ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः १०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ०९ ब्रह्मवैवर्तपुराणम्
अध्यायः १०
वेदव्यासः
अध्यायः ११ →

नारद उवाच ।।
श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् ।।
गङ्गोपाख्यानमधुना वद वेदविदां वर ।। १ ।।
भारतं भारतीशा पादाजगाम सुरेश्वरी ।।
विष्णुस्वरूपा परमा स्वयं विष्णुपदी सती ।। २।।
कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा ।।
तत्क्रमं श्रोतुमिच्छामि पापघ्नं पुण्यदं शुभम् ।। ३
।। नारायण उवाच ।।
राजराजेश्वरः श्रीमन्सगरः सृर्य्यवंशजः ।।
तस्य भार्या च वैदर्भी शैब्या च द्वे मनोहरे ।। ४ ।।
सत्यस्वरूपः सत्येष्टः सत्यवाक्सत्यभावनः ।।
सत्यधर्मविचारज्ञः परं सत्ययुगोद्भवः ।। ५ ।।
एककन्यश्चैकपुत्रो बभूव सुमनोहरः ।।
असमञ्ज इति ख्यातः शैब्यायां कुलवर्द्धनः ।। ६ ।।
अन्या चाराधयामास शङ्करं पुत्रकामुकी ।।
बभूव गर्भस्तस्याश्च शिवस्य तु वरेण च ।। ७ ।।
गते शताब्दे पूर्णे च मांसपिण्डं सुषाव सा ।।
तद्दृष्ट्वा च शिवं ध्यात्वा रुरोदोच्चैः पुनः पुनः ।।८।।
शम्भुर्ब्राह्मणरूपेण तत्समीपं जगाम ह ।।
चकार संविभज्यैतत्पिण्डं षष्टिसहस्रधा ।।९ ।।
सर्वे बभूवुः पुत्राश्च महाबलपराक्रमा ।।
ग्रीष्ममध्याह्नमार्त्तण्डप्रभाजुष्टकलेवराः ।। 2.10.१० ।।
कपिलर्षेः कोपदृष्ट्या बभूवुर्भस्मसाच्च ते ।।
राजा रुरोद तच्छ्रुत्वा जगाम मरणं शुचा ।। ११ ।।
तपश्चकारासमंजो गङ्गानयनकारणात् ।।
तपः कृत्वा लक्षवर्षं म्रियते कालयोगतः ।। १२।।
दिलीपस्तस्य तनयो गङ्गानयनकारणात ।।
तपः कृत्वा लक्षवर्ष ययौ लोकान्तरं नृपः ।। १३ ।।
अंशुमाँस्तस्य पुत्रश्च गङ्गानयनकारणात् ।।
तपः कृत्वा लक्षवर्षं मृतश्च कालयोगतः ।। १४ ।।
भगीरथस्तस्य पुत्रो महाभागवतः सुधीः ।।
वैष्णवो विष्णुभक्तश्च गुणवानजरामरः ।। १५ ।।
तपः कृत्वा लक्षवर्षं गङ्गानयनकारणात् ।।
ददर्श कृष्णं हृष्टास्यं सूर्य्यकोटिसमप्रभम् ।। १६ ।।
द्विभुजं मुरलीहस्तं किशोरं गोपवेषकम् ।।
परमात्मानमीशं च भक्तानुग्रहविग्रहम् ।। १७ ।।
स्वेच्छामयं परं ब्रह्म परिपूर्णतमं विभुम् ।।
ब्रह्मविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्युतम् ।। १८ ।।
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ।।
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकारकम् ।। १९ ।।
वह्निशुद्धां शुकाधानं रत्नभूषणभूषितम् ।।
तुष्टाव दृष्ट्वा नृपतिः प्रणम्य च पुनःपुनः ।। 2.10.२० ।।
लीलया च वरं प्राप्य वाञ्छितं वंशतारकम् ।।
तत्राजगाम गंगा सा स्मरणात्परमात्मनः ।। ।। २१ ।।
तं प्रणम्य प्रतस्थौ च तत्पुरः संपुटाञ्जलिः ।।
उवाच भगवांस्तत्र तां दृष्ट्वा सुमनोहरम् ।।
