ब्रह्मसिद्धिः/नियोगकाण्डः (तृतीयः)

विकिस्रोतः तः
← ब्रह्मकाण्डः(प्रथमः) ब्रह्मसिद्धिः
नियोगकाण्डः (द्वितीयः)
मण्डनमिश्रः
सिद्धिकाण्डः (चतुर्थः) →

॥नियोगकाण्डः॥

 [कुप्पुस्वामी संस्करण ७४] एवं प्रत्यक्षादिविरोधात्कर्मविधिविरोधाच्च श्रुतार्थपरिग्रहे ये मन्यन्ते वेदान्तानामुपचरितार्थत्वं तत्प्रतिबोधनाय विहितः प्रयत्नः ।
संप्रति तु
कार्य एवार्थे वेदस्य प्रामाण्यम्, न भूतरूपे ।
एवं ह्युक्तम्
’चोदनालक्षणोऽर्थो धर्मःऽ ।
चोदनाप्रमाणको वेदार्थ इति यावत् ।
चोदना च प्रवर्तकं वचनम्, तस्मात्कार्येऽर्थे वेदः प्रमाणम् ।
वेदान्तानामपि तु प्रतिपत्तिकर्तव्यताप्रमाणभाजां तन्मुखेन तदनुगतभूतात्मतत्त्वविषयबोधकत्वम् ।
अतस्तेऽपि कार्यनिष्ठतां नातिवर्तन्ते ।
तथा च कथं तर्हि मन्त्रार्थवादाः सोपनिषत्का इत्याशङ्क्य ’चोदना हि भूतं भवन्तम्ऽ इत्याद्युक्तम् ।
एतदुक्तं भवति
कार्यमर्थमवगमयन्ती चोदनैव भूतादिकमप्यर्थमवगमयतीति
ये मन्यन्ते तत्प्रतिबोधनाय प्रयत्यते ।
तिस्रश्च प्रतिपत्तयो ब्रह्मणि ।
प्रथमा तावच्छब्दात्, अन्या शब्दात्प्रतिपद्य तत्सन्तानवती ध्यानभावनोपासनादिशब्दवाच्या, अन्या ततो लब्धनिष्पत्तिर्विगलितनिखिलविकल्पा साक्षात्करणरूपा ।
तत्र प्रथमामधिकृत्योच्यते

शब्दाद्यदात्मविज्ञानं तन्न तावद्विधीयते ।
भवत्यधीतवेदस्य तद्धि कर्मावबोधवत् ॥ २.१ ॥

ब्रह्मणो हि प्रमाणान्तरानधिगमनीयरूपत्वाच्छब्दाधिगम्यस्वभावविषयं ज्ञानं विधेयम् ।
तत्र यच्छब्दादेव ज्ञानं तदविधेयम्, विधिमन्तरेण भावात्कर्मावबोधवत् ।
यथैव ’स्वर्गकामो यजेतऽ इति श्रुतवाक्यस्य वाक्यार्थावबोधस्तद्वाक्यप्रामाण्यादेव भवति, न विध्यन्तरमपेक्षते, तथात्मस्वरूपाभिधायिवाक्यप्रामाण्यादात्मावबोधो विध्यनपेक्षः [कुप्पुस्वामी संस्करण ७५] संजायते, सति प्रमाणे तत्सामर्थ्येनैव प्रमेयबोधोत्पत्तेः ।
न खलु सोपकरणे समग्रे प्रमाणे सतीच्छापि पुरुषस्यापेक्ष्यते ज्ञानं प्रति, अनिष्टानामप्यवबोधात्, प्रागेव विधिः ।

तामेव विधेरनपेक्षतां कर्मावबोधे दर्शयति

स्वर्गकामो यजेतेति बोधेऽस्मिन्न व्यपेक्ष्यते ।
विधिरन्योऽनवस्थानान्नायं कर्मव्यवस्थितेः ॥ २.२ ॥


न कर्मविधिवाक्यार्थज्ञानप्रवृत्तौ विधिरपेक्ष्यतेऽन्यः, न तद्गत एव वा ।
अन्यस्मिन्ननवस्थादोषात्, तदर्थज्ञानेऽपि विध्यन्तरस्यापेक्षणीयत्वात्, तद्गतस्य च कर्मविषयत्वेन तद्बोधं विधातुमसामर्थ्यात् ।

ननु यथैषां ग्रहणे विध्यन्तरमपेक्ष्यते ’स्वाध्यायोऽध्येतव्यःऽ इति, न चानवस्था, तद्वत्तदर्थबोधेऽपि स्यात् ।
अस्ति च विधिः
’वेदः कृत्स्नोऽधिगन्तव्यःऽ इति ।

विषम उपन्यासः
अप्रवृत्तोऽपि हि स्वाध्यायाध्ययनविधिवाक्याध्ययने पुरुषान्तराधीतात्ततस्तस्य चान्येषां च वाक्यानामध्ययने प्रवर्तते, शाखान्तरीयाङ्गोपसंहार इव श्रवणमात्रात् ।
न खलु स्वाधीतमेव वाक्यं प्रवर्तयति ।
यथैकस्तथा पुरुषान्तराण्यपि, अनादित्वाद्वेदवत्तदध्ययनस्यापि ।
अनवबुद्धार्थस्त्ववबोधविधिर्नावबोधे प्रवर्तयति ।
तदर्थबोधश्चेद्विध्यपेक्षः, न तत्र स एव प्रवर्तयति, अनवबुद्धार्थत्वात् ।
इतरेतराश्रयं स्यात्
तदर्थबोधात्प्रवृत्तिः, प्रवृत्तस्य च तदर्थबोध इति ।
तस्माद्विध्यन्तरमपेक्षितव्यमित्यनवस्था ।
न च ’वेदः कृत्स्नोऽधिगन्तव्यःऽइत्यपूर्वार्थविधिः ।
’दृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इति न्यायप्राप्तोऽर्थः प्रदर्श्यते ।
अथाप्येष विधिः, स्वाध्यायाध्ययनविधिनार्थाक्षिप्तमर्थज्ञानं नोच्येत (॰ज्ञानमुच्येत एदितिओन्, अल्तेर्नतिवे रेअदिन्गिन् टत्त्वसमीक्षा), तथापि ब्रह्मस्वरूपाभिधायिवेदवाक्यप्रभवे बोधे न पृथग्विधिरपेक्षितव्यः, कर्मविधिवाक्यवत् ।
यथैव ’स्वर्गकामो यजेतऽ इति सामान्यविधिना सिद्धे नान्योऽपेक्ष्यते, अनवस्थानात्, सत्यपि विधावन्यस्यापेक्षणात्, [कुप्पुस्वामी संस्करण ७६] न चैतद्गत एव, कर्मविषयत्वात् ।
एवं तत्त्वप्रतिपत्तिपरेष्वपि वाक्येषु न विधिरपेक्षितव्यः, वाक्यसामर्थ्यादेव तत्त्वबोधोत्पादादिति ।


इतश्च

फलं विधेयावगमात्प्रवृत्तिश्चोत्तरा विधेः ।
अन्योन्यसंश्रयान्नैष शाब्दो बोधः स नो परः ॥ २.३ ॥


शब्दादवगम्य विधेयं या प्रवृत्तिः सा विधेः प्रयोजनम्, न तु शब्दप्रभवो विधेयावगम एव, अन्योन्यसंश्रयात्
अवगते शब्दार्थे प्रवृत्तेः, प्रवृत्तस्य चावगमात् ।
शब्दार्थबोधादेव वा शब्दार्थबोध इत्यात्माश्रयः ।
अन्योन्यसंश्रयस्तु तुल्यानुपपत्तित्वादुक्तः ।
यस्तु तत्त्वावबोधपराद्वाक्यात्तत्त्वावबोधः, नासौ शब्दार्थबोधात्पराचीनः, किन्तु स एवेति ।

अपि च

जाते बोधे न प्रवर्त्यो नतरां खल्वबोधके ।
शब्दे न (शब्देन एदितिओन्) निश्चये तस्मादन्यस्मादन्यवाञ्छनम् ॥ २.४ ॥


उदपादि चेत्’सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ इत्युपक्रमात्’तत्त्वमसिऽइत्यन्ताद्वाक्यादात्मतत्त्वावबोधः, पदानां परस्परान्वितार्थत्वात्, किमन्यद्विधिः करिष्यति? न प्रवृत्त एव प्रवर्त्यः ।
अथ पदार्थसमन्वयमात्रान्न तत्त्वबोधोत्पादः, सुतरामप्रवर्त्यः ।
शाब्दस्य तत्त्वावबोधस्यासंभवात् ।
स्यादेतत्
उत्पन्नेऽपि तत्त्वावभासे शब्दात्, निश्चये प्रवर्त्यः ’ेवमिदम्ऽ इति ।
तन्न ।
यदि तस्माच्छब्दान्निश्चयः, स जात एव ।
अथान्यतो निश्चयः, अन्यवाञ्छनं प्रमाणान्तरापेक्षा, न तत्र तत्त्वनिश्चयनिबन्धनं शब्दः स्यात् ।
एवं तावन्न तत्त्वनिश्चयाय विधिरर्थ्यते ।

अथाविवक्षितार्थत्वनिवृत्त्यै प्रार्थ्यते विधिः ।
अर्थो ज्ञातव्य इत्युक्ते ज्ञेयः स्यान्नाविवक्षितः ॥ २.५ ॥

[कुप्पुस्वामी संस्करण ७७] यदपि मतम्
सत्यपि वाक्यादर्थोपप्लवे तात्पर्यं दुर्लभम्, भूतार्थपरस्य वैयर्थ्यात् ।
सांशयिकत्वं वा, अतात्पर्यस्यापि दर्शनाज्जपमन्त्रेषु ।
विधौ तु सत्यर्थज्ञानस्य चोदितत्वान्नार्थोऽविवक्षितो भवितुमर्हति ।
तस्माद्विवक्षितार्थत्वाय विधिः प्रार्थ्यः ।

तद्वार्तमर्थपरता शब्दानां लोकवेदयोः ।
’विशिष्टस्तु वाक्यार्थऽ इत्युत्सर्गवती यतः ॥ २.६ ॥


औत्सर्गिकः शब्दानामर्थं प्रति शेषभावः ।
निमित्तान्तरात्तु स्वरूपप्रधानत्वमविवक्षितार्थत्वमपवादो लोके ।
तथा वेदेऽपि, लोकावगम्यत्वाच्छब्दसामर्थ्यस्य ।
तदुक्तम्
’विशिष्टस्तु वाक्यार्थःऽ इति ।

अपि च

दृष्टार्थता च स्वाध्यायविधेरत्र न भिद्यते ।
भवेदितरथा कृत्स्नः स विध्यर्थोऽविवक्षितः ॥ २.७ ॥


यथैव कर्मविधीनां ’दृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इति नाविवक्षितार्थानामध्ययनात्फलान्तरकल्पना तथा दृष्टत्वादात्मतत्त्वावबोधस्य वेदान्तानाम् ।
न च भूतार्थप्रतिपत्तौ वैयर्थ्यमिति वक्ष्यते ।
प्रतिपत्तिविधौ च तुल्यम् ।
अवश्यं चैतदेवं विज्ञेयम् ।
अन्यथा सह विधायकेन कृत्स्नस्याविवक्षितार्थता स्यात् ।
यतो विधायकशब्दनिबन्धनमन्येषां विवक्षितार्थत्वम्, विधायकस्य तु न तन्निबन्धनमस्ति ।
एवं च तस्याविवक्षितार्थत्वे इतरेऽपि तथा स्युः ।
अथ विधायकः प्रकृत्या दृष्टार्थत्वेन चार्थपरः, इतरेऽपि तथेति व्यर्थोऽसौ विधिः ।

ज्ञानस्य पुरुषार्थत्वसिद्धये विधिरिष्यते ।
सर्वत्र पुरुषार्थत्वं विधेरित्यप्यपेशलम् ॥ २.८ ॥


विध्यधीनः पुरुषार्थसाधनतावबोधः, तच्छब्दतो लब्धजन्मनोऽप्यात्मतत्त्वावबोधस्य पुरुषार्थसाधनत्वावगमो विधेरित्येतदपि न शोभनम् ।

ज्ञेयाभिव्याप्तितो यस्मान्न विज्ञानात्फलान्तरम् ।
इष्यते मोक्ष इति चेत्साध्यस्तत्त्वच्युतेर्न सः ॥ २.९ ॥


[कुप्पुस्वामी संस्करण ७८] ज्ञानस्य हि दृष्टमेव फलम्
ज्ञात्रा ज्ञेयाभिव्याप्तिः, ज्ञातारं प्रति तस्य प्रकाशनम् (प्रकाशता एदितिओन्)
न त्वदृष्टं कालान्तरभावि, यदर्थो विधिः स्यात् ।
स्यादेतत्
आत्मज्ञानस्य फलान्तरमपीष्यते मोक्षः ।
तन्न, असाध्यत्वात् ।
न हेतुजन्योऽसौ मोक्षः, तत्त्वच्युतेः ।
कार्यत्वे विनाशात्तस्य पुनःसंसारात् ।
आत्यन्तिकी च संसारनिवृत्तिर्मोक्ष इत्युच्यते ।
ननु कार्योऽपि नाशो न नश्यति ।
सत्यम्, भावरूपं तु मोक्षं निरतिशयानन्दलक्षणं निरतिशयैश्वर्यलक्षणं चाभिप्रेत्यैतदुच्यते, भावस्य कार्यस्य विनाशेनाविनाभावात् ।
आगामिशरीरेन्द्रियबुद्धिसंयोगाभावस्य प्रागभावस्य कार्यत्वमनुपपन्नमेव ।
बन्धहेतुनिवृत्तिस्तु यद्यपि कार्या, कार्यत्वेऽपि च नास्या अनित्यत्वप्रसङ्गः, तथापि नासौ तत्त्वज्ञानात्पृथगिति न तेन साध्या ।
अविद्या हि बन्धहेतुः, तत्त्वज्ञानोदय एव च तन्निवृत्तिः ।

अथवा ’परं ज्योतिरुपसंपद्य स्वेन रूपेणावतिष्ठतेऽ इति स्वरूपस्थितिर्मुक्तिरुक्ता ।
साध्यत्वे च न स्वरूपस्थितिः स्यात् ।
अतो मोक्षत्वाच्च्यवेत ।
यत्तु
’न स (न च एदितिओन्) पुनरावर्ततेऽ इति श्रुतेः प्रामाण्यात्कार्यस्यापि मोक्षस्य नित्यत्वमिति, दृष्टविपरीतमपि तदाश्रीयेत, अनन्यगतित्वे श्रुतेः ।
यदा तु विदितात्मतत्त्वस्याद्वयं विशुद्धप्रकाशमात्मानं पश्यतः समुत्खातायामनवयवेनाविद्यायां हेत्वभावात्पुनर्बन्धस्यासंभाव्यत्वात्प्राप्तमेवार्थं वर्तमानापदेशादनुवदति श्रुतिरर्थवादत्वेन, तदा कुतस्तत्प्रामाण्यादनन्तफलत्वम्? तथा हि
वर्तमानापदेशादेव नापुनरावृत्तिः साध्यत्वेनावगम्यते ।
न च कामोपबन्धोऽस्ति, यतः साध्यता गम्येत ।
तस्मादर्थवादः ।
अर्थवादादपि च या फलकल्पना, सापि ज्ञाने ज्ञेयतत्त्वावभासदृष्टफलनिराकाङ्क्षेऽनुपपन्ना ।
पुरुषार्थता चास्य वक्ष्यत इति ।


अन्ये पुनराहुः

विधेर्विना कार्यशून्यं भूतार्थमनुवादकम् ।
वचः स्यादनुवादश्च प्रमाणान्तरगोचरे ॥ २.१० ॥

[कुप्पुस्वामी संस्करण ७९] तत्प्रमाणान्तरापेक्षं प्रामाण्यमतिवर्तते ।
मानान्तरस्याविषये विध्यर्थे तु प्रतिष्ठितम् ॥ २.११ ॥

अनपेक्षं प्रमाणत्वमश्नुते कर्मवाक्यवत् ।
परप्रवृत्त्यभावेऽपि प्रामाण्यायैव तद्विधिः ॥ २.१२ ॥


विधिमन्तरेण न कार्योपदेशप्रतीतिः ।
यथावस्थितं वस्तु तद्विधस्यानुवादमात्रत्वं गम्यते ।
अनुवादश्च प्रमाणान्तरविषय इति तदपेक्षो भूतार्थो नार्थ उच्यत इति सापेक्षत्वादप्रामाण्यम् ।
विध्यर्थस्य तु प्रमाणान्तराविषयत्वात्तन्निष्ठमनपेक्षं प्रमाणं कर्मविधिवाक्यवत् ।
प्रमाणान्तराविषयश्च विध्यर्थः ।
न हि ’कुरुऽइति शब्दज्ञानादन्यतः प्रतीतिः ।
एवं च सति तत्त्वप्रतिपत्तिपरे वाक्ये यद्यपि वाक्यार्थबोधात्पराचीना प्रवृत्तिः, विधिफलं नास्ति ।
प्रामाण्यायैव तु विधिनिष्ठत्वमेषितव्यमिति ।
अत्रोच्यते

प्रमाणान्तरयातार्थभावः किमनुवादता ।
उत भूतार्थता तत्र सिद्धार्थमपि यद्वचः ॥ २.१३ ॥

न मानान्तरलब्धार्थतया तस्यावबोधकम् ।
न तत्सापेक्षमेषा चेदभिप्रेतानुवादता ॥ २.१४ ॥


कः पुनरनुवादः
अधिगमान्तरसंभिन्नार्थत्वम्, मानान्तरेणाधिगत इति प्रतिपादनम्, आहोस्विद्भूतार्थतामात्रम्? तत्र पूर्वस्मिन् कल्पे भवत्वधिगमान्तरसंभिन्नार्थं सापेक्षम् ।
यत्तु भूतार्थमपि न मानान्तराधिगत इति बोधयति न तदनुवादकम्, न सापेक्षम्, पूर्वाधिगमसंस्पर्शेन प्रतिपत्तेरभावात् ।

अथापरः कल्पः

सापेक्षतायाः को हेतुः शुद्धा सिद्धार्थता यदि ।
प्रमाणान्तरसंभेदस्तद्व्यपेक्षणकारणम् ॥ २.१५ ॥

अनृधीप्रभवे नास्ति भूतार्थेऽपि स वैदिके ।

भूतार्थमात्रं चेदनुवादता न सापेक्षत्वहेतुरस्ति ।
न भूतार्थतैव सापेक्षत्वहेतुः, भूतार्थयोरपि प्रत्यक्षानुमानयोरनपेक्षत्वात् ।
तस्माद्भूतार्थेऽभूतार्थे वाधिगमान्तरसंस्पर्शः प्रमाणान्तरापेक्षाहेतुः, स्मृतौ दर्शनात् ।
सा ह्यधिगमान्तरसंभिन्नार्थेति [कुप्पुस्वामी संस्करण ८०] तत्साधनमपेक्षते ।
एवं च पुरुषबुद्धिप्रभवं भूतार्थमभूतार्थं वा वचो भवति सापेक्षम् ।
ततो हि तत्संभिन्न एवार्थे प्रत्ययः, न त्वनपेक्षितपूर्वाधिगमः स्वातन्त्र्येणार्थे ।
यथोक्तम्
’पि च पौरुषेयाद्वचनाद्’ेवमयं पुरुषो वेदऽइति भवति प्रत्ययः, न ’ेवमर्थःऽ इतिऽ ।
अपुरुषबुद्धिप्रभवत्वाद्वेदवचसि भूतार्थेऽपि न सापेक्षत्वहेतुः, पुरुषसंबन्धकृतत्वात्पूर्वाधिगमसंभेदस्य ।

स्यादेतत्
अपौरुषेयेऽपि भूतार्थे तद्विषये प्रमाणान्तरस्य संभवात्तदपेक्षा ।
तथा हि
संभवति प्रमाणान्तरे तद्विषये तद्विसंवादोऽपि शङ्क्येत ।
तस्मात्तदभावाय तत्संवादोऽपेक्षणीयः ।
असंभवति तु कार्येऽर्थे न कुतश्चिद्विसंवादाशङ्केति नापेक्ष्यमस्ति ।
अत्रोच्यते

न च संभवमात्रेण तदपेक्षावकल्पते ॥ २.१६ ॥

विशेषो न हि गम्येत सापेक्षत्वे तदा तयोः ।

द्वयोरेकविषयसंभवे कुत एतत्
शब्दस्तदपेक्षः, न पुनस्तत्प्रमाणान्तरं शब्दापेक्षं स्यादिति? यदि शब्दः प्रमाणान्तराधिगतविषयो लोके दृष्ट इति, प्रमाणान्तरस्याविषये तर्हि नतरां प्रामाण्यं तस्य भवति ।
प्रमाणान्तरविषये हि प्रमाणान्तरसंभवादपि तावत्स्यात्, अन्यत्र तदभावाद्दुर्लभं तत् ।
अथ पौरुषेयत्वकारिता लोकवचसां प्रमाणान्तराधिगतार्थता, न शब्दसामर्थ्यकारिता ।
शब्दस्य प्रमाणान्तरासंभिन्न एवार्थे सामर्थ्यम् ।
न तर्हि प्रमाणान्तरसंभवाच्छब्द एव सापेक्षः, तदपि शब्दसंभवाच्छब्दापेक्षं स्यात् ।
किमतस्तस्य सापेक्षत्वेन? अप्रमाणं स्यात् ।
न शब्दस्य तत्रापेक्षा युज्यते ।
सति हि तस्य प्रामाण्ये तत्संवादविसंवादावपेक्ष्येयाताम् ।
अथ शब्दस्याप्रामाण्यान्न तत्शब्दापेक्षया प्रमाणम् ।
प्रमाणमेव, अनपेक्षत्वात् ।
शब्दस्याप्रामाण्यं कुतः? प्रमाणान्तरापेक्षत्वात् ।
तस्य च प्रामाण्यमनपेक्षत्वात्, अनपेक्षत्वं च शब्दस्याप्रामाण्यादितरेतराश्रयम् ।
प्रमाणे हि शब्दे तद्विषये संभवति तदपि सापेक्षं स्यात्तत्संभव इव शब्दः, विशेषाभावात् ।
[कुप्पुस्वामी संस्करण ८१] अथ शब्दसंभवेऽपि न तत्सापेक्षम् ।
तत्संभवेऽपि न शब्दस्य सापेक्षता, विशेषाभावात् ।

अपि च

प्रत्यक्षानुमयोरेवं वृत्तेरन्योन्यगोचरे ॥ २.१७ ॥

परस्परव्यपेक्षत्वमविशेषं प्रसज्यते ।
स्यादक्षमपि सापेक्षं यदक्षान्तरगोचरे ॥ २.१८ ॥


संभवमात्रेण सापेक्षत्वे प्रत्यक्षानुमयोरेकस्मिन् विषये संभवादन्योन्यापेक्षत्वादप्रामाण्यप्रसङ्गः ।
तथा सत्तागुणत्वद्रव्येष्वनेकेन्द्रियग्राह्येष्विन्द्रियान्तराणामिन्द्रियान्तरसापेक्षत्वप्रसङ्गः ।
अथ शब्दस्यैव प्रमाणान्तरसंभवे सापेक्षत्वम्, विशेषहेतुर्वाच्यः ।
प्रमाणान्तराधिगतार्थत्वदर्शनादिति चेत्, उक्तमत्र
यदि शब्दमात्रधर्मोऽयमसंभवादेव तद्विषये प्रत्यक्षादेर्बुद्धादिवाक्यवदप्रामाण्यं प्राप्नोति, संभवे त्विन्द्रियविषये प्रत्ययितपुरुषवचोवद्युज्यते प्रामाण्यम् ।
यथोक्तम्
’तच्चेत्प्रत्ययितात्पुरुषादिन्द्रियविषयं वा, अवितथमेव तत्ऽ इति ।
अथ पौरुषेयधर्मोऽयम्, न संभवत्प्रमाणान्तरविषयस्याप्यपौरुषेयस्य शब्दस्य सापेक्षत्वम् ।
अपि च प्रत्यक्षाधिगतविषयं किञ्चिदनुमानमिति न सामान्यतोदृष्टस्य तथा प्रत्यक्षसापेक्षता, यथा चागमपूर्वकं षड्जादिविवेकविषयं प्रत्यक्षमिति न सर्वं प्रत्यक्षं तथा, एवं पुरुषवचसां प्रमाणान्तराधिगतविषयत्वदर्शनेऽपि नापौरुषेयस्य तथाभावो भूतार्थस्यापि ।
अन्यथा सुतरां प्रमाणान्तरासंभवादप्रामाण्यं स्यादित्युक्तम् ।

अपि च

असंभवादौषधादिनियोगस्यानपेक्षता ।
लौकिकस्य प्रसज्येत नरप्रत्ययपूर्वकः ॥ २.१९ ॥

विनियोगस्तत्र तेन व्यपेक्षा वैदिके पुनः ।
अबुद्धिपूर्वकः सोऽपीत्यनपेक्षत्वमुच्यते ॥ २.२० ॥


यदि कार्ये नियोगार्थे प्रमाणान्तरस्यासंभवाद्वेदवचसां तन्निष्ठानामनपेक्षत्वम्, ’ज्वरवियोगकाम इदमौषधं पिबेत्ऽ, ’स्वर्गकामः सिकता भक्षयेत्ऽ इति [कुप्पुस्वामी संस्करण ८२] लोकवचांस्यपि कार्यनिष्ठान्यनपेक्षाणि प्रामाण्यमश्नुवीरन् ।
अथ यस्तत्र साध्यसाधनभावः स पुरुषविवक्षापूर्वकः, तेन तत्र सापेक्षता, वेदे तु साध्यसाधनभावोऽपि न पुरुषविवक्षापूर्वकः इत्यनपेक्षत्वम् ।
यो वा विषयनियोज्यनियोगानां संबन्धः, स पुरुषबुद्धिविरचितो लोकवाक्ये ।
वेदे तु केवलं नियोगोऽपुरुषबुद्धिपूर्वकः ।
सोऽपीत्यनपेक्षत्वम् ।
उच्यते

नृबुद्धिपूर्वतैवेत्थं हन्तापेक्षानिबन्धनम् ।
मानान्तरासंभवेऽपि तत्र सापेक्षता यतः ॥ २.२१ ॥


असंभवत्प्रमाणान्तरकार्यनिष्ठेऽपि चेद्वाक्ये पुरुषसंबन्धात्सापेक्षत्वम्, पुरुषबुद्धिपूर्वतैव तर्हि प्रमाणान्तरव्यपेक्षाकारणमन्वयव्यतिरेकाभ्याम् ।
तद्भावे लोके सापेक्षत्वात्, तदभावे वेदे निरपेक्षत्वात् ।
न विषये प्रमाणान्तरसंभवः, तदभावेऽपि लोकनियोगे सापेक्षत्वदर्शनात् ।

अथ मतम्

वेदे नियोगनिष्ठत्वं विनियोगप्रधानता ।
लोके वेदे न व्यपेक्षा तल्लोके च व्यपेक्षणम् ॥ २.२२ ॥


नियोगपर्यवसितं वैदिकं वचः, स च प्रमाणान्तरस्यागोचर इत्यनपेक्षत्वम् ।
साध्यसाधनभावनिष्ठं तु लौकिकं वचः, स प्रमाणान्तरविषय इति सापेक्षता ।

न शब्दमात्रसामर्थ्यप्रविभागोऽयमीदृशः ।
लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः ॥ २.२३ ॥


न तावदयं शब्दमात्रस्यानपेक्षितपुरुषसंबन्धासंबन्धस्य शक्तिप्रविभागः
यदेकत्र नियोगः शब्दार्थः ।
अन्यत्र विनियोगः, यथा गोशब्दस्य सास्नादिमान्, अश्वशब्दस्य केसरादिमान् ।
यतो लोकाधिगतसामर्थ्यो वेदेऽपि प्रतिपादकः ।
लोके चेद्विनियोगः शब्दार्थः, तत्रैवास्य सामर्थ्यमधिगतम्, न नियोगे ।
तत्र वेदेऽपि विनियोग एव प्रमाणार्थः स्यात् ।

अथ मानान्तराज्ज्ञात्वा प्रयुङ्क्ते पुरुषो वचः ।
अर्थे तत्तेन तन्निष्ठमितरत्त्वन्यथा स्थितम् ॥ २.२४ ॥


[कुप्पुस्वामी संस्करण ८३] अथ मतम्
नैष शब्दमात्रस्य सामर्थ्यविभागः ।
शब्दस्य हि निजं सामर्थ्यं कार्यनिष्ठतैव ।
तथा हि
कार्यो नियोगार्थः ।
कार्याय चान्यस्यान्वयः प्रतीयते ।
न तु कार्यस्यान्यार्थोऽन्वयः ।
तस्मात्कार्यत्वान्नियोगस्य तत्प्रधानता ।
पुरुषस्तु प्रमाणान्तरादवगम्यार्थं तत्र प्रयुङ्क्ते वचनम् ।
न च नियोगः प्रमाणान्तरगोचरः ।
तस्मान्न तत्र प्रयोक्तुमर्हति ।
विनियोगस्य तु तथाभावात्तत्र युज्यते प्रयोगः ।
तस्माद्विनियोगप्रधानं पुरुषवचः ।
वैदिकं तु सामर्थ्येन कार्यत्वान्नियोगस्य तत्प्रधानमिति ।

अत्रोच्यते

मानान्तरव्यपेक्षत्वात्संभव्यन्यप्रमाणकः ।
हन्तास्य गोचरो नास्मादपेक्षास्य प्रमान्तरे ॥ २.२५ ॥


