ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० ब्रह्मवैवर्तपुराणम्
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

नारद उवाच।।
कलेः पञ्चसहस्रे सा समतीते सुरेश्वरी ।।
क्व गता सा महाभागा तन्मे व्याख्यातुमर्हसि ।।१।।
नारायण उवाच ।।
भारतं भारतीशापात्समागत्येश्वरेच्छया ।।
जगाम तं च वैकुण्ठं शापान्ते पुनरेव सा ।।२।।
भारतं भारती त्यक्त्वा चागमत्तद्धरेः पदम् ।।
पद्मावती च शापान्ते गंगायाश्चैव नारद ।।३।।
गङ्गा सरस्वती लक्ष्मीश्चैतास्तिस्रः प्रिया हरेः।।
तुलसीसहिता ब्रह्मंश्चतस्रः कीर्त्तिताः श्रुतौ।।४।।
नारद उवाच ।।
हेतुना केन देवी वै विष्णुपादाब्जसंभवा ।।
धातुः कमण्डलुस्था च शङ्करस्य शिरोगता ।। ५ ।।
बभूव सा मुनिश्रेष्ठ गंगा नारायणप्रिया ।।
अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ।। ६ ।।
।। श्रीनारायण उवाच ।।
पुरा बभूव गोलोके सा गंगा द्रवरूपिणी ।।
राधाकृष्णांगसंभूता तदंशा तत्स्वरूपिणी ।। ७ ।।
द्रवाधिष्ठातृरूपा या रूपेणाप्रतिमा भुवि ।।
नवयौवनसम्पन्ना रत्नाभरणभूषिता ।। ८ ।।
शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा ।।
तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा ।। ९ ।।
स्निग्धप्रभाऽतिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी ।।
सुपीनकठिनश्रोणी सुनितम्बयुगं वरम् ।। 2.11.१० ।।
पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् ।।
सुचारु नेत्रयुगलं सुकटाक्षं सुवक्रिमम् ।। ।। ११ ।।
वक्रिमं कबरीभारं मालतीमाल्यसंयुतम् ।।
सिन्दूरबिन्दुललितं सार्द्धं चन्दनबिन्दुभिः ।। १२ ।।
कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोहरम् ।।
बन्धूककुसुमाकारमधरोष्ठं च सुंदरम् ।। १३ ।।
पक्वदाडिमबीजाभदन्तपंक्तिसमुज्ज्वला ।।
वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती ।। १४ ।।
सा सकामा कृष्णपार्श्वे समुत्तस्थे सुलज्जिता ।।
पद्मपत्रसमानाभ्यां लोचनाभ्यां विभो मुखम् ।। १५ ।।
निमेषरहिताभ्यां च पिबन्ती सततं मुदा ।।
प्रफुल्लवदना हर्षान्नवसङ्गमलालसा ।। १५ ।।
मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा ।।
एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ।। १७ ।।
गोपीत्रिंशत्कोटियुक्ता कोटिचन्द्रसमप्रभा ।।
कोपेन रक्तपद्मास्या रक्तपङ्कजलोचना ।। १८ ।।
श्वेतचम्पकवर्णाभा मत्तवारणगामिनी।।
अमूल्यरत्नखचितनानाभरणभूषिता ।।१९।।
माणिक्यखचितं हारममूल्यं वह्निशौचकम् ।।
पीताभवस्त्रयुगलं नीवीयुक्तं च बिभ्रती ।। 2.11.२० ।।
स्थलपद्मप्रभाजुष्टं कोमलं च सुरञ्जितम् ।।
कृष्णदत्तार्घ्यसंयुक्तं विन्यस्यन्ती पदाम्बुजम् ।। २१ ।।
रत्नेन्द्रराजखचितविमानादवरुह्य च ।।
सेव्यमाना च सखिभिः श्वेत चामरवायुना ।। २२ ।।
कस्तूरीबिन्दुतिलकं चन्दनेन्दुसमन्वितम् ।।
दीप्तदीपप्रभाकारं सिन्दूरारुणसुन्दरम् ।। २३ ।।
दधती भालमध्ये च सीमन्ताधस्तदुज्ज्वलम् ।।