कुर्वतीं स्तवनं दिव्यं पुलकाञ्चितविग्रहाम् ।। २२
।। श्रीकृष्ण उवाच ।।
भारतं भारतीशापाद्गच्छ शीघ्रं सुरेश्वरि ।। २३ ।।
सगरस्य सुतान्सर्वान्पूतान्कुरु ममाज्ञया ।।
त्वत्स्पर्शवायुना पूता यास्यन्ति मम मन्दिरम् ।। २४ ।।
 बिभ्रतो दिव्यमूर्त्तिं ते दिव्यस्यन्दनगामिनः ।।
मत्पार्षदा भविष्यन्ति सर्वकालं निरामयाः ।। २५ ।।
कर्मभोगं समुच्छिद्य कृतं जन्मनि जन्मनि ।।
नानाविधं महत्स्वल्पं पापं स्याद्भारते नृभिः ।। २६ ।।
गंगायाः स्पर्शवातेन नश्यतीति श्रुतौ श्रुतम् ।।
स्पर्शनं दर्शनाद्देव्याः पुण्यं दशगुणं ततः ।। २७ ।।
मौसलस्नानमात्रेण सामान्यदिवसे नृणाम्।।
कोटिजन्मार्जितं पापं नश्यतीति श्रुतौ श्रुतम्।।२८।।
यानि कानि च पापानि ब्रह्महत्यादिकानि च।।
नानाजन्मार्जितान्येव कामतोऽपि कृतानि च ।।२९।।
तानि सर्वाणि नश्यन्ति मौसलस्नानतो नृणाम् ।।
पुण्याहस्नानजं पुण्यं वेदा नैव वदन्ति च ।। 2.10.३० ।।
केचिद्वदन्ति ते देवि फलमेव यथागमम् ।।
ब्रह्मविष्णुशिवायाश्च सर्वे नैव विदन्ति च ।। ३१ ।।
सामान्यदिवसस्नानसङ्कल्पं शृणु सुन्दरि ।।
पुण्यं दशगुणं चैव मौसलस्नानतः परम् ।। ३२ ।।
ततस्त्रिंशद्गुणं पुण्यं रविसंक्रमणे दिने ।।
अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने ।।३३।।
ततो दशगुणं पुण्यं नराणामुत्तरायणे ।।
चातुर्मास्यां पौर्णमास्यामनन्तं पुण्य मेव च ।। ३४ ।।
अक्षयायां च तत्तुल्यं नैतद्वेदे निरूपितम् ।।
असंख्यपुण्यफलदमेतेषु स्नानदानकम् ।। ३५ ।।
सामान्यदिवसे स्नानं ध्यानाच्छतगुणं फलम् ।।
मन्वन्तरेषु देवेशि युगादिषु तथैव च ।। ३६ ।।
माघस्य सितसप्तम्यां भीष्माष्टम्यांतथैव च ।।
तथा ऽशोकाष्टमीतिथ्यां नवम्यां च तथा हरेः ।। ३७ ।।
ततोऽपि द्विगुणं पुण्यं नन्दायां तव दुर्लभम् ।।
दशपापहरायां तु दशम्यां सुमहत्फलम् ।। ३८ ।।
नन्दासमं च वारुण्यां महत्पूर्वं चतुर्गुणम् ।।
ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति ।। ३९ ।।
पुण्यं कोटिगुणं चैव सामान्यस्नानतो भवेत् ।।
चन्द्रसूर्योपरागेषु स्मृतं दशगुणं ततः ।। 2.10.४० ।।
पुण्येऽप्यर्द्धोदये काले ततः शतगुणं फलम् ।।
सर्वेषामेव सङ्कल्पो वैष्णवानां विपर्य्ययः ।।४१।।
फलसन्धानरहिता जीवन्मुक्ताश्च वैष्णवाः ।।
मत्प्रीतिभक्तिकामास्ते सर्वदा सर्वकर्मसु ।।४२।।
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशेत्परः ।।
जीवन्मुक्तं वैष्णवं तं वेदाः सर्वे वदन्ति च ।। ४३ ।।
पुरुषाणां शतं पूर्वं पैतृकं च परं शतम् ।।
मातामहस्य च शतं मातरं मातृमातरम्।।४४।।
भगिनीं भ्रातरं चैव भागिनेयं च मातुलम् ।।
श्वश्रुं च श्वशुरं चैव गुरुपत्नीं गुरोः सुतम् ।। ४५ ।।
गुरुं च ज्ञानदातारं मित्रं च सहचारिणम् ।।
भृत्यं शिष्य तथा चेटीं प्रजाः स्वाश्रमसन्निधौ ।। ४६ ।।