यदि पुरुषोऽधिगते विषये वचः प्रयुङ्क्ते इति विनियोगविषयता तस्य कल्प्यते प्रमाणान्तरापेक्षत्वात्, तर्हि संभवत्प्रमाणान्तरोऽस्य विषयः ।
न तु संभवत्प्रमाणान्तरविषयत्वात्पुरुषवचोऽपि सापेक्षम्, सापेक्षत्वनिमित्तत्वात्तद्विधस्य विषयस्य ।

तस्मान्मानान्तराद्गत्वा परस्य प्रतिपत्तये ।
वचः प्रयुङ्क्ते पुरुषो नाकस्मात्तेन तद्गिरि ॥ २.२६ ॥

प्रमाणान्तरसंभेदो व्यपेक्षातो न संभवात् ।

स्वोपलब्धिख्यापनाय पुरुषस्य गीः, ततस्तस्यां प्रमाणान्तरसंभेदः, ’मयोपलब्धोऽयमर्थःऽइत्यर्थः ।
तेन तत्रोपलब्धे संभवासंभवावेवापेक्ष्येयाताम् ।
यत्रोपलब्धेर्निश्चयः ’संभवत्यस्योपलब्धिः, न चानुपलभ्यायं ब्रवीतिऽ इति तत्र प्रामाण्यम्, यथाप्तपुरुषस्य प्रमाणविषये ।
यत्र तूपलब्धेरसंभव एव यथा दृष्टार्थे बुद्धादिवाक्ये, यत्र चानुपलभ्यापि वचनप्रवृत्तिसंभावना, तत्राप्रामाण्यात् ।
न तु प्रमाणान्तरसंभवात्पुरुषवचनेऽपि तदपेक्षा ।

अपौरुषेयता तेन पौरुषेयत्वमेव च ॥ २.२७ ॥


अनपेक्षव्यपेक्षत्वनिमित्ते वर्णिते बुधैः ।
भूतार्थमपि सापेक्षं नातोऽपुरुषबुद्धिजम् ॥ २.२८ ॥


[कुप्पुस्वामी संस्करण ८४] अत एव पौरुषेयत्वापौरुषेयत्वे सापेक्षत्वानपेक्षत्वकारणे न्यायविद्भिर्दशिते पौरुषेयत्वनिराकरणप्रयत्नेन
’ौत्पत्तिकस्तु शब्दस्यार्थेन संबन्धःऽ इति ।
औत्पत्तिके शब्दार्थसम्बन्धेऽस्वातन्त्र्याच्छब्दस्य न पुरुषबुद्धिपूर्वकत्वमिति न प्रमाणान्तरसंभिन्ना शब्दादर्थावगतिरिति निरपेक्षत्वम् ।

ननु प्रमाणान्तरासंभवेऽपि कृत एव यत्नः
’सत्संप्रयोगेऽ इति ।
सत्यम् ।
चोदनैव प्रमाणम्, नान्यत्
इत्यवधारणसिद्धये ।
न तु प्रमाणमेव इति ।

अथ प्रमाणान्तरसंभवेऽपि यदि चोदनाप्रामाण्यं न व्याहन्यते, कोऽर्थः प्रमाणान्तरनिराकरणेन? धर्मतत्त्वज्ञानम् ।
प्रमाणान्तरसंभवे हि सर्वज्ञाभिमतबुद्धाद्युपदिष्टोऽपि धर्मः प्रतीयेत तत्र न धर्मतत्त्वमवधारितं स्यात् ।
तदवधारणार्थश्चायं यत्नः ।
चोदनाप्रामाण्यमपि तदर्थं मृग्यते, नादृष्टाय ।
अथवा तद्विरोधाच्चोदनाया बाधः स्यात्, संशयो वा तुल्यबलत्वे, तेन तस्यासंभवः प्रतिपाद्यते ।
न तु तत्संभवात्सापेक्षतेति ।
ननु तदभावोऽपेक्षणीयः स्यात् ।
कामम् ।
न तु शब्दः प्रमाणान्तरापेक्षमर्थं प्रतिपादयति ।
यतः यदर्थस्य प्रतिपादकम्, न तु तदपेक्ष्यते ।
यदपेक्ष्यते न तदर्थं प्रतिपादयति ।
न हि विरोधिप्रमाणाभावः प्रतिपत्तिहेतुः ।
विरोधसंभवमात्रेण चाप्रामाण्ये प्रत्यक्षादीनामपि तत्स्यात् ।
अपि च विरोधिसंभवादप्रामाण्यं कार्यनिष्ठत्वेऽप्यपरिहार्यम्, कर्तव्यताद्वारेण भूतार्थप्रतिपत्तेरिष्टत्वात् ।
तत्र तु प्रमाणान्तरविरोधिसंभावनात् ।
भूतार्थस्य प्रमाणान्तरविषयत्वात्तेन कार्यनिष्ठता वर्ण्यते ।
प्रमाणान्तरविषयत्वे किलानुवादत्वात्प्रमाणान्तरापेक्षमर्थं प्रतिपादयति
प्रमाणान्तरेणायमधिगतः
इति न स्वातन्त्र्येण ।
कार्यनिष्ठत्वे तु स्वातन्त्र्येण, तस्य प्रमाणान्तरागोचरत्वात् ।
उक्तेन प्रकारेण न सापेक्षत्वमिति ’भूतार्थमपि सापेक्षं नातोऽपुरुषबुद्धिजम्ऽइति सुष्ठूक्तम् ।

अथ संसर्गभाजो नो पदार्थाः क्रियया विना ।
किमायातं विधेः सापि त्वस्त्यादिः सुलभा क्व न ॥ २.२९ ॥


[कुप्पुस्वामी संस्करण ८५] यदि मतम्
आख्यातपदार्थमन्तरेण न नामपदार्थानां संसर्गः ।
क्रिया हि पदार्थसंश्लेषहेतुः तदभावे साकाङ्क्षत्वात् ।
अतः सिद्धोऽर्थो ब्रह्मादिर्न शब्दगोचरः पदस्याविदितसंगतित्वेनानवबोधकत्वात् ।
न वाक्यार्थः तस्य संसर्गात्मकत्वात् ।
क्रियारहितानां च पदार्थानामसंसर्गात् ।
एवमपि क्रियाभ्युपेयताम् ।
तद्द्वारेण च पदार्थसंसर्गसिद्धिराशास्यताम् ।
न विधेः कश्चिदर्थः ।
सापि च क्रिया सर्वत्र सुलभैवाश्रूयमाणाप्यस्त्यादिः ’स्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽपि गम्यतेऽ इति ।
तत्र ब्रह्मस्वरूपप्रतिपत्तिपरं वाक्यमस्त्यर्थनिष्ठम् ।
तन्निबन्धनस्तत्र पदार्थसंश्लेषः ।
सत्तायाश्च प्रकृत्यैव सत्प्रधानत्वात्तद्द्वारेण विशिष्टवस्तुसिद्धिरिति ।

अत्राहुः
न प्रमाणावगम्यताया अन्या काचन सत्ता ।
तथा हि
यत्प्रमाणेनावगम्यते तत्र ’स्तिऽ इति व्यवहारो लौकिकानां विपर्यये ’नास्तिऽ इति ।
न खल्वन्यः सदसद्विभागहेतुर्लक्ष्यते ।
अर्थक्रियाभावाभावौ चेत् ।
न तयोरपि प्रमाणभावाभावाधीनत्वात् ।
तथा हि
कार्येऽपि सद्व्यवहारो यदि कार्यान्तरनिबन्धनः अनवस्था ।
तस्मादन्तेऽपि प्रमाणादेव सद्व्यवहारः तद्विपर्ययाच्चासद्व्यवहारः ।
एवं चेदादावेव प्रमाणाभावाभावनिबन्धनौ सदसद्व्यवहारौ स्ताम् ।
तथा चास्त्यर्थनिष्ठं वाक्यं प्रमाणान्तरापेक्षमेवार्थं बोधयति प्रमाणविषयताया अस्त्यर्थत्वात् ।

अत्रोच्यते

न च मानावगम्यत्वमस्तीति विषयो मतः ।
मानादेव यतो बुद्धिरभूदस्ति भविष्यति ॥ २.३० ॥

धूमादिना मिते हि स्याद्वह्न्यादावियमन्यथा ।
भिद्येतोत्तरकाले वा भवन्ती न खलु त्रिधा ॥ २.३१ ॥


न प्रमाणावगम्यत्वमस्त्यर्थः न ’स्तिऽ इति बुद्धेस्तद्विषयः ।
यतः प्रमाणादेव त्रिधा बुद्धिर्भवति
’धूमादस्त्यत्राग्निःऽ ’नदीपूरविशेषादभूद्वृष्टिःऽ ’मेघोदयविशेषाद्[कुप्पुस्वामी संस्करण ८६] भविष्यति वृष्टिःऽ इति ।
तत्र यदि बुद्धिः प्रमाणविषयतां गोचरयति प्रमिते हि स्यात्न प्रमाणादेव ।
न हि प्राक्प्रमाणोत्पत्तेः सन् प्रमाणसंबन्धः ।
प्रमाणसंबन्धनिबन्धना चेयं बुद्धिः ।
अथ वैयात्यादुत्तरकालतामेवास्या ब्रूयात् ।
त्रैविध्यमनुपपन्नम्, प्रमाणसंबन्धस्याभेदाद्भिन्नकालेष्वप्यर्थेषु ।

स्वसंबन्धितया मानमथ वस्त्वधिगच्छति ।
तथापि नैव भिद्येत नेत्थं चान्यव्यपेक्षता ॥ २.३२ ॥


अथ मतम्
आत्मसंबन्धितयैव प्रमाणेनार्थोऽवगम्यते ।
अतो न ’स्तिऽइति बुद्धेरुत्तरकालता प्रमाणसंबन्धविषयाया अपि, स्वात्मसंबन्धितयैवार्थस्य प्रतीतेः ।
एवमप्यस्तीत्येव सर्वत्र स्यात् ।
न त्रैविध्यम्, सर्वस्य प्रमितौ प्रमाणसंबन्धस्य वर्तमानत्वात् ।
न चेत्थं प्रमाणान्तरव्यपेक्षत्वमस्त्यर्थनिष्ठे वचसि तत्प्रमाणसंबन्धस्यैवास्त्यर्थत्वात् ।

अन्यमानावगम्यत्वमथ लिङ्गात्त्रिधेष्यते ।
स्याल्लिङ्गमपि सापेक्षं तत्सिद्धेस्तत एव चेत् ॥ २.३३ ॥

नैरपेक्ष्यं यदि न तद्वेदे दण्डैर्निवार्यते ।

अथ मतम्
प्रमाणान्तरगम्यतैव लिङ्गेनाधिगम्यते ।
तेन नोत्तरकालता ।
तच्च प्रमाणं त्रिकालमिति त्रैविध्यम् ।
किं पुनस्तत्? प्रत्यक्षम् ।
तथा हि
भूतायां दृष्टौ कस्यचिद्भूतं प्रत्यक्षम्, भविष्यन्त्यां भविष्यत्, वर्तमानेऽग्नौ वर्तमानमिति ।
एतच्च वार्तम्, नित्यानुमेये तस्याभावात् ।
अपि च लिङ्गमप्येवं प्रमाणान्तरापेक्षत्वादप्रमाणं स्यात् ।
अथ लिङ्गादेव प्रमाणान्तरसद्भावस्य सिद्धेर्निरपेक्षत्वम् ।
तथा हि
प्रमाणान्तरसद्भाव एवेदानीं लिङ्गं प्रमाणम् ।
न च तत्रान्यदपेक्ष्यते ।
प्रमाणसद्भावद्वारा प्रमेयसिद्धिरिति ।
[कुप्पुस्वामी संस्करण ८७] नायं विधिर्वेदे दण्डवारितः ।
वैदिकमपि वचोऽस्त्यर्थनिष्ठं विशिष्टार्थप्रमाणसद्भाव एव प्रमाणम् ।
तत्र निरपेक्षम् ।
तत्प्रमाणद्वारा च विशिष्टार्थसिद्धिरिति समानम् ।

तत्संभवोऽलौकिकार्थे (लैङ्गिकेऽर्थे एदितिओन्) बुद्धवाक्यार्थवन्न तु ॥ २.३४ ॥

अत्रेति साक्षात्करणाभ्युपायादसमञ्जसम् ।

स्यान्मतम्
युक्तं लिङ्गस्य प्रामाण्यमेवम्, अर्थे तस्य प्रमाणान्तरस्य संभवात् ।
संभवति हि वृष्ट्यादिषु प्रमाणान्तरम् ।
ततस्तद्द्वारार्थगतिः ।
न तु सर्वविशेषातीते ब्रह्मण्याम्नायैकनिबन्धनेऽभ्युपगम्यते ।
तत्र यथैव बुद्धादिवाक्यानाम् ’ेवमयं पुरुषो वेदऽ इति ज्ञाननिष्ठानामतीन्द्रियार्थे ज्ञानस्यासंभवान्नार्थे प्रामाण्यमतीन्द्रियार्थोपदेशिनाम्, तथात्रापि स्यात् ।
संभविप्रमाणविषयाप्तवचनवत्तु लिङ्गस्य प्रमाणनिष्ठत्वेऽपि युज्यते प्रामाण्यम् ।
तदसत्, ब्रह्मण्यपि साक्षात्करणस्याभ्युपगमादविद्यासंहारे ।
अविद्यावतां तु तदाम्नायैकनिबन्धनमुच्यते ।
अपि च

मेयत्वमेव सत्ता चेन्माने त्रिविधता कुतः ॥ २.३५ ॥

तत्संबन्धादतो नार्थे त्रैविध्यमवकल्पते ।

यदि च लिङ्गेन प्रमाणमेव मीयते, मीयमानतैव च सत्ता, तत्र प्रमीयमाणत्वात्प्रमाणं सर्वं सदेव ।
सच्च वर्तमानमित्युच्यते ।
तत्र वर्तमानत्वात्प्रमाणस्य सर्वत्रार्थे ’स्तिऽ इत्येव स्यात् ।
न प्रमाणत्रैविध्यादर्थे त्रैविध्यम्, मीयमानस्य सत्त्वात्सतश्च वर्तमानत्वादिति ।

अपि च इदमयं प्रष्टव्यः
किं वर्तमानप्रमाणयोगः प्रमाणसंबन्धः सत्ता, तद्विपर्ययोऽसत्ता, आहोस्वित्प्रमाणयोगमात्रमनाश्रितकालविशेषम्? तत्र

वर्तमानप्रमायोगः सत्तासत्ता विपर्ययः ॥ २.३६ ॥

मते यदि ततः प्राप्तमसत्त्वं स्मृतिगोचरे ।

[कुप्पुस्वामी संस्करण ८८] न स्मर्यमाणस्य वर्तमानप्रमाणसंबन्धः ।
ननु स्मर्यमाणे विनाशसंभवान्नैव ’स्तिऽ इति व्यवहारः ।
सत्यम् ।
’नास्तिऽ इत्यपि नास्ति ।
यदि वर्तमानप्रमाणयोगः सत्ता तद्विपर्ययोऽसत्ता, ’नास्तिऽ इत्येव स्यात्न च ’स्तिऽ इति ।
तस्मादन्ये सदसत्त्वे ।

प्रमाणयोगमात्रं चेत्सत्तासत्ता विपर्ययः ॥ २.३७ ॥

प्राप्ता प्रमितनष्टेन घटेन मधुधारणा ।
प्रमिते च न जिज्ञासा पुनः स्यात्सदसत्त्वयोः ॥ २.३८ ॥


अनाश्रितकालविशेषे प्रमाणयोगमात्रे सत्त्वे प्रमितनष्टमपि वस्तु सदिति तेनार्थक्रियाप्रसङ्गेऽनष्टेनेव, सत्त्वाविशेषात् ।
नष्टानष्टयोर्विशेषान्नैवमिति चेत्, स एव तर्हि विशेषः सदसद्व्यवहारव्यवस्थाया हेतुः कार्यव्यवस्थाया इव, न प्रमाणयोगः ।

तदनुसारिण्येवैषा दृश्यते लोके ।
न खलु प्रमितनष्टं ’सत्ऽइत्युपचरति लोकः ।
किं च प्रमितेऽर्थे सदसत्त्वे जिज्ञासेरन्न पुनर्लौकिकाः, सिद्धत्वात्प्रमाणयोगमात्रस्य तल्लक्षणत्वाच्च सत्त्वस्य ।

अथ प्रमाणयोग्यत्वं सत्ता (ंस्साB॑ सत्त्वं एदितिओन्) नष्टाच्च तच्च्युतम् ।
स्मर्यमाणे प्रचलितं क्वचिदित्यप्यसुन्दरम् ॥ २.३९ ॥

अथ मतम्
न वर्तमानप्रमाणयोगः सत्ता, नानाश्रितकालं तद्योगमात्रम् ।
अपि तु प्रमाणं प्रति योग्यता ।
सा च नष्टाच्च्युतेति न तस्य सत्त्वप्रसङ्गः ।
स्मर्यमाणे तु कुतश्चिच्च्युता कुतश्चिन्नेति न सर्वस्यासत्त्वमिति ।
एतदपि न सुन्दरम्, अभ्युपगतहानात् ।
तथा हि
इत्थमर्थस्वभाव एव सत्ता वर्णिता भवति ।
प्रमाणयोग्योऽर्थस्वभावः सत्ता, अर्थस्वभावनिबन्धन एव सदसद्व्यवहारविभागः, न प्रमाणतदभावोपाधिः ।
तस्य त्वेष कथनोपायः, न प्रमाणसंस्पर्शः, यथा ’नीलाकारज्ञानयोग्योऽर्थो नीलःऽइत्याख्यातेऽपि न नीलशब्दो नीलज्ञानोपाधिः ।
तथा च सोऽस्तिशब्देनाभिधीयत इत्यर्थस्वभावनिष्ठम् [कुप्पुस्वामी संस्करण ८९] अस्त्यर्थप्रधानं वाक्यमिति कुतः सापेक्षत्वम्? प्रमाणस्यासंस्पर्शात् ।

स्यादेतत्
भिन्ना एवार्थस्वभावाः प्रमाणं प्रति योग्याः सच्छब्दवाच्याः सन्तु, नैका सत्ता ।
मा भूत्, नैतत्साध्यम् ।
सर्वथार्थस्वभावाभिधाय्यस्तिशब्दो न प्रमाणयोगनिमित्त इति ।
प्रमाणसंस्पर्शे हि सापेक्षता स्यात् ।
अनेकता तु न कञ्चिद्दोषमावहति ।
अपि च यदि तस्यानेकत्वम्, कथमभिन्नशब्दप्रवृत्तिः? तथा हि
भिन्नेष्वभिन्नं विशेषणमुपलक्षणं वाश्रित्यैकः शब्दो वर्तेत, भिन्ननिमित्तो वा साधारणशब्दः स्यादक्षादिवत् ।
तत्र न तावदनन्तार्थस्वभावेषु साधारणत्वमुपपद्यते, संबन्धग्रहणसामर्थ्यात् ।
परिमितजातिविषया ह्यक्षादिशब्दाः परिमितोपलक्षणलक्षिता वा स्युः ।
स्यादेतत्
द्रव्यत्वादिसामान्यत्रयोपलक्षितानामर्थानां सच्छब्दः साधारण इति ।
तन्न ।
यो हि सत्तामवजानीते स द्रव्यत्वादीन्यप्यवजानीत एव ।
न किल तेजो दृष्टवतोऽप्सु तदवमर्शो भवति ।
अपि च सामान्यविशेषसमवाया अपि सन्त एव ।
न तेष्वौपचारिकः सच्छब्दः प्रत्ययस्यावैलक्षण्यात् ।
न च सामान्याद्विनोपचारः ।
सति वा सामान्ये तदेव सच्छब्दार्थः ।
तदेव च सत्ता, तुल्यत्वात्प्रत्ययस्य ।
अथ मतम्
सर्वप्रवादेषु सर्वपदार्थाः परिमितैः कैश्चिद्धर्मैरुपसंगृहीताः ।
तदुपलक्षणानामनन्तानामप्यर्थानां ’सत्ऽ इति साधारणः शब्दः ।
तदयुक्तम् ।
संग्रहो हि नैकमन्तरेण ।
तत्र यदि सच्छब्दार्थतया (सच्छब्दतायां एदितिओन्) संग्रहः ’ेतावत्प्रभेदः सच्छब्दार्थःऽइति, नार्थान्तरनिवृत्तिः स्यात् ।
तत्र न सर्वार्थसंग्रहः स्यात्, यथा ’नवविधो गोशब्दार्थःऽइति नान्येषामभाव एव ।
तत्र न प्रवादेभ्यः काचिदर्थतत्त्वावगतिः स्यात् ।
ननु न प्रवादानामर्थवत्ता साध्या ।
न ब्रूमः प्रवादानामर्थवत्ता साध्येति ।
किं तु प्रतिपद्यन्ते प्रवादिनः कञ्चिदर्थस्वभावमेकम्, यस्यायं ’पञ्च, षट्ऽइत्यादि प्रभेदसंग्रहः ।
यतो नैकमन्तरेणोपसंग्राहकमवान्तरसंख्यानां निवेशः ।
अथैतावान् प्रमाणयोग्योऽर्थक्रियासामर्थ्यो वेति प्रमाणयोग्यत्वेऽर्थक्रियासामर्थ्ये वा संग्रहः, ताभ्यामेव सच्छब्दार्थ उपलक्ष्यताम्, व्यर्थः परिमितधर्मोपन्यासः ।
तत्र सामान्यशब्दतैव स्यात्, न साधारणशब्दता ।
भिन्ननिमित्तत्वे चाक्षादिशब्देभ्य इव [कुप्पुस्वामी संस्करण ९०] निमित्तभेदात्संशयः स्यात्, न विशेषप्रतीतिः ।
न हि ’सन् घटःऽ इति निमित्तभेदेषु प्रतिपत्तारः संशेरते ।
यथैव ’शुक्लः पटःऽइति निराकाङ्क्षः, तथा ’सन् घटःऽ इत्यपि ।
यस्तु द्रव्यं गुणः कर्म रूपं विज्ञानमिति वा संशयः, न स लौकिकानाम् ।
लौकिकास्त्वभिन्नमेव निमित्तं प्रतिपद्यन्ते ।
अर्थाच्च संदेहः, न शब्दात् ।
कुतः? विशेषप्रतीतिमन्तरेणापि प्रतिपत्तुर्नैराकाङ्क्ष्यात् ।
यत्र ह्यर्थसामर्थ्येन संशयः, यथा ’वृक्षश्छिद्यताम्ऽ इति परशुकुठारादिषु, तत्रान्यतरविशेषानवगमेऽपि नैराकाङ्क्षम्, यस्य कस्यचिदुपादानात्, अन्यथानवस्थानात् ।
यत्र तु शब्दात्, तत्र विशेषावगमहेतोर्विना साकाङ्क्षत्वमेव ।
तदेवं न नानानिमित्तः साधारणशब्दः ।
विशेषणमप्येकं प्रमाणं स्यात् ।
तच्च प्रागपि ततः सच्छब्दानुविद्धबुद्ध्युत्पादादनुपपन्नमित्युक्तम्
’मानादेव यतो बुद्धिःऽ इति प्रपञ्चेन ।
अपि च कार्यादपि वृत्तमेव प्रमाणमवसीयते ।
तत्र कुतस्तद्विशिष्टता ।
न खल्वर्थोऽसन्निहितविशेषगुणो विशिष्टो भवति ।
न च निश्चिते विशेषणाभावे विशिष्टाभिधानानुविद्धः संशयो भवति दण्डाभावनिश्चय इव ’दण्डी न वाऽ इति ।
भवति च शून्यनगरादिषु चिरनिखातनिधिषु प्रमाणाभावनिश्चयेऽपि ’सन्ति नऽइति संशयः ।
तस्मादन्यः प्रमाणयोगात्सदर्थः, यत्रैष संशयः ।
नाप्युपलक्षणं प्रमाणम्, प्रमितध्वस्तेषु सच्छब्दाप्रयोगात्स्मर्यमाणे च सच्छब्दानुविद्धात्संदेहात् ।

वृत्तप्रमाणसंबन्धस्य प्रमाणोपलक्षितत्वात्सत्त्वमेव स्यात्, नासत्त्वम्, न संशयः ।
योऽप्यर्थक्रियया सच्छब्दार्थं विशिनष्टि उपलक्षयति वा, तस्यापि प्राक्कार्यदर्शनान्न सच्छब्दयोगः स्यात् ।
अथ प्रमाणजननमेवार्थक्रियां ब्रूयात्, प्रमाणादेवास्तिबुद्धिर्न स्यात् ।
अथ वैकल्पिकीयं प्रमाणोत्तरकालतेति मतम्, लिङ्गान्न स्यात् ।
अथ निर्ज्ञातकार्यसंबन्धमेव लिङ्गेनानुगम्यते, एवं तर्हि प्रमेयाभावः ।
तथा हि
कार्यवत्ता ह्यस्त्यर्थः, सा चाधिगतैव ।
कार्यवत्तयैव कार्यवत्तावगम्यत इत्यचतुरस्रम् ।
कार्यकारणयोश्च यौगपद्याभावाद्विशिष्टतानुपपत्तिः ।
अथोपलक्षणम्, अतीतस्यापि [कुप्पुस्वामी संस्करण ९१] सत्त्वप्रसङ्गः ।
स्मर्यमाणे च संशयो न स्यादित्युक्तम् ।
तस्माद्यथैव नीलादिशब्दार्थोऽर्थस्वभावः, न कार्यलक्ष्यः, न प्रमाणलक्ष्यः, अनवस्थानात् ।
स्वरूपव्यवस्थस्तु यथाप्रमाणमवसीयते ।
तथा सदर्थस्वभावोऽपीति युक्तम् ।
कार्यप्रमाणसदसद्भावनिबन्धने हि सदसद्व्यवहारविभागे तस्याप्रवृत्तिरेव कार्यप्रमाणसदसद्व्यवहारविभागस्यापि तन्निबन्धत्वप्रसङ्गात्, अनवस्थानात् ।
तस्मादर्थस्वभाव एका सत्तेति (॰स्वभाव एकः सत्तेति एदितिओन्) ब्रह्मविदो मन्यन्ते ।

अथ मतम्
नार्थस्वभावो योग्यता, प्रमाणहेतुसद्भावस्तु ।
न चासतां प्रमाणहेतवः सन्तीति ।
तदयुक्तम्

भूमौ निखातं निर्लिङ्गमवेद्यानुपपन्नकम् ।
नष्टद्रष्टृकमत्येति यत्सर्वमितियोग्यताम् ॥ २.४० ॥


भूमौ निखातमविद्यमानेन्द्रियसंबन्धमदृश्यमानाविनाभूतमसंवेद्यमानान्यथानवकल्पमानं वस्तु प्रलीनद्रष्टृकं यत्तस्य न प्रत्यक्षानुमानार्थापत्त्यागमहेतवः सन्ति ।
सादृश्यविषयं ह्युपमानम्, तस्य हेतुर्दूरापेत एव ।
सर्वप्रमाणयोग्यतामतिक्रामति, न च तदसत् ।
ननु सत्त्वमप्यस्य कथम्? एवमपि संशयः ।
तत्र प्रमाणहेतुभावलक्षणयोग्यतारूपे सत्त्वे प्रमाणहेत्वभावस्य निश्चयात्संशयो न स्यात् ।
अथ स्वभावविशेषः कश्चित्प्रमाणं प्रति योग्यः सत्त्वम्, प्रकृतहानादसुन्दरमित्युक्तम् ।
अथ वा प्रमाणविशिष्टः सच्छब्दार्थ इत्येतदनेन निराक्रियते ।
न निश्चिते विशेषणाभावे विशिष्टाभिधायिशब्दानुविद्धः संशयो युक्त इति ।

अपि चाभावस्यापि प्रमेयत्वान्न प्रमाणयोग्यता सत्तालक्षणम् ।
तथा हि

असत्प्रमेयं च तथा यथैव स्थापयत्ययम् ।
अमितं हि तथा कस्मात्तथा न पुनरन्यथा ॥ २.४१ ॥


अवश्यं खल्वनेन सदसद्व्यवहारविभागमिच्छता असत्कथञ्चिद्व्यवस्थाप्यम्, अन्यथा व्यवहारसंकरात् ।
तत्र यदि प्रमाणस्याविषयः, यदि [कुप्पुस्वामी संस्करण ९२] सर्वशक्तिविरहो वासद्बुद्धेर्विषयः ।
सर्वथा तथा प्रमेयम् ।
अपरिच्छिन्नं हि तथा प्रमाणेन किमिति तद्विधम्, न पुनरन्यथा स्यात्? न चेत्तस्य तथाभावेऽतथाभावे वा प्रमाणव्यापारः किंनिमित्त एकपक्षानुरागः?