पारिजातप्रसूनादिमालायुक्तं सुवक्रिमम् ।। २४ ।।
सुचारुकबरीभारं कम्पयन्ती च कम्पिता ।।
सुचारुनासासंयुक्तमोष्ठं कम्पयती रुषा ।। २५ ।।
गत्वा तस्थौ कृष्णपार्श्वे रत्नसिंहासने वरे ।।
सखीनां च समूहैश्च परिपूर्णा विभोः सभा ।। २६ ।।
तां च दृष्ट्वा समुत्तस्थौ कृष्णः सादरमच्युतः ।।
संभाष्य मधुरालापैः सस्मितश्च ससंभ्रमः ।। २७ ।।
प्रणेमुरभि संत्रस्ता गोपा नम्रात्मकन्धराः ।।
तुष्टुवुस्ते च भक्त्या तं तुष्टाव परमेश्वरम् ।। २८ ।।
उत्थाय गंगा सहसा सम्भाषां च चकार सा ।।
कुशलं परिपप्रच्छ भीताऽतिविनयेन च ।। २९ ।।
नम्रभावस्थिता त्रस्ता शुष्ककण्ठौष्ठतालुका ।।
ध्यानेन शरणापन्ना श्री कृष्णचरणम्बुजे ।। 2.11.३० ।।
तद्धृत्पद्मे स्थितः कृष्णो भीतायै चाभयं ददौ ।।
बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च ।। ३१ ।।
ऊर्ध्वं सिंहासनस्थां च राधां गङ्गा ददर्श सा ।।
सुस्निग्धां सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा ।। ३२ ।।
असंख्यब्रह्मणामाद्यां चादिसृष्टिं सनातनीम् ।।
यथा द्वादशवर्षीयां कन्यां च नवयौवनाम् ।। ३३ ।।
विश्ववृन्दे निरुपमां रूपेण च गुणेन च ।।
शान्त कान्तामनन्तां तामाद्यन्तरहितां सतीम् ।। ३४ ।।
शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् ।।
सौन्दर्यसुन्दरीं श्रेष्ठां सुन्दरीष्वखिलासु च ।। ३९ ।।
कृष्णार्द्धाङ्गी कृष्णसमां तेजसा वयसा त्विषा ।।
पूजितां च महालक्ष्मीं महालक्ष्मीश्वरेण च ।। ३६ ।।
प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् ।।
सखीदत्तं च ताम्बूलं गृह्णतीमन्यदुर्लभम् ।। ३७ ।।
अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम् ।।
कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम्।।३८।।
दृष्ट्वा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी ।।
निमेषरहिताभ्यां च लोच नाभ्यां पपौ च ताम्।।३९।।
एतस्मिन्नन्तरे राधा जगदीशमुवाच सा।।
वाचा मधुरया शान्ता विनीता सस्मिता मुने।।2.11.४०।।
राधिकोवाच।।
केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् ।।
पश्यन्ती सततं पार्श्वे सकामा रक्तलोचना ।। ४१ ।।
मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा ।।
वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः ।। ४२ ।।
त्वं चापि मां सन्निरीक्ष्य सकामः सस्मितः सदा ।।
मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ।। ४३ ।।
त्वमेव चैवं दुर्वृत्तं वारंवारं करोषि च ।।
क्षमां करोमि ते प्रेम्णा स्त्रीजातिः स्निग्धमानसा ।। ४४ ।।
संगृह्येमां प्रियामिष्टां गोलोकाद्गच्छ लम्पट ।।
अन्यथा नहि ते भद्रं भविष्यति सुरेश्वर ।। ४५ ।।
दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने ।।
क्षमा कृता मया पूर्वं सखीनां वचनादहो ।। ४६ ।।
त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा ।।
देहं सन्त्यज्य विरजा नदीरूपा बभूव सा ।। ४७ ।।
कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा ।।
अद्यापि विद्यमाना सा तव सत्की र्तिरूपिणी ।। ४८ ।।
गृहं मयि गतायां च पुनर्गत्वा तदन्तिकम् ।।
उच्चैररौषीर्विरजे विरजे चेति संस्मरन् ।। ४९ ।।
तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी ।।
सालङ्कारा मूर्तिमती ददौ तुभ्यं च दर्शनम् ।। 2.11.५० ।।
ततस्तां च समाश्लिष्य वीर्य्याधानं कृतं त्वया ।।
ततो बभूवुस्तस्यां च समुद्राः सप्त चैव हि ।। ५१ ।।
दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने ।।
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।।५२।।
शोभा देहं परित्यज्य प्राविशच्चन्द्रमण्डलम् ।।
ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह ।। ५३ ।।
संविभज्य त्वया दत्तं हृदयेन विदूयता ।।
रत्नाय किञ्चित्स्वर्णाय किञ्चिन्मतिवराय च ।। ५४ ।।
किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन ।।
किञ्चित्प्रकृष्टवस्त्रेभ्यो रौप्येभ्यश्चापि किञ्चन ।। ५५ ।।
किञ्चिच्चन्दनपङ्केभ्यस्तोयेभ्यश्चापि किञ्चन ।।
किञ्चित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किंचन ।। ५६ ।।
किञ्चित्फलेभ्यः सस्येभ्यः सुपक्वेभ्यश्च किञ्चन ।।
नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किंचन ।। ५७ ।।
दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ।।
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।। ।। ५८ ।।
प्रभा देहं परित्यज्य प्राविशत्सूर्य्यमण्डलम् ।।
ततस्तस्याः शरीरं च तीक्ष्णं तेजो बभूव ह ।। ५९ ।।
संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ।।
विभज्य चक्षुषोर्दत्तं लज्जया तद्भयेन च ।। 2.11.६० ।।
हुताशनाय किंचिच्च नृपेभ्यश्चापि किञ्चन ।।
किंचित्पुरुषसंघेभ्यो देवेभ्यश्चापि किंचन ।। ६१ ।।
किंचिद्दस्युगणेभ्यश्च नागेभ्यश्चापि किंचन ।।
ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किंचन ।।६२।।
स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किंचन ।।
तच्च दत्त्वा च सर्वेभ्यः पूर्वं रोदितुमुद्यतः ।।६३।।
शान्त्या गोप्या युतस्त्वं च दृष्टो वै रासमण्डले ।।
वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः ।। ६४ ।।
रत्नप्रदीपैर्युक्तश्च रत्ननिर्मितमन्दिरे ।।
रत्नभूषणभूषाढ्यो रत्नभूषितया सह ।। ६९ ।।
त्वया दत्तं च ताम्बूलं भुक्तवत्यै सुवासितम् ।।
तया दत्तं च ताम्बूलं भुक्तवांस्त्वं पुरा विभो ।।६६।।
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।।
शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो ।।६७।।
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ।।
संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ।। ६८ ।।
विश्वे विषयिणे किंचित्सत्त्वरूपाय विष्णवे ।।
शुद्धसत्त्वस्वरूपायै किंचिल्लक्ष्म्यै पुरा विभो ।।६९।।
त्वन्मन्त्रोपासकेभ्यश्च वैष्णवेभ्यश्च किंचन ।।
तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किंचन ।।2.11.७०।।
मया पूर्वं हि दृष्टस्त्वं गोप्या च क्षमया सह ।।
सुवेषवान्माल्यवांश्च गन्धचन्दनसंयुतः।। ।। ७१ ।।
रत्नभूषितया चारुचन्दनोक्षितया तया ।।
सुखेन मूर्छितस्तल्पे पुष्पचन्दनसंयुते ।। ७२ ।।
श्लिष्टोऽभून्निद्रया सद्यः सुखेन नवसङ्गमात् ।।
मया प्रबोधितौ सा च भवांश्च स्मरणं कुरु ।। ७३ ।।
गृहीतं पीतवस्त्रं ते मुरली च मनोहरा ।।
वनमाला कौस्तुभश्चाप्यमूल्यं रत्नकुण्डलम् ।।७४।।
पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो ।।
लज्जया कृष्णवर्णोऽभूदद्यापि च भवान्प्रभो ।।७५।।
क्षमा देहं परित्यज्य लज्जया पृथिवीं गता ।।
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ।। ७६ ।।
संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ।।
किंचिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किंचन ।। ७७ ।।
धर्मिष्ठेभ्यश्च धर्माय दुर्बलेभ्यश्च किंचन ।।
तपस्विभ्योऽपि देवेभ्यः पंडितेभ्यश्च किंचन ।। ७८ ।।
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।।
त्वद्गुणं बहुविस्तारं जानामि च परं प्रभो।।७९।।
इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना ।।
गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ।। 2.11.८० ।।
गङ्गा रहस्यं योगेन ज्ञात्वा वै सिद्धयोगिनी ।।
तिरोभूय सभामध्यात्स्वजलं प्रविवेश सा ।।८१।।
राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् ।।
पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी ।। ८२ ।।
गंगा रहस्यं योगेन ज्ञात्वा वै सिद्धयोगिनी ।।
श्रीकृष्णचरणाम्भोजं परमं शरणं ययौ ।। ८३ ।।
गोलोकं चैव वैकुण्ठं ब्रह्मलोकादिकं तथा ।।
ददर्श राधा सर्वत्र नैव गङ्गां ददर्श सा ।। ८४ ।।
सर्वतो जलशून्यं च शुष्कपङ्कजगोलकम् ।।
जलजन्तुसमूहैश्च मृतदेहैः समन्वितम् ।। ८५ ।।
ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः ।।
मनवो मानवाः सर्वे देवाः सिद्धास्तपस्विनः ।। ८६ ।।
गोलोकं च समाजग्मुः शुष्ककण्ठौष्ठतालुकाः ।।
सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम् ।। ८७ ।।
वरं वरेण्यं वरदं वरिष्ठं वरकारणम् ।।
वरेशं च वरार्हं च सर्वेषां प्रवरं प्रभुम् ।। ८८ ।।
निरीहं च निराकारं निर्लिप्तं च निराश्रयम् ।।
निर्गुणं च निरुत्साहं निर्व्यूहं च निरञ्जनम् ।। ८९ ।।
स्वेच्छामयं च साकारं भक्तानुग्रहविग्रहम् ।।
सत्यस्वरूपं सत्येशं साक्षिरूपं सनातनम् ।। ।। 2.11.९० ।।
परं परेशं परमं परमात्मानमीश्वरम् ।।
प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ।। ९१ ।।
सगद्गदा साश्रुनेत्राः पुलकाङ्कितविग्रहाः ।।
सर्वे संस्तूय सर्वेशं भगवन्तं परं हरिम् ।।९२।।
ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् ।।
अमूल्यरत्नखचितचित्रसिंहासनस्थितम् ।। ९३ ।।
सेव्यमानं च गोपालैः श्वेतचामरवायुना ।।
गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा ।। ९४ ।।