उद्धरेदात्मना सार्द्धं मन्त्रग्रहणमात्रतः ।।
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ।। ४७ ।।
तस्य संस्पर्शनात्पूतं तीर्थं च भुवि भारते ।।
तस्यैव पादरजसा सद्यः पूता वसुन्धरा ।। ४८ ।।
पादोदकस्थानमिदं तीर्थमेव भवेद्ध्रुवम् ।।
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदितम् ।।४९ ।।
खादन्ति नो वैष्णवाश्च सदा नैवेद्यभोजिनः ।।
विष्णोर्निवेदितान्नं च नित्यं ये भुञ्जते नराः ।। 2.10.५० ।।
पूतानि सर्वतीर्थानि तेषां च स्पर्शनादहो ।।
विष्णोः पादोदकं पुण्यं नित्यं ये भुञ्जते नराः ।। ५१ ।।
तत्पापानि पलायन्ते वैनतेयादिवोरगाः ।।
तेषां दर्शनमात्रेण पूतं च भुवनत्रयम् ।। ५२ ।।
विष्णोः सुदर्शनं चक्रं सन्ततं तांश्च रक्षति ।।
मद्गुणश्रवणाद्ये च पुलकाङ्कितविग्रहाः।। ।। ५३ ।।
गद्गदाः साश्रुनेत्राश्च नरास्ते वैष्णवोत्तमाः ।।
पुत्रादपि परः स्नेहो मयि येषां निरन्तरम् ।।
गृहाद्याश्च मयि न्यस्तास्ते नराः वैष्णवोत्तमाः ।। ५४ ।।
आब्रह्मस्तम्बपर्यन्तं मत्तः सर्वं चराचरम् ।।
सर्वेषामहमेवेश इतिज्ञा वैष्णवोत्तमाः ।। ५५ ।।
असंख्यकोटिब्रह्माण्डं ब्रह्मविष्णुशिवादयः ।।
प्रलये मयि लीयन्ते चेतिज्ञा वैष्णवोत्तमाः ।। ५६।।
तेजःस्वरूपं परमं भक्तानुग्रहविग्रहम् ।।
स्वेच्छामयं निर्गुणं च निरीहं प्रकृतेः परम् ।। ५७ ।।
सर्वे प्राकृतिका मत्त आविर्भूतास्तिरोहिताः।।
इति जानन्ति ये देवि ते नरा वैष्णवोत्तमाः ।। ५८ ।।
इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः ।।
उवाच तं त्रिपथगा भक्तिनम्रात्मकन्धरा ।।५९।।
गङ्गोवाच ।।
यामि चेद्भारतं नाथ भारतीशापतः पुरा ।।
तवाज्ञया च राजेन्द्र तपसा चैव साम्प्रतम् ।। 2.10.६० ।।
यानि कानि च पापानि मह्यं दास्यन्ति पापिनः ।।
तानि मे केन नश्यन्ति तदुपायं वद प्रभो ।। ६१ ।।
कतिकालं परिमितं स्थितिर्मे तत्र भारते ।।
कदा यास्यामि सर्वेश त्वद्विष्णोः परमं पदम् ।। ६२ ।।
ममान्यद्वाच्छितं यद्यत्सर्वं जानासि सर्ववित् ।।
सर्वान्तरात्मन्त्सर्वज्ञ तदुपायं वद प्रभो ।। ६३ ।।
श्रीकृष्ण उवाच ।।
जानामि वाञ्छितं गङ्गे तव सर्वं सुरेश्वरि ।।
पतिस्ते रुद्ररूपोऽयं लवणोदो भविष्यति ।। ६४ ।।
ममैवांशः समुद्रश्च त्वं च लक्ष्मीस्वरूपिणी ।।
विदग्धाया विदग्धेन सङ्गमो गुणवान्भुवि ।। ६५ ।।
यावत्त्यः सन्ति नद्यश्च भारत्याद्याश्च भारते ।।
सौभाग्यं तव तास्वेव लवणोदस्य सौरते ।। ६६ ।।
अद्यप्रभृति देवेशि कलेः पञ्च सहस्रकम् ।।
वर्षं स्थितिस्ते भारत्या भुवि शापेन भारते ।। ६७ ।।
नित्यं वारिधिना सार्द्धं करिष्यसि रहो रतिम् ।।
त्वमेव रसिका देवी रसिकेन्द्रेण संयुता ।। ६८ ।।
त्वां तोषयन्ति स्तोत्रेण भगीरथकृतेन च ।।
भारतस्था जनाः सर्वे पूजयिष्यन्ति भक्तितः ।।६९।।
