ब्रह्मसिद्धिः/सिद्धिकाण्डः (चतुर्थः)

विकिस्रोतः तः
← नियोगकाण्डः (तृतीयः) ब्रह्मसिद्धिः
सिद्धिकाण्डः (चतुर्थः)
मण्डनमिश्रः

॥ सिद्धिकाण्डः ॥

एवं तावत्प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेन यैरप्रामाण्यमुक्तं तत्प्रतिबोधनाय कृतः प्रयत्नः॑ इदानीं त्वप्रामाण्यमेवाहुर्ये तद्बोधनाय प्रयत्यते ।
तत्र पूर्वपक्षः

नन्वन्वितपदार्थत्वाद्वाक्यार्थस्य पदार्थताम् ।
अप्राप्य न स्याद्वाक्यार्थः पदार्थत्वेऽन्यमानकः ॥ ४.१ ॥

न तावद्ब्रह्मान्तर्याम्यादिपदं प्रमाणम्, संबन्धज्ञानापेक्षया पूर्वसिद्धे प्रत्ययहेतुत्वेन ।
नापि वाक्यम्॑ न हि तत्साक्षाद्वाचकम्॑ पदार्थद्वारा तु तत्प्रतिपत्तिः॑ अपदार्थे ज्ञानस्याभावात् ।
ते हि संसर्गाद्गुणप्रधानभावेनेतरपदार्थविशिष्टमेकं पदार्थं गमयन्ति ।
तत्र पदार्थ एव विशिष्टो वाक्यार्थो भवति ।
न चानधिगतेषु प्रमाणान्तरेण पदार्थत्वम्॑ सम्बन्धज्ञानापेक्षणातित्युक्तम् ।
तत्रापदार्थत्वे न वाक्यविषयत्वम्॑ अनवबोधकं तेषां वाक्यम् ।
पदार्थत्वे प्रमाणान्तराधिगतेरनुवादकम् ।
तत्रात्यन्तापरिदृष्टब्रह्माद्यर्थप्रमाणाभिमतेषु वाक्येषु तद्वाचीनि पदानि स्युः, न वा ।
यदि न सन्ति न त इतरैः संसृज्येरन्न भिद्येरन्निति न तेषां प्रमेयाः लोष्टादिवत् ।
अथ तु सन्ति, तथापि तैरधिगतसंबन्धैर्न प्रतिपाद्येरनप्रतिपन्नाश्च न विशिष्टवाक्यार्थप्रतिपत्तिहेतवः॑ तत्र यथाऽवनात्पिक आनीयतम्ऽ इति पिकपदार्थज्ञानेऽवबोधकत्वं तथा तेषामपि ।
तस्मान्न चोदनातोऽपूर्वपदार्थावगमः॑ सा हि विधिप्रतिषेधाभ्यां क्रियासु पुरुषमधिकरोति॑ त्रैविध्यवृद्धपरिग्रहस्तु जपोपयोगात्, उपनिषदो वेदान्ताः॑
इति तत्र विनियोगात् ।

तत्रोच्यते

सामान्येन पदार्थत्वे सिद्धेऽसाधारणैर्गुणैः ।
शक्यापूर्वविशेषस्य लोकवत्प्रतिपादना ॥ ४.२ ॥

[कुप्पुस्वामी संस्करण १५७] यथा लोके ’द्वीपविशेषे एवंनामानो मरतकमयपादाः पद्मरागमयचञ्चवः सौवर्णराजतपक्षाः पक्षिणःऽइति पक्षिसामान्यं प्रमाणान्तरधिगतमनन्यसाधारणेन धर्मकलापेन संसृज्यमानं प्रमाणान्तरानधिगतं विशेषरूपमासादयति, वाक्येन च प्रमीयते प्रमाणान्तरानधिगतेन विशेषरूपेण
सर्वस्यैव हि वाक्यस्यानधिगतो विशेष एव प्रमेयः तथा कारणसामान्यं वा सत्सामान्यं वा ’यतो वा इमानि भूतानि जायन्तेऽ इति ’स्थूलमनण्वह्रस्वम्ऽइत्यादिपदार्थैः संसर्गाद्भेदाच्च प्रमाणान्तरानधिगतं विशेषरूपमासादयति, वाक्यस्य च प्रमेयं भवति ।
तदेवं लोकसिद्धपदार्थान्वयेनैवापूर्वार्थप्रतिपत्तेर्नानवबोधकत्वमनुवादकत्वं वा ।

सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते ।
प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ॥ ४.३ ॥

प्रविलीनप्रपञ्चेन तद्रूपेण न गोचरः ।
मानान्तरस्येति मतमाम्नायैकनिबन्धनम् ॥ ४.४ ॥

अथवा न लोकेऽत्यन्तमप्रसिद्धं ब्रह्म, सर्वप्रत्ययवेद्यत्वात्, ब्रह्मणो व्यतिरेकेण प्रत्येतव्यस्याभावात्, विशेषप्रत्ययानां च सामान्यरूपानुगमात्, भेदोपसंहारावशिष्टं च सत्यं ब्रह्म
इति प्रतिपादनात्, ’वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ इति दृष्टान्तात् ।
किं तर्हि शब्देन प्रतिपाद्यते? प्रपञ्चाभावः ।
तत्र प्रपञ्चपदार्थोऽपि सिद्धः, निषेधोऽपि सिद्धः, तयोः संसर्गात्तदभावप्रतिपत्तिः ।
आम्नायैकनिबन्धनत्वं तु तस्योच्यते, प्रत्यक्षादीनामविद्यासंभिन्नत्वात्॑ प्रत्यस्तमितनिखिलभेदेन रूपेणाविषयीकरणाद्भेदप्रत्यस्तमयस्याम्नायावगम्यत्वादिति ।

परः पुनः प्रत्यवतिष्ठते

ननु चापुरुषार्थत्वं भूतनिष्ठे प्रसज्यते ।

यत्खलु वाक्यं न पुरुषं क्वचिद्धितसाधने प्रवर्तयति अहितसाधनाच्च [कुप्पुस्वामी संस्करण १५८] निवर्तयति, केवलं सिद्धमर्थमन्वाचष्टे, तदपुरुषार्थम्॑ अपुरुषार्थत्वाच्चोन्मत्तप्रलापवदप्रमाणम्॑ तथा च प्रायेण वेदान्ताः ।
उच्यते

प्रमाणस्य न चैतावत्पुरुषार्थैकनिष्ठता ॥ ४.५ ॥


(उपेक्षामपि हि फलं प्रमाणस्य प्रचक्षते) ।
(अनेन श्लोकार्धेनात्र भवितव्यमित्यभ्यूहः॑ परं तु मातृकासु न दृश्यते ।
एदितोर्)

अपि चाज्ञानतः शोकी दुःखी जीवः प्रकाशते ॥ ४.६ ॥

तन्निवृत्तिश्च विज्ञानं पुरुषार्थः स्वयं मतम् ।
कस्मिंश्चिदर्थे विज्ञाते कुतूहलवतां नृणाम् ॥ ४.७ ॥

आकुलानां ज्ञानजन्म पुरुषार्थत्वसंमतम् ।
अक्षादौ च यथारूपनिष्ठे नापुरुषार्थता ॥ ४.८ ॥

न च प्रवृत्तिनिष्ठत्वं तथास्मिन् केन वार्यते ।
ज्ञेयस्य पुरुषार्थत्वं तत्र चेदत्र तत्समम् ॥ ४.९ ॥

पुरुषार्थः स्वयं ब्रह्म प्रशान्तं विजरादिकम् ।
अतस्तत्त्वमसीत्येवमनुशिष्याय शिष्यते ॥ ४.१० ॥

परप्रवृत्तेरङ्गत्वं प्रत्यक्षादेर्मतं यदि ।
अत्रापि साक्षात्करणप्रवृत्तावङ्गतेष्यताम् ॥ ४.११ ॥