वल्गुवेषैः परिवृतं गोपैश्च शतकोटिभिः ।।
चन्दनोक्षितसर्वांगं रत्नभूषणभूषितम् ।। ९५ ।।
नवीननीरदश्यामं किशोरं पीतवाससम् ।।
यथा द्वादशवर्षीयं बालं गोपालरूपिणम् ।। ९६ ।।
कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहम् ।।
स्वतेजसा परिवृतं सुसादृश्यं मनोहरम्।। ।। ९७ ।।
कोटिकन्दर्पसौन्दर्य्यलीलालावण्यविग्रहम् ।।
दृश्यमानं च गोपीभिः सस्मिताभिश्च सन्ततम् ।। ९८ ।।
भूषणैर्भूषिताभिश्च महारत्नविनिर्मितैः ।।
पिबन्तीभिर्लोचनाभ्यां मुखचन्द्रं प्रभोर्मुदा ।। ९९ ।।
प्राणाधिकप्रियतमाराधावक्षःस्थलस्थितम् ।।
तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ।।
परिपूर्णतमं रासे ददृशुः सर्वतः सुराः ।। 2.11.१०० ।।
मुनयो मानवाः सिद्धास्तपसा च तपस्विनः ।।
प्रहृष्टमानसाः सर्वे जग्मुः परमविस्मयम् ।। १०१ ।।
परस्परं समालोच्य ते तमूचुश्चतुर्मुखम् ।।
निवेदितुं जगन्नाथं स्वाभिप्रायमभीप्सितम् ।। १०२ ।।
ब्रह्मा तद्वचनं श्रुत्वा स्थितं विष्णोस्तु दक्षिणे ।।
वामतो वामदेवस्य चागमत्कृष्णमुत्तमम् ।। १०३ ।।
परमानन्दयुक्तं च परमानन्दरूपकम् ।।
सर्वं कृष्णमयं धाता चापश्यद्रासमण्डले ।। १०४ ।।
सर्वं समानवेषं च सभानासनसंस्थितम् ।। १०५ ।।
द्विभुजं मुरलीहस्तं वनमालाविभूषितम् ।।
मयूरपुच्छचूडं च कौस्तुभेन विराजितम् ।। १०६ ।।
अतीव कमनीयं च सुन्दरं शान्तविग्रहम् ।।
गुणभूषणरूपेण तेजसा वयसा त्विषा ।। १०७।।
वाससा यशसाऽऽकृत्या मूर्त्या सुन्दरया समम् ।।
परिपूर्णतमं सर्वं सर्वैश्वर्य्यसमन्वितम् ।। १०८ ।।
कः सेव्यस्सेवको वेति दृष्ट्वा निर्वक्तुमक्षमः ।।
क्षणं तेजः स्वरूपं च रूपराशियुतं क्षणम्।।१०९।।
एकमेव क्षणं कृष्णं राधया सहितं परम्।।
प्रत्येकासनसंस्थं च तया च सहितं क्षणम् ।।2.11.११०।।
राधारूपधरं कृष्णं कृष्णरूपकलत्रकम् ।।
किं स्त्रीरूपं च पुंरूपं विधाता ध्यातुमक्षमः।।१११।।
हृत्पद्मस्थं च श्रीकृष्णं धाता ध्यानेन चेतसा ।।
चकार स्तवनं भक्त्या प्रणम्याथ त्वनेकधा ।। ११२ ।।
ततः स चक्षुरुन्मील्य पुनश्च तदनुज्ञया ।।
अपश्यत्कृष्णमेकं च राधावक्षस्थलस्थितम् ।। ११३ ।।
स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् ।।
पुनः प्रणेमुस्तं दृष्ट्वा तुष्टुवुश्च पुनश्च ते ।।११४।।
विज्ञाय तदभिप्रायं तानुवाच सुरेश्वरः ।।
सर्वात्मा सर्वयज्ञेशः सर्वेशः सर्वभावनः ।। ११५ ।।
श्रीभगवानुवाच ।।
आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते ।।
इहागच्छ महादेव शश्वत्कुशलमस्तु वः ।। ११६ ।।
आगताः स्थ महाभागा गङ्गानयनकारणात् ।।
गंगा मच्चरणत्म्भोजे भयेन शरणं गता ।। ११७ ।।
राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः ।।
दास्यामीमां बहिः कृत्वा यूयं कुरुत निर्भयाम् ।। ११८ ।।
श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः ।।
तुष्टाव सर्वाराध्यां तां राधां श्रीकृष्णपूजिताम् ।। ११९ ।।।
वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः ।।
धाता चतुर्णां वेदानामुवाच चतुराननः ।। 2.11.१२० ।।
गङ्गा त्वदङ्गसम्भूता प्रभोर्वै रासमण्डले।।
द्रवरूपा च सा जाता मुग्धया शङ्करस्वरात्।।१२१।।
कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया।।
तन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम्।।१२२।।
भविष्यति पतिस्तस्या वैकुण्ठे च चतुर्भुजः।।
भूगतायाः कलायाश्च लवणोदश्च वारिधिः।।१२३।।
गोलोकस्था च या राधा सर्वत्रस्था तथात्मिका ।।
तदात्मिका त्वं देवेशि सर्वदा च तवात्मजा ।। १२४ ।।
ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता ।।
बहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः ।।१२५।।
तत्रैव संवृता शान्ता तस्थौ तेषां च मध्यतः ।।
उवास तोयादुत्थाय तदधिष्ठातृदेवता ।। १२६ ।।
तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ ।।
किंचिद्दधार शिरसि चन्द्रार्द्धे चन्द्रशेखरः ।। १२७ ।।
गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः ।।
तत्स्तोत्रं कवचं पूजाविधानं ध्यानमेव च ।। १२८ ।।
सर्वं तत्सामवेदोक्तं पुरश्चर्य्याक्रमं तथा ।।
गङ्गा तामेव संपूज्य वैकुण्ठं प्रययौ सती ।। १२९ ।।
लक्ष्मीः सरस्वती गंगा तुलसी विश्वपावनी ।।
एता नारायणस्यैव चतस्रो योषितो मुने।।2.11.१३०।।
अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच ह।।
सर्वकालस्य वृत्तान्तं दुर्बोध्यमविपश्चिताम्।।१३१।।
श्रीकृष्ण उवाच ।।
गृहाण गंगां हे ब्रह्मन् हे विष्णो हे महेश्वर ।।
शृणु कालस्य वृत्तान्तं यदतीतं निशामय ।। १३२ ।।
यूयं च येऽन्यदेवाश्च मुनयो मनवस्तथा ।।
सिद्धास्तपस्विनश्चैव ये येऽत्रैव समागताः ।।१३३।।
ते ते जीवन्ति गोलोके कालचक्र विवर्जिते ।।
जलाप्लुतं सर्वविश्वमागतं प्राकृते लये ।। १३४ ।।
ब्रह्माद्या येऽन्यविश्वस्थास्ते लीना अधुना मयि ।।
वैकुण्ठं च विना सर्वं सजलं पश्य पद्मज ।। १३५ ।।
गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं परम् ।।
सब्रह्माण्डं विरचय पश्चाद्गङ्गा च यास्यति ।। १३६ ।।
एवमन्येषु विश्वेषु सृष्ट्वा ब्रह्मादिकं पुनः ।।
करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह ।। १३७ ।।
मच्चक्षुषोर्निमेषेण ब्रह्मणः पतनं भवेत् ।।
गताः कतिविधास्ते च भविष्यन्ति च वेधसः ।। १३८ ।।
इत्युक्त्वा राधिकानाथो जगामान्तःपुरं मुने ।।
देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्नतः ।।१३९।।
गोलोके च स्थिता गंगा वैकुण्ठे शिवलोकके।।
ब्रह्मलोके तथाऽन्यत्र यत्र तत्र पुरा स्थिता ।। 2.11.१४० ।।
तत्रैव सा गता गंगा चाज्ञया परमात्मनः ।।
निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता ।। १४१ ।।
इत्येवं कथितं सर्वं गंगोपाख्यानमुत्तमम् ।।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।। १४२ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे गंगोपाख्याने एकादशोऽध्यायः ।। ११ ।।