ध्यानेन कौथुमोक्तेन ध्यात्वा त्वां पूजयिष्यति ।।
यः स्तौति प्रणमेन्नित्यं सोऽश्वमेधफलं लभेत् ।। 2.10.७० ।।
गङ्गा गङ्गेति यो ब्रूयाद्यो जनानां शतैरपि ।।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।।७१।।
सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति ।।
मद्भक्तदर्शने तावत्तदैव हि विनश्यति ।। ७२ ।।
पापिनां तु सहस्राणां शवस्पर्शेन यत्तव ।।
मन्मन्त्रोपासकस्नानात्तदघं च विनश्यति ।। ७३ ।।
यत्र यत्र भवेद्गङ्गे मन्नामगुणकीर्त्तनम् ।।
तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनात् ।। ७४ ।।
सार्द्धं सरिद्भिः श्रेष्ठाभिः सरस्वत्या दिभिः शुभे ।।
तत्तु तीर्थं भवेत्सद्यो यत्र मद्गुणकीर्त्तनम् ।। ७५ ।।
यद्रेणुस्पर्शमात्रेण पूतो भवति पातकी ।।
रेणुप्रमाणं वर्षं च स वैकुण्ठे वसेद् ध्रुवम् ।।७६।।
ज्ञानेन त्वयि ये भक्त्या मन्नामस्मृतिपूर्वकम् ।।
समुत्सृजन्ति प्राणांश्च ते गच्छन्ति हरेः पदम् ।। ७७ ।।
पार्षदप्रवरास्ते च भविष्यन्ति हरेश्चिरम् ।।
असंख्यकं प्राकृतिकं लयं द्रक्ष्यन्ति ते नराः ।। ७८ ।।
मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत् ।।
प्रयाति स च वैकुण्ठं यावदस्थ्नां स्थितिस्त्वयि ।। ७९ ।।
कायव्यूहं ततः कृत्वा भोजयित्वा स्वकर्मकम् ।।
तस्मै ददामि सारूप्यं तं करोमि च पार्षदम् ।। 2.10.८० ।।
अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत् ।।
तस्मै ददामि सारूप्यं तं करोमि पार्षदम् ।। ८१ ।।
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ।।
तस्मै ददामि सालोक्यमसंख्यप्रलयालयम् ।। ८२ ।।
अन्यत्र वा त्यजेत्प्राणान्मन्नामस्मृतिपूर्वकम् ।।
तस्मै ददामि सालोक्यं यावद्वै ब्रह्मणो वयः ।। ८३ ।।
तीर्थेऽप्यतीर्थे मरणे विशेषो नास्ति कश्चन ।।
मन्मन्त्रोपासकानां च नित्यं नैवेद्यभोजिनाम् ।। ८४ ।।
पूतं कर्तुं स शक्तो हि लीलया भुवनत्रयम् ।।
रत्नेन्द्रसारयानेन लोकं स प्रयाति च ।। ८५ ।।
मद्भक्तबान्धवा ये ये ते ते पुण्यधियः शुभे ।।
ते यान्ति रत्नयानेन गोलोकं च सुदुर्लभम् ।।८६।।
यत्र तत्र मृता ये च ज्ञानाज्ञानेन वा सति ।।
जीवन्मुक्ताश्च ते पूता भक्तसन्निधिमात्रतः ।। ८७ ।।
इत्युक्त्वा श्रीहरिस्तां च तमुवाच भगीरथम् ।।
स्तुहि गङ्गामिमां भक्त्या पूजां कुरु च साम्प्रतम् ।। ८८ ।।
भगीरथस्तां तुष्टाव पूजयामास भक्तितः ।।
ध्यानेन कौथुमोक्तेन स्तोत्रेण च पुनः पुन. ।। ८९ ।।
श्रीकृष्णं प्रणनामाथ परमात्मानमीश्वरम् ।।
भगीरथश्च गङ्गां च सोऽन्तर्द्धाय गतो हरिः ।। 2.10.९० ।।
नारद उवाच ।।
स्तोत्रेण केन ध्यानेन केन पूजाक्रमेण च ।।
पूजां चकार नृपतिर्वद वेदविदां वर ।। ९१ ।।
श्रीनारायण उवाच ।।
स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी ।।
