बृहद्यात्रा/अध्यायः २९
दिखावट
← अध्यायः २८ | बृहद्यात्रा अध्यायः २९ |
अध्यायः ३० → |
अध्यायः - २९ निवेश
[सम्पाद्यताम्]स्निग्धा स्थिरा सुरभिगुल्मलता सुगन्धा शस्ता प्रदक्षिणजला च निवासभूमिः।
नेष्टा विपर्ययगुणा कचशर्करास्थिवल्मीककण्टकविभीतकसङ्कुला च॥
गत्वालयं सुरगुरुद्विजसाधुमित्रतीर्थेतिहासजयपुण्यकथासु तिष्ठेत्।
हत्वा पशुं रिपुगृहाकृतम् उद्यमे च प्रास्याथ वान्नमयम् अस्य विधाय रूपम्॥
एकत्राध्युषितस्यात्रिगौतमच्यवना जगुः।
यात्रां त्रिपञ्चसप्ताहात् पुनर्भद्रेण योजयेत्॥
तच् चायुक्तम् इति प्राहुर् होराशास्त्रविदो जनाः।
वांछितार्थफलावाप्तौ यात्रा परिसमाप्यते॥E४