अपि च

अमित्वा कण्टकाभावं चरणं न्यस्यते कथम् ।
नान्यग्रहात्तस्य भावे पुरस्ताच्च प्रसङ्गतः ॥ २.४२ ॥

जिज्ञासा न प्रवर्तेत यदि संवित्त्यभावतः ।

’दृष्टिपूतं पदं न्यसेत्ऽ इति कीटकण्टकाद्यभावेऽप्रमिते कथं तन्न्यासः? तथा हि
कीटकण्टकाद्यर्थान्तरभूतलादिपरिच्छेदात्स स्यात्, कीटाद्यपरिच्छेदात्, अभावपरिच्छेदाद्वा ।
तत्र न तावदर्थान्तरपरिच्छेदात्, कण्टकादिभावेऽपि प्रसङ्गात् ।
तत्रापि वस्त्वन्तरपरिच्छेदस्य सत्त्वात् ।
प्रागपि च भूभागपरिच्छेदात्प्रसज्येत, यस्य कस्यचिद्वस्त्वन्तरस्य परिच्छित्तेर्विद्यमानत्वात् ।
अथ कीटकण्टकाद्यपरिच्छेदात्, न तद्भावाभावजिज्ञासा स्यात् ।
जिज्ञासापूर्वमपि ( जिज्ञासापूर्वकादपि एदितिओन्) प्रयत्नात्तदपरिच्छेदमात्रमेव प्राप्यते यस्याभावो न प्रमेयः ।
तच्च प्रागपि ततोऽस्ति ।
अभावे तु प्रमेयेऽभावनिश्चयाय जिज्ञासा युज्यते ।
न चापरिच्छेद एव जिज्ञास्यः, स्वतः सिद्धत्वात् ।
परिच्छेदेन हि स निवर्त्यते ।
अप्रमेयत्वाच्च सोऽपि खल्वभाव इत्यप्रमेयः ।


अथ मतम्
सत्सूपलम्भहेतुषु प्रमाणविषयस्यापरिच्छेदात्प्रवृत्तिः ।
तदसत्

प्रमाणविषयत्वस्य नोपयोगोऽत्र दृश्यते ॥ २.४३ ॥

असद्बोधेऽनन्यहेतुभानेन ह्युपयुज्यते ।

अपरिच्छेदाच्चेत्प्रवृत्तिर्न प्रमाणविषयत्वस्योपयोगः, इतरत्राप्यपरिच्छेदस्य तुल्यत्वात्ततश्च प्रवृत्तेः ।
यस्य स्वभावः प्रमेयः, तत्परिच्छेदात्प्रवृत्तिः, [कुप्पुस्वामी संस्करण ९३] तस्यानन्यनिमित्तत्वेनोपयोगवत्प्रमाणविषयत्वम् ।
नायमपरिच्छेदः सत्येवार्थे हेतुवैकल्यनिमित्तः, समग्रत्वात्तद्धेतूनाम् ।
तस्मादर्थाभावादिति ।

अथ यत्र प्रवृत्तिः स्यात्तत्र केवलसंविदः ॥ २.४४ ॥

जिज्ञासेत न सूक्ष्मार्थं कैवल्यं संविदो यदि ।
केवलो विषयो नेष्टो रूपोन्मिश्रेऽपि तद्यतः ॥ २.४५ ॥

विशिष्टस्य च नास्त्यन्यदन्याभावाद्विशेषणम् ।

यदि मतम्
यत्र भूभागादौ चरणन्यासादिलक्षणा प्रवृत्तिः, तस्य केवलस्य सा ज्ञानादिति ।
तत्रापि संप्रधार्यम्
किमिदं ज्ञानस्य कैवल्यमभिसंहितमेकविषयप्रतिनियमो विषयान्तरासंसर्गः, आहोस्विद्विषयस्य ।
यदि विज्ञानस्य, प्रमितेऽपि भूभागादौ स्थूले सूक्ष्मकीटकण्टकादिभावाभावपरीक्षा न स्यात् ।
प्रवर्तेतैव, केवलभूतलावग्रहज्ञानात् ।
अथ विषयस्य, तत्रापि संप्रधार्यम्
स्वरूपेण वा विषयस्य कैवल्यम्, विशेषणयोगेन वा ।
तत्र न तावत्स्वरूपेण, मिश्रेऽपि तस्य भावात् ।
विशेषणयोगेन कैवल्ये प्राप्ता कीटकण्टकाद्यभावविशिष्टपरिच्छेदात्पदन्यासादिलक्षणा प्रवृत्तिः ।
यतो नान्याभावाद्विशेषणमन्यादृशं किञ्चिद्दृश्यते, यद्विशेषणं वस्तु केवलं स्यादिति ।

नास्तीति धीव्यवहृती विषयं कमुपाश्रिते ॥ २.४६ ॥

मानाभावं यदि क्षुण्णं मेयाभावस्य तत्र किम् ।

अपि चानेन ’नास्तिऽइति बुद्धिशब्दयोर्विषयो वाच्यः ।
स न वस्तुस्वरूपेण, मिश्रेऽपि प्रसङ्गात् ।
न केवलम्, अभावादन्यस्य विशेषणस्याभावादित्युक्तम् ।
ननु ’नास्तिऽइत्ययमर्थः ’नेदं प्रमीयतेऽ इति, न पुनरभावोऽवगम्यते ।
विरुद्धमिदम्
नास्त्यवगम्यते चेति ।
यद्येवं प्रमाणाभावो विषय उक्तः स्यात्’नास्तिऽ इति धीशब्दयोः, तत्र कोऽपराधः स्यात्प्रमेयाभावस्य, येन [कुप्पुस्वामी संस्करण ९४] तमतिलङ्घ्य प्रमाणाभावो विषय उच्यते? न हि तयोर्निरुपाख्यत्वे कश्चिद्विशेषः ।

अथ मतम्

अग्रहेऽसद्ग्रहभ्रान्तिरभावव्यवहृद्भ्रमः ॥ २.४७ ॥

अभावे च व्यवहृतेरदृष्टौ ध्वान्तदृष्टिवत् ।

नैव स्तां ’नास्तिऽ इति बुद्धिव्यवहारौ ।
कथमिमौ सर्वजनानां प्रतीतावपह्नूयेते? उच्यते
भ्रमोऽयं सद्बुद्ध्यभावे तद्विपर्ययपरिच्छेद इति ।
तथा सद्व्यवहाराभावे तद्विपर्ययव्यवहारभ्रमः यथालोकदर्शनाभावे ’तमः पश्यामिऽइति विभ्रमः ।
न हि तमो नाम किञ्चिद्दृश्यमस्ति ।

नैतत्सारम्

इत्थं भवेत्सुषुप्तादौ त्रैलोक्याभावदृग्भ्रमः ॥ २.४८ ॥

अपरिच्छिन्दतः किञ्चिद्विभ्रमश्च न युज्यते ।
आरोपविषयारोप्ये नाजानन् रजतभ्रमी ॥ २.४९ ॥

नाभावभिन्ना व्यवहृत्तदभावश्च धीपदे ।
तमोदृष्टिस्तु भूच्छायामालोकाभावमेव वा ॥ २.५० ॥

आलम्बते न त्वदृष्टाविष्टो दर्शनविभ्रमः ।

यदि खल्वदर्शने विपर्ययदर्शनभ्रमो भवति सुषुप्ताद्यवस्थासु विश्वाभावदर्शनभ्रमः स्यादालोकादर्शनभ्रमवत् ।
न च किञ्चिदपरिच्छिन्दतो विभ्रमः ।
तथा हि
आरोपस्य विषयं पुरोवर्ति वस्तु आरोपणीयं च रजतं ज्ञानेनानाप्नुवन्न रजतभ्रमवान् भवति ।
अन्यथाप्रतिपत्तिः, स्मृतिः, सामान्यप्रतिपत्तिर्वा ।
न च बुद्ध्यभावो ज्ञानस्य विषयो न व्यवहाराभावः, नाभावबुद्धिर्नाभावव्यवहारः, विशेषणस्याभावस्य ज्ञानाविषयत्वात् ।
तत्रोभयोर्विषयारोपणीययोरग्रहणे न मिथ्याज्ञानमिति ।

अभ्युपगम्य प्रमाणयोग्यतां सत्तां दोषाभाव उच्यते

[कुप्पुस्वामी संस्करण ९५] अस्तु वा मानयोग्यत्वं सत्त्वं तच्च प्रमीयताम् ॥ २.५१ ॥

तस्मिन्मिते वस्तुसत्त्वं भवत्यागमगोचरे ।
न च सापेक्षता नास्मिन्नन्तरार्थविभिन्नताम् ॥ २.५२ ॥

प्रचक्षते येऽपि सत्तामन्यां न प्रतिजानते ।

भवतु वा प्रमाणयोग्यता सत्ता ।
सैव च प्रमेयास्तु ।
तत्प्रमेयं वस्तुसत्त्वमागमार्थः ।
न च प्रमाणान्तरापेक्षता दोषः, प्रमाणान्तरसंभेदस्याभावात् ।
’प्रमाणयोग्यःऽइत्येतावन्मात्राधिगतेः ।
तथा हि
येऽपि प्रमाणयोग्यतां सत्तामाहुर्न तद्व्यतिरेकिणीम्, तेऽपि नात्रान्तरार्थसंस्पर्शमिच्छन्ति ।
तत्संस्पर्शे ह्यन्यत्प्रमाणमन्वेष्यं स्यात् ।
कथं नान्वेष्यम्? यदा वचः प्रमाणयोग्यतायां पर्यवसितं न विशिष्टार्थसत्त्वं बोधयति, तत्र यस्य प्रमाणस्य योग्यो विशिष्टोऽर्थस्तदवश्यापेक्षणीयम् ।
किमर्थं तदपेक्ष्यते? विशिष्टवस्तुसत्त्वाधिगमाय ।
कं पुनर्विशिष्टस्य वस्तुनः सत्त्वम्? प्रमाणयोग्यत्वम् ।
अधिगतमेव तर्हि तदस्त्यर्थनिष्ठाद्वचनात्, प्रमाणयोग्यताया अस्त्यर्थत्वात् ।

प्रमाणान्तरसंभेदाभ्युपगमेऽपि नाप्रामाण्यप्रसङ्गदोष इति दर्शयति

प्रमाणान्तरभिन्नार्थमपि मानं न नो वचः ॥ २.५३ ॥

निरपेक्षमिहार्थे तु प्रमितं वस्त्विदं मया ।
अर्थमात्रे च सापेक्षमन्यापेक्षार्थबोधनात् ॥ २.५४ ॥

अबाधितमपि त्वर्थे प्रमाणांशेऽपबाधनात् ।
तत्राप्रमाणतामेति बुद्धानाप्तवचो यथा ॥ २.५५ ॥


न खलु प्रमाणान्तरसंभिन्नार्थमपि वचो न प्रमाणम्, प्रमाणमेव ह्याप्तवाक्यम् ।
कथं पुनः प्रमाणं सापेक्षमिति चेत्, उच्यते
निरपेक्षमेव तत्’प्रमितोऽयं मयार्थःऽइत्यस्मिन्नर्थे ।
केवले ह्यर्थे ’ेवमयमर्थःऽइत्यप्रतीतेः ’ेवमयं पुरुषो वेदऽइति च प्रतीतेः पुरुषज्ञानापेक्षम् ।
तत्रोपलब्धौ तावदनपेक्षत्वात्प्रामाण्यमश्नुते तत्सिद्धिद्वारश्च पश्चादर्थ इति ।
कथं तर्हि पुरुषवचः किञ्चिदबाधितार्थमपि सापेक्षत्वेनाप्रमाणं कथ्यते? उच्यते
यद्यप्यर्थे बाधो नास्ति, यदपेक्षं त्वस्यार्थे प्रामाण्यं यत्सिद्धिमुखेन तं साधयति तत्र प्रमाणांशे बाध्यते ।
तस्यासिद्धेस्तद्द्वारेण नार्थसिद्धिरित्यर्थेऽप्रमाणम्, यथातीन्द्रियार्थे बुद्धवचः पुरुषस्य दर्शनासंभवात् ।
यथोक्तम्
’पुरुषाशक्तितस्तत्र सापवादत्वसंभवःऽ ।
इति ।
यथा च विप्रलम्भकवाक्यम्, अयथादृष्टार्थवादित्वस्य प्रमाणावगतत्वात् ।

आप्तवाक्यं पुनर्नार्थे न मानांशेऽपबाधितम् ।
निरपेक्षं प्रमाणांशे व्यवहारोऽन्यथा कथम् ॥ २.५६ ॥

आप्तवचः पुनर्नार्थे नापि प्रमाणांशे संभवत्प्रमाणगोचरं बाध्यते ।
प्रमाणांशे चानपेक्षं तन्मुखेन चार्थसिद्धिं विदधन्नाप्रमाणं भवितुमर्हति ।
अन्यथा शब्दनिबन्धनो व्यवहारो न स्यात् ।

मयेति वक्त्रभावेन संभेदरहितं ततः ।
प्रलीनज्ञानविज्ञेयविभागं स्वात्मवेदनम् ॥ २.५७ ॥

[कुप्पुस्वामी संस्करण ९६] प्रवेदयन्तु वेदान्ता मानान्तरमलौकिकम् ।
तत्सिद्धिसिद्धतार्थस्य पुंवचोवद्भविष्यति ॥ २.५८ ॥


एवं च प्रमाणान्तरसंभिन्नार्थत्वेऽपि वेदान्तवचसां न प्रामाण्यव्याहतिः, आप्तवाक्यवत् ।
तथा हि
तान्यपि ज्ञानज्ञेयविभागविकलं स्वप्रकाशरूपमलौकिकं काममवगमयन्तु प्रमाणान्तरम्, तद्द्वारा चार्थसिद्धिराप्तवचनवत् ।
इयांस्तु विशेषः स्यात्
वेदे वक्तुरभावात्’मयाऽइति संस्पर्शो न स्यात् ।

अभ्युपगमवादं परिसमाप्य प्रकृतमुपसंहरति
एवं न मेयता सत्ता
परः पुनः प्रत्यवतिष्ठते
नन्वन्यापि न युज्यते ।

[कुप्पुस्वामी संस्करण ९७] न हि पूर्वावमर्शेन विना सामान्यकल्पना ॥ २.५९ ॥


गामेकामीक्षितवतो जायतेऽन्यत्र यादृशः ।
अवमर्शो दृष्टसतस्तथा न हि सदन्तरे ॥ २.६० ॥

एकशब्दप्रवृत्तिस्तु दण्ड्यादिवदुपेयताम् ।

दृष्टरूपावमर्शः सामान्यकल्पनायां प्रमाणम् ।
यथा
बाहुलेयं दृष्टवतः शाबलेये ’स एवायम्ऽ इति ।
न च किञ्चित्सद्गृहीतवतोऽन्यत्र स भवति ।
एकशब्दप्रवृत्तिस्तु विनापि सामान्येनार्थान्तरयोगनिमित्ता, दण्डिपाचकादिशब्दवत् ।
अत्रोच्यते

को नु पूर्वावमर्शोऽयं पूर्वरूपान्वयो धियः ॥ २.६१ ॥

सदन्तरेऽपि सोऽस्त्येव कयाचित्खलु मात्रया ।
सर्वात्मना त्वनुगमो न दृष्टः खण्डमुण्डयोः ॥ २.६२ ॥

न तादृशश्चेन्नो भेदमात्राद्वेद्यः स्वपह्नवः ।
न भेदमात्रान्मृज्जातिहीनं मणिकमल्लकम् ॥ २.६३ ॥

रूपान्वयः प्रत्ययस्य मणिकेषु हि यादृशः ।
न दृष्टमल्लकस्यास्ति मणिके खलु तादृशः ॥ २.६४ ॥


कः पुनरयं पूर्वावमर्शः
पूर्वरूपावभासो बुद्धेः, अथ ’सोऽयम्ऽ इति पूवार्परानुसन्धानम् ।
तत्र यदि पूर्वः कल्पः, सोऽस्त्येव सदन्तरे मात्रया ।
तथा हि
निरुपाख्यवैलक्षण्येन सतां तुल्यरूपता प्रकाशते ।
अन्यथा निरुपाख्यवत्सन्तोऽप्यत्यन्तविलक्षणाः प्रकाशेरन् ।
अथ सर्वरूपानुगमः, सोऽभिप्रेतेऽपि सामान्यगोचरे नास्ति ।
न हि खण्डमुण्डयोः सर्वात्मनान्वयः, एकत्वप्रसङ्गात्सामान्याभावापत्तेः ।
अथ न तादृशो यादृशः खण्डादिषु ।
तदसत् ।
न विशेषमात्रेण संवेद्यान्वयिरूपप्रत्याख्यानं युज्यते, गोत्वादेरपि तत्संभवात् ।
न हि देवदत्तस्य द्वितीयदर्शने यादृशो रूपानुगमः, [कुप्पुस्वामी संस्करण ९८] तादृशः खण्डं दृष्टवतो मुण्डदर्शने ।
सामान्यगोचरेऽपि च न सर्वत्र तुल्यः ।
नानामणिकविलक्षणो हि मणिकशराबयो रूपान्वयः ।
न च तावता मृज्जातिहीनता तयोः, किञ्चित्तुल्यतयावभासमानत्वात् ।

अथ द्वितीयः कल्पः, अत्रोच्यते

पूर्वावमर्शः स इति प्रख्येत्यपि न शोभते ।
मणिकं वीक्षितवतः सोऽपि नोदेति मल्लके ॥ २.६५ ॥


पूर्वापरानुसन्धानात्मिका ’सोऽयम्ऽइत्यभेदमवगमयन्ती भिन्नेष्वपि सामान्यकल्पनाहेतुर्बुद्धिः पूर्वावमर्श इत्युच्यत इत्येतदपि न शोभते ।
यतो नानुसन्धानादेवाभेदसिद्धिः ।
अभिन्नरूपावभासादपि ।
अन्यथा नाभिन्नदेशकाल एकोऽर्थः स्यात् ।
न हि तत्र देशकालभेदाभावे ’सःऽ इत्यनुसन्धानम् ।
अपि च दृष्टमणिकस्य मल्लके न भवति द्रागिव ’सःऽइत्यनुसन्धानं खण्डमुण्डवत् ।
न चैवं मृज्जातिहीनता ।
विमृशतस्तु ’तज्जातीयमिदम्ऽइति बुद्धिः सदन्तरेऽपि समाना ।

तुल्ये तर्हि सामान्ययोगे कस्मात्क्वचित्’सःऽइत्यवमर्शः नान्यत्र? उच्यते

सामान्यरूपभूयस्त्वे तस्मात्तत्त्वं प्रकाशते ।
विलक्षणत्वमल्पत्वे चकास्ति तदनुद्भवात् ॥ २.६६ ॥

यस्मात्सत्यपि सामान्ययोगे मणिशराबयोः ।

न ।
’सःऽइति प्रख्या मणिकान्तरे च भवति भूयिष्ठसामान्ययुक्ते ।
तस्मात्सामान्यरूपाणां भूयिष्ठत्वेनोद्भवात्’सःऽ इति तत्त्वप्रख्या ।
अल्पत्वे तु न तथा, तेषामनुद्भवात् ।

न च दण्ड्यादिवदेकशब्दप्रवृत्तिरित्याह

प्रमाणं कार्यविज्ञेयमसंयोज्यास्ति धीर्यतः ॥ २.६७ ॥

प्रथमं जायते तस्मान्न दण्ड्यादिसमानता ।

[कुप्पुस्वामी संस्करण ९९] नागृहीतविशेषणा विशिष्टबुद्धिः ।
न च विशिष्टबुद्धेः प्राक्(सद्बुद्धेः प्राकेदितिओन्) प्रमाणग्रहणं तत्कालं वा ।
तथा हि प्रमाणादेव सा भवति ।
प्रमाणं च प्रमितिकार्योन्नेयत्वात्पश्चात्सत्प्रतिपत्तेर्गृह्यते ।
तस्मादग्रहात्प्रमाणस्य तत्संयोजनविकला सा न प्रमाणयोगनिमित्ता ।
यदि तर्हि न प्रमाणयोगोऽस्त्यर्थः, कथं तत्कालानुविधायिनी कालप्रवृत्तिरस्त्यर्थे
’कूपोऽस्तिऽ ’कूपोऽभूत्ऽ ’कूपो भविष्यतिऽ इति? तदुपाधिप्रकल्पितभेदत्वात्, देवदत्तसत्ताया इव पाटलिपुत्रसंयोगोपाधिकल्पितभेदाया इति ।

न च ’क्रियामन्तरेण न संसर्गः पदार्थानाम्ऽ इति शब्दार्थनयविदामविगानमित्याह

संबन्धमात्रावसितमपि चान्ये विपश्चितः ॥ २.६८ ॥

आहुर्वचोऽक्रियमयं राज्ञो ना फलिनो द्रुमाः ।

’राज्ञोऽयं पुरुषःऽफलिता एते वनस्पतयःऽइति क्रियारहितेष्वपि संसर्गः प्रतीयते ।
न चेहापि ’स्तिक्रियाऽ इति युज्यते ।
यतो न निर्ज्ञातराजसंबन्धस्य पुरुषस्य फलवतां च वनस्पतीनां सत्तेह प्रतिपाद्या गम्यते ।
न ह्येते वाक्ये सत्तायां पर्यवस्यतः ।
किं तु पुरुषस्य राजसंबन्धे, द्रुमाणा च फलसंबन्धे
’योऽयं पुरुषः, स राज्ञःऽ ’य एते वनस्पतयः, ते फलिताःऽ, न ’यो राजपुरुषः, सोऽस्तिऽ ’ये च फलिताः ते सन्तिऽ इति ।
यदपि केचित्
’वधार्यताम्ऽ इति प्रतिपत्तिक्रियाविधिना क्रियावत्तां मन्यते, तदपि शब्दादेव प्रतिपत्तेः सिद्धत्वात्प्राङ्निरस्तमेवेति ।

अथापि न क्रियारहितं वाक्यमस्ति क्रियायां च सापेक्षता, तथापि न दोष इत्याह

जनिक्रियावसानाच्च विशिष्टं शक्यबोधनम् ॥ २.६९ ॥

कारणं जायत इदमीदृक्षात्कारणादिति ।

[कुप्पुस्वामी संस्करण १००] ’ीदृक्षात्कारणाज्जगज्जायतेऽ इति जनिक्रियानिष्ठादपि वाक्यात्तद्विधकारणसत्ता शक्यते प्रतिपत्तुम् ।
यथा
’ीदृशात्तरोरिदं फलमजनिऽ इति तद्विधतरुसद्भावः ।
तथा च श्रुतयः काश्चिदेवमेव ब्रह्म प्रतिपादयन्ति
’सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेऽ ’यथाग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्ति एवमेवास्मादात्मनः सर्वे देवाःऽ इत्यादि ।
तथा

यथोर्णनाभिः सृजते गृह्णते च
यथा पृथिव्यामोषधयः संभवन्ति ।
यथा सतः पुरुषात्केशलोमानि
तथाक्षरात्संभवतीह विश्वम्ऽ ॥


तदेतत्सत्यम्
ऽयथा सुदीप्तात्पावकाद्विष्फुलिङ्गाः
सहस्रशः संभवन्ते सरूपाः ।
तथाक्षराद्विविधाः सोम्य भावाः
प्रजायन्ते तत्र चैवापियन्तिऽ ॥


तथा
ऽदिव्यो ह्यमूर्तः पुरुषः स बाह्याभन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रोऽक्षरात्परतः परः ॥


एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणिऽ ॥
इति ।

इदानीं पदार्थसंसर्गायैव विधिराश्रयितव्य इति प्रत्यवतिष्ठते

[कुप्पुस्वामी संस्करण १०१] ननु प्रमान्तराधीनसंसर्गाः पुरुषोक्तिषु ॥ २.७० ॥

पदार्था विध्यधीनात्मसंश्लेषा इतरत्र तु ।
पदानां रचना तत्र विवक्षापरिपूर्तये ॥ २.७१ ॥

प्रमाणान्तरगम्येऽर्थे विवक्षा च व्यवस्थिता ।
विध्यर्थसिद्धये वेदे तदभावे त्वसंगतेः ॥ २.७२ ॥

विशिष्टार्थगतिर्भ्रान्तिरग्रहे ग्रहविभ्रमः ।

विवक्षितार्थनिष्पत्तये हि लोके पदानां समभिव्याहारः ।
नैकपदसाध्यो विवक्षितार्थः ।
प्रमाणान्तरोपलब्धश्च विवक्षाविषयः ।
तेन तत्र प्रमाणान्तरायत्तः संसर्गः ।
तथा च तद्विरोधेऽसंसर्ग एव पदार्थानाम्
’जरद्गवः पादुककम्बलाभ्याम्ऽ इति ।
वेदे तु प्रमाणान्तराभावाद्विधिनिबन्धनोऽसौ ।
तदभावे त्वसंभवाद्येयं विशिष्टार्थगतिरुच्यते सा भ्रान्तिः, समभिव्याहारात् ।
सोऽयं विवेकाग्रहे संसर्गग्रहविभ्रमः ।
अत्रेदमेव विचार्यम्
कथं लोके प्रमाणान्तराधीनः संसर्गः? इति ।
यदि प्रमाणान्तरेण तदवगमात् ।
तदसत्, अपूर्वस्यापि तस्य प्रतीतेः ।
अन्यथा वचनवैयर्थ्यात् ।
अनधिगतं हि श्रोतुरर्थं बोधयितुं वचः प्रयुज्यते ।
अथ संसर्गयोग्यतामात्रस्य प्रमाणान्तरेणावगमात्, समानमेतद्वेदे ।
तथा हि
अरुणया क्रीणातीति संसर्गः, नारुणयैकहायन्येति ।
तथा भावार्थो नियोगविषयः, न द्रव्यगुणशब्दार्थ इति प्रमाणान्तरावसितयोग्यतासामर्थ्येनैव व्यस्थाप्यते ।

अथ न विवक्षैकपदावगम्या, तदर्थमात्रविवक्षाया निष्प्रयोजनत्वात् ।
तस्माद्विवक्षाविशेषसिद्धिर्नासंसृष्टेषु पदार्थेषु भवतीति तथा विवक्षया प्रयुक्ताः संसृज्यन्ते ।
सा च प्रमाणान्तरसिद्ध इति ।
एवमपि विवक्षानिबन्धनः स्यात्, तत्प्रयुक्तानां संसर्गात् ।
न प्रमाणान्तरनिबन्धनः ।
यतो न तत्तस्य प्रतिपादकम्, [कुप्पुस्वामी संस्करण १०२] न प्रयोजकं वा ।
यत्तु प्रमाणान्तरसिद्धे विवक्षेति ।
भवतु ।
न तु तस्य संसर्ग उपयोगः ।
तथा हि (न तस्य संसर्ग उपयोगः ।
तथा च एदितिओन्) विप्रलम्भकवाक्येऽपि संसर्गप्रतीतिः ।
यत्तु विरोधे न संसर्गः ।
कामम् ।
न तु ततः संसर्गः ।
विरोधेऽपि तु नासंसर्गः, प्रतीतेः ।
प्रतीतोऽपि तु बाध्यते प्रमाणान्तरेण ।
एवं चानृतं किञ्चिद्वचः, किञ्चिदनर्थकम्
दशदाडिमादि, किञ्चित्सत्यम् ।
अन्यथानृतानर्थकविभागो न स्यात् ।

अथ प्रमाणान्तरेणोपलभ्यार्थं विवक्षित्वा परस्मै प्रतिपादयति पुरुषः ।
तेन तद्वचसः प्रमाणान्तरोपलब्धिरेवार्थः ।
सैव प्रयोजिका पदार्थसंसर्गस्य ।
तस्याः प्रयोजिकाया अभावान्न वेदे पदार्थसंसर्गसिद्धिः ।
मा भूत्सा ।
विशिष्टार्थ एव प्रयोजकः ।
अथ लोकावगम्यत्वाच्छब्दसामर्थ्यस्य लौकिकप्रयोजकाभावान्न संसर्गः, विधिमत्त्वेऽपि न स्यात् ।
अथ लोके संसर्गमात्रपरत्वेऽर्थापत्तिः ।
न तद्विशेषे, तन्मात्रेणप्रतीतिप्रयोगयोरुपपत्तेः ।
विनापि प्रमाणान्तरोपलब्ध्या विशिष्टार्थगतिसिद्धिः ।
अथ प्रमाणान्तराल्लोके संसर्गसत्यतावगमः ।
अपूर्वोऽपि हि श्रोतुः संसर्गो वक्तुः प्रमाणानुमानमुखेन सत्यतां लभते तदसंभवेऽसत्यत्वाद्बुद्धादिवाक्येषु ।
तेन प्रमाणान्तरनिबन्धनो लोके संसर्ग उच्यते ।
भवतु ।
वेदे तु प्रमाणान्तरसंभेदाभावात्स्वातन्त्र्येणार्थप्रतीतेः शब्दनिबन्धन एव ।

तदास्तामेतत् ।
भवतु यथा लोके ।
इदं तु पर्यनुयुज्यते

कथं नु विध्यधीनत्वं यदि स्यादन्यथा वृथा ॥ २.७३ ॥

विधिर्निर्विषयस्तुल्यमिदमन्यपदोदिते ।
विशिष्टार्थावगत्यान्यपदार्थोऽपि प्रयुज्यते ॥ २.७४ ॥

अर्थवत्त्वे प्रमाभावादस्त्वसौ चेदनर्थकः ।
विधिर्नैवं कस्य हेतोरथ स्यादपरं पदम् ॥ २.७५ ॥

प्रमाणान्तरसिद्धेऽर्थे प्रयोगि न विधायकम् ।
[कुप्पुस्वामी संस्करण १०३] तदर्थोऽनन्यगम्यो हि मीयमानः समाक्षिपेत् ॥ २.७६ ॥

विषयं न यथासिद्धपदार्थस्त्वनुवादभाक् ।
अव्युत्पन्नप्रवृत्तिः स्यात्संबन्धज्ञाननिह्नवे ॥ २.७७ ॥

पदं स्वधर्मं व्युत्क्रामेदन्यसिद्धार्थतान्यथा ।

न तावद्विधिः साक्षात्संसर्गसामान्यं तद्विशेषं वा बोधयति ।
अथाक्षिपति, अन्यथा नियोगमात्रं निर्विषयमनर्थकं स्यात् ।
पदार्थान्तरेष्वपि तुल्यमेतत् ।
तेऽपि केवलाः पदार्थान्तरसंसर्गमनाप्नुवन्तोऽपूर्वार्थप्रतिपत्तेरभावादनर्थकाः ।
न च लोके पदैः स्वार्थाः स्वरूपमात्रनिष्ठतयैव प्रत्य्यन्ते ।
किं तु विशिष्टार्थप्रत्ययप्रयुक्ताः ।
तथा व्यवहारोपपत्तेः ।
तथा च प्रतिपदार्थं संसर्गाक्षेपः ।