पादौ प्रक्षाल्य चाचम्य संयतो भक्तिपूर्वकम् ।। ९२ ।।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।।
सम्पूजयेन्नरश्शुद्धः सोऽधिकारी च पूजने ।। ९३ ।।
गणेशं विघ्ननाशाय निष्पापाय दिवाकरम् ।।
वह्निं स्वशुद्धये विष्णुं मुक्तये पूजयेन्नरः ।। ९४ ।।
शिवं ज्ञानाय तदिनां शिवां बुद्धिविवृद्धये ।।
सम्पूज्यैतल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा ।। ९५ ।।
दध्यावनेन तद्ध्यानं शृणु नारद तत्त्वतः ।।
ध्यानं च कौथुमोक्तं वै सर्वपापप्रणाशनम् ।। ९६ ।।
श्वेतचम्पकवर्णाभां गङ्गां पापप्रणाशिनीम् ।।
कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ।। ९७ ।।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।।
शरत्पूर्णेन्दुशतकप्रभाजुष्टकलेवराम् ।। ९८ ।।
ईषद्धासप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ।।
नारायणप्रियां शान्तां सत्सौभाग्यसमन्विताम ।। ९९ ।।

बिभ्रतीं कबरीभारं मालतीमाल्यसंयुताम् ।।
सिन्दूरबिन्दुललितां सार्द्धं चन्दनबिन्दुभिः ।। 2.10.१०० ।।
कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ।।
पक्वबिम्बसमानैकचार्वोष्ठपुटमुत्तमम् ।। १०१ ।।
मुक्तापंक्तिप्रभाजुष्टदन्तपंक्तिमनोहराम् ।।
सुचारुवक्रनयनां सकटाक्षमनोरमाम् ।। १०२ ।।
कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ।।
बृहच्छ्रोणीं सुकठिनां रम्भास्तम्भपरिष्कृताम् ।। १०३ ।।
स्थलपद्मप्रभाजुष्टपादपद्मयुगंधराम् ।।
रत्नाभरणसंयुक्तं कुंकुमाक्तं सयावकम् ।। १०४ ।।
देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ।।
सुरसिद्धमुनीन्द्रादिदत्तार्घ्यैस्संयुतं सदा ।। १०५ ।।
तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ।।
मुक्तिप्रदं मुमुक्षूणां कामिनां स्वर्गभोगदम् ।। १०६ ।।
वरां वरेण्यां वरदां भक्तानुग्रहकातराम् ।।
श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् ।। १०७ ।।
इति ध्यानेन चानेन ध्यात्वा त्रिपथगां शुभाम् ।।
दत्त्वा संपूजयेद्ब्रह्मन्नुपहारांश्च षोडश ।। १०८ ।।
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ।।
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ।। १०९ ।।
वसनं भूषणं माल्यं गंधमाचमनीयकम् ।।
मनोहरं सुतल्पं च देयान्येतानि षोडश ।।2.10.११०।।
दत्त्वा भक्त्या संप्रणमेत्स्तुत्वा तां संपुटाञ्जलिः ।।
संपूज्यैवंप्रकारेण सोऽश्वमेधफलं लभेत् ।।१११।।
स्तोत्रं वै कौथुमोक्तं च संवादं विष्णुवेधसोः ।।
शृणु नारद वक्ष्यामि पापघ्नं च सुपुण्यदम्।।११२।।
श्रीब्रह्मोवाच ।।
श्रोतुमिच्छामि देवेश लक्ष्मीकान्त नमः प्रभो ।।
विष्णो विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारणम् ।। ११३ ।।