न तावन्नियोगतः प्रमाणस्य पुरुषार्थफलता ।
न खलु हितोपादानाहितहाने एव प्रमाणफले॑ उपेक्षामपि हि प्रमाणफलं प्रमाणविद आचक्षते ।
न च पुरुषार्थता प्रमाणलक्षणम्, प्रमाहेतुत्वं तु ।
तस्मान्न पुरुषार्थाभावेनाप्रामाण्यम् ।
अपि च ’शोक्यहम्ऽदुःख्यहम्ऽऽधनादीनि मम नष्टानिऽइति विशुद्धब्रह्मात्मनो जीवस्य मिथ्याज्ञानम्॑ एतन्निवृत्तिरूपं च विशुद्धानन्दप्रकाशब्रह्मात्मतत्वज्ञानम् ।
तत्स्वरूपेणैव पुरुषार्थः॑ अनिष्टनिवृत्तिरूपत्वादिष्टाविर्भावाच्च ।
यद्यपि च संस्कारात्तस्यानुवृत्तिस्तथापि शाब्दज्ञानमनुसंतन्वतो विदुषो न पूर्ववद्भवति निवर्तते चात्यन्ताय ।
दृष्टा च ज्ञानोत्पत्तेरेव पुरुषार्थता क्वचित्कुतूहलाकुलितानामज्ञातेऽर्थे ।
न हि [कुप्पुस्वामी संस्करण १५९] तज्ज्ञानात्परमन्यदर्थ्यते ।
न च प्रवृत्तिनिवृत्तिविषयस्यैव पुरुषार्थतेति नियमः॑ प्रत्यक्षादीनि हि प्रमाणानि॑ न च तावत्प्रवृत्तिनिवृत्तिपराणि सिद्धवस्तुविषयाणि॑ न च पुरुषार्थतां जहति ।
यदि मतम्
प्रत्यक्षादिज्ञेयं हि सिद्धं वस्तु पुरुषार्थः सलिलादिः, तदुपकारात्॑ ततः प्रत्यक्षादीनां पुरुषार्थता भूतनिष्ठानामपि ।
अत्रापि च शब्दप्रमेयं स्वयमेव ब्रह्म पुरुषार्थो जरादिविविधाशिवोपशमात्परमानन्दप्रकाशत्वाच्च सुप्रसन्नम् ।
अत एवऽतत्त्वमसिऽइति श्वेतकेतुमुखेनाशासनीयाय पुरुषाय श्रुत्याभिन्नमुपदिश्यते॑ अभिन्नं हि तदनुशासनीयात् ।
भेदेन च प्रतीयमानं न पुरुषार्थः ।
तत्त्वे तादात्म्यज्ञाने च तथाभावात्विश्वाशिवोपशमात्परमशिवभावाच्च परिपूर्णः पुरुषार्थो आप्तो भवति ।
यदि मतम्
प्रत्यक्षादीन्यपि प्रवृत्यङ्गान्येव,
प्रमितेऽर्थे हानोपादानादिलक्षणायाः प्रवृत्तेस्तन्मूलत्वात्॑
ईदृशं प्रवृत्यङ्गत्वमत्राप्यस्त्येव, शब्दात्प्रमिते ब्रह्मणि साक्षात्करणाय प्रवृत्तेरिष्टत्वादिति ॥

एषा वेदान्ततत्त्वप्रविचयचतुरप्रस्फुरन्न्यायतेजा
मार्गं मुक्तेर्निरुन्धन्निबिडमपि तमोऽनादि निर्दारयन्ती ।
सद्यः प्रक्षालयन्ती घनमपि जगतां तीर्थदुस्तर्कपङ्कं
व्याख्यातोत्खातविश्वा शिवनिरतिशयश्रेयसे ब्रह्मसिद्धिः ॥ ४.१२ ॥

॥ इति मण्डनमिश्राणां कृतिर्ब्रह्मसिद्धिः समाप्ता ॥