स्यादेतत्
लोके बुद्धिपूर्वप्रयुक्तानां मा भूदानर्थक्यमिति संसर्गार्थता ।
वेदे तु नार्थवत्त्वे प्रमाणमस्ति ।
अतः पदार्थान्तरमनर्थकमेवास्तु ।
नैतत्सारम् ।
नान्यथानर्थक्यमित्यप्रमाणोऽर्थः शक्यः प्रतिपत्तुम्, यस्य कस्यचित्प्रतिपत्तिप्रसङ्गात् ।
तस्माद्व्यवहारात्संसर्गप्रयुक्तस्वार्थावबोधसामर्थ्यमेव पदानां गम्यते ।
ततो वेदेऽपि संसर्गाक्षेपः ।
यदिचान्यपदार्थानामानर्थक्यम्, विध्यर्थस्य तन्न कस्मात्? आथ मतम्
पदान्तराणि प्रमाणान्तरसिद्धेऽर्थे प्रयुज्यन्ते ।
तानि यथावगतार्थानुवादपर्यवसितानि ।
तथा हि
अनूद्यमानोऽर्थो यथावगममनुवादान्नापूर्वार्थाक्षेपायालम् ।
विधायकस्तु शब्दोऽनन्यगम्यार्थविषयस्तदर्थः प्रमीयमाणः शक्नोत्यपूर्वमर्थमाक्षेप्तुमन्यथानवकल्पमानः ।
तस्माद्वेदे विधिनिबन्धनोऽपूर्वसंसर्ग इति ।
तदयुक्तम् ।
प्रमाणान्तराविषयश्चेद्विधायकार्थः, तत्र संबन्धज्ञानमशक्यमिति निह्नूयेत ।
तथा च संबन्धज्ञानानपेक्षत्वादव्युत्पन्नोऽपि प्रवर्तेत ।
संबन्धज्ञानापेक्षता च पदधर्मो व्युत्क्रम्येत ।
तन्निरपेक्षता वाक्यधर्म आश्रीयेत ।
अथ संबन्धापेक्षता नास्य निह्नूयेत, बलात्प्रमाणान्तरसिद्धार्थतापद्येत ।
तथा च न विशेषः ।

[कुप्पुस्वामी संस्करण १०४] शब्दादेव मिते योऽपि मन्यते संगतिग्रहम् ॥ २.७८ ॥

नान्योन्यसंश्रयावद्यं न स्वयं प्रमिते हि सः ।
परेण शब्दावगते तत्प्रवृत्त्या च सूचिते ॥ २.७९ ॥

पदार्थान्तरवत्तत्र सुकरः संगतिग्रहः ।

योऽपि मन्यते
न प्रमाणान्तरसिद्धे विद्ध्यर्थे संबन्धज्ञानम् ।
अपि तु शब्दसिद्ध एव ।
न चान्योन्यसंश्रयदोषः
शब्दात्सिद्धे संबन्धज्ञानम्, संबन्धज्ञानपूर्विका च शब्दात्सिद्धिरिति ।
यतो न स्वयं शब्दात्प्रमिते तदुच्यते ।
किं तु वृद्धप्रयुक्ताद्वृद्धान्तरेणावगतेः ।
तदवगमाच्च तस्य वृद्धस्य या प्रवृत्तिस्तयानुमिते ’नूनमनेन वृद्धेन प्रतिपन्नः कश्चित्प्रवृत्तिहेतुरर्थोऽस्माच्छब्दात्, येनायमेतच्छ्रवणात्प्रवृत्तःऽ इति ।
यथा ’गामानयऽ इति सास्नादिमदानयनदर्शनात्तत्प्रत्ययमनुमाय तत्र संबन्धग्रहणमिति ।

तस्यैवमनुमेयत्वे कथं शब्दैकगोचरः ॥ २.८० ॥

तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः ।
कस्मान्न शब्दबोधोऽपि ह्यनुमानपुरस्सरः ॥ २.८१ ॥
नेदंप्रथमता लभ्या बीजाङ्कुरवदेतयोः ।
शब्दाद्बोद्धुश्चानुमानं सर्वस्यैव पुरः स्थितम् ॥ २.८२ ॥

पदार्थान्तरवत्तेन तस्य शब्दोनुवादकः ।
अनुमानाद्बुध्यमानः शब्दाद्बुद्धं न बुध्यते ॥ २.८३ ॥

प्रतिपत्त्रन्तेरे बोधो नान्यबोधानुवादकृत् ।
प्रवृत्तिहेतुमात्रं च शब्दार्थः स्यादलौकिकः ॥ २.८४ ॥

न स कल्पयितुं शक्यस्तत्सिद्धेर्लौकिकादपि ।

[कुप्पुस्वामी संस्करण १०५] यदि प्रवृत्त्युन्नीयमानप्रत्ययविशेषणत्वेन व्यवस्थितोऽनुमेयो विधायकार्थः संबन्धज्ञानविषयः, न तर्हि शब्दैकप्रमाणकः ।
अथानुमानं शब्दपूर्वकमिति तथोच्यते, शाब्दोऽपि प्रत्ययोऽनुमानपूर्वक इत्यनुमानैकगोचरः स्यात् ।
न खलु बीजाङ्कुरयोरिवानयोरेकस्य प्राथम्यं व्यवस्थापयितुं शक्यम् ।
शब्दावगतस्यानुमानात्, अनुमितस्य विदितसंगतेः शब्दादवगमात् ।
अपि च सर्वप्रतिपत्तॄणामनुमानपूर्वा शब्दात्प्रतिपत्तिरिति तेषां शब्दोऽनुवादक एव ।
तथा हि
शब्दाद्बुद्ध्यमानोऽनुमितं विदितसंगतिं बुध्यते सर्वप्रतिपत्ता, न त्वनुमिमानः शब्दावगतमनुमिमीते ।
ननु शब्दावगत एवानुमीयते ।
सत्यमनेन तु प्रतिपत्त्रा ।
न चान्यदीया प्रतिपत्तिरन्यप्रतिपत्तिमनुवादीकरोति ।
प्रवृत्तिहेतुमात्रे च संबन्धव्युत्पत्तेस्तन्मात्रं शब्दार्थः स्यात् ।
न चालौकिकः कल्पयितुमपि शक्यः, लौकिकादपि प्रवृत्तिसिद्धेः ।
स्यादेतत्
वैदिकीषु प्रवृत्तिषु तदसंभवादलौकिककल्पना ।
नैतत् ।
लोकावगतसामर्थ्यो हि शब्दो वेदेऽपि प्रतिपादकः ।
तत्र लौकिकीषु प्रवृत्तिषु लौकिके विदितसंबन्धे वेदेऽपि तत्प्रतिपत्तिरेव स्यात् ।
असंभवे वा मिथ्यात्वम् ।

अथ बहुविधत्वात्प्रवृत्तिहेतूनां व्यभिचारादशब्दार्थत्वे प्रवृत्तिहेतुसामान्यं शब्दार्थः ।
तत्र वेदे लौकिकानां विशेषणानामसंभवादलौकिकं विशेषान्तरं प्रतीयते ।
एवमपि यः शब्दार्थो वेदे सामान्यं स लोकसिद्ध इति नानुवादता व्यावर्तते पदार्थान्तरवत् ।
योऽपि विशेषः सोऽन्यासंभवेन परिशेषानुमानगोचर इति न प्रमाणान्तराविषयत्वम् ।
न च परिशेषानुमानमपि श्रेयःसाधनतायाः संभवात् ।
अथ मतम्
लोकव्यवहार इव वेदव्यवहारोऽप्यनादिः ।
तत्र वैदिकीषु प्रवृत्तिषु लौकिकप्रवृत्तिहेत्वभावादलौकिके [कुप्पुस्वामी संस्करण १०६] तु प्रवृत्तिहेतौ वैदिकानां विधायकानां संबन्धज्ञानम् ।
न चानुमेयत्वम्, तत्प्रत्ययस्य प्रवृत्त्यानुमानात् ।
तत्सिद्धिस्तु तत्प्रत्ययसामर्थ्येनैव ।
स च प्रत्ययः शब्दोत्थ इत्यनन्यप्रमाणता ।
न च लौकिकस्यैव श्रेयःसाधनत्वस्य संभव इति युक्तम् ।
लौकिकी हि प्रमाणान्तरावगम्या श्रेयःसाधनता ।
तत्र प्रयोगदर्शनाल्लिङादेस्तदनुसारेण च शब्दार्थावधारणात्प्रमाणान्तरगम्यतापि शब्दार्थानुप्रवेशिनी ।

अत्रोच्यते
भवतु नाम वेदव्यवहारादेव शब्दार्थानुगमः, तथापि न प्रमाणान्तरगोचरता व्यावर्तते ।
तथा हि
अलौकिके प्रवृत्तिहेतौ शब्दस्य सामर्थ्यज्ञानकाले प्रमितो वा स्यात्, न वा? प्रमितश्चेत्, शब्दसंबन्धस्य तदैव ज्ञायमानत्वादवश्यं प्रमाणान्तरेणेति वाच्यम् ।
अथ न प्रमितः, कथं तत्र संबन्धज्ञानम्? न ह्यप्रमितयोः संबन्धिनोस्तदाश्रयः संबन्धः प्रमातुं शक्यः ।

योऽपि मन्यते
शक्तिर्हि शब्दस्य संबन्धः ।
सा च नार्थे, तस्य व्यवस्थितत्वात् ।
प्रत्ययस्तु तस्य कार्यः ।
स च प्रवृत्त्यानुमितः ।
तत्रैव सामर्थ्यलक्षणः संबन्धः प्रमीयत इति ।
स इदं प्रष्टव्यः
किं प्रत्ययमात्रे सामर्थ्यं गृह्यते, अथ विशिष्टे प्रवृत्तिहेतुप्रत्यये? यदि प्रत्ययमात्रे, यत्किञ्चित्ततः प्रतीयेत ।
अथ विशिष्टे लौकिकव्यतिरिक्तप्रवृत्तिहेतुप्रत्यये, प्रवृत्तिपरिशेषाभ्यां तस्यानुमितत्वात्प्राप्तं प्रमाणान्तरगोचरत्वम् ।
द्वयी हि विशेषणस्य गतिः
स्मार्ताकृष्टं विशिष्टप्रमितावङ्गत्वमेति, यथाग्निमान् धूमादिति ।
विशिष्टग्राहिप्रमाणप्रमेयं वा, यथा शुक्लो गौरिति ।
उभयथा च प्रमाणान्तरविषयः, शब्दस्यानधिगतसंबन्धत्वात् ।
स्मार्ताकृष्टत्वे प्रमाणान्तरमन्वेष्यम् ।
द्वितीयेऽपि कल्पे विशिष्टप्रत्ययानुमानानुमितत्वात् ।
अथानुमानस्य [कुप्पुस्वामी संस्करण १०७] प्रत्यय एव प्रामाण्यम् ।
प्रतीतिमात्रं तु तत्र विशेषणस्य ।
तावता च तद्विशिष्टप्रतीत्यङ्गम् ।
विशेषणप्रमितिस्त्वनुमितात्प्रत्ययात्, यथा पुरुषवचनाद्विशिष्टार्थप्रमाणेऽनुमितेऽर्थसिद्धिस्तत एव प्रमाणात् ।
तत्र ह्यर्थः प्रतीतिमात्रेणैव वक्तृज्ञानस्य विशेषणम् ।
तदेतदपेशलम्, स्मृतिप्रमाणसंशयविपर्यासविकल्पान्तर्गमात्प्रतीतेः ।
तत्रालौकिकविशेषणप्रतीतिर्न स्मृतिः, प्रागनधिगतेः ।
न संशयः, कोटिद्वयसंस्पर्शाभावात् ।
न विकल्पः, प्रवृत्तिहेतुप्रत्ययस्यापि तथा प्रसङ्गात् ।
तथा न विपर्यासः कथं हि तत्र यथार्थत्वे तथाभूतग्राहिणी तत्प्रतीतिरर्थशून्या स्यात्? परिशेषात्प्रमाणम् ।
परज्ञानेन च परः प्रतिपद्यत इति सुभाषितम् ।
अथ मतम्
न परज्ञानेन परः प्रतिपद्यते, किं तु स्वज्ञानेनैव परज्ञानसामर्थ्यात् ।
अथ तस्य स्वज्ञानं कतमत्प्रमाणमिति वाच्यम्, न तावच्छाब्दम्, शब्दविज्ञानादर्थे विज्ञानमिति लक्षणात् ।
न च तच्छब्दज्ञानात् ।
कुतस्तर्हि? शब्दोत्थज्ञानादनुमितात् ।
अथ तस्य प्रामाण्ये प्रवृत्तिहेतुसद्भावसिद्धिः ।
प्रामाण्यं च तस्य दोषरहितशब्दोद्भवात् ।
तेन शब्दस्य तत्र प्रामाण्यमुच्यते ।
तदधीनस्तत्रार्थनिश्चय इति ।
तदप्यसांप्रतम्, शब्दादर्थज्ञानं शाब्दमिति लक्षणात् ।
पुरुषवचनमपि नार्थे न प्रमाणम् ।
किं तु ज्ञानविशेषणे ।
द्वयी च विशेषणस्य गतिरुक्ता ।
तत्र स्मृत्यसंभवात्प्रमीयमाण एव स विशिष्टार्थप्रमित्यङ्गम् ।
अन्यथार्थे प्रमाणान्तरमन्वेष्यं स्यात् ।
न च वक्तृज्ञानेनैवार्थसिद्धिः, परज्ञानेन न परः प्रतिपद्यत इत्युक्तम् ।

[कुप्पुस्वामी संस्करण १०८] यत्तूक्तम्
वक्तृज्ञानाधीनार्थसिद्धिरिति, तत्तन्मिथ्यात्वे तदसंभवे वा प्रमाणप्रतीतिबाधनेऽर्थप्रतीतेरपि बाधनात्तदबाधे चाबाधात् ।
न तु वचसोऽर्थो न विषयः ।
अन्यथा प्रमाणान्तरपरतन्त्रं पुरुषवचोऽर्थे सापेक्षमित्येतदेव न स्यात् ।
न हि यो यस्याविषयः स तत्र सापेक्षोऽनपेक्षो वा ।
तथा च ’प्रामाण्यस्थापनं तु स्याद्वक्तृधीहेतुसंभवात्ऽ इत्युक्तम् ।
स्थापनमबाधः, न तु प्रामाण्यमेव ।
तच्च वक्तृधीहेतुसंभवाद्वाक्यस्य, न तु वक्तृधिय एव ।
शब्दस्य चार्थेन संबन्धः, न तु ज्ञानेन ।
एवं ह्युक्तम्
’ौत्पत्तिकस्तु शब्दस्यार्थेन संबन्धःऽ इति ।
अर्थग्रहणमत्र ’र्थासंस्पशी शब्दः, ज्ञानेनैव शब्दस्य संबन्धः
इति पश्यतां निराकरणाय ।
तस्मादन्योन्ययोग्यता शब्दार्थयोरेव संबन्धः ।
न चाप्रमितेऽर्थे स शक्यो ग्रहीतुम् ।
प्रमिते प्रमाणान्तरविषयत्वमुक्तम् ।
न च प्रतीतिमात्रे, अर्थवत्याः प्रतीतेः स्मृतिप्रमाणयोरन्यतरत्रान्तर्गमात् ।
आनर्थक्ये केन संबन्ध? यदि च शाब्दप्रतीतिव्यतिरेकिण्यापि प्रतीत्या स विषयीक्रियतेऽप्रमाणात्मिकयापि, भवत्ययमशाब्दस्यापि ज्ञानस्य गोचर इति प्रमाणान्तराशङ्का केन वार्यते? नच प्रमाणान्तरावगम्यता शब्दार्थमनुप्रविशति, यतो नान्वयमात्रेण व्यतिरेकमात्रेण वा शब्दार्थः ।
सति ह्यन्यस्मिन् प्रयोजकेऽर्थे यस्याभावे न प्रयोगः सोऽपि तस्य शब्दस्य प्रयोजक इति गम्यते, यथा सत्सु हेत्वन्तरेषु यस्याभावे न कार्यं सोऽपि हेतुर्गम्यते ।
इह च श्रेयोहेतुविवक्षायां लिङ्गादेर्दर्शनात्, तदभावे सत्यपि प्रमाणान्तरगम्यत्वेऽदर्शनाच्छ्रेयोहेतुत्वं तावच्छब्दार्थः ।
प्रमाणान्तरगम्यत्वे यद्यपि दर्शनम्, तदभावे च यद्यप्यदर्शनम्, न तु श्रेयोहेतुत्वे सति प्रमाणान्तरगम्यताया अभावात् ।
तत्र संदिग्धो व्यतिरेकः
उभयाभावेऽप्रयोगात्किंनिबन्धनोऽप्रयोग इति ।
तत्र श्रेयःसाधनतायाः प्रयोजकत्वस्यावधारितत्वात्[कुप्पुस्वामी संस्करण १०९] तदभावे तन्निबन्धन इति गम्यते ।
तन्मात्रेणान्वयव्यतिरेकोपपत्तौ नान्यस्य शब्दार्थत्वे प्रमाणम् ।
अन्यथा शिंशपाशब्दार्थे सत्त्वादयोऽप्यनुप्रविशेयुः, तेषु सत्सु
प्रयोगात्तदभावे चाप्रयोगात् ।
अथ शिंशपात्वस्य शब्दार्थत्वात्तदभावनिबन्धन एव सत्ताद्यभावेऽप्रयोगः, तत्सद्भावाच्च प्रयोग उपपद्यत इति न तेषु सामर्थ्यकल्पना, समानमेतदत्रापि ।
अथ श्रेयोहेतुत्वस्य प्रमाणान्तरविषयत्वात्तस्य च वेदेऽसंभवादप्रामाण्यम् ।
तदसत् ।
न हि य एकत्र यस्य प्रमाणस्य गोचरः सोऽन्यत्रापि मिथ्या ।
समीपे हि बहिरिन्द्रियविषयः, दूरे त्वागमानुमानगम्यः ।
तथा यागादिषु विप्रकृष्टकालफलेषु वेदावगम्यं श्रेयःसाधनत्वं भविष्यति ।
न च प्रमाणान्तरानुपलब्ध्या प्रमाणान्तरगम्यो बाध्यते, विषयव्यवस्थयापि प्रमाणप्रवृत्तेः ।
अथ प्रमाणान्तरविषयत्वे तद्विरोधादप्रामाण्यम्, अनन्तरफलानुपलब्धेः ।
तदविषये तु शब्दार्थे न तद्विरोध इति ।
स्यात्, यदि विरोधः स्यात् ।
न चासौ ।
’ानन्तर्यं ह्यचोदितम्ऽ इत्युक्तम् ।

अथ मा भूदानन्तर्यचोदना, मा च भूत्प्रमाणान्तरावगम्यता शब्दार्थः ।
सर्वथा प्रमाणान्तरसिद्धश्चेत्पदार्थ आश्रीयते, स यथासिद्ध्याश्रयणीयः ।
अन्यथा न तत्सिद्धः स्यात् ।
अनन्तरश्रेयोहेतुता च तत्सिद्धा ।
तन्न ।
न तावदनन्तरफलसाधनता नियोगतः कर्मणाम्, कृष्यौषधपानादिष्वन्यथापि दर्शनात्, अवान्तरकार्यस्य यागादावपि प्रमाणसामर्थ्येन सिद्धेः ।
अपि च विशिष्टसिद्धौ विशेषणमपि श्रेयोहेतुत्वमात्रं सिद्धम् ।
तावच्च शब्दार्थः ।
न च तावति प्रमाणविरोधः ।
तदेवं लौकिकेऽपि प्रवृत्तिहेतौ दोषाभावाद्व्यर्था अलौकिककल्पना ।
सुखादिवच्चास्यानुमेयत्वात् ।
[कुप्पुस्वामी संस्करण ११०] तथा हि
मुखप्रसादाद्युन्नेयसंवेदनाः सुखादयस्तेनैव सहोन्नीयन्ते ।
नैवं सत्त्वे पृथक्प्रमाणमर्थ्यते ।
यदापीदं दर्शनम्
वक्तृज्ञानमेव पुरुषवचनार्थः ।
तत्र ज्ञानं नार्थमन्तरेण संभवतीत्यर्थापत्त्यानुमानेन वार्थसिद्धिः ।
तदापि प्रवृत्तिप्रमितस्तधेतुप्रत्ययो न तमन्तरेणेत्याप्तवचनार्थवदनुमेयता न व्यावर्तते ।
अथानुमानह्र्तोः प्रत्ययस्य शब्दसाधनत्वाच्छब्दप्रमाणकत्वम् ।
तदसत् ।
नाप्तवचनार्थज्ञानस्याक्षसाधनत्वात्तदर्थः श्रोतुः प्रत्यक्षप्रमाणको भवति ।
तस्मात्सुष्ठूच्यते
’तस्यैवमनुमेयत्वे कथं शब्दैकगोचरःऽ ।
तथा
’न स कल्पयितुं शक्यस्तत्सिद्धेर्लौकिकदपिऽ ॥
इति ॥

अथ प्रमाणरूपेण स स्वशब्दप्रकाशितः ॥ २.८५ ॥

आक्षेप्ता निरपेक्षश्च कथ्यतेऽन्यप्रमां प्रति ।

अथोच्यते
न ब्रूमो विधिरन्यथा वृथा स्यादिति तदधीनः संसर्गः ।
किं तु प्रमाणान्त्मनैव स स्वशब्देन प्रतिपाद्यते ।
तथा च प्रमाणत्वात्प्रमेयस्याक्षेप्तापूर्वस्य, प्रमाणान्तरानपेक्षश्च ।
न ह्यसौ शब्दवत्संबन्धापेक्षत्वात्पूर्वसिद्धिमपेक्षत इति ।

तथाप्यसिद्धे प्रागुक्तौ दोषौ सिद्धेऽनुवादिता ॥ २.८६ ॥

प्रामाण्यमस्य यत्रास्तु श्रुतेस्तत्र वृथा त्वयम् ।

एवमप्यव्युत्पन्नप्रवृत्तिपदधर्मव्यतिक्रमौ प्रमाणात्मापि स यदि न प्रमाणान्तरसिद्धः ।
अथ सिद्धो यथावगतानुवादान्नापूर्वार्थाक्षेपः ।
अपि च यत्रास्य प्रामाण्यमिष्यते, शब्दस्यैव तत्रास्तु ।
किमनेन? ननूक्तम्
शब्दसंगतिज्ञानापेक्षत्वादनुवादको नापूर्वार्थावगमाय प्रभवति ।
नैतत्सारम् ।
शब्दश्चेदनुवादकः ।
तत्प्रकाश्यं प्रमाणमप्यनूद्यमानं यथाधिगतं कथमपूर्वार्थं बोधयेत्? न प्रमेयसंस्पर्शरहिता प्रमाणावगतिः ।
अतो यथाधिगतप्रमेयमेव तत्प्रतीयते ।

[कुप्पुस्वामी संस्करण १११]

क्व च प्रमाणमेषोऽर्थे न यागादौ स्वशब्दके ॥ २.८७ ॥

लौकिकेऽपूर्वसंसर्गः श्रोतुरस्त्यविधावपि ।
फलसाधनशक्तौ चेछब्दस्तत्र न दूष्यति ॥ २.८८ ॥

पदार्थान्तरतुल्यत्वाद्विध्याकाङ्क्षानिबन्धनः ।
न संसर्गः पदार्थानां स्वशब्दैस्तु प्रकाशिताः ॥ २.८९ ॥

संबन्धयोग्यरूपेण तस्मात्संसर्गभागिनः ।
विशिष्टार्थप्रयुक्ता हि समभिव्याहृतिर्जने ॥ २.९० ॥

अतो न विद्ध्यभावेन संसर्गो न प्रकल्पते ।

न च नियोगस्य प्रमेयं निरूप्यते ।
न तावद्यागादयः प्रमेयाः, तेषां यजत्यादिशब्दविषयत्वात् ।
नापि तेषां प्रमाणान्तरस्यागोचरः संसर्गः ।
तथा हि
अविधिष्वपि लौकिकेषु वाक्येषु श्रोतुरनधिगतोऽपूर्वः संसर्गः प्रतीयते ’ब्राह्मण पुत्रस्ते जातःऽइत्यादिषु ।
अथ फलसाधनसामर्थ्यं प्रमेयमुच्यते ।
न किल कामिनो नियोगोऽकामोपाये धात्वर्थेऽवकल्पते ।
अनुपायत्वे हि तस्य न स कामिन्या कृतः स्यादिति ।
तदप्यसंप्रतम् ।
न हि शब्दस्य तत्र कश्चिदपराधः, येन तमतिक्रम्यान्यत्प्रमाणं मृग्यते ।
प्रमाणान्तरापेक्षता प्रत्युक्ता ।
अनन्तरफलादर्शनेन तु विरोधो नियोगगम्येऽपि तस्मिन्नविशिष्टः ।
आनन्तर्यस्याप्रमाणार्थत्वेन तदभावः शब्देऽपि तुल्यः ।
अथ वा शब्दस्तत्र न दुष्यति फलसाधनसामर्थ्ये, नियोगस्तु दुष्यत्येव ।
न हि ततः पुरुषर्थसाधनावबोधः संभवति ।
तच्चेदं विधिविवेकभावनाविवेकाभ्यामवगन्तव्यम् ।
तस्मात्संबन्धज्ञानापेक्षत्वेन पदार्थान्तरैः समानत्वाद्विधायकार्थस्य न शक्यं विशेषेण वक्तुं
तन्निबन्धनः पदार्थसंसर्ग इति ।
सर्व एव तु पदार्थाः संबन्धयोग्यैः कारकादिभावैः स्वपदेभ्यः प्रतीताः सन्निकर्षेण संसृज्यन्ते, यतो लोकाच्छब्दव्यापारावगमः ।
लोके च [कुप्पुस्वामी संस्करण ११२] पदैः स्वार्थानां प्रतिपादनं सन्निकर्षेण विशिष्टार्थपरतया, न स्वार्थमात्रप्रतिपत्तिपरतया ।
तथा च सर्वपदार्थाकाङ्क्षानिबन्धन एव संसर्गः ।
सर्वे हि ते पदैरपर्यवसितरूपाः स्वरूपमात्रे प्रकाश्यन्ते ।
एवं पदार्थान्तरैस्तुल्यत्वाद्विधेः न विशेषेण तन्निबन्धनः संसर्गः ।
सर्वपदार्थनिबन्धने च संसर्गे न विध्यभावेन संसर्गो नोपपद्यते ।
तदेवं न संसर्गार्थमपि विधिरुपासनीयः ।
कथं नोपासनीयः, यदा नियोगपरतयैव पदानां स्वार्थेषु संसर्गज्ञानम्? प्रवर्तकवचनान्तरप्रवृत्तिदर्शनेन हि तद्धेतुप्रत्ययमनुमाय तत्र तस्य सामर्थ्यं गम्यते ।
नैतत्, अप्रवर्तकेऽपि वाक्ये स्वरूपनिष्ठे संबन्धग्रहणात् ।
सन्निधापिताग्निव्यतिरिक्तपाक्योपकरणमग्न्यर्थिनं प्रति यदोच्यते
’चैत्रगृहे कृशानुःऽ इति, तदा ततस्तेनानयनं दृष्ट्वा गम्यते
’िहानेनाग्निसत्ता प्रतीता, सा चास्माद्वाक्यात्ऽ न च शक्यं वक्तुम्
’तत आनयऽ ’गच्छ वा तत्रऽ इति वाक्यात्प्रत्ययः ।
अग्निसत्तामात्रप्रत्ययेन वाक्यात्प्रवृत्तिसिद्धेर्न वाक्यस्य नियोजनेऽपि सामर्थ्यं शक्यते कल्पयितुम् ।
अर्थान्तरान्वये च प्रयोगप्रत्ययोपपत्तौ न विशेषान्वये प्रमाणम् ।
अन्यथा वेदार्थो निष्प्रमाणक एव स्यादित्युक्तम् ।

अथ कर्तव्यताज्ञानाद्विनानर्थक्यमुच्यते ॥ २.९१ ॥

न प्रवृत्तिनिवृत्तिभ्यामन्यद्वाक्यप्रयोजनम् ।
प्रतिपत्तिविधौ तुल्यं यदि सैव प्रयोजनम् ॥ २.९२ ॥

समानमेत्तदर्थं च समर्पयति चेदयम् ।
प्रज्ञाक्रियोपासनाधिकारसिद्धिव्यपेक्षितम् ॥ २.९३ ॥

हन्त तर्हि स्वरुपे तन्न वचः पर्यवसति ।
[कुप्पुस्वामी संस्करण ११३] तुल्यमेतत्समाप्तं च वाक्यं वाक्यान्तरानुगम् ॥ २.९४ ॥

नियोगानुप्रवेशोऽस्ति तवद्यदि वृथान्यथा ।
तत्त्वावबोधविध्यंशस्तावदेवं समुद्धृतः ॥ २.९५ ॥