श्रीनारायण उवाच ।।
शिवसंगीतसंमुग्धश्रीकृष्णाङ्गद्रवोद्भवाम् ।।
राधांगद्रवसम्भूतां तां गङ्गां प्रणमाम्यहम् ।। ११४ ।।
या जन्मसृष्टेरादौ च गोलोके रासमण्डले ।।
सन्निधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ।। ।। ११५ ।।
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ।।
कार्तिकीपूर्णिमाजातां तां गंगां प्रणमाम्यहम् ।। ११५ ।।
कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः ।।
समावृता या गोलोकं तां गंगां प्रणमाम्यहम् ।।११७।।
षष्टिलक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा।।
समावृता या वैकुण्ठं तां गंगां प्रणमाम्यहम् ।।११८।।
विंशल्लक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा ।।
आवृता ब्रह्मलोकं या तां गंगां प्रणमाम्यहम् ।। ११९ ।।
त्रिंशल्लक्षैर्योजनैर्या दैर्घ्ये पञ्चगुणा ततः ।।
आवृता शिवलोकं या तां गंगां प्रणमाम्यहम् ।। 2.10.१२० ।।
षड्योजनसुविस्तीर्णा दैर्घ्ये दशगुणा ततः ।।
मन्दाकिनी येन्द्रलोके तां गंगां प्रणमाम्यहम् ।। १२१ ।।
लक्षयोजनविर्स्तार्णा दैर्घ्ये सप्तगुणा ततः ।।
आवृता ध्रुवलोकं या तां गंगां प्रणमाम्यहम् ।। १२२ ।।
लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणिता ततः ।।
आवृता चन्द्र लोकं या तां गंगां प्रणमाम्यहम् ।।१२३।।
योजनैष्षष्टिसाहस्रैर्दैर्घ्ये दशगुणा ततः ।।
आवृता सृर्य्यलोकं या तां गंगां प्रणमाम्यहम्।। ।। १२४ ।।
लक्षयोजनविस्तीर्णा दैर्घ्ये षङ्गुणिता ततः ।।
आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ।। १२५ ।।
दशलक्षै र्योजनैर्या दैर्घ्ये पञ्चगुणा ततः ।।
आवृता या तपोलोकं तां गङ्गां प्रणमाम्यहम् ।।१२६।।
सहस्रयोजना या च दैर्घ्ये सप्तगुणा ततः ।।
आवृता जनलोकं या तां गंगां प्रणमाम्यहम् ।। १२७ ।।
सहस्रयोजनाऽऽयामे दैर्घ्ये सप्तगुणा ततः ।।
आवृता या च कैलासं तां गंगां प्रणमाम्यहम्।।१२८।।
पाताले या भोगवती विस्तीर्णा दशयोजना ।।
ततो दशगुणा दैर्घ्ये तां गंगां प्रणमाम्यहम् ।।१२९।।
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा न कुत्रचित् ।।
क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ।। 2.10.१३० ।।
सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसन्निभा ।।
द्वापरे चन्दनाभा च तां गंगां प्रणमाम्यहम् ।।१३१।।
जलप्रभा कलौ या च नान्यत्र पृथिवीतले ।।
स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ।। १३२ ।।
यस्याः प्रभाव अतुलः पुराणे च श्रुतौ श्रुतः ।।
या पुण्यदा पापहर्त्री तां गङ्गां प्रणमाम्यहम् ।। १३३ ।।
यत्तोयकणिकास्पर्शः पापिनां च पितामह ।।
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ।। १३४ ।।
इत्येवं कथितं ब्रह्मन्गंगापद्यैकविंशतिम् ।।
