन् न भाक्तत्वात् । ( ब्रसू-३,१.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति अग्न्यादिगतिश्रुतेः तथा हि श्रुतिः मरणकाले वागादयः प्राणा अग्न्यादीन्देवान्गच्छन्तीति दर्शयति यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः इत्यादिना इति चेत् न भाक्तत्वात् वागादीनामग्न्यादिगतिश्रुतिर्गौणी लोमसु केशेषु च अदर्शनात् ओषधीर्लोमानि वनस्पतीन्केशाः इति हि तत्राम्नायते न हि लोमानि केशाश्चोत्प्लुत्य ओषधीर्वनस्पतींश्च गच्छन्तीति संभवति न च जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्पते नापि प्राणैर्विना देहान्तरे उपभोग उपपद्यते विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाले उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते।।

प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः । ( ब्रसू-३,१.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् कथं पुनःपञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इत्येतत् निर्धारयितुं पार्यते यावता नैव प्रथमेऽग्नावपां श्रवणमस्ति इह हि द्युलोकप्रभृतयः पञ्चाग्न्यः पञ्चानामाहुतीनामाधारत्वेनाधीताः तेषां च प्रमुखेअसौ वाव लोको गौतमाग्निः इत्युपन्यस्यतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति इति श्रद्धा होम्यद्रव्यत्वेन आवेदिता न तत्र आपो होम्यद्रव्यतया श्रुताः यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां होम्यद्रव्यता परिकल्प्येत परिकल्प्यतां नाम तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्य अश्रुता आपः परिकल्प्यन्त इति साहसमेतत् श्रद्धा च नाम प्रत्ययविशेषः प्रसिद्धिसामर्थ्यात् तस्मादयुक्तः पञ्चम्यामाहुतावपां पुरुषभाव इति चेत्

नैष दोषः हि यतः तत्रापि प्रथमेऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते कुतः उपपत्तेः एवं ह्यादिमध्यावसानसंगानात् अनाकुलमेतदेकवाक्यमुपपद्यते इतरथा पुनः पञ्चम्यामाहुतौ अपां पुरुषवचस्त्वप्रकारे पृष्टे प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावतारयेत् ततः अन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात्।इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति च उपसंहरन् एतदेव दर्शयति। श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते सा च श्रद्धाया अप्त्वे युक्तिः। कारणानुरूपं हि कार्यं भवति। न च श्रद्धाख्यः प्रत्ययः मनसो जीवस्य वा धर्मः सन् धर्मिणो निष्कृष्य होमायोपादातुं शक्यते पश्वादिभ्य इव हृदयादीनि इति आप एव श्रद्धाशब्दा भवेयुः। श्रद्धाशब्दश्चाप्सूपपद्यते वैदिकप्रयोगदर्शनात् श्रद्धा वा आपः इति। तनुत्वं श्रद्धासारूप्यं गच्छन्ति आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः यथा सिंहपराक्रमो नरः सिंहशब्दो भवति। श्रद्धापूर्वककर्मसमवायाच्च अप्सु श्रद्धाशब्द उपपद्यते मञ्चशब्द इव पुरुषेषु श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिःआपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे इति श्रुतेः।।

अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः । ( ब्रसू-३,१.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथापि स्यात् प्रश्नप्रतिवचनाभ्यां नाम आपः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन् न तु तत्संपरिष्वक्ता जीवा रंहेयुः अश्रुतत्वात् न ह्यत्र अपामिव जीवानां श्रावयिता कश्चिच्छब्दोऽस्ति तस्मात्रंहति संपरिष्वक्तः इत्ययुक्तम् इति चेत् नैष दोषः कुतः इष्टादिकारिणां प्रतीतेः अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति इत्युपक्रम्य इष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयतिआकाशाच्चन्द्रमसमेष सोमो राजा इति त एवेहापि प्रतीयन्तेतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति इति श्रुतिसामान्यात्। तेषां च अग्निहोत्रदर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेव आपः सन्ति ता आहवनीये हुताः सूक्ष्मा आहुत्योऽपूर्वरूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति तेषां च शरीरं नैधनेन विधानेनान्त्येऽग्नावृत्विजो जुह्वति असौ स्वर्गाय लोकाय स्वाहा इति ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपोऽपूर्वरूपाः सत्यः तानिष्टादिकारिणो जीवान्परिवेष्ट्य अमुं लोकं फलदानाय नयन्तीति यत् तदत्र जुहोतिना अभिधीयते श्रद्धां जुह्वतीति। तथा च अग्निहोत्रे षट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेणते वा एते आहुती हुते उत्क्रामतः इत्येवमादिना अग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिर्दर्शिता। तस्मादाहुतीमयीभिरद्भिः संपरिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते।।

कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयति एष सोमो राजा तद्देवानामन्नं तं तेवा भक्षयन्ति इतिते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेतांस्तत्र भक्षयन्ति इति च समानविषयं श्रुत्यन्तरम् न च व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोगः संभवतीति अत उत्तरं पठति

भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति । ( ब्रसू-३,१.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

वाशब्दश्चोदितदोषव्यावर्तनार्थः। भाक्तमेषामन्नत्वम् न मुख्यम् मुख्ये ह्यन्नत्वेस्वर्गकामो यजेत इत्येवंजातीयकाधिकारश्रुतिरुपरुध्येत चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात् किमर्थमधिकारिण इष्टादि आयासबहुलं कर्म कुर्युः। अन्नशब्दश्चोपभोगहेतुत्वसामान्यात् अनन्नेऽप्युपचर्यमाणो दृश्यते यथा विशोऽन्नं राज्ञां पशवोऽन्नं विशामिति। तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानाम् तदेवैषां भक्षणमभिप्रेतम् न मोदकादिवच्चर्वणं निगरणं वा।न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति इति च देवानां चर्वणादिव्यापारं वारयति। तेषां च इष्टादिकारिणां देवान्प्रति गुणभावोपगतानामप्युपभोग उपपद्यते राजोपजीविनामिव परिजनानाम्। अनात्मवित्त्वाच्च इष्टादिकारिणां देवोपभोग्यभाव उपपद्यते तथा हि श्रुतिरनात्मविदां देवोपभोग्यतां दर्शयति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् इति स चास्मिन्नपि लोके इष्टादिभिः कर्मभिः प्रीणयन्पशुवद्देवानामुपकरोति अमुष्मिन्नपि लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवदेव देवानामुपकरोतीति गम्यते।।

अनात्मवित्त्वात् तथा हि दर्शयति इत्यस्य अपरा व्याख्या अनात्मविदो ह्येते केवलकर्मिण इष्टादिकारिणः न ज्ञानकर्मसमुच्चयानुष्ठायिनः पञ्चाग्निविद्यामिह आत्मविद्येत्युपचरन्ति प्रकरणात् पञ्चाग्निविद्याविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै पञ्चाग्निविद्येह विधित्सिता वाक्यतात्पर्यावगमात् तथा हि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति स सोमलोके विभूतिमनुभूय पुनरावर्तते इति तथा अन्यदपि श्रुत्यन्तरम्अथ ये शतं पितृ़णां जितलोकानामानन्दाः स एकः कर्म देवानामानन्दो ये कर्मणा देवत्वमभिसंपद्यन्ते इति इष्टादिकारिणां देवैः सह संवसतां भोगप्राप्तिं दर्शयति। एवं भाक्तत्वादन्नभाववचनस्य इष्टादिकारिणोऽत्र जीवा रंहन्तीति प्रतीयते। तस्मात्रंहति संपरिष्वक्तः इति युक्तमेवोक्तम्।।

कृतात्ययाधिकरणम्

[सम्पाद्यताम्]

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । ( ब्रसू-३,१.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते तस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम् इत्यारभ्य यावत् रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति। तत्रेदं विचार्यते किं निरनुशया भुक्तकृत्स्नकर्माणोऽवरोहन्ति आहोस्वित्सानुशया इति। किं तावत्प्राप्तम् निरनुशया इति कुतःयावत्संपातम् इति विशेषणात् संपातशब्देनात्र कर्माशय उच्यते संपतन्ति अनेन अस्माल्लोकात् अमुं लोकं फलोपभोगायेतियावत्संपातमुषित्वा इति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयतितेषां यदा तत्पर्यवैति इति च श्रुत्यन्तरेणैव एवार्थः प्रदर्श्यते। स्यादेतत् यावदमुष्िम्लोके उपभोक्तव्यं कर्म तावदुपभुङ्क्त इति कल्पयिष्यामीति नैवं कल्पयितुं शक्यतेयत्किंच इत्यन्यत्र परामर्शात् प्राप्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम्। तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे इति हि अपरा श्रुतिःयत्किंच इत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणः तत्र क्षयिततां दर्शयति। अपि च प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकम् प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः तच्च अविशेषाद्यावत्किंचिदनारब्धफलं तस्य सर्वस्याभिव्य़ञ्जकम् न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति न ह्यविशिष्टे प्रदीपसंनिधौ घटोऽभिव्यज्यते न पट इत्युपपद्यते। तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते

ब्रूमः कृतात्ययेऽनुशयवानिति। येन कर्मबृन्देन चन्द्रमसमारूढाः फलोपभोगाय तस्मिन्नुपभोगेन क्षयिते तेषां यदम्मयं शरीरं चन्द्रमस्युपभोगायारब्धम् तत् उपभोगक्षयदर्शनशोकाग्निसंपर्कात्प्रविलीयते सवितृकिरणसंपर्कादिवहिमकरकाः हुतभुगर्चिःसंपर्कादिव च घृतकाठिन्यम् ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति सानुशया एवेममवरोहन्ति केन हेतुना दृष्टस्मृतिभ्यामित्याह। तथा हि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा इति चरणशब्देनानुशयः सूच्यत इति वर्णयिष्यति। दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूप उपभोगः प्रविभज्यमान आकस्मिकत्वासंभवादनुशयसद्भावं सूचयति अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमितत्वात्। स्मृतिरपि वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते इति सानुशयानामेवावरोहं दर्शयति।।

कः पुनरनुशयो नामेति केचित्तावदाहुः स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते तथा अनुशयोऽपीति। ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम् नायं दोषः न हि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे। ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढाः बाढम् तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थानं न लभ्यते यथा किल कश्चित्सेवकः सकलैः सेवोपकरणैः राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति।।

न चैतद्युक्तमिव। न हि स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्यविरोधित्वात् इत्युक्तम्। नन्वेतदप्युक्तम् न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति तदेतदपेशलम् स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति स्वर्गच्युतस्यापि कंचित्फललेशं जनयतीति न शब्दप्रमाणकानामीदृशी कल्पना अवकल्पते स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते न त्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते नापि कल्पयितुं शक्यते स्वर्गफलत्वशास्त्रविरोधात्। अवश्यं चैतदेवं विज्ञेयम् न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्तमानोऽनुशय इति यदि हि येन सुकृतेन कर्मणा इष्टादिना स्वर्गमन्वभूवन् तस्यैव कश्चिदेकदेशोऽनुशयः कल्प्येत ततो रमणीय एवैकोऽनुशयः स्यात् न विपरीतः तत्रेयमनुशयविभागश्रुतिरुपरुध्येत तद्य इह रमणीयचरणाः

चरणाद् इति चेन् न तदुपलक्षणार्थेति कार्ष्णाजिनिः । ( ब्रसू-३,१.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथापि स्यात् या श्रुतिरनुशयसद्भावप्रतिपादनायोदाहृता तद्य इह रमणीयचरणाः इति सा खलु चरणात् योन्यापत्तिं दर्शयति नानुशयात् अन्यच्चरणम् अन्योऽनुशयः चरणं चारित्रम् आचारः शीलमित्यनर्थान्तरम् अनुशयस्तु भुक्तफलात्कर्मणोऽतिरिक्तं कर्म अभिप्रेतम् श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति यथाकारी यथाचारी तथा भवति इतियान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माक्ुचरितानि तानि त्वयोपास्यानि इति च तस्मात् चरणाद्योन्यापत्तिश्रुतेः नानुशयसिद्धिः इति चेत् नैष दोषः यतोऽनुशयोपलक्षणार्थैव एषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते।।

आनर्थक्यम् इति चेन् न तदपेक्षत्वात् । ( ब्रसू-३,१.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

स्यादेतत् कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिकः अनुशयः प्रत्याय्यते ननु शीलस्यैव श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति अवश्यं च शीलस्यापि किंचित्फलमभ्युपगन्तव्यम् अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येत इति चेत् नैष दोषः कुतः तदपेक्षत्वात् इष्टादि हि कर्मजातं चरणापेक्षम् न हि सदाचारहीनः कश्चिदधिकृतः स्यात् आचारहीनं न पुनन्ति वेदाः इत्यादिस्मृतिभ्यः। पुरुषार्थत्वेऽप्याचारस्य न आनर्थक्यम् इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कंचिदतिशयमारप्स्यते। कर्म च सर्वार्थकारि इति श्रुतिस्मृतिप्रसिद्धिः। तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् न हि कर्मणि संभवति शीलात् योन्यापत्तिर्युक्ता न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहि

सुकृतदुष्कृते एवेति तु बादरिः । ( ब्रसू-३,१.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते चरणम् अनुष्ठान कर्मेत्यनर्थान्तरम्। तथा हि अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते यो हि इष्टादिलक्षणं पुण्यं कर्म करोति तं लौकिका आचक्षते धर्मं चरत्येष महात्मेति। आचारोऽपि च धर्मविशेष एव। भेदव्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते। तस्मात् रमणीयचरणाः प्रशस्तकर्माणः कपूयचरणा निन्दितकर्माणः इति निर्णयः।।

अनिष्टादिकार्याधिकरणम्

[सम्पाद्यताम्]

अनिष्टादिकारिणाम् अपि च श्रुतम् । ( ब्रसू-३,१.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम्। ये त्वितरेऽनिष्टादिकारिणः तेऽपि किं चन्द्रमसं गच्छन्ति उत न गच्छन्तीति चिन्त्यते। तत्र तावदाह इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतत् न कस्मात् यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम्। तथा हि अविशेषेण कौषीतकिनः समामनन्ति ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति इति। देहारम्भोऽपि च पुनर्जायमानानां न अन्तरेण चन्द्रप्राप्तिम् अवकल्पतेपञ्चम्यामाहुतौ इत्याहुतिसंख्यानियमात्। तस्मात्सर्व एव चन्द्रमसमासीदेयुः। इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् न इतरेषां चन्द्रमण्डले भोगाभावात्।।

संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् । ( ब्रसू-३,१.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दः पक्षं व्यावर्तयति। नैतदस्ति सर्वे चन्द्रमसं गच्छन्तीति कस्मात् भोगायैव हि चन्द्रारोहणम् न निष्प्रयोजनम् नापि प्रत्यवरोहायैव यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानाय न निष्प्रयोजनम् नापि पतनायैव भोगश्च अनिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् तस्मादिष्टादिकारिण एव चन्द्रमसमारोहन्ति नेतरे। ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेव इमं लोकं प्रत्यवरोहन्ति एवंभूतौ तेषामारोहावरोहौ भवतः कुतः तद्गतिदर्शनात् तथा हि यमवचनसरूपा श्रुतिः प्रयताम् अनिष्टादिकारिणां यमवश्यतां दर्शयति न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्। अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे इति।वैवस्वतं संगमनं जनानाम् इत्येवंजातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति।।

स्मरन्ति च । ( ब्रसू-३,१.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु।।

अपि सप्त । ( ब्रसू-३,१.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः ताननिष्टादिकारिणः प्राप्नुवन्ति कुतस्ते चन्द्रं प्राप्नुयुः इत्यभिप्रायः।।

ननु विरुद्धमिदम् यमायत्ता यातनाः पापकर्माणोऽनुभवन्तीति यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति नेत्याह

तत्रापि तद्व्यापारादविरोधः । ( ब्रसू-३,१.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातारः स्मर्यन्ते।।

विद्याकर्मणोर् इति तु प्रकृतत्वात् । ( ब्रसू-३,१.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

पञ्चाग्निविद्यायाम्वेत्थ यथासौ लोको न संपूर्यते इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति। जायस्व म्रियस्त्वेत्येतत्तृतीयं स्थानं तेनासौ लोके न संपूर्यते इति। तत्र एतयोः पथोरिति विद्याकर्मणोरित्येतत् कस्मात् प्रकृतत्वात् विद्याकर्मणी हि देवयानपितृयाणयोः पथोः प्रतिपदे प्रकृते तद्य इत्थं विदुः इति विद्या तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितःइष्टापूर्ते दत्तम् इति कर्म तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः तत्प्रक्रियायाम्अथैतयोः पथोर्न कतरेणचन इति श्रुतम्। एतदुक्तं भवति ये न विद्यासाधनेन देवयाने पथ्यधिकृताः नापि कर्मणा पितृयाणे तेषामेष क्षुद्रजन्तुलक्षणोऽसकृदावर्ती तृतीयः पन्था भवतीति तस्मादपि न अनिष्टादिकारिभिश्चन्द्रमाः प्राप्यते। स्यादेतत् तेऽपि चन्द्रबिम्बमारुह्य ततोऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति तदपि नास्ति आरोहानर्थक्यात्। अपि च सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्सु असौ लोकः प्रयद्भिः संपूर्येत इत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत तथा हि प्रतिवचनं दातव्यम् यथा असौ लोको न संपूर्यते। अवरोहाभ्युपगमादसंपूरणोपपत्तिरिति चेत् न अश्रुतत्वात् सत्यम् अवरोहादप्यसंपूरणमुपपद्यते श्रुतिस्तु तृतीयस्थानसंकीर्तनेन असंपूरणं दर्शयति एतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यते इति तेन अनारोहादेव असंपूरणमिति युक्तम् अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात्। तुशब्दस्तु शाखान्तरीयवाक्यप्रभवामशेषगमनाशङ्कामुच्छिनत्ति एवं सति अधिकृतापेक्षः शाखान्तरीये वाक्ये सर्वशब्दोऽवतिष्ठते ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति।।

