बृहत्संहिता/अध्यायः ७६

विकिस्रोतः तः
← अध्यायः ७५ बृहत्संहिता
अध्यायः ७६
वराहमिहिरः
अध्यायः ७७ →

७६ गन्धयुक्त्यध्यायः ।।

 स्रग्गन्धधूपाम्बरभूषणऽद्यं न शोभते शुक्लशिरोरुहस्य ।
 यस्मादतो मूर्धजरागसेवां कुर्याद्यथएवाञ्जनभूषणानाम् ।। ७६.०१ ।।

लौहे पात्रे तण्डुलान्कोद्रवाणां
शुक्ले पक्वांल्लोहचूर्णेन साकम् ।
पिष्टान्सूक्ष्मं मूर्ध्नि शुक्लाम्लकेशे
दत्वा[क्.दत्त्वा] तिष्ठेद्वेष्टयित्वाआर्द्र[क्.अर्क]पत्रैः ।। ७६.०२ ।।

याते द्वितीये प्रहरे विहाय
दद्यात्शिरस्यामलकप्रलेपम् ।
संछाद्य पत्रैः प्रहरद्वयेन
प्रक्षालितं कार्ष्ण्यं उपैति शीर्षम् ।। ७६.०३ ।।

पश्चात्शिरःस्नानसुगन्धतैलैर्
लोहाम्लगन्धं शिरसो +अपनीय ।
हृद्यैश्च गन्धैर्विविधैश्च धूपैर्
अन्तःपुरे राज्यसुखं निषेवेत् ।। ७६.०४ ।।

 त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैस्तुल्यैः ।
 केसरपत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम् ।। ७६.०५ ।।

 मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः ।
 तैलेन युक्तो +अर्कमयूखतप्तः करोति तच्चम्पकगन्धि तैलम् ।। ७६.०६ ।।

तुल्यैः पत्रतुरुष्कबालतगरैर्गन्धः स्मरोद्दीपनः
सव्यामो बकुलो +अयं एव कटुकाहिङ्गुप्रधूपान्वितः ।
कुष्ठेनौत्पलगन्धिकः समलयः पूर्वो भवेच्चम्पको
जातीत्वक्सहितो +अतिमुक्तक इति ज्ञेयः सकुस्तुम्बुरुः ।। ७६.०७ ।।

 शतपुष्पाकुन्दुरुकौ पादेनार्धेन नखतुरुष्कौ च ।
 मलयप्रियङ्गु*भागौ[क्ऽस्त्र्. भागो] गन्धो धूप्यो गुडनखेन ।। ७६.०८ ।।

 गुग्गुलुबालक[क्.वालक]लाक्षामुस्तानखशर्कराः क्रमाद्धूपः ।
 अन्यो मांसीबालक[क्.वालक]तुरुष्कनखचन्दनैः पिण्डः ।। ७६.०९ ।।

हरीतकीशङ्खघनद्रवाम्बुभिर्
गुडौत्पलैः शैलकमुस्तकान्वितैः ।
नवान्तपादऽदिविवर्धितैः क्रमाद्
भवन्ति धूपा बहवो मनोहराः ।। ७६.१० ।।

भागैश्चतुर्भिः सितशैल[ऊ.शैलेय]मुस्ताः
श्रीसर्जभागौ नखगुग्गुलू च ।
कर्पूरबोधो मधुपिण्डितो +अयं
कोपच्छदो नाम नरेन्द्रधूपः ।। ७६.११ ।।

 त्वगुशीरपत्रभागैः सूक्ष्मैलाअर्धेन संयुतैश्चूर्णः ।
 पुटवासः[क्.पटवासः] प्रवरो +अयं मृगकर्पूरप्रबोधेन ।। ७६.१२ ।।

 घनबालकशैलेयककर्पूरौशीरनागपुष्पाणि ।
 व्याघ्रनखस्पृक्काअगुरु*दमनक[ऊ.मदनक]नखतगरधान्यानि ।। ७६.१३ ।।

 कर्पूर[क्ऽस्त्र्. कर्चूर]चोल[क्.चोर]मलयैः स्वेच्छापरिवर्तितैश्चतुर्भिरतः ।
 एकद्वित्रिचतुर्भिर्भागैर्गन्धार्णवो भवति ।। ७६.१४ ।।

 अत्युल्बणगन्धत्वादेकांशो नित्यं एव धान्यानाम् ।
 कर्पूरस्य तदूनो नैतौ द्वित्र्यादिभिर्देयौ ।। ७६.१५ ।।

 श्रीसर्जगुडनखैस्ते धूपयितव्याः क्रमान्न पिण्डस्थैः ।
 बोधः कस्तूरिकया देयः कर्पूरसंयुतया ।। ७६.१६ ।।