स्तोत्ररूपं च परमं पापघ्नं पुण्यबीजकम् ।। १३५ ।।
नित्यं यो हि पठेद्भक्त्या संपूज्य च सुरेश्वरीम् ।।
अश्वमेधफलं नित्यं लभते नात्र संशयः।।१३६।।
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ।।
रोगान्मुच्येत रोगी च बद्धो मुच्येत बन्धनात् ।। १३७ ।।
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।।
यः पठेत्प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ।। ।।१३८।।
शुभं भवेत्तु दुःस्वप्नं गङ्गास्नानफलं लभेत् ।।१३९।।
नारायण उवाच ।।
भगीरथोऽनया स्तुत्या स्तुत्वा गङ्गां च नारद ।।
जगाम तां गृहीत्वा च यत्र नष्टश्च सागराः ।। 2.10.१४० ।।
वैकुण्ठं ते ययुस्तूर्णं गङ्गायाः स्पर्शवायुना ।।
भगीरथेन साऽऽनीता तेन भागीरथी स्मृता ।। १४१ ।।
इत्येवं कथितं सर्वं गङ्गोपाख्यानमुत्तमम् ।।
पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।। १४२ ।।
नारद उवाच ।।
शिवसंगीतसंमुग्धे श्रीकृष्णे द्रवतां गते ।।
द्रवतां च गतायां च राधायां किं बभूव ह ।। १४३ ।।
तत्रस्थाश्च जना ये ये ते च किं चक्रुरुद्यमम् ।।
एतत्सर्वं सुविस्तीर्णं प्रभो वक्तुमिहार्हसि।।१४४।।
नारायण उवाच ।।
कार्त्तिकीपूर्णिमायां च राधायाः सुमहोत्सवे ।।
कृष्णः संपूज्य तां राधामवसद्रासमण्डले ।। १४५ ।।
कृष्णेन पूजितां तां तु संपूज्यादृतमानसाः ।।
ऊचुर्ब्रह्मादयः सर्वे ऋषयः सनकादयः ।। १४६ ।।
एतस्मिन्नन्तरे कृष्ण संगीतं च सरस्वती ।।
जगौ सुन्दरतानेन वीणया च मनोहरम् ।। १४७ ।।
तुष्टो ब्रह्मा ददौ तस्यै महारत्नाढ्यमालिकाम् ।।
 शिरोमणीन्द्रसारं च सर्वब्रद्माण्डदुर्लभम् ।। १४८ ।।
कृष्णः कौस्तुभरत्नं च सर्व रत्नात्परं वरम् ।।
अमूल्यरत्नखचितं हारसारं च राधिका ।। १४९ ।।
नारायणश्च भगवन्वनमालां मनोहराम् ।।
अमूल्यरत्नकलितं लक्ष्मीर्मकरकुण्डलम् ।। 2.10.१५० ।।
विष्णुमाया भगवती मूलप्रकृतिरीश्वरी ।।
दुर्गा नारायणीशानी विष्णुभक्तिं सुदुर्लभाम् ।। १५१ ।।
धर्मबुद्धिं च धर्मस्तु यशश्च विपुलं भवे ।।
वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरम् ।। १५२ ।।
एतस्मिन्नन्तरे शम्भुर्ब्रह्मणा प्रेरितो मुहुः ।।
जगौ श्रीकृष्णसंगीतं रासोल्लाससमन्वितम् ।। १५३ ।।
मूर्च्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा ।।
क्षणेन चेतनां प्राप्य ददृशू रासमण्डलम् ।। १५४ ।।
स्थलं सर्वं जलाकीर्णं हीनराधाहरिं तथा ।।
अत्युच्चै रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः ।। १५५ ।।
ध्यानेन धाता बुबुधे सर्वमेतदभीप्सितम् ।।
गतश्च राधया सार्द्धं श्रीकृष्णो द्रवतामिति ।। १५६ ।।
ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरम् ।।
स्वमूर्त्तिं दर्शय विभो वाञ्छितं वरमेव नः ।। १५७ ।।
