ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः २२

विकिस्रोतः तः
← अध्यायः २१ ब्रह्मवैवर्तपुराणम्
अध्यायः २२
वेदव्यासः
अध्यायः २३ →

सौतिरुवाच ।।
कति कल्पान्तरेऽतीते स्रष्टुः सृष्टि विधौ पुनः ।।
मरीचिमिश्रैमुनिभिः सार्द्धं कण्ठाद्बभूव सः।।१।।
विधेर्नारदनाम्नश्च कण्ठदेशाद्बभूव सः ।।
नारदश्चेति विख्यातो मुनीन्दस्तेन हेतुना ।। २ ।।
यः पुत्रश्चेतसो धातुर्बभूव मुनिपुंगवः ।।
तेन प्रचेता इति च नाम चक्रे पितामहः ।। ३ ।।
बभूव धातुर्यः पुत्रः सहसा दक्षपार्श्वतः ।।
सर्वकर्माणि दक्षश्च तेन दक्षः प्रकीर्तितः ।। ४ ।।
वेदेषु कर्दमः शब्दश्छायायां वर्त्तते स्फुटः ।।
बभूव कर्दमाद्वालः कर्दमस्तेन कीर्त्तितः ।। ५ ।।
तेजोभेदे मरीचिश्च वेदेषु वर्त्तते स्फुटम् ।।
जातः सद्योऽतितेजस्वी मरीचिस्तेन कीर्तितः ।। ६ ।।
क्रतुसंघश्च बालेन कृतो जन्मान्तरेऽधुना ।।
ब्रह्मपुत्रेऽपि तन्नाम क्रतुरित्यभिधीयते ।। ७ ।।
प्रधानाङ्गमुखं धातुस्ततो जातश्च बालकः ।।
इरस्तेजस्विवचनोऽप्यङ्गिरास्तेन कीर्त्तितः ।। ८ ।।
अतितेजस्विनि भृगुर्वर्त्तते नाग्नि शौनक ।।
जातः सद्योऽतितेजस्वी भृगुस्तेन प्रकीर्त्तितः ।। ९ ।।
बालोऽप्यरुणवर्णश्च जातः सद्योऽतितेजसा ।।
प्रज्वलन्नूर्ध्वतपसा चारुणिस्तेन कीर्त्तितः।। 1.22.१० ।।
हंसा आत्मवशा यस्य योगेन योगिनो धुवम् ।।
बालः परमयोगीन्द्रस्तेन हंसी प्रकीर्त्तितः ।। ११ ।।
वशीभूतश्च शिष्यश्च जातः सद्यो हि बालकः ।।
अतिप्रियश्च धातुश्च वशिष्ठस्तेन कीर्त्तितः ।। १२ ।।
सन्ततं यस्य यत्नं च तपःसु बालकस्य च ।।
प्रकीर्त्तितो यतिस्तेन संयतः सर्वकर्मसु ।।
पुलस्तपःसु वेदेषु वर्त्ततेऽहः स्फुटेऽपि च ।। १३ ।।
स्फुटस्तपःसमूहश्च पुलहस्तेन बालकः ।।
पुलस्तपः समूहश्च यस्यास्ति पूर्वजन्मनाम् ।।
तपःसंघस्वरूपश्च पुलस्त्यस्तेन बालकः ।। १४ ।।
त्रिगुणायां प्रकृत्यां त्रिर्विष्णावश्च प्रवर्त्तते ।।
तयोभक्तिः समा यस्य तेन बालोऽत्रिरुच्यते ।। १५ ।। अत्रि शब्दोपरि टिप्पणी
जटा वह्निशिखारूपाः पञ्च सन्ति च मस्तके ।।
तपस्तेजोभवा यस्य स च पञ्चशिखः स्मृतः ।। १६ ।।
अपान्तरतमे देशे तपस्तेपेऽन्यजन्मनि ।।
अपान्तरतमा नाम शिशोस्तेन प्रकीर्तितम् ।। १७ ।।
स्वयं तपः समाप्नोति वाहयेत्प्रापयेत्परान् ।।
वोढुं समर्थस्तपसि वोढुस्तेन प्रकीर्तितः ।।१८।।
तपसस्तेजसा बालो दीप्तिमान्सततं मुने ।।
तपःसु रोचते चित्तं रुचिस्तेन प्रकीर्तितः ।। १९ ।।
कोपकाले बभूवुर्ये स्रष्टुरेकादश स्मृताः ।।
रोदनादेव रुद्राश्च कोपितास्तेन हेतुना।।1.22.२०।।
शौनक उवाच ।।
रुद्रेष्वेकतमो बालो महेश इति मे भ्रमः ।।
भवान्पुराणतत्त्वज्ञः सन्देहं छेत्तुमर्हति।।२१।।
सौतिरुवाच ।।
विष्णुः सत्त्वगुणः पाता ब्रह्मा स्रष्टा रजोगुणः।।
तमोगुणास्ते रुद्राश्च दुर्निवारा भयंकराः ।। २२ ।।
कालाग्निरुद्रः संहर्त्ता तेष्वेकः शंकरांशकः ।।
शुद्धसत्त्वस्वरूपश्च शिवश्च शिवदः सताम् ।। २३ ।।
अन्ये कृष्णस्य च कलास्तावंशौ विष्णुशंकरौ ।।
समौ सत्त्वस्वरूपौ द्वौ परिपूर्णतमस्य च ।। २४ ।।
उक्तं रुद्रोद्भवे काले कथं विस्मरति द्विज ।।
मायया मोहिताः सर्वे मुनीनां च मतिभ्रमः ।। २५ ।।
सनकश्च सनंदश्च तृतीयश्च सनातनः ।।
सनत्कुमारो भगवांश्चतुर्थो ब्रह्मणः सुतः ।। २६ ।।
ब्रह्मा स्रष्टुं पूर्वपु्त्रानुवाच ते न सेहिरे ।।
तेन प्रकोपितो धाता रुद्राः कोपोद्भवा मुने ।। २ ।।
सनकश्च सनन्दश्च तौ द्वावानन्दवाचकौ ।।
आनन्दितौ च बालौ द्वौ भक्तिपूर्णतमौ सदा ।। २८ ।।
सनातनश्च श्रीकृष्णो नित्यः पूर्णतमः स्वयम् ।।
तद्भक्तस्तत्समः सत्यं तेन बालः सनातनः ।। २९ ।।
सनत्तु नित्यवचनः कुमारः शिशुवाचकः ।।
सनत्कुमारं तेनेममुवाच कमलोद्भवः ।। 1.22.३० ।।
ब्रह्मणो बालकानां च व्युत्पत्तिः कथिता मुने ।।
साम्प्रतं नारदाख्यानं श्रूयतां च यथाक्रमम्।। ३१ ।।

इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे ब्रह्मपुत्रव्युत्पत्तिकथनं नाम द्वाविंशतितमोऽध्यायः ।। २२ ।।