सामग्री पर जाएँ

ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः २३

विकिस्रोतः तः
← अध्यायः २२ ब्रह्मवैवर्तपुराणम्
अध्यायः २३
वेदव्यासः
अध्यायः २४ →

सौतिरुवाच ।।
स्रष्टा सृष्टिविधानेन नियोज्य सर्वबालकान् ।।
नारदं प्रेरयामास सृष्टिं कर्त्तुं च शौनक ।। १ ।।
हितं सत्यं वेदसारं परिणामसुखावहम् ।।
उवाच नारदं ब्रह्मा वेदवेदाङ्गपारगम् ।। २ ।।
ब्रह्मोवाच ।।
एहि वत्स कुलश्रेष्ठ नारद प्राणवल्लभ ।।
ज्ञानदीपशिखाज्ञानतिमिरक्षयकारक ।। ३ ।।
पूर्वेषामपि वन्द्यानां जनकः परमो गुरुः ।।
विद्यादाता मन्त्रदाता द्वौ समौ च पितुः परौ ।। ४ ।।
तवाहं जनकः पुत्र विद्यादाता च पालकः ।।
ममाज्ञया च मत्प्रीत्या कुरु दारपरिग्रहम् ।। ५ ।।
स च शिष्यः सोऽपि पुत्रो यश्चाज्ञां पालयेद्गुरोः ।।
न क्षेमं तस्य मूढस्य यो गुरोरवचस्करः ।। ६ ।।
स पण्डितः स च ज्ञानी स क्षेमी स च पुण्यवान् ।।
गुरोवर्चस्करो यो हि क्षेमं तस्य पदे पदे ।। ।। ७ ।।
सर्वेषामाश्रमाणां च प्रधानः पुण्यवान्गृही।।
स्त्रीपुत्रपौत्रयुक्तं च मन्दिरं तपसः फलम् ।। ८ ।।
पितरः पूर्वकाले च तिथिकाले च देवताः ।।
सर्वे गृहस्थमायान्ति निपानमिव धेनवः ।। ९ ।।
नित्यं नैमित्तिकं काम्यं कुर्वन्ति गृहिणः सदा ।।
इह एतत्सुखं पुण्यं स्वर्गभोगः परत्र च ।। 1.23.१० ।।
जीवन्मुक्तो गृहस्थश्च स्वधर्मपरिपालकः ।।
यशस्वी पुण्यवांश्चैव कीर्तिमान्धनवान्सुखी।। ११ ।।
यशस्वी कीर्तिमान्यो हि मृतो जीवति सन्ततम् ।।
यशःकीर्तिविहीनो हि जीवन्नपि मृतो हि सः ।।१२।।
ब्रह्मणो वचनं श्रुत्वा नारदो मुनिसत्तमः ।।
उवाच विनयं भीतः शुष्कण्ठौष्ठतालुकः।।१३।।
नारद उवाच।।
एकदा वाग्विरोधेन चोभयोस्तातपुत्रयोः ।।
हानिर्बभूव दैवेन महती वाऽयशस्करी ।। १४ ।।
मया प्राप्तं च त्वच्छापाद्गान्धर्वं शौद्रमेव च ।।
जन्म कर्म च मच्छापात्त्वमपूज्यो भवे भव ।। १५ ।।
बभूव शापो मुक्तो मे काले ते भविता विधे ।।
दोषाय कल्पते शश्वद्विरोधो न गुणाय च ।। १६ ।।
स पिता स गुरुर्बन्धुः स पुत्रः समधीश्वरः ।।
यः श्रीकृष्णपादपद्मे दृढां भक्तिं च कारयेत् ।।१७।।
असद्वर्त्मनि चाज्ञानाद्गच्छन्ति यदि बालकाः ।।
निवर्त्तयति तानेव स पिता करुणानिधिः ।। १८ ।।
कारयित्वा कृष्णपादे भक्तित्यागं च यः पिता ।।
अन्यस्मिन्विषये पुत्रं स किं हन्तुं प्रवर्त्तयेत् ।। १९ ।।
दारग्रहो हि दुःखाय केवलं न सुखाय च ।।
तपःस्वर्गभक्तिमुक्तिकर्मणां व्यवधायकः ।। 1.23.२० ।।
योषितस्त्रिविधा ब्रह्मन्गृहिणां मूढचेतसाम् ।।
साध्वी भोग्या च कुलटास्ताः सर्वाः स्वार्थतत्पराः।।२१।।
परलोकभिया साध्वी तथेह यशसाऽऽत्मनः ।।
कामस्नेहाच्च कुरुते भर्तुः सेवां च सन्ततम् ।। २२ ।।
भोग्या भोगार्थिनी शश्वत्कामस्नेहेन केवलम् ।।