अथ मन्यते
वस्तुस्वरूपमात्रज्ञानं कर्तव्यताज्ञानरहितं प्रवृत्तिनिवृत्तिशून्यमनर्थकम् ।
प्रवृत्तिनिवृत्तिप्रयुक्ता हि वाक्यप्रवृत्तिः ।
अथोऽर्थवत्त्वाय विधिः ।
अन्यथानर्थक्यम् ।
तत्रोच्यते
प्रतिपत्तिविधावपि तुल्यमानर्थक्यम् ।
तथा हि
’ेवंविधः प्रतिपत्तव्यःऽइत्यपि न तत्स्वरूपज्ञानातिरिक्ता काचन प्रवृत्तिर्निवृत्तिर्वा ।
अथ स्वरूपज्ञानमेव प्रयोजनम्, तत्स्वरूपमात्रनिष्ठेऽपि तुल्यम् ।
अथ प्रतिपत्तिविधिः ’प्रज्ञां कुर्वीतऽ ’स क्रतुं कुर्वीतऽ ’ात्मेत्येवोपासितऽइत्यधिकारविधिव्यपेक्षितप्रज्ञोपासनाविषयसमर्पणेनार्थवान्, नावगतविषयस्वरूपा प्रज्ञा शक्येति ।
स्वरूपनिष्ठमपि वचस्तथार्थवत् ।
तस्य समर्पणे सुतरां सामर्थ्यम् ।
नन्वेवमस्य स्वरूपनिष्ठा हीयते नियोगानुप्रवेशिनः ।
स्वगतनियोगनिष्ठमपि तर्हि तन्न, नियोगान्तरानुप्रवेशात् ।
अथ मतम्
स्वार्थपर्यवसितमेव वाक्यं वाक्यान्तरेणैकवाक्यतामुपैति ।
सोऽयं प्राकरणिकः संबन्ध उच्यते ।
अन्यथा वाक्यलक्षण एव स्यात् ।
एतदपि समानम् ।
नियोगानुप्रवेशेऽपि न स्वरूपनिष्ठता हीयते ।
नन्वस्ति नियोगानुप्रवेशः, अन्यथा आनर्थक्यात् ।
कामम् ।
तत्त्वप्रतिपत्तिविधिस्तु तावदानर्थक्यान्निराकृतः, विधेर्विनापि तस्माच्छब्दात्तत्वावबोधसिद्धेः ।

ननूत्पत्तिविधिः कर्मरूपबोधे व्यवस्थितः ।
यथा तत्त्वज्ञानविधिस्तथा बोधेऽवतिष्ठताम् ॥ २.९६ ॥
अधिकारात्प्रवृत्तिश्च मता कर्माधिकारवत् ।
[कुप्पुस्वामी संस्करण ११४] अज्ञानज्ञापनमतोऽथाप्रवृत्तप्रवर्तनम् ॥ २.९७ ॥

विधिमाचक्षते धीरा इत्येतदपि तादृशम् ।
कर्मस्वरूपावगमस्तत्र नेष्टं विधेः फलम् ॥ २.९८ ॥

किं तु कार्यव्यपेक्षस्य फलवाक्येन संगतिः ।
इहाधिकारसंबन्धो यस्य तन्न विधीयते ॥ २.९९ ॥

तत्त्वं तत्त्वावबोधस्य नाधिकारप्रवेशिता ।
न हि व्रीह्यादिविषयं प्रत्यक्षमधिकारभाक् ॥ २.१०० ॥


यदपि चोद्यते
यथोत्पत्तिविधेः कर्मरूपप्रतिपत्तिमात्रमर्थः
’ाग्नेयोऽष्टकपालःऽ इति ।
न ततः प्रवृत्तिः ।
अधिकारविधिनिबन्धनत्वात्तस्याः ।
तथा तत्त्वावबोधविधेस्तत्त्वावबोधमात्रमर्थः, प्रवृत्तिरधिकारविधेः
’प्रज्ञां कुर्वीतऽइत्यादेः ।
यतश्च प्रवृत्तिप्रतिपत्तिप्रयोजनभेदो विधेः, अतोऽस्य लक्षणद्वयमाहुः
अज्ञातज्ञापनमप्रवृत्तप्रवर्तनमिति ।
एतदप्यसारम् ।
यतो नोत्पत्तिगतस्य विधायकस्य स्वरूपावगममात्रमिष्यते फलम् ।
अपि त्वधिकारवाक्यसंबन्धः ।
तथा हि
विधेः पुरुषार्थमात्रसाधनत्वेऽवबुद्धे तद्विशेषाकाङ्क्षायामधिकारसंबन्धो लभ्यते ।
न च तत्त्वप्रतिपत्तिविधेरपि तदेव फलम् ।
यतो यस्याधिकारसंबन्ध उपासनादिविषयस्यात्मतत्त्वस्य, तदक्रियात्मत्त्वान्न विधिविषयः ।
यत्तु तद्विषयस्तत्त्वज्ञानम्, तस्य नाधिकारसंबन्धः, व्रीह्यादिप्रत्यक्षवत् ।
न हि व्रीह्यादिस्वरूपग्राहि प्रमाणं प्रयोगैकदेशतां भजते ।
प्रमितानामधिकारसंबन्धान्निष्पन्नानामिवानोवासःप्रभृतीनाम् ।
वानतक्षणादिर्हि तत्क्रिया नाधिकारमनुप्रविशतीति ।

[कुप्पुस्वामी संस्करण ११५] इदानीं तृतीयप्रतिपत्तिगोचरो विधिः परास्यते, तत्त्वावबोधविषयत्वेन संबन्धात् ।
द्वितीयप्रतिपत्तिविषयो हि न तत्त्वावबोधविषयः, किं तु तदभ्यासविषयः ।

सोपायमन्यत्तर्हीदं शाब्दाज्ज्ञानं विधीयते ।
प्रलीनग्रहणग्राह्यविभागोद्ग्राहमद्वयम् ॥ २.१०१ ॥

न हि भिन्नार्थसंसर्गरूपवाक्यार्थधीपदम् ।
आत्मतत्त्वं निष्प्रपञ्चमित्येतदपि पेलवम् ॥ २.१०२ ॥

अद्वयात्मप्रकाशोऽसावनवच्छेदविभ्रमः ।
स्वात्मस्थितिः सुप्रशान्ता फलं तन्न विधेः पदम् ॥ २.१०३ ॥

तत्साधनावबोधे हि विधातृव्यापृतिर्मता ।
अपेक्षितोपायतैव विधिरिष्टो मनीषिभिः ॥ २.१०४ ॥

ततो ह्यध्यवसायादिर्नाकस्मान्नाभिधानतः ।

न ब्रूमः
शब्दोत्थस्तत्त्वबोधो विधीयत इति ।
किं तु प्रत्यस्तमितबुद्धिबोध्यभेदावग्रहः ।
अतश्चाद्वयो द्वितीयतद्विधबोधाभावाद्वा प्रमातृप्रमेयद्वयविरहाद्वा ततोऽन्यः ।
तस्य चालौकिकस्य प्रमाणान्तरादुत्पत्त्युपायस्यानवगमात्सहोपायैः शमदममननध्यानब्रह्मचर्यादिभिर्विधानम् ।
यतो न शाब्दज्ञानविषय आत्मतत्त्वम् ।
वाक्यलक्षणो हि शब्दः प्रमाणम् ।
तस्य च विषयो नानापदार्थसंसर्गात्मा, तदनुगमेन प्रतीतेः ।
तज्ज्ञानस्य च विविधार्थमात्रसंभेदावभासस्यात्मतत्त्वं निष्प्रपञ्चं द्वैतलेशेनाप्यनवमृष्टं कथं गोचरः स्यादिति ।
एतदप्यसारम् ।
यतो योऽसावद्वयो द्वैतलेशसंस्पर्शविकल आत्मतत्त्वबोधः सोऽवच्छेदविभ्रान्तिविरहात्तस्य स्वरूपावस्थानम् ।
अवच्छेदकलुषतया हि तदनात्मरूपेण प्रकाशते ।
न तु ततोऽन्यस्तत्त्वबोधः ।
’सत्यं [कुप्पुस्वामी संस्करण ११६] ज्ञानमनन्तम्ऽ इति श्रुतेः ।
आत्मतत्त्वं च प्रशान्तशोकादिविश्वाशिवम्, अपहतपाप्मादिश्रुतेः ।
प्रकाशमानानतिशयानन्दम्, ’विज्ञानमानन्दं ब्रह्मऽ ’ेषोऽस्य परम आनन्दः, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तिऽ इति श्रुतिभ्यः ।
तथा च तत्स्वरूपस्थितिर्विश्वाशिवोपशमान्निरतिशयाह्लादावाप्तेश्च सुष्ठु प्रशान्तापरः पुरुषार्थः फलम् ।
उक्तं च
’ात्मलाभान्न परं विद्यतेऽ इति ।
न च पुरुषार्थेऽप्यज्ञातोपाये न प्रवर्तत इति युक्तम्, यतः प्रवृत्तेः पूर्वरूपमिच्छा ।
तथा च तद्वारेण प्रवृत्त्युपदेश क्वचित्
’थातो धर्मजिज्ञासाऽ ।
तथा ’यो हि यदिच्छति स तत्करोतिऽ इत्युक्तम् ।
अपि च अज्ञातोपाये चेन्न प्रवर्तते, अवश्यमुपायज्ञापनया तत्र प्रवर्त्यः फलमुद्दिश्य ।
तावता च तत्रापि प्रवृत्तिसिद्धेर्न विधायकस्य तत्र व्यापार आश्रयितव्यः ।
तदुक्तम्
’तस्य लिप्सार्थलक्षणाऽ इति ।
तस्मात्फलसाधन एव विधिव्यापारः ।
ननु फलवत्यप्यर्थलक्षणा प्रवृत्तिः, क्व तर्हि विधिव्यापारः? इत्थंभावे ।
नैतत्सारम् ।
यतो यथैव साधनसामान्येऽर्थात्, प्रवृत्तिः, तथेत्थंभावसामान्येऽपि ।
यतो नाननुग्रहकं साधनं समर्थम् ।
अथ तद्विशेषे प्रवर्त्यः, साधनविशेषेऽपि तथास्तु ।
अपि च अपेक्षितोपायतैव विधिः, तस्या अप्रवृत्तप्रवर्तनालक्षणत्वात्, प्रवृत्तिहेतोश्च धर्मस्य प्रवर्तनाशब्दाभिधेयत्वात्, इष्टतायास्तत्साधनतायाश्चान्यस्य प्रवृत्तिहेतोरभावात्, इष्टतायाश्च प्रमाणान्तरावसेयत्वात्स्वयं प्रवृत्तेः जानात्येवासौ ’मयैतत्कर्तव्यम्ऽ इति नेष्टतायामप्रवृत्तप्रवर्तनात्वम् ।
इष्टसाधनतायां तु प्रमाणान्तरावगमाभावाच्छब्दैकगम्यायां न शब्दमन्तरेणाप्रवृत्तपुरुषप्रवृत्तिहेतुत्वम् ।
अतः सा शब्दप्रमाणिका सती विधिरिति गीयते ।
अनुतिष्ठतश्[कुप्पुस्वामी संस्करण ११७] च साधनमनुष्ठेयं प्रवृत्तिहेतुः ।
न स्वभावसिद्धम् ।
तेनानुतिष्ठतः साधनताविधिः ।
अतोऽनुष्ठानं साधनविषयमेव विधायकाच्छब्दाद्गम्यते ।

ननु अध्यवसायः, आकूतम्, आद्या प्रवृत्तिः, कालत्रयवियुक्तं प्रवृत्तिमात्रम्, अज्ञातक्रियाकर्तृसंबन्ध इति विधिविदो विधिं व्याचक्षते ।
नैतत्सारम् ।
यतोऽध्यवसायादीनामेव हेतुरत्र मृग्यते ।
स च नान्योऽपेक्षितोपायतायाः ।
न च ते निरस्तहेतवः ।
स्यादेतत्
अभिधानमेषां हेतुः ।
तच्च वार्तम् ।
अभिधानाद्धि प्रतीतिरेषां स्यात्, नोत्पत्तिः ।
न हि प्रतीतिमात्रेण घटादयः प्रवृत्तिहेतव इत्यादि वर्णितं विधिविवेके ।
अथवा
नाभिधानतः ।
न च शब्दादध्यवसायादिः, ज्ञापकत्वादव्युत्पन्नप्रवृत्तिप्रसङ्गादित्यादि तत्रैवोक्तम् ।
अथवा ’यो मन्यते
’मयेदं कर्तव्यम्ऽ इति यतोऽध्यवसायः ’नियुक्तोऽस्मिऽइति यतो बुद्धिः स नियोगो विधिशब्दपर्याय इति, तं प्रत्युच्यते ।
तत एवापेक्षितोपायत्वात्’कर्तव्यम्ऽइत्यध्यवसायः ।
तथा हि
कर्तुरिष्टाभ्युपाये ’कर्तव्यम्ऽइति लोके बुद्धिः ।
तदभावे तु ’कर्तव्यम्ऽ इत्यन्वयव्यतिरेकाभ्याम् ।
ते च तद्विषये गम्येते ।
तथा ’नियुक्तोऽस्मिऽ इति ’प्रवर्तितोऽस्मिऽइति स्वात्मप्रवृत्तिहेतुप्रतीतिः ।
न च सोऽन्य इष्टाभ्युपायतायाः ।
न खलु दृष्टसामर्थ्येऽकस्माद्विना हेतुनाहेतुरिति युक्तिमत् ।
न हि तं परित्यज्य लौकिकमलौकिककल्पने प्रमाणमस्ति ।
कुतश्च? नाभिधानतः ।
न खल्वलौकिकस्याभिधानं संभवति, संबन्धाग्रहादित्युक्तम् ।
अथ वा ततो ह्यध्यवसायप्रारम्भानुष्ठानपरिसमापनाः, अपेक्षितोपायत्वात् ।
तत्सद्भाव एव नियुक्तप्रवृत्तेः यस्य कस्यचिन्नियोगादप्रवृत्तेः ।

[कुप्पुस्वामी संस्करण ११८] स्यादेतत्
’कर्तव्यम्ऽ इति प्रत्ययात्प्रवर्तते ।
अन्यथा कर्तव्यं न कृतं स्यात् ।
तच्च न, नाकस्मात्कर्तव्यप्रत्ययोत्पादः ।
स हि स्वार्थावाप्तिनिमित्तः ।
स्यादेतत्
शब्दादेव कर्तव्यताबुद्धिः ।
तत्रोच्यते
नाभिधानतः ।
न शब्दात्कर्तव्यताबुद्धिः ।
नियोगो हि शब्दार्थः ।
स हि नियोक्तृधर्मः स्वतन्त्रो वा स्यात् ।
कर्तव्यता तु विषयधर्मः ।
अथ विषयधर्मं नियोगं ब्रूयात्, प्राप्तमपेक्षितोपायत्वम् ।
अथ नियोगात्कर्तव्यता स्यात् ।
एवमपि न तस्यां शब्दः प्रमाणम्,साक्षात्तस्य नियोगाभिधायित्वात् ।
नाप्यर्थात्, अकर्तव्येऽप्यनाप्तनियोगदर्शनात् ।
अथ नियोगस्य कार्यता गम्यते ।
तन्निष्पत्त्यधीनेति विषये कर्तव्यतावगमः ।
तदसत्, विषये कार्यताप्रतीतेर्लोके ।
तथा हि ’गौर्दुह्यतां त्वयाऽ इति नियोगे अन्येन दुग्धायां न पुनर्दोहमारभते, विषयस्य कार्यताप्रतीतेः तस्य निष्पादितत्वात् ।
न चान्येनैव नियोगो निष्पादितः, तस्यानियुक्तत्वात् ।
तत्र नियोगसिद्धये पुनर्दोहारम्भः स्यात् ।
विस्तरेण चायमर्थो विधिविवेके विचारित इत्यलमतिप्रसङ्गेन ।

स्यादेतत्
अस्य ज्ञानस्य मोक्षसाधनत्वाद्विधानम् ।
विद्यासाध्यो हि मोक्षः श्रूयते ’विद्यया तदारोहन्तिऽ ’विद्ययामृतमश्नुतेऽयस्तमात्मानमनुविद्य विजानाति स सर्वांश्च कामान्ऽ तथा ’स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ इत्यादि ।
न च साध्यत्वेऽप्यन्तवत्त्वम्, शब्दगम्यत्वादनावृत्तेः
’न च पुनरावर्ततेऽ इति ।
न ह्येष तर्कगम्यः ।
येन तर्केणास्य तत्त्वं व्यवस्थाप्येत ।
शब्दगम्यस्य तु शब्दादेव तत्त्वव्यवस्था ।
[कुप्पुस्वामी संस्करण ११९] अनन्तविद्यासाध्यत्वाद्वानन्तत्वम् ।
क्षणिकत्वेऽपि च विज्ञानस्य संततिरूपेणानन्तत्वम् ।
तत्राहुः

न च मोक्षः फलं तस्य साध्यो मोक्षो न चापरः ॥ २.१०५ ॥

अविद्यास्तमयो मोक्षः सा संसार उदाहृता ।
विद्यैव चाद्वया शान्ता तदस्तमय उच्यते ॥ २.१०६ ॥


कः पुनरेष मोक्षः? यद्यनागतदेहेन्द्रियबुद्ध्यनुत्पादः ’शरीरं वावसन्तं न प्रियाप्रिये स्पृशतःऽ
इति दर्शनात्, स प्रागभावो न साध्यः ।
अथ ब्रह्मप्राप्तिः, सा चैत्रग्रामयोरिव वा स्याज्जीवब्रह्मणोर्मार्गश्रुतिभ्यः

ऽशतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभि निस्सृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति

’स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारम्ऽ तथा ’तेऽर्चिषमभिसंभवति अर्चिषोऽहःऽइत्यादि ।
यथा वा मधुनि नानाकुसुमरसानां समुद्रे च नदीनां प्राप्तिरविभागलक्षणा तथा स्यात्, ’यथा लोके मधुकृतो मधु कुर्वन्तिऽ इतिऽ ’यथा सोम्येमा नद्यःऽ इति दर्शनात् ।
कार्यस्य वा कारणभावापत्तिः, ’तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैतिऽइति श्रुतेः ।
तद्रूपपरिणामलक्षणा वा योगव्याघ्रवत्, ’स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ इति दर्शनात्’ब्रह्म संपद्यतऽ इति च ।
स्फटिकस्येव रागापकर्षणेन [कुप्पुस्वामी संस्करण १२०] स्वरूपप्राप्तिलक्षणा, ’परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽ इति श्रवणात् ।

तत्र न तावत्प्रथमः कल्पः, सर्वगतत्वात्
’तदन्तरस्य सर्वस्यऽ ’नित्यं विभुं सर्वगतम्ऽ इति ।
अनन्यत्वाच्च, तद्विज्ञानेन सर्वविज्ञानोपदेशात्, ’तत्त्वमसिऽ इति साक्षात्प्रतिपादनात्, प्रत्यगात्मवृत्तिना च सर्वत्रात्मशब्देन निर्देशात्, ’थ योऽन्याम्ऽ इति भेददर्शनापवादात् ।
अत एव च न द्वितीयः, निरवयवत्वाच्च, ’निष्कलं निष्क्रियम्ऽइति परस्परावयवसंभेदलक्षणस्याविभागस्यानुपपत्तेः ।
नापि तृतीयः, कार्यस्य सर्वदा कारणत्वात् ।

अथ कार्यरूपनाशः, उच्छेदात्मताप्रसङ्गो मोक्षस्य ।
तत्र ’विद्ययामृतमश्नुतेऽ इति विरोधः, विद्ययैवोच्छेदप्रसङ्गात् ।
आत्मोच्छेदस्य चानिष्टत्वादफलत्वम् ।
प्रतिषिद्धश्च ’क्षरम्ऽइत्यत्र मुख्यः कार्यकारणभावः ’वाचारम्भणं विकारो नामधेयम्ऽइति विकारानृतत्वप्रतिपादनाच्छ्रुत्या ।
न चतुर्थः, अनन्यत्वादेव, चैतन्यस्य च ब्रह्मरूपस्याविशेषात् ।
अथ विज्ञानात्मनां शोकमोहाद्यभावो विशिष्यत इति चेत्तत्रापि शोकादयश्चेदात्मानो विज्ञानात्मनाम्, अनुच्छेद्याः ।
अथ गुणा अर्थान्तरमागमापायिनः क्षणिकाः, क्षणिकत्वादेव चोच्छिद्यन्त इति न तत्साधनमपेक्ष्यम् ।
न चागामिनामनुत्पत्तयेऽपेक्ष्यत इत्युक्तम् ।
अथ ऐश्वर्यविशेषो ब्रह्मणि ।
तत्प्राप्तिस्तद्रूपपरिणामो मोक्षः, ’स स्वराड्भवतिऽ इति श्रुतेः ।
तदसत्, अनेकेश्वरानुपपत्तेः ।
ब्रह्मणो न्यूनं समं वा विज्ञानात्मनाम् [कुप्पुस्वामी संस्करण १२१] ऐश्वर्यं स्यात्? न्यूनत्वेन ब्रह्मरूपापत्तिर्न स्वाराज्यम् ।
तथा हि
ब्रह्मशब्दवाच्यः परमेश्वरस्तेषामधिपतिः स्यात् ।
तथा चान्यराजता ।
तत्र चान्तवत्वं श्रूयते
’थ येऽन्यथातो विदुः, अन्यराजानस्ते क्षय्यलोका भवन्तिऽ इति ।
उपपद्यते च परमेश्वरेच्छया न्यूनैश्वर्याणामैश्वर्यप्रच्युतिदर्शनाल्लोके ।
’समत्वस्य त्वनपपत्तिरेव युगपत् ।
एकश्चेत्सर्वाधिपतिः सर्वस्य प्रशासिता, परः किं कुर्वन्नीशः स्यात्? विरोधाच्च ।
न खल्वेषामेकमतित्वे हेतुरस्ति ।
तत्रैकस्मिन् वस्तुनि विरुद्धाभिप्राययोरेकाभिप्रायानुविधायित्वे तस्येतरस्यानीश्वरत्वम् ।
उभयानुप्रायानुविधानं न, विरोधात् ।
उभयोरननुविधानेऽनीश्वरत्वमुभयोः ।
कार्यासिद्धश्चेदैकमत्ये हेतुः परिषद्वत्, अन्यथा तस्यासिद्धेरिति चेत्, प्रत्येकमनीश्वरत्वम् ।
अथ पर्यायेणैश्वर्यमविरोधायोच्यते, अन्तवत्ता ।
जगत्सर्गस्य चासंभवान्न ब्रह्मतुल्यमैश्वर्यम् ।
यतः पर एव जगत्सर्गे श्रूयते ।
तदुपासनेन सर्गोत्तरकालोऽपवर्ग इति ।
तस्मात्स्फटिकस्येव रागाद्यपकर्षणेन स्वरूपाविर्भावो ब्रह्मप्राप्तिः, ब्रह्मरूपत्वाद्विज्ञानात्मनः ।
तथा च ’परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽइत्युक्तम्, अन्यरूपनिष्पत्तौ स्वशब्दानुपपत्तेः ।
निष्पद्यमानस्याभेदात्संबन्धाद्वोपपत्तिरिति चेत् ।
न, विशेषणानर्थक्यात्सर्वस्य तस्य निष्पद्यमानस्य स्वत्वात् ।
तत्र यथा मलापगमे शुक्लमेव सद्वस्त्रं ’शुक्लं जातम्ऽइत्युच्यते तथा मोहावरणविगमे स्वरूपाविर्भावे ’स्वेन रूपेणाभिनिष्पद्यतेऽ इत्युच्यते ।
तथा ’ब्रह्मैव सन् ब्रह्माप्येतिऽ इति ।
तदेवं स्वरूपस्थितिलक्षणत्वान्मोहस्य न कार्यता, प्रागपि स्वरूपस्य भावात् ।
आगन्तुकस्यास्वरूपत्वात् ।
न चान्यत्वम्, यतोऽविद्यापगम एवोक्तेन प्रकारेण मुक्तिः ।
अविद्या संसारः ।
विद्यैव चाविद्यानिवृत्तिः यद्यग्रहणमविद्या, यतो भाव [कुप्पुस्वामी संस्करण १२२] एवाभावव्यावृत्तिः ।
अथ विपर्यासः, तथापि विरोधिततत्त्वज्ञानोदय एव तन्निवृत्तिः ।
न हि शुक्तिकाज्ञानोत्पादादन्या रजतज्ञाननिवृत्तिस्तत्साध्या प्रयत्नान्तरसाध्या वा, तयोर्यौगपद्यात्प्रयत्नान्तरानपेक्षणाच्च ।
तथा च विद्याब्रह्मप्राप्त्योस्तुल्यकालता श्रूयते
’ब्रह्म वेद ब्रह्मैव भवतिऽ इति, तथा ’ानन्दं ब्रह्मणो विद्वान्, न बिभेतिऽ ’तदात्मानमेवावेदहं ब्रह्मास्मीति ।
तस्मात्तत्सर्वमभवत्ऽ ’तत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ वेद भवति, विद्वान् न बिभेति, को मोहः पश्यत इति पौर्वापर्याश्रवणात् ।
यत्तु क्वचित्पौर्वापर्यं तत्’व्यादाय स्वपितिऽइति यथा ।
नन्वेकत्वे तुल्यकालताप्यनुपपन्ना ।
न, एकस्यापि वस्तुनो भावाभावरूपेण व्यपदेशात्, तथा
’यदा घटो नश्यति तदा कपालानि जायन्तेऽ इति ।
कथं तर्हि मार्गाविभागसर्गाप्ययैश्वर्यश्रुतयः? तत्राहुः
न मार्गश्रुतयो निरुपाधिविशुद्धब्रह्मविद्याविषयाः ।
यत्र हि सर्वोपाधिविशुद्धमस्थूलादिकं ब्रह्मोपास्यम्, तत्र ’ब्रह्मैव सन् ब्रह्माप्येतिऽ ’न तस्मात्प्राणा उत्क्रामन्ति, अत्रैव समवनीयन्तेऽ इति प्राणानुत्क्रमणेन विज्ञानात्मन एवागतिरुच्यते ।
न हि तदगमने तदुपाधेस्तस्य ब्रह्मणो भेदेन विज्ञानात्मत्वम् ।
यत्र तु ’मनोमयः प्राणशरीरो भारूपःऽ इति सोपाध्युपास्यम्, तद्विषयास्ताः ।
यत्रैतच्छ्रूयते
’रश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो [कुप्पुस्वामी संस्करण १२३] दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयं वेश्मऽ इति ।
तथा चाब्रह्मविदामपि तद्गतिश्रवणम्
’ये चामी अरण्ये श्रद्धां सत्यं तप इत्युपासतेऽ इति ।
परब्रह्मप्राप्तिस्तु नाब्रह्मविदां युज्यते,

’विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यान्ति नाविद्वांसस्तपस्विनःऽ ॥


इति, तथा ’तमेव विदित्वाति मृत्युमेतिऽ इति वचनात् ।
अपुनरावृत्ति श्रुतिस्तर्हि कथम्? अत्र केचिन्मन्यते
क्रममुक्त्याश्रयणात्तत्प्राप्य तत्रोत्पन्ननिरुपाधितत्त्वज्ञानाः परं पदमश्नुवते ।
यथोक्तम्

’वेदान्तविज्ञानसुनिश्चितार्थाः
संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परान्तकाले
परामृताः परिमुच्यन्ति सर्वेऽ ॥


ब्रह्मलोकेष्विति कार्यब्रह्मलोकनिर्देशः, बहुवचनात्तत्रावयवद्वारेण बहुत्वोपपत्तेः ।
परान्तकालो महाप्रलयो ब्रह्मणः स्वाधिकारपर्यवसानम्, तस्मिन् परामृताः परब्रह्मरूपेणामृताः सन्तः संन्यासयोगाद्भेदेन परमेश्वरे स्वकृतानां कर्मणां फलानां च संन्यासाद्योगाच्च सर्वमिदं कर्त्रादि ब्रह्म इत्युपासनात् ।
तथा च स्मृतिः

’ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्ऽ ॥

अन्ये तु मन्यते
यथा चन्द्रलोके यावत्संपातमुषित्वा स्थित एव तस्मिन् भुक्तभोगा आवर्तन्ते नैवं स्थित एव ब्रह्मलोके तत आवृत्तिः ।
किं तु तत्प्रलयपर्यवसाना [कुप्पुस्वामी संस्करण १२४] तत्र स्थितिः ।
तत्प्रलये हि न तत आवृत्तो भवति ।
ततश्चानावृत्तिः श्रूयते ।
तथा च ’िमं मानवमावर्तं नावर्तन्तेऽ इति ’िमम्(?, इमेदितिओन्), इहऽइति विशेषणम् ’मृतत्वमेतिऽइत्यमृतत्वमापेक्षिकम्, यथा
’मृता देवाःऽ इति ।
तथा च पौराणिकस्मरणम्
’ाभूतसंप्लवं स्थानममृतत्वं हि भाष्यतेऽ इति ।
यत्तु मन्यते
सर्वगतत्वेऽपि ब्रह्मणो विकृताविकृतभेदः ।
ततश्च देशभेदः ।
तथा चाविकृतस्य ब्रह्मणो देशभेदः श्रूयते
’थ यदतः परो दिवो ज्योतिर्दीप्यतेऽ इति ।
अतोऽविकृतस्य नियतदेशस्य ब्रह्मणः प्राप्तये युज्यते मार्गविशेषः ।
तत्संप्रधार्यम् ।
न तावदनुत्पन्नाद्वयविशुद्धविद्यस्यायं मार्गः, ब्रह्मविदः श्रवणात् ।
नापि विद्यावतः ।
विद्योदये निखिलभेदोच्छेदादिति ।
मधुनदीनिदर्शनाविभागश्रुतिरपि विवेकज्ञानाभावपरा, न तु तद्विध एवाविभागः ।