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ।।
तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरां शुभाम् ।। १५८ ।।
सर्वात्माऽहमियं शक्तिर्भक्तानुग्रहविग्रहा ।।
ममाप्यस्याश्च हे देवा देहेन च किमावयोः ।। १५९ ।।
मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः ।।
मन्मन्त्रपूता मां द्रष्टुमागमिष्यन्ति मत्पदम् ।। 2.10.१६० ।।
मूर्तिं द्रष्टुं च सुव्यग्रा यूयं यदि सुरेश्वराः ।।
करोति शम्भुस्तत्रैव मदीयं वाक्यपालनम् ।। १६१ ।।
स्वयं विधाता त्वं ब्रह्मन्नाज्ञां कुरु जगद्गुरो ।।
कर्तुं शास्त्रविशेषं च वेदांगं सुमनोहरम् ।। १६२ ।।
अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः ।।
स्तोत्रैश्च कवचैर्ध्यानैर्युतं पूजाविधिक्रमैः ।। १६३ ।।
मन्मन्त्रं कवचं स्तोत्रं कृत्वा यत्नेन गोपय ।।
भवन्ति विमुखा येन जनानां यत्करि ष्यति ।। १६४ ।।
सहस्रेषु शतेष्वेको मन्मन्त्रोपासको भवेत् ।।
ते ते जना मन्त्रपूताश्चागमिष्यन्ति मत्पदम् ।। ।। १६५ ।।
अन्यथा च भविष्यन्ति सर्वे गोलोकवासिनः ।।
निष्फलं भविता सर्वं ब्रह्माण्डं चैव वेधसः ।। १६६ ।।
जनाः पञ्चप्रकाराश्च युक्ताः स्रष्टुर्भवे भवे ।।
पृथिवीवासिनः केचित्केचित्स्वर्गनिवासिन ।। १६७ ।।
अधोनिवासिनः केचिद्ब्रह्मलोकनिवासिनः ।।
केचिद्वा वै ष्णवाः केचिन्मम लोकनिवासिनः ।। १६८ ।।
इदं कर्तुं महादेवः करोतु सुरसंसदि ।।
प्रतिज्ञां सुदृढां सद्यस्ततो मूर्तिं च पश्यसि ।। १६९ ।।
इत्येवमुक्त्वा गगने विरराम सनातनः ।।
तद्दृष्ट्वा च जगन्नाथस्तमुवाच शिवं मुदा ।।2.10.१७०।।
ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनां वरः ।।
गङ्गातोयं करे धृत्वा स्वीचकार वचस्तु सः ।। १७१ ।।
संयुक्तं विष्णुमायाद्यैर्मन्त्राद्यैः शास्त्रमुत्तमम् ।।
वेदसारं करिष्यामि कृष्णाज्ञापालनाय च ।। १७२ ।।
गंगातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः ।।
स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः ।। १७३ ।।
इत्युक्ते शङ्करे ब्रह्मन्गोलोके सुरसंसदि ।।
आविर्बभूव श्रीकृष्णो राधया सह तत्परः ।। १७४ ।।
ते तं दृष्ट्वा च संहृष्टाः संस्तूय पुरुषोत्तमम् ।।
परमानन्दपूर्णाश्च चक्रुश्च पुनरुत्सवम् ।। १७५ ।।
कालेन शम्भुर्भगवाञ्छास्त्रदीपं चकार सः ।।
इत्येवं कथितं सर्वं सुगोप्यं च सुदुर्लभम् ।। १७६ ।।
सा चैवं द्रवरूपा या गङ्गा गोलोकसम्भवा ।।
राधाकृष्णाङ्गसम्भूता भुक्तिमुक्तिफलप्रदा ।। १७७ ।।
स्थाने स्थाने स्थापिता सा कृष्णेन परमात्मना ।।
कृष्णस्वरूपा परमा सर्वब्रह्माण्डपूजिता ।। १७८ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे नारदनारायणसंवादे द्वितीये प्रकृतिखण्डे गङ्गोपाख्यानं नाम दशमोऽध्यायः।।१०।।