यत्पुनरुक्तम् देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्तिपञ्चम्यामाहुतौ

न तृतीये तथोपलब्धेः । ( ब्रसू-३,१.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः कुतः तथोपलब्धेः तथा हि अन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम् इति। अपि चपञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति मनुष्यशरीरहेतुत्वेन आहुतिसंख्या कीर्त्यते न कीटपतङ्गादिशरीरहेतुत्वेन पुरुषशब्दस्य मनुष्यजातिवचनत्वात्। अपि च पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते न अपञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते वाक्यस्य द्व्यर्थतादोषात्। तत्र येषामारोहावरोहौ संभवतः तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरप्स्यते।।

स्मर्यतेऽपि च लोके । ( ब्रसू-३,१.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च स्मर्यते लोके द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां च अयोनिजत्वम्। तत्र द्रोणादीनां योषिद्विषया एका आहुतिर्नास्ति धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः। यथा च तत्र आहुतिसंख्यानियमानादरो भवति एवमन्यत्रापि भविष्यति। बलाकापि अन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः।।

दर्शनाच् च । ( ब्रसू-३,१.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोः अन्तरेणैव ग्राम्यधर्मम् उत्पत्तिदर्शनात् आहुतिसंख्यानादरो भवति। एवमन्यत्रापि भविष्यति।।

ननुतेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवजमुद्भिज्जम् इत्यत्र त्रिविध एव भूतग्रामः श्रूयते कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति अत्रोच्यते

तृतीयशब्दावरोधः संशोकजस्य । ( ब्रसू-३,१.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

आण्डजं जीवजमुद्भिज्जम् इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः उभयोरपि स्वेदजोद्भिज्जयोः भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात्। स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः।।

स्वाभाव्यापत्य्रधिकरणम्

[सम्पाद्यताम्]

तत्स्वाभाव्यापत्तिरुपपत्तेः । ( ब्रसू-३,१.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्संपातमुषित्वा ततः सानुशया अवरोहन्तीत्युक्तम् अथावरोहप्रकारः परीक्ष्यते। तत्रेयमवरोहश्रुतिर्भवति अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति इति। तत्र संशयः किमाकाशादिस्वरूपमेवावरोहन्तः प्रतिपद्यन्ते किं वा आकाशादिसाम्यमिति। तत्र प्राप्तं तावत् आकाशादिस्वरूपमेव प्रतिपद्यन्त इति कुतः एवं हि श्रुतिर्भवति इतरथा लक्षणा स्यात् श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या न लक्षणा तथा चवायुर्भूत्वा धूमो भवति इत्येवमादीन्यक्षरणि तत्तत्स्वरूपापत्तौ आञ्जस्येन अवकल्पन्ते तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति एवं प्राप्ते ब्रूमः आकाशादिसाम्यं प्रतिपद्यन्त इति चन्द्रमण्डले यत् अम्मयं शरीरमुपभोगार्थमारब्धम् तत् उपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति ततो वायोर्वशमेति ततो धूमादिभिः संपृच्यत इति। तदेतदुच्यते यथेतमाकाशमाकाशाद्वायुम् इत्येवमादिना। कुत एतत् उपपत्तेः एवं हि एतदुपपद्यते न हि अन्यस्यान्यभावो मुख्य उपपद्यते आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते विभुत्वाच्च आकाशेन नित्यसंबद्धत्वात् न तत्सादृश्यापत्तेरन्यः तत्संबन्धो घटते। श्रुत्यसंभवे च लक्षणाश्रयणं न्याय्यमेव। अत आकाशादितुल्यतापत्तिरेव अत्र आकाशादिभाव इत्युपचर्यते।।

