बृहत्संहिता/अध्यायः ७७

विकिस्रोतः तः
← अध्यायः ७६ बृहत्संहिता
अध्यायः ७७
वराहमिहिरः
अध्यायः ७८ →

७७ स्त्रीपुंससमायोगाध्यायः ।।

 शस्त्रेन वेणीविनिगूहितेन विदूरथं स्वा महिषी जघान ।
 विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ।। ७७.०१ ।।

एवं विरक्ता जनयन्ति दोषान्
प्राणच्छिदो +अन्यैरनुकीर्तितैः किम् ।
रक्ताविरक्ताः पुरुषैरतो +अर्थात्
परीक्षितव्याः प्रमदाः प्रयत्नात् ।। ७७.०२ ।।

स्नेहं मनोभवकृतं कथयन्ति भावा
नाभीभुजस्तनविभूषणदर्शनानि ।
वस्त्राभिसंयमनकेशविमोक्षणानि
भ्रूक्षेपकम्पितकटाक्षनिरीक्षणानि ।। ७७.०३ ।।

उच्चैः ष्ठीवनं उत्कटप्रहसितं शय्याआसनौत्सर्पणं
गात्रऽस्फोटनजृम्भणानि सुलभद्रव्याल्पसम्प्रार्थना ।
बालऽलिङ्गनचुम्बनान्यभिमुखे सख्याः समालोकनं
दृक्पातश्च पराङ्मुखे गुणकथा कर्णस्य कण्डूयनम् ।। ७७.०४ ।।

इमां च विन्द्यादनुरक्तचेष्टां
प्रियाणि वक्ति स्वधनं ददाति ।
विलोक्य संहृष्यति वीतरोषा
प्रमार्ष्टि दोषान्गुणकीर्तनेन ।। ७७.०५ ।।

तन्मित्रपूजा तदरिद्विषत्वं
कृतस्मृतिः प्रोषितदौर्मनस्यम् ।
स्तनओष्ठदानान्युपगूहनं च
स्वेदो +अथ चुम्बाप्रथमाभियोगः ।। ७७.०६ ।।

विरक्तचेष्टा भ्रुकुटी[क्.भृकुटी]मुखत्वं
पराङ्मुखत्वं कृतविस्मृतिश्च ।
असम्भ्रमो दुष्परितोषता च
तद्द्विष्टमैत्री परुषं च वाक्यम् ।। ७७.०७ ।।

स्पृष्ट्वाअथ वाआलोक्य धुनोति गात्रं
करोति गर्वं न रुणद्धि यान्तम् ।
चुम्बाविरामे वदनं प्रमार्ष्टि
पश्चात्समुत्तिष्ठति पूर्वसुप्ता ।। ७७.०८ ।।

 भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका रजिका ।
 मालाकारी दुष्टाङ्गना सखी नापिती दूत्यः ।। ७७.०९ ।।

 कुलजनविनाशहेतुर्दूत्यो यस्मादतः प्रयत्नेन ।
 ताभ्यः स्त्रियो +अभिरक्ष्या वंशयशोमानवृद्ध्यर्थम् ।। ७७.१० ।।

 रात्रीविहारजागररोगव्यपदेशपरगृहईक्षणिकाः ।
 व्यसनौत्सवाश्च सङ्केतहेतवस्तेषु रक्ष्याश्च ।। ७७.११ ।।

आदौ नैच्छति नौज्झति स्मरकथां व्रीडाविमिश्रऽलसा
मध्ये ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रऽनना ।
भावैर्नएकविधैः करोत्यभिनयं भूयश्च या सादरा
बुद्ध्वा पुम्प्रकृतिं च याअनुचरति ग्लानेतरैश्चेष्टितैः ।। ७७.१२ ।।

स्त्रीणां गुणा यौवनरूपवेष
दाक्षिण्यविज्ञानविलासपूर्वाः ।
स्त्री रत्नसंज्ञा च गुणान्वितासु
स्त्रीव्याधयो +अन्याश्चतुरस्य पुंसः ।। ७७.१३ ।।

न ग्राम्यवर्णैर्मलदिग्धकाया
निन्द्याङ्गसंबन्धिकथां च कुर्यात् ।
न चान्यकार्यस्मरणं रहःस्था
मनो हि मूलं हरदग्धमूर्तेः ।। ७७.१४ ।।

 श्वासं मनुष्येण समं त्यजन्ती बाहुउपधानस्तनदानदक्षा ।
 सुगन्धकेशा सुसमीपरागा सुप्ते +अनुसुप्ता प्रथमं विबुद्धा ।। ७७.१५ ।।

 दुष्टस्वभावाः परिवर्जनीया विमर्दकालेषु च न क्षमा याः ।
 यासां असृग्वाअसितनीलपीतं आताम्रवर्णं च न ताः प्रशस्ताः ।। ७७.१६ ।।

 या स्वप्नशीला बहुरक्तपित्ता प्रवाहिनी वातकफातिरक्ता[क्.अतिरिक्ता] ।
 महाशना स्वेदयुताङ्गदुष्ठा या ह्रस्वकेशी पलितान्विता वा[क्.च] ।। ७७.१७ ।।

मांसानि यस्याश्च चलन्ति नार्या
महोदरा खिक्खिमिनी च या स्यात् ।।
स्त्रीलक्षणे याः कथिताश्च पापास्
ताभिर्न कुर्यात्सह कामधर्मम् ।। ७७.१८ ।।

 शशशोणितसङ्काशं लाक्षारससन्निकाशं अथवा यत् ।
 प्रक्षालितं विरज्यति यच्चासृक्तद्भवेत्शुद्धम् ।। ७७.१९ ।।

 यच्छब्दवेदनावर्जितं त्र्यहात्सन्निवर्तते रक्तम् ।
 तत्पुरुषसम्प्रयोगादविचारं गर्भतां याति ।। ७७.२० ।।

 न दिनत्रयं निषेव्यं[क्.निषेवेत्] स्नानं माल्यानुलेपनं *स्त्रीभिः[क्.च स्त्री] ।
 स्नायाच्चतुर्थदिवसे शास्त्रौक्तेनौपदेशेन ।। ७७.२१ ।।

 पुष्यस्नानओषधयो याः कथितास्ताभिरम्बुमिश्राभिः ।
 स्नायात्तथात्र मन्त्रः स एव यस्तत्र निर्दिष्टः ।। ७७.२२ ।।

 युग्मासु किल मनुष्या निशासु नार्यो भवन्ति विषमासु ।
 दीर्घायुषः सुरूपाः सुखिनश्च विकृष्टयुग्मासु ।। ७७.२३ ।।

 दक्षिणपार्श्वे पुरुषो वामे नारी यमावुभयसंस्थौ ।।
 यदुदरमध्यौपगतं नपुंसकं तन्निबोद्धव्यम् ।। ७७.२४ ।।

केन्द्रत्रिकोणेषु शुभस्थितेषु
लग्ने शशाङ्के च शुभैः समेते ।
पापैस्त्रिलाभारिगतैश्च यायात्
पुंजन्मयोगेषु च सम्प्रयोगम् ।। ७७.२५ ।।

न नखदशनविक्षतानि कुर्याद्
ऋतुसमये पुरुषः स्त्रियाः कथञ् चित् ।
ऋतुरपि दश षट्च वासराणि
प्रथमनिशात्रितयं न तत्र गम्यम् ।। ७७.२६ ।।