सर्गश्रुतयोऽपि न सर्गपराः ।
किं तर्हि? एकात्मतत्त्वप्रतिपत्तिप्रधानाः ।

ततस्तदनुगुणतयैव तासामर्थव्यवस्थानम्, न तु तद्विरोधेन ।
तथा हि
कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति? ’सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ इत्येकत्वेनोपक्रमात्’ैतदात्म्यमिदं सर्वम् ।
तत्सत्यम्, स आत्मा, तत्त्वमसिऽइत्युपसंहारादेकत्वेनैवैकात्म्यतत्त्वप्रतिपत्तिपरमेकमिदं वाक्यं गम्यते ।
तत्र यद्यपरस्तेजःप्रभृतितत्त्वसर्गः सत्यतया विधीयेत, वाक्यभेदः स्यात् ।
अतो यथोपांशुयाजवाक्येऽजामित्वोपक्रमोपसंहारे ’विष्णुरुपांशु यष्टव्यःऽइत्यादीनि वचांसि [कुप्पुस्वामी संस्करण १२५] वाक्यभेददोषात्पृथग्विधित्वमलभमानानि तादर्थ्यात्तदानुकूल्येन स्तुत्यर्थतया व्यवतिष्ठन्ते, तथा सर्गश्रुतयोऽप्येकत्वोपायतया ।
न च विपरीतं शक्यं वक्तुम्
एकत्वश्रुतिरेव भेदप्रतिपत्त्यर्थेति, सर्वत्रैकत्वेनोपक्रमातुपसंहाराच्च ।
येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थः ।
भेदप्रतिपत्तेश्चाफलत्वात् ।
एकत्वप्रतिपत्तेस्तु दृष्टं श्रुतं च फलं शोकादिनिवृत्तः, विशुद्धैकात्म्यदर्शनेन तदवगमात्’तत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ इति श्रवणात् ।
फलवदङ्गता चाफलस्य ।
उपायत्वं च ।
न चेदं जगदसन्मूलम् ।
किं तर्हि? अद्वितीयैकसन्मूलम् ।
कारणाव्यतिरेकाच्च कार्यस्य सदेकमेवेदम्, घटादिवत् ।
मृद्रूपेण हि घटादयो नैकत्वमतिक्रामन्ति ।
नन्वेवं मुख्य एव कार्यकारणभाव उक्तः स्यात् ।
नैतत्, एकत्वावतारोपायमात्रत्वात् ।
न खल्वत्र कार्यकारणभाव एव प्रतिपाद्यः, येनासौ यथाशब्दं मुख्य एव गृह्येत ।
एकत्वोपायत्त्वादित्युक्तम् ।
एकत्वं चानेनोपायेनावतार्यते पुरुषः ।
स च मुख्यः प्रधानविरोधी ।
’ेकमेवाद्वितीयम्ऽइति पुनः पुनः श्रुतेः सर्वभेदनिरासपरत्वान्न शक्यं वक्तुम्
कारणात्मनैकत्वम्, कार्यात्मना नानात्वम्
’तत्सत्यम्, स आत्माऽ इति च कारणस्यैव सत्यत्वावधारणात् ।
अन्यत्र चऽ ’िन्द्रो मायाभिःऽ इति भेदस्य मायागम्यत्वश्रुतेः ।
साक्षाच्च भेदाभावस्य श्रवणात्
’नेह नानास्ति किञ्चनऽ इति ।
भेदाभेदयोश्च विरोधात्प्रागनुपपत्तेर्वर्णितत्वात् ।
तदविरोधेन वर्ण्यते तदुपादानमात्रतया भेदविकल्पस्य, बिम्बप्रतिबिम्बवद्वर्णपदवाक्यादिवच्च ।
यथा हि न बिम्बात्प्रतिबिम्बानामुत्पत्तिर्नानारूपाणाम्, बिम्बोपादानमात्रतया प्रतिबिम्बभेदविकल्पस्य ।
न हि बिम्बात्[कुप्पुस्वामी संस्करण १२६] परस्परतो वा व्यावृत्तानि कानिचिद्वस्तूनि प्रतिबिम्बानि ।
बिम्बोपादानं तु तन्नाना निर्भासमात्रम् ।
तथा न वर्णेभ्यः पदवाक्यप्रकरणादीनि कानिचिद्वस्तूनि सन्ति, तदुपादानमात्रत्वात्तत्कल्पनायाः ’वर्णेभ्यः पदानि निष्पद्यन्ते, पदेभ्यो वाक्यम्ऽ इत्युच्यते ।
अपि च स्वप्नेऽपि सृष्टिः श्रूयते
’न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथः सृजतेऽइति, तद्वदेषा स्यात्, अन्यपरत्वात् ।
स्वयमेव ’वाचारम्भणं विकारो नामधेयम्ऽ इति विकारासत्यतया न पारमार्थिकीत्युक्तम् ।

ऐश्वर्यश्रुतिष्वपि स्वगुणविद्याविपाकोऽयं श्रूयते
’स एकधा भवति त्रिधा भवतिऽ ’सर्वांश्च कामानाप्नोतिऽ ’स स्वराड्भवतिऽ इति, न तु मोक्षः ।
स हि निरुपाधिब्रह्मविद्यानिमित्त एव ।
यदपि क्वचिदपुनरावृत्तिश्रवणम्, तस्यापि द्वयी गतिर्व्याख्यातेत्येकं दर्शनम् ।

अन्ये तु मन्यन्ते
आविर्भूतब्रह्मरूपो ब्रह्मणः सर्वात्मत्वात्सर्वेशितृत्वाच्च सर्वोपभोगानां च भोक्तृत्वात्तदानन्दमात्रारूपत्वाद्देवाद्यानन्दानां ’स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्ऽ ’स स्वराड्भवतिऽइति तस्य तत्संकीर्तनं ब्रह्मरूपाविर्भावलक्षणमोक्षप्रशंसार्थम् ।
ननु सर्वात्मत्वेन सर्वकामावाप्तौ सर्वशोकमोहाद्याप्तिरपि स्यात् ।
न, तेषामब्रह्मरूपत्वादविद्याध्यस्तत्वात् ।
ज्ञानैश्वर्यानन्दभोगास्तु ब्रह्मणो रूपम्, ’विज्ञानमानन्दं ब्रह्मऽ ’नान्योऽतोऽस्ति द्रष्टाऽ ’ेतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तिऽ [कुप्पुस्वामी संस्करण १२७] ’सर्वस्येशानःऽ ’ेतस्य वा अक्षरस्य प्रशासने गार्गिऽइत्यादिश्रुतिभ्यः ।
तथा च यत्किञ्चिदीश्वरत्वं यच्च विज्ञानं यश्चानन्दो ब्रह्मादिषु स्थावरान्तेषु भूतेषु ब्रह्मणि तानि ।
तान्याविर्भूतब्रह्मस्वरूपः समश्नुत इति युक्तम् ।
लोकादयस्त्वविद्याध्यस्ता न ब्रह्मरूपम् ।
ते कथमाविर्भूतब्रह्मस्वरूपमास्कन्देयुः? ननु प्रपञ्चशून्यस्याद्वैतस्य ब्रह्मरूपस्य ज्ञेयाभावादीशितव्याभावाच्च विज्ञानमैश्वर्यं चानुपपन्नम् ।
तत्र ’सर्वज्ञःऽ ’सर्वेश्वरःऽ इत्यपि श्रुती समाधेये एव ।
नैतत्सारम् ।
यतो नेशितव्यकृतमीश्वरत्वम्, ज्ञेयकृतं वा ज्ञातृत्वम् ।
किं तु सिद्धेन ज्ञानरूपेण सिद्धया चेशनशक्त्या ज्ञेयमवाप्नोति, ईशितव्यं च विनियुङ्क्ते प्रशास्ति च प्रकाशदाहवत् ।
सिद्धेन हि प्रकाशरूपेण प्रकाश्यं प्रकाशयति विवस्वान् ।
न तु प्रकाश्याधीनं तस्य प्रकाशरूपम्, दाह्याधीना वा अग्नेर्दाहशक्तिः ।
तथा च तच्चैतन्येनैव कृत्स्नस्य प्रपञ्चस्यावभासनात्’तस्य भासा सर्वमिदं विभातिऽ ’नान्योऽतोऽस्ति द्रष्टाऽइत्यादिश्रुतेः सर्वज्ञत्वम् ।
सर्वेश्वरत्वमपि तदैश्वर्येण यथायथमीश्वरैरीशितव्यानामीशनात् ।
एवं च ’ेष भूताधिपतिःऽ ’ेष लोकपालःऽइति ब्रह्मेन्द्रयमादीनां चैश्वर्यमुक्तम् ।
सर्वकामावाप्तिश्च तदीयत्वाद्देवाद्यानन्दस्य ।
कामेष्वानन्दप्राप्त्या कामा आप्ता भवन्ति, न स्वरूपेण ।
एवं ’स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वाऽ इति वर्णनीयम्, [कुप्पुस्वामी संस्करण १२८] तद्विषयानन्दभोगात्, न तु स्त्र्यादियोगः ।
यथा ’ात्मरतिरात्मक्रीड आत्ममिथुनःऽ इति, न हि मुख्यमात्मक्रीडत्वमात्ममिथुनत्वं वा संभवति ।
यतश्चानवच्छिन्नानि तदीयान्येव सर्वभूतेषु ज्ञानादीनि कल्पितावच्छेदानि, अतो यत्र यत्र नात्यन्तमवच्छेदः समुत्कर्षात्तेषां तानि तानि प्रत्यासत्तेर्भूतान्यात्मत्वेन भगवानुक्त्वा
’मुनीनामप्यहं व्यासःऽइत्यादि, उपसंजहार
’यद्यद्विभूतिमत्सत्त्वम्ऽ इति ।
तथा ’दृष्टं द्रष्टृ, अश्रुतं श्रोतृऽइत्यादि, सर्वभूतदर्शनादीनां तच्चैतन्यनिबन्धनत्वात् ।

अन्ये त्वाहुः
यावान् कश्चित्परस्मिन्नामरूपाश्रयो व्यपदेशः सर्वोऽसावाध्यानाय ।
यथा ’योऽसावादित्ये पुरुषःऽ ’हिरण्यश्मश्रुःऽ इत्यादि ।
न हि स्वमहिमप्रतिष्ठस्य परस्य देशविशेषावरोधः, सर्वविशेषातिगस्य च रूपविशेषयोगः ।
परश्चैषः, सर्वपाप्मोदयश्रुतेः
’ुदितः सर्वेभ्यः पाप्मभ्यःऽ इति, आध्यानं तु तथा विधीयते ।
तथा सर्वज्ञत्वादपि द्रष्टव्यमिति ।
तदेवं ब्रह्मात्मनस्तद्रूपाविर्भावस्तत्प्राप्तिः, स मोक्षः ।
सा च विद्यैव ।
तस्मान्न साध्यो मोक्षः, न च विद्यया अन्य इति पुष्कलम् ।

अथ मतम्
मा भून्मोक्षः साध्यः ।
बन्धहेतुक्षयस्तु साध्यते ।
तत्साधनमात्मदर्शनं स्यात् ।
श्रूयते च तस्य फलं बन्धहेतूनां कर्मणां क्षयः
’क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरेऽ ।
तथा ’तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्तेऽ ’पाप्मशब्देन पुण्यमपि संगृहीतम्, सावद्यफलत्वात्, ।
अन्यत्र च ’नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्ऽ इत्युपक्रम्य [कुप्पुस्वामी संस्करण १२९] ’सर्वे पाप्मानोऽतो निवर्तन्तेऽइत्युपसंहारात् ।
न च तत्क्षयमन्तरेण क्षेमप्राप्तिः ।
अतोऽवश्यकर्तव्यः ।
न चादत्तफलस्य कर्मणो न क्षयः, प्रायश्चित्तानां दोषसंयोगेन चोद्यमानानां तत्क्षयफलत्वात् ।
तस्मात्प्रायश्चित्तैरिव विद्यया बन्धहेतुक्षयः साध्यते ।
सैव च मुक्तिः, बन्धनविश्लेषार्थत्वान्मुचेः ।
एवं च नान्तवत्वदोषः, प्रध्वंसस्य कार्यस्याप्यविनाशात् ।
तत्रोच्यते

प्रायश्चित्तदिशा बन्धहेतूच्छेदोऽपि नो ततः ।
सर्वाविद्याप्रविलये न च्छेद्यमवशिष्यते ॥ २.१०७ ॥

बन्धहेतुरविद्यात्मा विद्यायां सास्तमागता ।

बन्धहेतुध्वंसोऽपि नात्मदर्शनसाध्यः ।
तद्धि विदधदेव निखिलाविद्याव्यवहारप्रविलयमुदीयते ।
कर्मफलभोगविभागश्चाविद्योपादानः ।
तत्रानवयवेनोन्मूलितायामविद्यायां न च्छेत्तव्यमस्ति ।
अविद्याध्यस्तानि हि कर्माणि तत्समुच्छेदे विद्यया समुच्छिन्नान्येव भवन्ति ।
तद्विपाकस्यावकाश एव नास्त्यद्वैतमात्मतत्त्वं पश्यतः, भेददर्शनाश्रयत्वात्तस्य ।
यतश्चाविद्योच्छेदेनैव कर्मोच्छेदः ।
अतस्तुल्यवत्संशयविपर्यासाभ्यां प्रसंख्यातानि कर्माणि

’भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरेऽ ॥

नन्वेवं कर्मक्षयाम्युपगमे तत्त्वदर्शनसमनन्तरमेव मुक्तिः स्यात्, न देहपातप्रतीक्षा ।
’तस्य तावदेव चिरं यावन्न विमोक्षेऽथ संपत्स्येऽ इति देहपातप्रतीक्षाश्रुतिर्बाध्येत ।
यस्य तु विद्या तत्क्षयसाधनं शास्त्राद्गम्यते तस्य [कुप्पुस्वामी संस्करण १३०] तदनुसारेण केषाञ्चित्क्षयो विद्यया, केषाञ्चिदुपभोगेन ।
तत्र ’क्षीयन्ते चास्य कर्माणिऽइत्यविशेषात्सर्वक्षयप्रसङ्गे ’तस्य तावदेव चिरम्ऽ इति देहपातावधिश्रवणान्मुक्तेरारब्धकार्याणां प्रवृत्तभोगानां न ततः क्षयः, भोगेनैव क्षय इति गम्यते ।
न हि सर्वक्षये देहपातप्रतीक्षोपपद्यते ।
तदुक्तम्
’नारब्धकार्ये एव तु पूर्वे तदवधेःऽ ’भोगेन त्वितरे क्षपयित्वा संपद्यतेऽ इति ।
विद्यया त्वविद्योच्छेद कर्मविपाकव्यवहारोच्छित्तावविशेषात्सर्वोच्छेद इति सपद्येव मुच्येत ।
नैव दोषः ।
न हीयं श्रुतिश्चिरकालताविशिष्टं देहपातवधिं मुक्तेराह, किं तु क्षिप्रताम् ।
यथा कश्चित्क्षेपीयस्तं प्रतिपादयन् ब्रवीति क्वचित्कार्ये
’ेतावन्मे चिरं यत्स्नातो भुञ्जानस्य चऽ एवमियमपि ।
अन्यथा ’तावदेवऽइति न वाच्यं स्यात् ।
’चिरम्ऽ इत्येव ब्रूयात् ।
’तावदेवऽइति तु वचनात्क्षैप्र्यपरता गम्यते ।
अतः क्षिप्रैव मुक्तिः, न प्रतीक्षणीयमस्ति ।
देहपातप्रतीक्षा तु तत्र नान्तरीयकत्वाद्भवत्येव ।

अथ वा चिरत्वमनूद्य देहपातावधित्वमत्रोच्यते ।
अन्यथा चिरत्वेऽवधिविशेषे चोच्यमाने वाक्यं भिद्येत ।
तत्रायमर्थः
यदि कस्यचिच्चिरम्, तावदेव यावन्न विमोक्ष्ये इति ।

ननु पूर्वस्मिन् पक्षे तत्त्वज्ञानानन्तरत्वाद्देहपातस्य स्थितप्रज्ञलक्षणाभिधानं न युज्यते
’स्थितप्रज्ञस्य का भाषाऽ इत्यादि ।
द्वितीयोऽपि सर्वक्षये चिरत्वानुपपत्तेस्तत्रावधिविशेषविधानायोगादनुपपन्नः ।
उच्यते
स्थितप्रज्ञस्तावन्न विगलितनिखिलाविद्यः सिद्धः, किं तु साधक एवावस्थाविशेषं प्राप्तः स्यात् ।
न च ब्रूमः
ब्रह्मवेदनानन्तर एव देहवियोगः ।
किं तु आरब्धकार्यकर्मक्षयं [कुप्पुस्वामी संस्करण १३१] भोगेन प्रतीक्षत इति ।
तत्र कस्यचित्तत्कालोऽपवर्गः ।
कस्यचित्कियांश्चित्क्षेपः ।
यथा रज्ज्वां सर्पसमारोपसमुत्थभयजन्मानो वेपथुप्रभृतयस्तत्त्वदर्शनादपावृते भये कस्यचित्तदैव निवर्तन्ते, कस्यचित्कियन्तञ्चित्कालमनुवर्तन्ते, तत्संस्कारात् ।
तथा सर्वकर्मक्षयेऽपि भुज्यमानविपाकसंस्कारानुवृत्तिनिबन्धना शरीरस्थितिः ।
कुलालव्यापारविगम इव चक्रभ्रान्तिः ।

नन्वेवं ब्रह्मविदोऽपि चेद्भोक्रादिविभागदर्शनमनुवर्तते, देहपातादुत्तरकालमप्यनुवर्तेत, तत्र विदुषोऽपि नावश्यंभावि कैवल्यं स्यात् ।
तथा च ’तावदेव चिरम्ऽ इति श्रुत्या विरोधः ।
अथोच्छेदादविद्याया नानुवृत्तिः, क्षणमपि न स्यादिति स एव विरोधः, सैषोभयतःपाशा रज्जुः ।
उच्यते ।
यथा भयविगमे लब्धाश्वासस्यापि संस्कारमात्रात्कम्पाद्यनुवृत्तिः, न च भयविगमेऽप्यनुवृत्तिरित्येतावता चिरकाला भवति ।
न च मूलकारणतुल्यफलः संस्कारः ।
न च स्थायी ।
अन्यथा कम्पादीनां निवृत्तिरेव न स्यात् ।
न च भयविगमहेतोस्तत्त्वदर्शनात्तन्निवृत्तये हेत्वन्तरमपेक्षते ।
तत एव हि स क्रमेण निवर्तते, स्वयमेव वा कुलालचक्रभ्रान्तिसंस्कारवत्
तथा निवृत्तायामविद्यायां कर्मसु चाविशेषेणारब्धकार्येष्वनारब्धकार्येषु च निवृत्तेष्वारब्धविपाकसंस्काराच्छरीरिणं भोक्तारमिव चायमात्मानं प्रत्येत्याभासमात्रेण विद्वानपि, न त्वविद्वानिवारूढाभिनिवेशः ।
स चायमीदृशः स्थितप्रज्ञो वर्णितः वीतकाम आत्मरूपसंतुष्टो दुःखेषु च्छायामात्ररूपेषु तत्त्वदर्शनादभिनिवेशात्कृत्रिमेभ्य इव व्याघ्रादिभ्योऽनुद्विग्नमनाः सुखेषु च कृत्रिमरमणीयेष्विव विगतस्पृहः ।
यथा खल्वविदुषो मृद्दारुरचिते स्त्र्यादौ विषये छायामात्रदर्शनमभिनिवेशविकलम्, तथा विदुषः क्षीणकर्माविद्यस्य [कुप्पुस्वामी संस्करण १३२] तत्संस्कारमात्राद्दर्शनं छायामात्रेणैव विषयेषु ।
तथा च ’तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत एवमेवेदं शरीरम्ऽइति विदुषः शरीरेऽनास्थां दर्शयति ।
यतो न मूलकारणतुल्यफलः संस्कारः कम्पादिवदेव ।
न च चिरकालानुवृत्तिः, अल्पकालस्थायित्वात्संस्कारस्य ।
तद्वदेव च न तन्निवृत्तये हेत्वन्तरमपेक्ष्यते, तत्त्वदर्शनादेव क्रमेण तस्यापि निवृत्तेः, स्वयमेव वा ।
सा चेयमवस्था जीवन्मुक्तिरिति गीयते ।
आरब्धकार्यकर्मसंस्कारक्षयश्च देहपातादेव गम्यते ।
तदनुवृत्तौ देहपात एव न स्यादिति न देहपातोत्तरकाले तद्विपाकस्य छायामात्रेणापि दर्शनं शक्यते ।
येन हि कर्मणा यच्छरीरमारब्धं तत्रैव तद्विपाकशेषाभासः ।
अनारब्धकार्याणां त्वलब्धवृत्तीनामेव निवृत्तत्वान्नास्ति तत्संस्कारः ।
लब्धवृत्तिकारणसंस्काराद्धि कार्यलेशानुवृत्तिः ।
न खलु भयेऽप्रतिलब्धवृत्तावनुपजनितकम्पादौ तत्संस्कारात्कम्पाद्यनुवृत्तिः ।
तस्मादनारब्धकार्याणामनालब्धवृत्तित्वादारब्धकार्यसंस्कारक्षयस्य च देहपातादवगमाद्विदुषः पतितेऽस्मिन् शरीरे कैवल्यमवश्यंभावि ।
अत्र च लब्धवृत्तिकारणसंस्काराद्वा कार्यशेषः, कार्यसंस्कारादेव वा, तथोभयसंस्कारादेव वा कम्पाद्यनुवृत्तिः ।
भयसंस्काराद्वा भयम्, ततः कम्पादयः ।
कम्पादिसंस्काराद्वा कम्पाद्यनुवृत्तिः ।
सर्वथा भवति कारणविगमेऽपि कार्यशेषानुवृत्तिः, संस्कारात् ।
अतो लब्धवृत्तिकर्मसंस्कारात्तद्विपाकाद्वा विदुषोऽपि शरीरस्थितिः ।
तदुक्तं तन्त्रान्तरेऽपि
’तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरःऽ इति ।

ये तु मन्यन्ते
प्रवृत्तभोगानां कर्मणां प्रवृत्तवेगस्येषोरिव चक्रस्येव वा न शक्यः प्रतिबन्धः, अतो भोगेन क्षयप्रतीक्षेति ।
तदसत्, [कुप्पुस्वामी संस्करण १३३] शक्यो हीषुः प्रतिबन्धुं कुड्यादिभिः, नाशयितुं च च्छेदादिभिः ।
स्वप्नादिसूचितोपस्थितविपाकवर्तमानदेहभोग्यकर्मक्षयार्थानि च शान्तिकानि कर्माणि ।
तस्मात्संस्कारादेव स्थितिः ।

ननु संस्कारकार्यशेषावविद्यैव ।
तत्र कथं सर्वाविद्याप्रविलयः, कथं वा न च्छेद्यमवशिष्यते? उच्यते
विशुद्धैकात्म्यदर्शनप्रतिपक्षग्रस्तौ विलीनावेव तावदुदितौ, अकिञ्चित्करत्वादबन्धत्वात्, तन्निवृत्तये हेत्वन्तरस्यानपेक्षणात् ।
विशुद्धं खल्वात्मानं साक्षादनुभवतो विपाकाभासस्तमस्पृशन्नकिञ्चित्करो बन्धात्मा प्रलीन एव ।
यथा चित्रादौ चित्रादितत्त्वमनुभवतः स्त्र्याद्याभासो रागादीनामनिमित्तत्वात्, तथावदातमात्मानं जानतो विपरीतं वा खड्गादिषु श्यामाद्याभास उत्पन्नोऽपि तत्त्वदर्शनादवकाशमलभमानः प्रविलीन एव ।
तथा च न तन्निबन्धनेन मलिनत्वेन शोचत्यात्मानम्, न तेजस्वितयाभिनन्दति ।
अवभासमानयोरपि तयोरात्मनि तत्त्वदर्शनप्रतिहतावभासत्वात् ।
एवं च यदुच्यते
कर्मणो वा शरीरस्थितिः स्यात्संस्काराद्वा, को विशेषः? कश्च कर्मणः क्षयः कार्यानुवृत्तौ? तन्निवृत्त्या हि तत्क्षयो गम्यते ।
तस्मात्’भोगेन त्वितरे क्षपयित्वा संपद्यतेऽ इत्येव युक्तम् ।
तदप्यपास्तम् ।
कर्मविपाको ह्यात्मसंस्पर्शी शोकाभिनन्दनवानविदुषः, विदुषस्तु तदसंस्पर्शादाभासमात्रं मणिकृपाणदर्पणादिनिबन्धनविशेषवत् ।
न विपाकः, अनभिनन्द्यमानत्वादद्विष्यमाणत्वाच्च ।
तथा च ’तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टिऽ इति दर्शितम् ।
तथा
’यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेःऽ ।
पश्यत एव शरीरादिप्रपञ्चो निशा, तदसंस्पर्शाददृश्यमानसमत्वात् ।

[कुप्पुस्वामी संस्करण १३४] ननु तत्त्वज्ञानप्रतिहतश्चेदुत्पन्नोऽपि प्रपञ्चावभासो नात्मसंस्पर्शी, न किञ्चित्करः, न बन्धः, शब्दादेव तस्योत्पत्तेः किमर्थमुपासनादि? उच्यते
परोक्षरूपं शाब्दज्ञानम्, प्रत्यक्षरूपः प्रपञ्चावभासः ।
तेन तयोरविरोधेन प्रपञ्चावभासो नात्मासंस्पर्शी, नाकिञ्चित्करः, न न बन्धः, यथा प्रमाणान्तरादवसीयमानमाधुर्येऽपि द्रव्ये प्रत्यक्षसरूप
इन्द्रियद्वारस्तिक्तावभासोऽद्रव्यसंस्पर्शी नाभासमात्रतयावतिष्ठते, तथा च तद्द्रव्यं परमार्थतिक्तमिवानवसितमाधुर्यमिव दुःखाय भवति ।
उपासनादिना साक्षात्कृतात्मतत्त्वस्य तु विरोधात्सन्नपि प्रपञ्चावभासो नात्मसंस्पर्शी, देवदत्त इव सिंहावभासः ।
’सिंहो देवदत्तःऽ इति समारोपेऽवभासमानोऽपि तदसंस्पर्शी, अकिञ्चित्करः, न भयहेतुः ।
नित्यश्चात्मतत्त्वप्रकाशः, तत्र न पुनर्विपयर्यावकाशोऽस्ति ।
शाब्दं तु प्रमाणाधीनं क्षणिकं ज्ञानम्, तत्र पुनरपि विपर्ययावकाशः ।
दृष्टं हि प्रमाणाननुसन्धाने पुनः सर्पभ्रान्त्या रज्जोर्भयम् ।
अथात्रापि सततं शाब्दं ज्ञानमनुसंदधीत ।
किमन्यदुपासनमस्मात्? तस्माद्बन्धहेतुच्छेदोऽपि विद्यैव, न तया साध्यः ।
एवमुत्तराघाश्लेषेऽपि वाच्यम्, ’यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यतेऽइति कर्तृकर्मप्रविभागस्य विद्यया प्रविलयात् ।
एवं न विद्याया अनेकफलकल्पना भविष्यति, वर्तमानापदेशानां च फलविधित्वेन न विपरिणतिरिति ।
यदुक्तं न शाब्दज्ञानविषयो ब्रह्मेति, तत्रोच्यते

न ब्रह्म शब्दधीगम्यं यद्यशक्यो धियो विधिः ॥ २.१०८ ॥
धीविशेषप्ररूपाय नासिद्धो विषयः क्षमः ।
[कुप्पुस्वामी संस्करण १३५] विधिर्नारूपितपदो धीमात्रं न विधीयते ॥ २.१०९ ॥

न खलु ज्ञानमात्रं विधीयते, ज्ञानविशेषवस्तु ।
न चाप्रसिद्धेऽनिरूपिते तत्र नियोगः ।
न ह्यप्रसिद्धे विषये नियोक्तुं शक्यते ।
ज्ञानस्य च विशेषोऽर्थद्वारः ।
न चाप्रसिद्धोऽर्थस्तद्विशेषनिरूपणाय प्रभुः ।
न चात्मरूपस्य शब्दादन्यतः सिद्धिः ।
शब्दादपि चेन्न सिद्धिः, तद्द्वारज्ञानविशेषासिद्धौ विषयानुपपत्तेर्नियोगानुपपत्तिः ।

अपि च ज्ञानविशेषविधिवादिन आत्मतत्त्वे प्रामाण्यमेव हीयत इति दर्शयति

विधिः स्वसिद्धिनिष्ठो वा क्रियासिद्धिपरोऽथवा ।
अद्वैतब्रह्मतत्त्वस्य प्रतिपत्तिरहेतुका ॥ २.११० ॥

विनियोगादधिगतिर्यास्या ज्ञानक्रियार्थता ।
अतत्परा न प्रमाणं सार्थवादोत्थबुद्धिवत् ॥ २.१११ ॥

विधिः क्रियागोचरत्वान्न द्रव्ये व्यापृतिक्षमः ।
सत्तान्वयात्तु तत्सिद्धिः प्रत्युतेति स दुष्यति ॥ २.११२ ॥

विशिष्टान्यक्रियाबोधः प्रमाणं न विशेषणे ।
प्रतिपत्तिर्विशिष्टापि विषयस्य नियोगतः ॥ २.११३ ॥

सत्तां न साधयत्येव समारोपेण संभवात् ।


यदि तावन्नियोगस्यैव कार्यता प्रतीयेत, तदा स स्वनिष्पत्तौ पर्यवसितः सह शब्देन ।
अथ विनियोगाद्विषये कर्तव्यतावगमः, तथापि विषयसिद्धौ ।
उभयथा न वस्तुतत्त्वं संस्पृशति ।
तत्राद्वैतात्मतत्त्वप्रतिपत्तिरप्रमाणिका स्यात् ।