नातिचिराधिकरणम्

[सम्पाद्यताम्]

नातिचिरेण विशेषात् । ( ब्रसू-३,१.२३ । )

भाष्यम्

शाङ्करभाष्यम्॥

तत्र अकाशादिप्रतिपत्तौ प्राग्व्रीह्यादिभावापत्तेः भवति विशयः किं दीर्घं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरोत्तरसादृश्यं गच्छन्ति उताल्पमल्पमिति। तत्रानियमः नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्ते इदमाह नातिचिरेणेति। अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सह इमां भुवमापतन्ति कुत एतत् विशेषदर्शनात् तथा हि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि अतो वै खलु दुर्निष्प्रपतरम् इति तकार एकश्छान्दस्यां प्रक्रियायां लुप्तो मन्तव्यः दुर्निष्प्रपततरं दुर्निष्क्रमतरम् दुःखतरमस्माद्व्रीह्यादिभावान्निःसरणं भवतीत्यर्थः तत् अत्र दुःखं निष्प्रपतनं प्रदर्शयन् पूर्वेषु सुखं निष्प्रपतनं दर्शयति सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासंभवात्। तस्माद्व्रीह्यादिभावापत्तेः प्राक् अल्पेनैव कालेनावरोहः स्यादिति।।

अन्याधिष्ठिताधिकरणम्

[सम्पाद्यताम्]

अन्याधिष्ठिते पूर्ववदभिलापात् । ( ब्रसू-३,१.२४ । )

भाष्यम्

शाङ्करभाष्यम्॥

तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते इति। तत्र संशयः किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजोऽनुशयिनो भवन्ति आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति। किं तावत्प्राप्तम् स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति कुत एतत् जनेर्मुख्यार्थत्वोपपत्तेः स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म श्वादिजन्मवत् यथाश्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति एवं व्रीह्यादिजन्मापीति। एवं प्राप्ते

ब्रूमः अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखभाजो भवन्ति पूर्ववत् यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम् एवं व्रीह्यादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम्। कुत एतत् तद्वदेवेहाप्यभिलापात् कोऽभिलापस्य तद्वद्भावः कर्मव्यापारमन्तरेण संकीर्तनम् यथा आकाशादिषु प्रवर्षणान्तेषु न किंचित्कर्मव्यापारं परामृशति एवं व्रीह्यादिजन्मन्यपि। तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम्। यत्र तु सुखदुःखभाक्त्वमभिप्रैति परामृशति तत्र कर्मव्यापारम् रमणीयचरणाः

अशुद्धम् इति चेन् न शब्दात् । ( ब्रसू-३,१.२५ । )

भाष्यम्

शाङ्करभाष्यम्॥

यत्पुनरुक्तम् पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्म अस्तु तत्र गौणी कल्पना अनर्थिकेति तत्परिह्रियते न शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् अतीन्द्रियत्वात्तयोः अनियतदेशकालनिमित्तत्वाच्च यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते स एव देशकालनिमित्तान्तरेष्वधर्मो भवति तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति। शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः स कथमशुद्ध इति शक्यते वक्तुम्। ननुन हिंस्यात्सर्वा भूतानि इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति बाढम् उत्सर्गस्तु सः अपवादोऽयं चअग्नीषोमीयं पशुमालभेत इति उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् तस्माद्विशुद्धं कर्म वैदिकम् शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम्। न च श्वादिजन्मवदपि व्रीह्यादिजन्म भवितुमर्हति तद्धि कपूयचरणानधिकृत्य उच्यते नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति। अतश्चन्द्रस्थलस्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते।।

रेतःसिग्योगोऽथ । ( ब्रसू-३,१.२६ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावः यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति इति न चात्र मुख्यो रेतःसिग्भावः संभवति चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति कथमिव अनुपचरितं तद्भावम् अद्यमानान्नानुगतोऽनुशयी प्रतिपद्यते तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः तद्वत् व्रीह्यादिभावोऽपि व्रीह्यादियोग एवेत्यविरोधः।।

योनेःशरीरम् । ( ब्रसू-३,१.२७ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि योनेरधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम् तद्य इह रमणीयचरणाः इत्यादि तस्मादप्यवगम्यते नावरोहे ब्राह्यादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं भवतीति। तस्मात् व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य प्रथमः पादः।।