कुरुते कान्तसेवा च न च भोगादृते क्षणम् ।। २३ ।।
वस्त्रालंकारसम्भोगसुस्निग्धाहारमुत्तमम् ।।
यावत्प्राप्नोति सा भोग्या तावच्च वशगा प्रिया ।। २४ ।।
कुलाङ्गारसमा नारी कुलटा कुलनाशिनी ।।
कपटात्कुरुते सेवां स्वामिनो न च भक्तितः ।। २५ ।।
सदा पुंयोगमाशंसुर्मनसा मदनातुरा।।
आहारादधिकं जारं प्रार्थयन्ती नवं नवम् ।। २६ ।।
जारार्थे स्वपतिं तात हन्तुमिच्छति पुंश्चली ।।
तस्यां यो विश्वसेन्मूढो जीवनं तस्य निष्फलम् ।। २७ ।।
कथिता योषितः सर्वा उत्तमाधममध्यमाः ।।
स्वात्मारामा विजानन्ति मनस्तासां न पण्डिताः ।। २८ ।।
हृदयं क्षुरधाराभं शरत्पद्मोत्सवं मुखम् ।।
सुधासमं सुमधुरं वचनं स्वार्थसिद्धये ।। २९ ।।
प्रकोपे विषतुल्यं च विश्वासे सर्वनाशनम् ।।
दुर्ज्ञेयं तदभिप्रायं निगूढं कर्म केवलम् ।। 1.23.३० ।।
सदा तासामविनयः प्रबलं साहसं परम् ।।
दोषोत्कर्षश्छलोत्कर्षः शश्वन्माया दुरत्यया ।। ३१ ।।
पुंसश्चाष्टगुणः कामः शश्वत्कामो जगद्गुरो ।।
आहारो द्विगुणो नित्यं नैष्ठुर्य्यं च चतुर्गुणम् ।।३२।।
कोपः पुंसः षड्गुणश्च व्यवसायश्च निश्चितम्।।
यत्रेमे दोषनिवहाः काऽऽस्था तत्र पितामह।।३३।।
का क्रीडा किं सुखं पुंसो विण्मूत्रमलवेश्मनि।।
तेजः प्रनष्टं सम्भोगे दिवालापे यशःक्षयः ।। ३४ ।।
धनक्षयोऽतिप्रीतौ चात्यासक्तौ च वपुःक्षयः।।
साहित्ये पौरुषं नष्टं कलहे माननाशनम् ।।
सर्वनाशश्च विश्वासे ब्रह्मन्नारीषु किं सुखम् ।। ३५ ।।
यावद्धनी च तेजस्वी सश्रीको योग्यतापरः ।।
पुमान्नारीं वशीकर्तुं समर्थस्तावदेव हि ।। ३६ ।।
रोगिणं निर्द्धनं वृद्धं योषिद्वै प्रेक्षतेऽप्रियम् ।।
लोकाचारभयात्तस्मै ददात्याहारमल्पकम् ।। ३७ ।।
इत्येवं कथितं सर्वं ब्रह्मन्नात्मागमो यथा ।।
सर्वं जानासि सर्वज्ञ स्वात्मारामेश्वरो भवान् ।। ३८ ।।
अनुग्रहं कुरु विभो विदायं देहि साम्प्रतम् ।।
कृष्णभक्तिं प्रार्थयामि त्वयि कल्पतरोः परे ।। ३९ ।।
इत्युक्त्वा नारदस्तत्र धृत्वा तातपदाम्बुजम् ।।
आज्ञां ययाचे पितरं गन्तु तपसि मङ्गले ।। 1.23.४० ।।
कृताञ्जलिपुटो भूत्वा भक्तिनम्रात्मकन्धरः।।
कृत्वा प्रदक्षिणं नत्वा ब्रह्माणं गन्तुमुद्यतः ।। ४१ ।।
गच्छन्तं तनयं दृष्ट्वा विधाता जगतां मुने ।।
रुरोदोच्चैर्मुक्तकण्ठं महासांसारिको यथा ।। ४२ ।।
करे धृत्वा समालिङ्ग्य चुचुम्ब च पुनः पुनः ।।
चिरं वक्षसि कृत्वा च वासयामास जानुनि ।। ४३ ।।
स्वात्मारामेश्वरो ब्रह्मा योगीन्द्राणां गुरोर्गुरुः ।।
भेद सोढुं न शक्तोऽभूद्विच्छेदो दुःसहो नृणाम् ।। ४४ ।।
कातरः पुत्रभेदेन मोहितो विष्चुमायया।।
शोकार्त्तो वक्तुमारेभे सुतं सम्बोध्य शौनक ।। ४५ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे ब्रह्मनारदसंवादे त्रयोविंशतितमोऽध्यायः ।। २३ ।।