स्यादेतत्
’य आत्मापहतपाप्मा विजरःऽ इति पदानां सामानाधिकरण्येन सम्बन्धादन्यथा वा वस्तुतत्त्वप्रतिपत्तिरिति ।
तच्च न, अन्यपरत्वात् ।
[कुप्पुस्वामी संस्करण १३६] सा हि न ’ेवमिदम्ऽइति पर्यवसिता, किं तु ’ेवमिदं प्रतिपत्तव्यम्ऽइति कर्तव्यतानिष्ठा न वस्तुतत्त्वे प्रमाणं वृत्तान्तेष्विवार्थवादोत्थज्ञानम्, अन्यपरत्वात् ।
न चात्मतत्त्वमेव विधेर्विषयः, तस्यानुष्ठेयविषयत्वात्, क्रियायाश्च तथाभावात्, सिद्धवत्स्वशब्दोपादानेऽननुष्ठेये द्रव्ये व्यापारायोगात् ।
प्रत्युताविधेयकालत्रयान्यतमसंस्पृष्टसत्तानुगमेन द्रव्यस्वरूपसिद्धिः
’ीदृशं वस्त्वभूत्, अस्ति, भविष्यति वाऽ इति ।
तस्मात्स्वरूपसिद्धौ दुष्यति ।
न हि विधेयस्य कालत्रयेऽपि सत्तावगमः ।
न हि ’यजेतऽइत्युक्ते यागस्य भूतकाला वर्तमानकाला भविष्यत्काला वा सत्ता प्रतीयते ।
ननु भविष्यत्कालावगम्यते, भविष्यत्कालविषयत्वाद्विधेः ।
नैतत् ।
न हि ’विहितं नियोगतोऽनुष्ठास्यते, विहिताकरणदोषाभावप्रसंगात् ।
ननु विशिष्टक्रियाभिधानं विशेषणेऽपि प्रमाणमिष्यते
यथा ’सोमेन यजेतऽ ।
तथा ’ङ्गदी कुण्डली व्यूढोरस्को देवदत्तस्य पुत्रोऽधीतेऽइत्यध्ययनक्रियावत्सर्वो विशेषणकलापः प्रतीयते ।
सत्यम् ।
विशिष्टक्रियाप्रमाणं विशेषणेऽपि प्रमाणमन्यत्र प्रतिपत्तेः ।
प्रतिपत्तिर्हि विषयविषेशविशिष्टा प्रमीयमाणा न विषयविशेषस्य सद्भावं गमयति, अन्यथाभूते तथाभाससमारोपेणापि संभवात्’सौ वाव लोको गौतमाग्निःऽइति यथा द्युप्रभृतिष्वनग्निदृष्टेः ।

अत्राह

ननु नो विपरीतार्था धीः प्रतीतिविरोधतः ॥ २.११४ ॥

अनाश्वासाच्च रजतप्रत्ययो रजते स्मृतिः ।

न खल्वन्यदन्यथा प्रतीयत इति युक्तम्, प्रतीतिविरोधात् ।
कथमन्यस्मिन् प्रतिभासमानेऽन्यो विषयः? अनाश्वासाच्च ।
विषयरूपव्यभिचारिणि ज्ञाने न ततो विषयनिश्चयः स्यात् ।
अपि च विषयरूपमननुकुर्वदविषयमनालम्बनं ज्ञानमग्राह्यमेव स्यात् ।
ज्ञानहेतुमात्रस्यानालम्बनत्वाच्चक्षुरादिवत् ।
तथा [कुप्पुस्वामी संस्करण १३७] चावेदकत्वान्नान्यापेक्षादपि ततोऽर्थसिद्धिः ।
किं तर्हीदं शुक्तिसंनिकृष्टे चक्षुषि ’रजतम्ऽ इति? स्मृतिः, सामान्यग्रहणात् ।
भ्रान्तिस्तर्हि कथम्? प्रत्यक्षस्मर्यमाणयोर्विवेकाग्रहणात् ।
सोऽयं भेदाग्रहणेऽभेदग्रहणाभिमानो विवेकरहितानाम्, यथा दूरादन्तरालाग्रहणे वृक्षादिषु संश्लेषग्रहणाभिमानः ।
तस्मात्’स्मरामिऽइति विवेकशून्या रजतस्मृतिरेषा ।
अत्रोच्यते

नैतन्न हि प्रवर्तेत शुक्तिकाशकले तदा ॥ २.११५ ॥

रजते सा प्रवृत्तिश्चेन्न तस्यासंनिधानतः ।
असंनिधानाबोधाच्चेत्प्रवृत्तिनियमः कुतः ॥ २.११६ ॥

प्रवर्तते यत्तत्रैव तत्तत्संनिधिकारितम् ।
अन्यत्र भेदग्रहणाद्विवेकाग्रहणात्तथा ॥ २.११७ ॥

प्रवृत्तिभेदः सादृश्याद्विवेकाग्रहणं यदि ।
अदृष्टेषु प्रवर्तेत लोष्टादिष्वविवेकतः ॥ २.११८ ॥

न तत्र यदि तद्बुद्धिः शुक्तिकाशकलेऽपि न ।
अथास्ति विपरीतार्था ख्यातिर्निह्नूयते कथम् ॥ २.११९ ॥

अदृष्टत्वादप्रवृत्तिः शुक्तिकाशकले समा ।
दृष्टं तद्येन रूपेण तत्प्रवृत्तेरकारणम् ॥ २.१२० ॥

दृष्टस्मृताविवेकाच्चेदिदमत्र परीक्ष्यताम् ।
तत्त्वबोधादथातत्त्वाबोधाद्रजतवेदनात् ॥ २.१२१ ॥

दृष्टे प्रवृत्तिः पूर्वस्मिन्विपरीतार्थता मतेः ।
न दृष्टादृष्टयोर्भेदः परस्मिन्नोपयोगिनी ॥ २.१२२ ॥

स्वयोगदर्शने ते हि समारोपोपयोगिनी ।
नादृष्टेऽसंप्रयुक्ते वा चाक्षुषः स्याद्विपर्ययः ॥ २.१२३ ॥


यदि चक्षुषा संप्रयुक्तं शुक्तिशकलं ’न रजतम्ऽ इति प्रतीयात्, रजतं वा तथा, न शुक्तिकाशकल आदित्सया प्रवर्तेत रजतार्थी, तस्य ’रजतम्ऽ [कुप्पुस्वामी संस्करण १३८] इत्यनवगतेर्लोष्टादिवत् ।
न च स्मर्यमाणे रजते सा प्रवृत्तिः, तद्देशासंनिधेः ।
न हि प्रतीतिमुपगतेऽपि वस्तुनि यत्र तस्यासंनिधिस्तत्र तेनार्थी प्रवर्तते ।
स्यादेतत्
रजतस्य प्रतीतेरसंनिधेश्चाप्रतीतेस्तत्र प्रवृत्तिः ।
तन्न, शुक्तिकाशकल एव प्रवृत्तेः ।
तत्रैव तु प्रवृत्तिस्तत्संनिधिनिबन्धना ।
रजतमात्रप्रतीतेः स्मृतिविवेकशून्यत्वाच्च प्रवृत्तिरन्यत्रापि स्यात्, असंनिधानाग्रहणस्य तत्राप्यविशेषात् ।
अथ मतम्
अन्यदेशेषु वस्तुषु सविशेषप्रत्यक्षावगतेषु रजताद्विवेकग्रहणादप्रवृत्तिः, शुक्तिकाशकले तु रजतसाधारणशुक्लभास्वररूपमात्रप्रतीतेर्विशेषात्प्रत्ययाच्च स्मृतिविपरिवर्तिनो रजताद्विवेकग्रहणात्प्रवृत्तिः ।
एवमप्यदृष्टेषु लोकादिषु ततोऽन्यतानवधारणात्प्रवृत्तिः स्यात् ।
अथ न तेषु रजतावगमः, इतरत्रापि न ।
भावे वा विपरीता ख्यातिरभ्युपगता स्यात् ।
अथादृष्टत्वादेवादृष्टेषु न प्रवर्तते, शुक्तावपि न प्रवर्तेत ।
ननु यत्तु तथा रजतरूपम्, न तेनावगमः ।
स यथा चक्षुषासंप्रयुक्तस्य नास्ति, तथा संप्रयुक्ताया अपि शुक्तेः ।
यदि मन्येत
दृश्यमानस्मर्यमाणयोगविवेकाच्चक्षुःसंप्रयुक्त एव प्रवर्तते, नेतरस्मिन् ।
तत्रापीदं विचार्यम्
विवेकग्रहणस्य विवेककृतोऽभावात्संनिधिप्रतीतेरभेदबोधस्ततो वा प्रवृत्तिः, भेदावबोधाभावमात्राद्वा? पूर्वस्मिन्विपर्ययः, उत्तरस्मिन् दृश्यमानादृश्यमानयोः संप्रयुक्तासंप्रयुक्तयोर्वा न विशेषः, भेदाग्रहणस्य तुल्यत्वात् ।
न हीन्द्रियसंयोगस्य दर्शनस्य वा कश्चिदग्रह उपयोगः, अभूतसमारोपे त्वस्ति ।
न कथञ्चिदगृहीतेऽसंप्रयुक्ते वैन्द्रियकः समारोप उपपद्यते ।

स्मृतं प्रत्यक्षतो भिन्नं स्वज्ञानादेव चेत्कुतः ।
[कुप्पुस्वामी संस्करण १३९] अविवेकोऽन्यथा तु स्यात्सदा सामान्यदर्शने ॥ २.१२४ ॥

विपर्ययोऽन्यं स्मरतो न च संशयदर्शनात् ।
स्मृतद्वयाविवेकोत्थं संशयं यदि मन्यते ॥ २.१२५ ॥

तन्नोभयोरपि यतः स्मृतौ दृष्टो विपर्ययः ।
विशेषज्ञानतोऽध्यक्षे स्मृतं यदि विविच्यते ॥ २.१२६ ॥

न स्वज्ञानादसत्यस्मिन्द्विस्मृतौ कथमेकधीः ।
एकत्वमेव स्मरतः प्राग्रूपं शशिनि स्फुटम् ॥ २.१२७ ॥

तिमिरादिप्रदोषेण कथं ते द्वित्वविभ्रमः ।
पिपासतश्च सलिलं शुक्तिकाहितचेतसः ॥ २.१२८ ॥


विपर्ययो न हि भवेद्भवन्वा सलिले भवेत् ।

अपि चेदं तत्र भवान् व्याचष्टाम्
स्मर्यमाणं दृश्यमानात्स्वज्ञानादेव विविच्यते, न वा
स्मृतिज्ञानस्य स्वरूपमेव तादृशं यत्प्रमातव्याद्भेदेनावभासयति, स्वरूपमात्रनिष्ठं वा ।
तत्र पूर्वस्मिन् स्मरणगोचरयोरविवेकः कुतः, स्वज्ञानादेव विविक्तत्वात्? इतरस्मिन्नपि सदा स्मृतौ विपर्ययः स्यात्, सामान्यदर्शने चान्यस्मृतावविवेकात् ।
न च तत्तथा, संशयस्यापि दर्शनात् ।
अथ मतम्
एकस्मृतौ विपर्ययः, ततोऽविवेकात् ।
अनेकस्मृतौ तु संशयः ।
नैकस्मादविवेकात् ।
तदसत् ।
अनेकस्मरणेऽपि हि दृश्यते विपर्ययः ।
यदि च प्रत्यक्षेऽर्थे विशेषज्ञानात्स्मर्यमाणं विविच्यते, न स्वज्ञानात् ।
असति तत्र विशेषज्ञाने च द्वयोः स्मृतौ संशय एव स्यात्, नैकावभासो विपर्ययः ।
अथ तु स्वज्ञानात्स्मृतं विविच्यते, स्मृतिविपर्ययभेदश्चाभ्युपगम्यते ।
तदानेकस्मरणेऽपीन्द्रियदोषविशेषाद्युक्तो विपर्ययः ।
दर्शितं चेदम्
सामान्यदर्शनेऽपि कदाचिदेकां कोटिं स्मरतो न संशयो न विपर्ययः, दोषाणामपुष्टेः ।
अतः स्वज्ञानादेव तदा स्मृतं विविच्यते, न दृश्यविशेषपरिच्छेदात् ।
एवं चेत्कुतो दृश्यमानस्मर्यमाणाविवेकः?

[कुप्पुस्वामी संस्करण १४०] अपि च अन्यदेव स्मरतः पूर्वरूपमेकत्वं शशिनि द्वित्वविभ्रमः, न स्मर्यमाणाविवेकजः ।
न च ज्ञानेन्द्रियवृत्तिभेदाविवेकात्, तयोरप्रत्यक्षत्वात्स्मर्यमाणत्वाच्च ।
शुक्तिकाहितचेतसश्च सलिलं पिपासतो न स्याद्विपर्ययः ।
सलिलाभासो वा, स्मर्यमाणस्य स्वज्ञानविवेकात् ।

न च सर्वा नियोगेन भ्रान्तिः सादृश्यबन्धना ॥ २.१२९ ॥

श्वेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः ।
किञ्चित्सादृश्यतो हि स्यान्न कश्चित्तत्र न भ्रमः ॥ २.१३० ॥

तस्मादिन्द्रियदोषाणां सामर्थ्यस्य विभागतः ।
भ्रमेषु नियमो दोषादग्रहे न भ्रमे यमः ॥ २.१३१ ॥

यदि च सदृशदर्शनात्सदृशस्मृतेर्भ्रमः, कथं श्वेते पीतभ्रमः मधुरे वा तिक्तभ्रान्तिः? आन्तरपित्तसंवेदनेऽव्यापारयतोऽपि बहिरिन्द्रियं स्यात्, अञ्जनवच्चाक्षिगतस्य तद्गतकृष्णिमादिवच्चादृश्यत्वात् ।
किञ्चित्सादृश्ये सर्वप्रकारभ्रमप्रसंगः ।
तस्मादिन्द्रियदोषसामर्थ्यभेदान्नियता विपर्ययोत्पत्तिः ।
अग्रहमात्रे तु दोषव्यापारे कामिलादिदोषाद्भ्रान्तिनियमो न स्यात् ।
न हि सादृश्यनिमित्तः, असदृशेऽपि भ्रान्तिदर्शनात् ।

विशेषस्मरणान्नापि स्मृतावपि तदग्रहः ।
देशकालविशेषाच्च न स्मृतं प्रविविच्यते ॥ २.१३२ ॥

अनेकदेशाधिगतं विविक्तं न पुनस्ततः ।
स्मृतिरित्यपि विज्ञानं स्मृतेरन्यदुदाहृतम् ॥ २.१३३ ॥

न च मानफलाद्भिन्नात्तत्सिद्ध्यति फलादृते ।
सति स्मृतिविवेके च प्रत्यभिज्ञानविभ्रमः ॥ २.१३४ ॥

अथानसंनिहितो व्यर्थो वेद्यः संनिधिमत्तया ।
अविविक्तस्मृतेरेवं विपरीतार्थता भवेत् ॥ २.१३५ ॥

मनसोऽनुपघाताच्च नासंनिध्यपरिग्रहः ।
दोषो ह्यग्रहणे हेतुरिन्द्रियाणामुदाहृतः ॥ २.१३६ ॥

[कुप्पुस्वामी संस्करण १४१] प्रवृत्तिनियमो न स्यादिति चात्र निवेदितम् ।
सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ॥ २.१३७ ॥

सर्वात्मनार्थो ज्ञानेन केनचिन्न हि गृह्यते ।
तथाज्ञातविवेकस्य द्विचन्द्रादिविपर्ययात् ॥ २.१३८ ॥

अनुवृत्तिमतः पश्यन् कस्य स्वात्मापनिह्नुते ।

अथ मतम्
स्वज्ञानादेव स्मृतं विविच्यते ।
कदाचित्तु तत्र प्रत्यक्ष इव विशेषाग्रहस्ततोऽविवेकः ।
सतो तु विशेषग्रहण इन्द्रियसंयुक्ते सामान्यदर्शनेऽपि नाविवेकः, तत उभयकोटिस्मरणे न संशयः, एकस्मृतौ न संशयो न विपर्ययः ।
एवमपि द्वयोः स्मरणे न विपर्ययः स्यात् ।
न च स्मृतौ विशेषग्रहणम्, विशेषस्मरणात् ।
अथ देशकालविशेषात्स्मर्यमाणं विविच्यते, तत्र देशकालभेदाग्रह इति ।
तन्न, अनन्तदेशकालभेदावगतं तद्देशावगतं च दृश्यात्स्मर्यमाणं विविक्तं गम्यते ।
न च देशकालभेदग्रहणात्, अनन्तस्मरणानुपपत्तेः, तद्देशावगते च देशभेदाभावात् ।
अथ स्मर्यमाणतया अग्रहणादविवेकः स्मर्यमाणताज्ञानाच्च विवेकः, तस्मात्’स्मरामिऽ इति ज्ञानशून्यानि रजतादिज्ञानानि भ्रान्तिहेतवः ।
परिपूर्णैव तर्हि स्मृतिः, न तया स्वविषयस्य किञ्चिन्न गृहीतम् ।

स्वयमेव सा स्वविषयं दृश्याद्विविनक्तीति नास्ति दृश्यमानस्मर्यमाणयोरविवेकः ।
यतः स्मरामि इति ज्ञानमन्यदेव दर्शनस्मरणविवेककारि स्मृतेः ।
तत्रेदं विचार्यम्
स्मृतिः स्वविषयं विविनक्ति वा न वा? यदि विविनक्ति, तदा विपर्ययाभावः ।
अथ न स्मृतिः स्वविषयं विविनक्ति, तदा सामान्यदर्शने चान्यस्मृतौ विपर्ययः स्यादित्युक्तम् ।
न ’स्मरामिऽइति विवेकाच्चेत्, स एव स्मृतेः स्वयमविवेचकत्वेन स्यात्, कार्यगम्यस्य हि ज्ञानस्य भेदः कार्यविशेषोन्नेयः ।
न चेत्स्मृतेः प्रमाणकार्यात्कार्यं विविक्तं स्यात्, केन सा विविक्ता गम्येत? सत्यपि स्मृतिविवेके दृष्टः प्रत्यभिज्ञाभ्रमः ’स एवऽ इति न च प्रत्यक्षस्याविवेकः, एकविवेकेनोभयोर्विकारात्स्मृतादविवेकाच्च स्मृतिविभ्रमः स्यात्, न प्रत्यक्षभ्रमः ।
तस्मान्न ’स्मरामिऽइति प्रमोषादविवेकः ।
अथासंनिहितस्य [कुप्पुस्वामी संस्करण १४२] संनिहितात्मना प्रतीतिरविवेकः, स्मृतेर्विपरीतार्थत्वप्रसंगः ।
अथासंनिध्यग्रहणात्, भवतु स स्वप्नज्ञाने, नत्विन्द्रियजायां भ्रान्तौ ।
मनसोऽनुपघातादुपघातहेतुत्वाच्चाग्रहणस्य ।
न चेत्थं प्रवृत्तिनियमः स्यादित्युक्तम् ।
सति च वस्तुग्रहे कस्यचिदंशस्याग्रहाद्भ्रान्तौ सर्वज्ञानभ्रमत्वम् ।
न हि कस्यचिज्ज्ञानस्य सर्वात्मना वस्तु विषय इति ।
सत्यपि च विवेकज्ञाने प्रमाणान्तराद्द्विचन्द्रदिङ्मोहाद्यनुगतिर्दृष्टेति नाग्रहणमात्रं विपर्ययः ।

प्रसक्तप्रतिषेधात्मा ख्यातिः प्राप्तौ प्रकल्पते ॥ २.१३९ ॥

नाग्रहः प्रापकोऽभावः प्रापिका विपरीतधीः ।
ये च ख्याती तु रजतश्चक्षुःसंयुक्तवस्तुनोः ॥ २.१४० ॥

नायं तदुपनीतार्थप्रतिषेधोऽवगम्यते ।
न चाग्रहणमेवैषा प्रतीतिरपबाधते ॥ २.१४१ ॥

सर्वा ह्यग्रहबाधेन जन्म न स्यात्तथेदृशी ।
विवेकविज्ञानमिदं न प्रसक्तनिषेधधीः ॥ २.१४२ ॥

इति ब्रुवाणो वैयात्यात्स्वां प्रतीतिमपह्नुते ।
न क्रमे यौगपद्ये वा विवेकमतिरीदृशी ॥ २.१४३ ॥

प्राप्ते स्यादैक्यसंवित्तौ न भेदस्यानिरूपणे ।
रजतस्य स्मरंश्चक्षुःसंयुक्तस्य च वस्तुनः ॥ २.१४४ ॥

सामान्यदृष्ट्या रजतादबुद्ध्वा च विविक्तताम् ।
पश्चाद्विविञ्चन् प्रत्येति नैवं सामान्यदर्शने ॥ २.१४५ ॥

कोटिद्वयस्मृत्यभावे संशयो न नियोगतः ।
विवेकग्रहणाभावात्कालसंनिधिसंविदः ॥ २.१४६ ॥

तद्वदाभासनात्प्राप्ताविष्टः स्यादन्यथाग्रहः ।
तत्राग्रहो निमित्तं स्यादथवा संनिधिग्रहः ॥ २.१४७ ॥

भेदग्रहापवादेन रहितो भावरूपतः ।
विपर्ययानभ्युपाये भ्रमोऽग्रहनिबन्धनः ॥ २.१४८ ॥

[कुप्पुस्वामी संस्करण १४३] शब्दैकगम्य उक्तः स्यादग्रहोऽग्रहबन्धनः ।

’नेदं रजतम्ऽइति प्रसक्तप्रतिषेधरूपा प्रतीतिर्नाग्रहणेऽवकल्पते, प्रसङ्गाभावात् ।
न खल्वग्रहणं कस्यचित्प्रसञ्जकम् ।
अभावो हि सः ।
विपरीता तु ख्यातिः संनिहितस्य रजततामभूतां रजतस्य वा संनिहिततामादर्शयन्ती प्रसञ्जयति ।
ननु च रजतनयनघटितवस्तुनोः ख्याती स्तः ।
ते एव प्रसञ्जिके ।
सत्यम् ।
न तु तदुपनीतयोरियं निषेधावगतिः ।
न हि ’नेदं रजतम्ऽइति रजतमात्रं चक्षुःसंयुक्तवस्तुमात्रं वा निरस्यमानमवस्यामः ।
किं तु चक्षुःसंयुक्तस्य तु रजततां रजतस्य वा चक्षुसंयुक्ताम् ।
न चैतयोरग्रहणं प्रापकम्, अग्रहणत्वादेव ।
तस्मादवश्यं प्रतिषेध्यप्राप्तये विपरीतख्यातिरुपासनीया ।
न च ’नेदम्ऽइत्यग्रहणमेव वार्यते, सर्वज्ञानेषु ताद्रूप्यप्रसंगात् ।
सर्वज्ञानानामग्रहबाधेनोत्पत्तौ च विवेकज्ञानमात्रमिदं न प्रसक्तप्रतिषेधरूपमिति प्रतीत्यनुसारिणोऽनुरूपम् ।
न हि रजतशुक्तिकाशकलयोर्युगपद्विविक्तयोर्ग्रहणे ईदृशी प्रतीतिर्न क्रमेण ।
अविविक्तयोर्ग्रहण ईदृशी स्यादिति चेत् ।
युक्ता, विविक्तयोर्ग्रहणेऽविवेकप्रतिषेधरूपत्वात् ।
विविक्तयोर्ग्रहणे प्राप्त्यभावयुक्ता ।
अपि च भवति कदाचित्
यः स्मरति च रजतस्य, चक्षुःसंयुक्तस्य वस्तुनः सामान्यमात्रदर्शी, न रजताद्विवेकं गृह्णाति, पुनश्चक्षुःप्रसादात्प्रत्येति ।
न च तदा तथा प्रतीतिरविवेकग्रहणाभावात् ।
ननु सामान्यदर्शने न चेद्विपर्ययः, संशयः स्यात् ।
तदपनोदि च निर्णयज्ञानमीदृशमेव ।
नैतत्सारम् ।
न ह्यसति कोटिद्वयस्मरणे सामान्यदर्शनेऽपि संशयः, न च विपर्ययः ।
भवति हि पुरोऽवस्थिते भास्वररूपमात्रप्रतीतिः, रजते च स्मृतिः ।
न च तयोरन्यत्वं प्रतिपद्यते, नैकत्वं च ।
तत्र न विवेकज्ञानमेवंरूपम्, एकत्वाप्रतिपत्तेः ।
अथ मतम्
विवेकाग्रहणात्कालसंनिधिप्रतीतेश्च रजतं वा चक्षुःसंप्रयुक्तवदवभासते, चक्षुःसंयुक्तं वा रजतवत् ।
अतः प्राप्तिरिति प्रतिषेधोपपत्तिः ।
अभ्युपेता तर्हि विपरीतख्यातिः ।
न ह्यन्या सा, अतदात्मनस्तथावभासनात् ।
कामं [कुप्पुस्वामी संस्करण १४४] तत्त्वाज्ञाननिमित्ता स्यात् ।
न हि सा तत्त्वज्ञाने सत्युदेति, विरोधादिति ।
तत्रापि संनिधिख्यातिरेव निबन्धनम् ।
तस्यास्तु विवेकग्रहोऽपवादः ।
अग्रहणे निरपवादा सैव कारणम्, नाभावः ।
विपरीतख्यात्यनभ्युगमे चाग्रहणनिबन्धनो भ्रम इत्यग्रहणमग्रहणनिबन्धनमिति सुव्याहृतम् ।
स्वप्ने च द्वितीयाभावात्कुतोऽविवेकः, स्मृतत्वेनाविविक्तस्य तथा विवेके धर्मिणि प्रतिपन्ने धर्मान्तरप्रतिपन्ने धर्मान्तरप्रतिपत्तेर्बाधकत्वं पूर्वस्याश्च भ्रान्तित्वं स्यातामिति ।

यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः ॥ २.१४९ ॥

सामानाधिकरण्येन बोधाद्रूप्यमिदं मितम् ।

ऽइदं शुक्लं रजतम्ऽइति सामानाधिकरण्येन प्रतीतेरात्मोपालम्भः परस्मिन्नासज्यते प्रतीतिविरोधः, ज्ञानभेदकल्पनायाः प्रमाणाभावात् ।

अनाश्वासो ज्ञायमाने ज्ञानेनैवापबाध्यते ॥ २.१५० ॥

व्यभिचारादसामर्थ्यं न तत्कार्यस्य लाभतः ।
व्यभिचारात्प्रमेयत्वे कार्यमेव न लभ्यते ॥ २.१५१ ॥


यो हि ज्ञायमानेऽर्थेऽन्यथापि स्यादित्यनाश्वासस्तस्य तेनैव ज्ञानेन तथात्वपरिच्छेदिनोत्पत्तिर्निरुध्यते ।
तथा हि
अनाश्वासनिवृत्तये तद्विधं ज्ञानमेवापेक्ष्यते ।
तच्चास्त्येव ।
न च व्यभिचारदोषादसमर्थप्रमाणं ज्ञानमिति युज्यते, प्रमाणकार्यस्य परिच्छेदस्य ज्ञानरूपादेव सिद्धत्वात् ।
परिच्छेदतो हि प्रामाण्यम् ।
अतन्त्रता तु व्यभिचाराव्यभिचारयोः, असति तस्मिन् धूमादेरव्यभिचारस्याप्यप्रमाणत्वात्, व्यभिचारवतोऽपि च सितासितादिषु चक्षुषः सति तस्मिन् प्रामाण्यात् ।
न च व्यभिचारो बाधहेतुर्दोषवत्प्रामाण्योपघाती क्वचिद्दृष्टः, चक्षुरादौ व्यभिचारवति प्रमाणत्वात् ।
ननु दृष्टो व्यभिचारः प्रामाण्योपघाती प्रमेयत्वोर्ध्वत्वादौ ।
नैतत्सारम् ।
न [कुप्पुस्वामी संस्करण १४५] तत्र व्यभिचारादप्रामाण्यम्, अपि तु परिच्छेदकार्याभावात् ।
तदभावश्च हेत्वभावात् ।
अव्यभिचाराद्धि लिङ्गाल्लिङ्गिपरिच्छेदः ।
यत्र त्वव्यभिचारो न कारणं तत्र व्यभिचारेऽपि सति परिच्छेदे प्रामाण्यमविवादम् ।
अक्षेषु तद्वदेव च ज्ञानं परिच्छेदनिमित्तम्, न लिङ्गवत् ।
न च संशयोत्पत्त्या व्यभिचारः प्रामाण्यमुपहन्ति, सम्यक्परिच्छिन्ने द्वैविद्ध्यस्यासंशयहेतुत्वात् ।
न निश्चिते स्थाणावूर्ध्वत्वेन संशेरते ।
उत्पत्त्यैव ज्ञानमर्थमवधारयति ।
अनवधारकं तु नैवेहाधिकृतम् ।
एवं चावधारणादेवानवधारणमिति विप्रतिषिद्धम् ।
य एव त्वव्यभिचारमर्थयते ज्ञानस्याश्वासार्थं तस्यैवानाश्वासः, अव्यभिचारज्ञानेऽप्यनाश्वासात् ।
न हि तदसिद्धव्यभिचारमात्मनि ज्ञानान्तरेषु चाश्वासकारणम् ।
ज्ञानान्तरात्सिद्धावनवस्था ।
अपि च ज्ञानरूपाच्चेन्नार्थाश्वासः, तस्यासिद्धौ केन सहाव्यभिचारो ज्ञानस्य गृह्येत? किं च ज्ञानरूपादेवाव्यभिचारोऽपि कथ्यते, विपरीतख्यातौ तद्विरोधात् ।
तथा सति तदेव विषयस्य साधकम्, व्यर्थोऽव्यभिचारः ।
न च व्यभिचारः प्रामाण्यमुपहन्तीत्युक्तम् ।

अपि चाग्रहणेऽभीष्टं यद्विवेकनिबन्धनम् ।
न पराणुद्यते दण्डैस्तद्विपर्ययदर्शने ॥ २.१५२ ॥

नोद्रेकहेतवो दोषाः कार्यसामर्थ्यघातिनः ।
ग्रहाग्रहविभागः स्यादतस्तत्सदसत्त्वतः ॥ २.१५३ ॥