 अत्र सहस्रचतुष्टयं अन्यानि च सप्ततिसहस्राणि ।
 लक्षं शतानि सप्त विंशतियुक्तानि गन्धानाम् ।। ७६.१७ ।।

 एकैकं एकभागं द्वित्रिचतुर्भागिकैर्युतं द्रव्यैः ।
 षड्गन्धकरं तद्वद्द्वित्रिचतुर्भागिकं कुरुते ।। ७६.१८ ।।

 द्रव्यचतुष्टययोगाद्गन्धचतुर्विंशतिर्यथाएकस्य ।
 एवं शेषाणां अपि षण्णवतिः सर्वपिण्डो +अत्र ।। ७६.१९ ।।

 षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम् ।
 अष्टादश जायन्ते शतानि सहितानि विंशत्या ।। ७६.२० ।।

 षण्णवतिभेदभिन्नश्चतुर्विकल्पो गणो यतस्तस्मात् ।
 षण्णनवतिगुणः कार्यः सा सङ्ख्या भवति गन्धानाम् ।। ७६.२१ ।।

पूर्वेण पूर्वेण गतेन युक्तं
स्थानं विनान्त्यं प्रवदन्ति सङ्ख्याम् ।
इच्छाविकल्पैः क्रमशो +अभिनीय
नीते निवृत्तिः पुनरन्यनीतिः ।। ७६.२२ ।।

 द्वित्रिइन्द्रियाष्टभागैरगुरुः पत्रं तुरुष्कशैलेयौ
 विषयाष्टपक्षदहनाः प्रियङ्गुमुस्तारसाः केशः ।। ७६.२३ ।।

 स्पृक्कात्वक्तगराणां मांस्याश्च कृतएकसप्तषड्भागाः ।
 सप्तऋतुवेदचन्द्रैर्मलयनखश्रीककुन्दुरुकाः ।। ७६.२४ ।।

 षोडशके कच्छपुटे यथा तथा *मिश्रिते चतुर्द्रव्ये[क्.मिश्रितैश्चतुर्द्रव्यैः] ।
 ये +अत्राष्टादश भागास्ते +अस्मिन्गन्धादयो योगाः ।। ७६.२५ ।।

 नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतौब्दोधाः[ऊ.उद्बोधाः] ।
 गुडनखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः ।। ७६.२६ ।।

 जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः ।
 बहवो +अत्र पारिजाताश्चतुर्भिरिच्छापरिगृहीतैः ।। ७६.२७ ।।

 सर्जरसश्रीवासकसमन्विता ये +अत्र सर्वधूपास्[क्.सर्वयोगास्] तैः ।
 श्रीसर्जरसवियुक्तैः स्नानानि सबालक[क्.सवालक]त्वग्भिः ।। ७६.२८ ।।

 रोध्रौशीरनतागुरु*मुस्तापत्र[क्.मुस्ता]प्रियङ्गुवनपथ्याः ।
 नवकोष्ठात्कच्छपुटाद्द्रव्यत्रितयं समुद्धृत्य ।। ७६.२९ ।।

 चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा ।
 कटुहिङ्गुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः ।। ७६.३० ।।

 सप्ताहं गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा ।
 गन्धोदके च भूयो विनिक्षिपेद्दन्तकाष्ठानि ।। ७६.३१ ।।

 एलात्वक्पत्राञ्जनमधुमरिचैर्नागपुष्पकुष्ठैश्च ।
 गन्धाम्भः कर्तव्यं किञ् चित्कालं स्थितान्यस्मिन् ।। ७६.३२ ।।

 जातीफलपत्रएलाकर्पूरैः कृतयमएकशिखिभागैः ।
 अवचूर्नितानि भानोर्मरीचिभिः शोषणीयानि ।। ७६.३३ ।।

वर्णप्रसादं वदनस्य कान्तिं
वैशद्यं आस्यस्य सुगन्धितां च ।
संसेवितुः श्रोत्रसुखां च वाचं
कुर्वन्ति काष्ठान्यसकृद्भवानाम् ।। ७६.३४ ।।

कामं प्रदीपयति रूपं अभिव्यनक्ति
सौभाग्यं आवहति वक्त्रसुगन्धितां च ।
ऊर्जं करोति कफजांश्च निहन्ति रोगांस्
ताम्बूलं एवं अपरांश्च गुणान्करोति ।। ७६.३५ ।।

युक्तेन चूर्णेन करोति रागं
रागक्षयं पूगफलातिरिक्तम् ।
चूर्णाधिकं वक्त्रविगन्धकारि
पत्राधिकं साधु करोति गन्धम् ।। ७६.३६ ।।

पत्राधिकं निशि हितं सफलं दिवा च
प्रोक्तान्यथाकरणं अस्य विडम्बनैव ।
कक्कोलपूगलवलीफलपारिजातैर्
आमोदितं मदमुदा मुदितं करोति ।। ७६.३७ ।।