विपर्यये हि नितरामुपघातः प्रकल्पते ।
इष्टकार्योपरोधेन विपरीतोदयेन च ॥ २.१५४ ॥

तस्मात्तत्सदसत्त्वाभ्यां विवेकोऽत्रापि कल्पते ।
दोषेऽसत्यग्रहाशङ्का कथं च विनिवर्तते ॥ २.१५५ ॥

[कुप्पुस्वामी संस्करण १४६] न हि कारणसद्भावे कार्यसत्ता नियोगतः ।
प्रत्यक्षं कार्यमेवं च हेतुनानुमितं भवेत् ॥ २.१५६ ॥

विपर्यये फलाभावो हेत्वभावात्तु युज्यते ।

विवेकोपायश्च दोषाभावभावौ ग्रहणाग्रहणयोर्न दण्डवारितौ ।
विपर्यये विपर्ययहेतवोऽभ्युपघातकाः, सुतरामिष्टकार्योपरोधाद्विपरीतोदयाच्च ।
न चादुष्टेष्वपीन्द्रियादिषु अग्रहाशङ्कानिवृत्तिः, यतो हेतुभावेऽपि न नियोगतः कार्यम्, विपर्ययश्च स्यात् ।
प्रत्यक्षासंवित्तिर्हेतुनानुमीयेत ।
फलात्तु हेतोर्हेतुभावानुमानम् ।
दोषाभावात्तु विपर्ययकार्यासत्त्वं युक्तानुमानम्, हेत्वभावे कार्यानुत्पादात् ।

अनालम्बनतापत्तिर्यथाकारान्तरार्पणम् ॥ २.१५७ ॥

स्वरूपानर्पणादेवं भवेदग्रहणेऽपि ते ।
कस्यचित्त्वर्पणं तुल्यमथ तत्र न तत्तथा ॥ २.१५८ ॥

परस्यापि हि तत्रैवमथ तत्र तथा स्थितेः ।
सर्वत्र स्यात्तथाभावः स्यादेवं ग्रहणेऽपि ते ॥ २.१५९ ॥

यथा तत्रानिमित्तत्वात्सम्यज्ञानेऽनिमित्तता ।
शङ्क्यते ग्रहणेऽप्येवमग्रहे सा निरूपिता ॥ २.१६० ॥

ज्ञानादेव निमित्तत्वमन्येषां न विशिष्यते ।

आलम्बनत्वहानं च यथाकारान्तरावभासे चक्षुःसंयुक्तस्य तथाग्रहणेऽपि, स्वरूपानर्पणस्य तुल्यत्वात् ।
अथ कस्यचित्सामान्यरूपस्य स्वाकारत्वात्
अथ कानिचिच्चक्षुःसंयुक्तानि वस्तूनि स्वेन रूपेण गृह्यन्त इति कस्यचिदग्रहणेऽपि नानालम्बनत्वम्
तुल्यम् ।
आकारान्तरावभासेऽपि केषाञ्चित्[कुप्पुस्वामी संस्करण १४७] स्वाकाराणामवभासनात् ।
अथाग्रहणे नैव चक्षुःसंयुक्तस्यालम्बनत्वमिष्यते, परोऽपि नैव विपर्यय इच्छति ।
एवं ह्युक्तम्

ऽतस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते ।
तन्निरालम्बनं ज्ञानमभावालम्बनं च तत्ऽ ॥


अथ विपर्यये चक्षुःसंयुक्तस्यालम्बनत्वादन्यत्राप्यनालम्बनताशङ्का, अग्रहणेऽपि तुल्या ।
यथा खलु विपर्ययज्ञाने चक्षुःसंप्रयुक्तवस्तुस्वभावनिरपेक्षता दृष्टा सम्यग्ज्ञानेऽपि शङ्क्यते ज्ञानत्वसामान्यात्तथा चक्षुःसंप्रयुक्तमपि वस्तु नाविकलरूपं गृह्यते, तेनानालम्बनं भवति, सदृशस्मृतिहेतुतां च प्रतिपद्यते
इत्यग्रहणे दृष्टानालम्बनता ग्रहणेष्वपि कस्मान्न शङ्क्यते? दोषाभावादिति चेत्, विपर्ययेऽपि तुल्यम्, न चान्यथालम्बने निरालम्बनत्वम् ।
चक्षुस्त्वन्यथापि नालम्ब्यते ।
आलम्बनार्थश्च रजतव्यवहारयोग्यता शुक्तेः, तथा हि रजतार्थी तामादत्ते ।
घटस्यापि हि नैवान्यत्स्वज्ञानालम्बनत्वमन्यत्र व्यवहारयोग्यतायाः, यतो न विषयाकारं ज्ञानम् ।
तत्र शुक्तिः स्वरूपेण नालम्बिता रजतज्ञानेन, तन्निबन्धनव्यवहारभावात् ।
रजतरूपेण तु तन्निबन्धनस्योपादानव्यवहारस्य तत्र भावादिति ।

क्रियानिष्ठेऽपि विधौ वस्तुस्वरूपसिद्धये कश्चिदाह

अवघातप्रोक्षणादेर्यथा द्रव्यार्थता स्थिता ॥ २.१६१ ॥

ज्ञानं स्वभावाद्द्रव्यार्थं कर्मत्वाच्चात्मनस्तथा ।
भवत्वेवं तथापीष्टरूपसिद्धिः कुतो मता ॥ २.१६२ ॥

शब्दस्तदर्थकार्यत्वे तावज्ञानस्य निष्ठितः ।
ज्ञानाज्ज्ञेयस्य कोऽन्योऽर्थः स्वरूपप्रतिभासनात् ॥ २.१६३ ॥

अदृष्टकल्पना युक्ता न च दृष्टस्य संभवे ।
[कुप्पुस्वामी संस्करण १४८] तस्माद्यथा प्रोक्षणादिविधेर्व्रीहिषु गम्यते ॥ २.१६४ ॥

अदृष्टा संस्कृतिर्ज्ञानविधे रूपं तथात्मनः ।

यथा अवघातप्रोक्षणादयः स्वरूपेणैव द्रव्यार्थाः, द्वितीयया च द्रव्यस्य कर्मत्वेन निर्देशात्, तथा ज्ञानमपि स्वरूपेण परार्थम् ।
कर्मत्वेन चात्मनो निर्देशात्तदर्थम् ।
अतो ज्ञानविषयोऽपि विधिरात्मरूपं संस्पृशति, न ज्ञानमात्रे पर्यवस्यति, ज्ञानस्यात्मरूपार्थत्वेन कर्तव्यतावगमाज्ज्ञाननियोगेनैवात्मरूपस्याक्षेपात् ।
स्यादेतत्
भवतु ज्ञानस्यात्मार्थताभिप्रेता ।
अपहतपाप्मादिरूपात्मप्रतीतौ तु प्रमाणं वाच्यम् ।
शब्दस्तावदेवंविधात्मज्ञानकर्तव्यतायां पर्यवसितः
’ेवंविधात्मोद्देशेन ज्ञानं कुर्यात्ऽ न तु ’ेवंविध आत्माऽ इति ।
तत्रोच्यते
न हि तत्राकिञ्चित्करस्य तादर्थ्येन कर्तव्यता युज्यते ।
ज्ञानस्य च कर्मणि नान्यत्फलं तद्रूपसंवित्तेः, न हि तस्यां दृष्टायामन्यस्यादृष्टस्य कल्पना ।
तत्र यथा ’व्रीहीन् प्रोक्षतिऽइति प्रोक्षणविधेरेव व्रीहिष्वदृष्टसंस्कारावगमः प्रोक्षणविषयादपि ।
नान्यथा व्रीह्यर्थे प्रोक्षणे कर्तव्यता युज्यते ।
न हि तत्र किञ्चिदकुर्वत्प्रोक्षणं तदर्थं कृतं स्यादित्येवं विधेरेवादृष्टसंस्कारसद्भावसिद्धिः, यथा ’स्वर्गकामो यजेतऽ इति ।
नान्यथा स्वर्गकामस्य यागकर्तव्यताप्रतीतिर्युज्यते यदि न स्वर्गोपायो यागः ।
अनुपाये चेन्नियुज्यते, न स्वर्गकामो नियुक्तो भवति ।
अनुष्ठितोऽपि न स्वर्गकामेनानुष्ठितो भवतीति क्रियाविषयादपि विधेः साध्यसाधनभावावगमः शाब्दः
तथा ज्ञानविषयादपि विधेरात्मरूपबोधः ।
न हि तद्विधमात्मानमुद्दिश्यज्ञाननियोगो युज्यते, अतद्विधश्चेदात्मा तेन ज्ञानेन प्रतीयत इति ।

उक्तोत्तरमिदं यस्मादरूपेणापि भासकम् ॥ २.१६५ ॥

ज्ञानं प्रदर्शितं न स्यादन्यथा तद्विधेः फलम् ।
लयो निवर्त्यो न तथा विक्षेपो हि यथासुखः ॥ २.१६६ ॥

[कुप्पुस्वामी संस्करण १४९] लयविक्षेपभेदश्च न स्यादग्रहमात्रके ।
नन्वरूपावभासे स्याददृष्टफलकल्पना ॥ २.१६७ ॥

रूपावभासे दृष्टं तु फलं तत्सिद्धिलक्षणम् ।
न दृष्टमात्राद्दृष्टार्थं पुरुषार्थानुगं तु तत् ॥ २.१६८ ॥

न भिद्यते च तद्भावो रूपारूपावभासयोः ।
यथा प्रपञ्चशून्यत्वे तत्त्वे ज्ञानावभासिते ॥ २.१६९ ॥

दुःखकर्मक्लेशहानमतत्त्वेऽपि तथा भवेत् ।
एतच्चात्र भवेद्युक्तं प्रत्यक्षाद्यविरोधतः ॥ २.१७० ॥

अनौपचारिकार्थाश्च स्युः कर्मविषयो यतः ।


आत्मार्थज्ञानविधेरेतावद्गम्यते
ज्ञानेन सोऽवभास्यते, आलम्ब्यते, व्यवहारयोग्यतामापद्यते ।
तच्चावभासनं स्वरूपेण च दृष्टम्, पररूपेण च ।
रजतात्मना शुक्तिकायाः ।
प्रतिपादितमेतत्
नाग्रहमात्रमेतत्, अन्यथाख्यातिस्तु ।
तत्रोभयथा संभवे कुत एतत्
तत्त्वप्रतिपत्तिरवश्याभ्युपेया, नातस्मिंस्तत्ख्यातिः? अन्यथा नात्मज्ञानविधिः फलवान् स्यात् ।
स खल्वनात्मरूपप्रविलयार्थः ।
अनात्मरूपविलयेन हि वस्तुनोऽवगतिर्दृष्टेति ।
यदि च नात्मनो नामरूपप्रपञ्चरूपेण प्रकाशनम्, किं प्रविलाप्येत? अथ मतम्
द्विप्रकारेयमविद्या, प्रकाशस्याच्छादिका विक्षेपिका च ।
स्वप्नजागरितयोर्विक्षेपिका, सुषुप्त आच्छादिका लयलक्षणा ।
तत्राच्छादकाविद्यानिवृत्तिर्ज्ञानविधेः फलम् ।
तच्चासत् ।
यतो नाच्छादिकाया अविद्याया निवृत्तिः पुरुषेणार्थ्यते तथा यथा विक्षेपस्य ।
स हि विविधदुःखात्मकः ।
लयस्तु विविधदुःखनिवृत्तेरसकृदानन्दत्वेन श्रुतौ गीतः प्रत्युतार्थनीयः स्यात् ।
अपि च विपर्यासमनिच्छतोऽविद्याभेद एव न स्यात्, अवस्थात्रयेऽप्यग्रहणमात्रत्वात् ।
तस्मादग्रहणविपर्ययग्रहणे द्वे अविद्ये कार्यकारणभावेनावस्थिते ।
[कुप्पुस्वामी संस्करण १५०] स्वप्नजागरितयोरुभे, कारणभूताग्रहणलक्षणा सुषुप्त इत्यविद्याप्रविभाग उपपद्यते ।
तदुक्तम्

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यतःऽ ॥


नन्वन्यथायं भेदः
अग्रहणसम्यग्ग्रहणाभ्याम् ।
अग्रहणलक्षणाच्छादिका सुषुप्ते, असम्यग्ग्रहणमितरयोः ।
तथा हि
अभिन्नस्य वस्तुनोऽप्रदेशस्य ग्रहणे तथाभावस्य चाग्रहणात्पृथक्त्वेन प्रत्यवभासः ।
नैतत्सारम् ।
यदि तावदसम्यग्ग्रहणमात्रं तदपटुत्वं वा ज्ञानस्य केनचिद्द्रूपेण वा ग्रहणम्, न सर्वात्मना ।
तत्र दूरस्थे सूक्ष्मे च भवत्यपटु ज्ञानं सामान्यज्ञानम् ।
न च तदविद्या ।
न च किञ्चिज्ज्ञानं सर्वात्मनार्थस्य ग्राहकमिति सर्वज्ञानमिथ्यात्वापातः ।
अभेदस्याग्रहणेऽपि भेदस्यावर्तनेऽपि भेदस्यासंवित्तेर्न निवर्तनीयमस्ति विद्यया ।
न खल्वभेदाग्रहणं निवर्तनीयम् ।
न हि तत्किञ्चिदपराध्यति ।
भेदस्तु विविधदुःखायतनम् ।
अथासम्यग्ग्रहणं पृथक्प्रत्यवभासोऽपृथगात्मनः, अभ्युपेता तर्हि विपर्ययख्यातिः
अपृथक्पृथक्प्रकाशत इति ।

अथोच्येत
न ब्रूमः पृथक्प्रकाशते, किं तु पृथगिव प्रकाशत इति ।
क इवार्थः? यदि यथा पृथग्भूतमप्रकाशमानैकत्वं प्रकाशते तथैकमप्यात्मतत्त्वमगृह्यमाणैकत्वं प्रकाशत इति ।
केनचिदंशेन ग्रहणं सर्वात्मना चाग्रहणमुक्तं भवति, तत्र चोक्तम् ।
अथ प्रकाशत इव, न तु प्रकाशते ।
प्रकाशने क उपमार्थः? तन्निबन्धनव्यवहारप्रवृत्तिः ।
तन्निबन्धनश्चेद्व्यवहारः ।
प्राप्तं प्रकाशनम्
नासति कारणे कार्यं भवतीति ।
अथाभेदाग्रह एव पृथक्त्वग्रहाभिमानः ।
तदसत्, अग्रहणस्याभावस्य स्वरूपेण पररूपेण वा ग्रहणानभ्युपगमात् ।
अप्रकाशमाने च पृथक्त्वे कुतस्तदवग्रहः? अभिन्ने च भेदाभिमानं परित्यज्याभेदाग्रहणे भेदग्रहाभिमानमूरीकुर्वता किं परिहृतं स्यात्? तस्मात्सुष्ठूच्यते
’लयविक्षेपभेदश्च न स्यादग्रहमात्रकेऽ इति ।

[कुप्पुस्वामी संस्करण १५१] नन्वनात्मरूपेण प्रतिपत्तेर्न दृश्यते किञ्चित्फलम् ।
तत्रादृष्टकल्पना स्यात् ।
आत्मरूपप्रतिपत्तेस्तु दृष्टं फलं तत्स्वरूपसिद्धिः ।
उच्यते
न यस्य कस्यचिद्दर्शनाद्दृष्टार्थता, किं तु पुरुषार्थसंस्पर्शिनः ।
तेन हि तद्विधिर्निराकाङ्क्षा भवति ।
न च पुरुषार्र्हभेदस्तत्त्वातत्त्वप्रतिपत्त्योः ।
यथा हि विशुद्धमद्वैतमात्मानं प्रतिपद्यमानस्तथाभूतो न शोकेन संस्पृश्यते, शोचनीयाभावात् ।
न कर्माशयमुपचिनोति, कर्तव्याभावात् ।
न क्वचिद्द्रज्यति किञ्चिद्द्वेष्टि वा, विषयाभावात् ।
’ेवं जीवन्नेव विद्वान्विमुक्तो भवति ।
तथा अतथाभूतमपि तथाभावनापुरःसरं साक्षादिव प्रतिपद्यमानः ।
अभूतोऽप्यर्थः परिभावनातिशयाद्भूतव्यवहारहेतुर्भवति ।
इदमेव चात्र युज्यते, प्रत्यक्षादीनामविरोधात्, कर्मविधीनां च भूतार्थत्वात् ।
परमार्थे हि प्रपञ्चशून्यत्वे प्रत्यक्षादीनि प्रमाणानि बाध्येरन् ।
कर्मविधयश्चाभूतकल्पनोपादानव्यवहारसिद्धार्थगोचराः स्युः ।
तस्मादपरमार्थेनैवाद्वैतात्मज्ञानविधिर्युज्यते ।

जानातिस्तत्त्वबोधे चेन्न मिथ्यादिविशेषणात् ॥ २.१७१ ॥
नात्मा ज्ञातस्तथा स्याच्चेन्न तद्रूपाविधानतः ।
प्रमाणान्तरसिद्धत्वे नतरामन्यथा यदि ॥ २.१७२ ॥

शब्दार्पितेन रूपेण तस्य ज्ञानं विधीयते ।
अतत्त्वेनापि तेनास्य विज्ञानमवकल्पते ॥ २.१७३ ॥

यदि मतम्
’स विजिज्ञासितव्यःऽ इति जानातिस्तत्त्वपरिच्छेद एव वर्तते ।
तेन नाभूतसमारोपेण ज्ञानविधिः स्यादिति ।
तन्न, मिथ्यात्वादिभिर्ज्ञानं विशेष्यते
मिथ्याज्ञानं सम्यग्ज्ञानं संशयज्ञानमिति ।
तदेकनियमे नोपपद्येत, पौनरुक्त्याद्विरोधाच्च ।
स्यादेतत्
अस्वरूपेण प्रतिपत्तौ न तदात्मज्ञानम्, अन्यज्ञानमेव भवति ।
तत्त्वज्ञानं च विधीयते ।
तस्मात्तत्त्वसिद्धिरिति ।
तच्च न ।
न खल्वेतावदेव तत्
’ात्मा ज्ञातव्यः इति ।
[कुप्पुस्वामी संस्करण १५२] यदि स्यात्तद्रूपज्ञानविधिः ।
तच्च न, उभयथानुपपत्तेः ।
प्रमाणान्तरसिद्धं चेदात्मरूपं न तज्ज्ञानं विधेयम् ।
अथासिद्धम्, अशक्यमेव तत् ।
स्यादेतत्
’पहतपाप्मा विजरो विमृत्युःऽ ’िदं सर्वं यदयमात्माऽइति शब्दसमर्पितरूपस्य तस्य ज्ञानं विधीयते, तेन च तत्त्वेनापि तत्संभवति समारोपितेनापि, तेन न नियोगतस्तथाभूतज्ञानविधेस्तथाभावोऽस्य प्रतीयते ।

ज्ञानं यदि च दृष्टार्थं प्राप्तं दृष्टत एव तत् ।
आत्मरूपविजिज्ञासोरजिज्ञासोर्वृथैव तत् ॥ २.१७४ ॥

तदुपायो न चेज्ज्ञातस्तस्यैवास्तु विधिस्ततः ।
अवघातादिविधयो नादृष्टस्पर्शवर्जिताः ॥ २.१७५ ॥

अलौकिकमिदं ज्ञानमतो यदि विधीयते ।
न रूपसिद्धये तावद्यतः कर्तव्यता विधेः ॥ २.१७६ ॥

कर्तव्यता च दृष्टार्थे दृष्टादेव प्रसिद्ध्यति ।
अलौकिकेऽर्थरूपेऽतः शब्देन प्रतिपादिते ॥ २.१७७ ॥

ज्ञाने ज्ञेयाभ्युपायत्वात्स्वयमेवोन्मुखः पुमान् ।
तदुपाये त्वविज्ञाते विधिना स प्रवर्त्यताम् ॥ २.१७८ ॥

नियोगानुप्रवेशोऽतो विहन्त्येव प्रमाणताम् ।
भूतर्थ इति नोपास्यो भूतार्थगतिमिच्छता ॥ २.१७९ ॥


यदि च ज्ञानस्य दृष्टं फलम्, तत एव प्रवृत्तिसिद्धे व्यर्थो विधिः ।
यो ह्यात्मरूपमनुभवितुकामः, स तस्य ज्ञाने स्वयमेव यतते ।
यस्तु न तथा, तस्य तद्व्यर्थमिति विधिशतेनापि स न प्रवर्त्यते ।
अथोपायाज्ञानाद्दृष्टफलेऽपि न प्रवर्तते स्वयम्, अतो विधीयत इति ।
तच्च वार्तम् ।
यतः स एवोपायो विधीयताम्, यत्रायमज्ञानान्न प्रवृत्तः ।
ज्ञाने तु दृष्टफलत्वात्प्रवर्तत [कुप्पुस्वामी संस्करण १५३] एव ।
स्यादेतत्, अवघातादिषु दृष्टफलेष्वपि दृष्टो विधिः ।
सत्यम्, न त्वदृष्टसंस्पर्शरहितः ।
तत्रापि हि नियमादृष्टं फलं तण्डुलेषु तत्प्रणाड्या वा प्रधानपूर्वसिद्धिरदृष्टैव ।
अथ मतम्
अद्वैतात्मज्ञानमदृष्टपूर्वमलौकिकम् ।
अतोऽनन्तरफलमपि विधीयत इति ।
तत्रोच्यते
किमर्थं विधीयते ।
प्रमाणान्तरागोचरस्य स्वरूपप्रतिपत्त्यर्थम्, आहोस्विदनुष्ठानार्थम्? तत्र न स्वरूपसिद्ध्यर्थम्, अनुष्ठानफलो हि विधिर्नानुष्ठानाय, दृष्टार्थत्वादेव तत्सिद्धेः ।
तस्मादलौकिकेऽपहतपाप्मादिरूप आत्मतत्त्वे शब्दात्प्रतिपन्ने तस्य साक्षाज्ज्ञानं प्रति तदनुभवोपायत्वात्स्वयमेव पुरुषस्याभिमुख्यं भवतीति व्यर्थं तद्विधानम्, यथाश्चर्यभूते कस्मिंश्चिदर्थे आगमात्प्रतिपन्ने तस्य साक्षात्करणे स्वयमेवोन्मुखत्वं भवति ।
तदुपायेषु त्वज्ञातेषूपायत्वज्ञापनाय विधानं युज्यते ।
तदेवं ज्ञाने नियोगानुपपत्तेर्नियोगे च वस्तुरूपावगमे प्रामाण्यायोगाद्व्यवस्थितात्मतत्त्वप्रतिपत्तिमिच्छता शब्दान्न तस्य नियोगानुप्रवेशोऽभ्युपगन्तव्य इति ।

इदानीं द्वितीयप्रतिपत्तिविधिनिरासायाह

अत एव न विज्ञानसंतानविधिनिष्ठता ।
तत्रापि पूर्ववन्न स्यात्स्वरूपावगतिप्रमा ॥ २.१८० ॥

स्वरूपनिष्ठाच्छब्दात्तु प्रमितस्य वचोऽन्तरात् ।
उपासनविधानं स्यात्प्राप्तेस्तदपि वा वृथा ॥ २.१८१ ॥

अभ्यासेन प्रत्ययस्य प्रकर्षस्याभिवीक्षणात् ।
तस्माद्भवत्यकार्येऽर्थे वेदान्तानां प्रमाणता ॥ २.१८२ ॥


यदपि मतम्
’स क्रतुं कुर्वीतऽप्रज्ञां कुर्वीतऽ ’निदिध्यासितव्यःऽ इति, यत्रापि स्वरूपनिष्ठतैव लक्ष्यते ’तत्त्वमसिऽ इति तत्रापि ’सदस्मि
इति चेतो धारयेत्ऽइति विवक्षितत्वाच्छ्रवणादन्यदनुचिन्तनं ध्यानं प्रत्ययप्रवाहो विधीयते कर्मवदेवामृतत्वफलम् ।
[कुप्पुस्वामी संस्करण १५४] तदप्यत एव न युज्यते, पूर्वोक्तात्तत्त्वावगतिप्रमाणाभावप्रसङ्गादन्यनिष्ठत्वाद्वाक्यस्य ।
अथ तु वाक्यान्तरात्तत्त्वनिष्ठादधिगते तद्विषयप्रत्ययप्रवाहविधानमिष्यते ।
भवतु ।
न कश्चिद्दोषः ।
तथा च ’विज्ञाय प्रज्ञां कुर्वीतऽइत्यात्मतत्त्वविज्ञानस्य सिद्धतां दर्शयति ।
तदपि वा व्यर्थमेव, प्राप्तार्थत्वात् ।
साक्षात्करणफलं हि तत्तदनुचिन्तनं दृष्टार्थम्, न ततोऽन्यत्फलमाकाङ्क्ष्यते ।
अमृतत्वं हि न स्वरूपाविर्भावादन्यदिति प्राग्वर्णितम् ।
दृष्टा च ज्ञानाभ्यासस्य सम्यग्ज्ञानप्रसादहेतुता लोके ।
भावनाविशेषाद्धि अभूतमप्यनुभवमापद्यते, किं पुनर्भूतम् ।
’स क्रतुं कुर्वीतऽ इति तु न सकलविशेषातिगात्मतत्त्वानुचिन्तनं विधीयते तद्भावफलम्, अपि तु नामरूपोपाधिमनोमयप्राणशरीरादिरूपानुध्यानमैश्वर्यफलम्, क्रमेण वा साक्षात्करणफलम् ।
’तमेव धीरो विज्ञायऽ इति न प्रज्ञाकरणविधिः ।
’तमेवऽइत्यन्यनिवृत्तेः श्रुतत्त्वान्निवृत्तौ तात्पर्यं गम्यते, ’रक्तः पटो भवतिऽइति तया रक्तपरत्वं वाक्यस्य ।
अत्र आकाशादितत्त्वभेदपूर्वमविभागः प्रतिपादितः, तत्र तथैव प्रज्ञाकरणप्रसङ्गे ’तमेवऽ इति विधीयते ।
तथा च पूर्वार्धे
’विरजः पर आकाशादज आत्मा महान् ध्रुवःऽ ।
इत्याकाशादिभ्यः परत्वेनात्मतत्त्वं दर्शितम् ।
तस्य तथैव प्रज्ञाकरणप्रसङ्गे तन्निवृत्तये ’तमेवऽ इत्युच्यते ।
अन्यथा न एवशब्दस्य फलम्, न च निवर्त्यं विज्ञायेत ।
तथा च तदेवोत्तरेण प्रपञ्च्यते ’नानुध्यायाद्बहूञ्छब्दान्ऽ इत्येकवाक्यता ।
अन्यथा वाक्यं भिद्येत ।
शब्दमात्रे चानुध्यानाप्रसङ्गात्शब्दपूर्वत्त्वात्तस्य शब्दार्थविषयमेवेदमिति ।
एवम् ’ात्मेत्येवोपासीतऽइत्येवकारश्रुतेस्तदर्थविधिः ।
’निदिध्यासितव्यःऽ इत्यपि ’ात्मनस्तु कामायऽ इत्युपक्रमात्’िदं सर्वं [कुप्पुस्वामी संस्करण १५५] यदयमात्माऽइत्युपसंहारादात्मस्वरूपपरमेकं वाक्यम् ।
तदन्तर्गताः ’द्रष्टव्यः श्रोतव्यो निदिध्यासितव्यःऽ इति न पृथग्विधयः कृत्यप्रत्यययोगेऽपि ।
कृत्यप्रत्ययस्यार्थान्तरेऽपि स्मरणादर्हादौ स्तुत्यर्थाः यथोपांशुयाजवाक्यान्तर्गताः ’विष्णुरुपांशु यष्टव्यःऽइत्येवमादयः ।
’ैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽइति भूत एव पर्यवसितं वाक्यम् ।
तत्र ’सदस्मि
इति धारयेत्ऽ इति कल्पनेयम् ।
तस्मात्त्रिविधस्यापि ज्ञानस्य विधेयत्वायोगात्, विना च विधेर्वाक्यार्थप्रतिपत्तेः, अपौरुषेयत्वेन निरपेक्षत्वाद्भूतेऽप्यर्थे वेदान्तानां प्रामाण्यसिद्धिः ।
तथा च ’तत्तु समन्वयात्ऽइति चोदनालक्षणाद्धर्मात्तुशब्देन विशेष्यं ब्रह्म समन्वयगम्यमुक्तम् ।
समन्वयो हि पदार्थानां संसर्गो विनियोगस्ततो ब्रह्म गम्यते, न चोदनात इत्यर्थः ।

नन्वविशेषेण कार्येऽर्थे वेदस्य प्रामाण्यं वर्णितम्
’चोदनालक्षणोऽर्थो धर्मःऽ इति ।
चोदनालक्षणो वेदार्थ इत्यर्थः ।
नैतत्सारम् ।
एवं हि सिद्धप्रामाण्यवेदार्थविचारोऽयं स्यात्तदुत्तरलक्षणवत् ।
तत्रानन्तरं प्रामाण्यप्रतिपादनं न युज्येत, ’वृत्तं प्रमाणलक्षणम्ऽ इति च ।
मन्त्रार्थवादेषु च कार्यार्थत्वेन विप्रतिपत्तिर्न स्यात् ।
सा चोपरिष्टादेव निरसिष्यते बहु चात्र वक्तव्यमित्यलं प्रसङ्गेन ।

यथान्यमानव्यतिभेदमुक्ता मतिः प्रमाणत्वमुपैति कार्ये ।
अपौरुषेयागमलब्धजन्मा तथैव सिद्धे निरपेक्षभावात् ॥ २.१८३ ॥


॥इति नियोगकाण्डस्तृतीयः ॥