बृहत्संहिता/अध्यायः ५६

विकिस्रोतः तः
← अध्यायः ५५ बृहत्संहिता
अध्यायः ५६
वराहमिहिरः
अध्यायः ५७ →

५६ वज्रलेपलक्षणाध्यायः ।।

 आमं तिन्दुकं आमं कपित्थकं पुष्पं अपि च शाल्मल्याः ।
 बीजानि शल्लकीनां धन्वनवल्को वचा चैति ।। ५६.०१ ।।

 एतैः सलिलद्रोणः क्वाथयितव्यो +अष्टभागशेषश्च ।
 अवतार्यो +अस्य च कल्को द्रव्यैरेतैः समनुयोज्यः ।। ५६.०२ ।।

 श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूकसर्जरसैः ।
 अतसीबिल्वैश्च युतः कल्को +अयं वज्रलेपऽख्यः ।। ५६.०३ ।।

 प्रासादहर्म्यवलभीलिङ्गप्रतिमासु कुड्यकूपेषु ।
 सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी ।। ५६.०४ ।।

 लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थबिल्वमध्यानि ।
 नाग*फलनिम्ब[क्.बलाफल]तिन्दुकमदनफलमधूकमञ्जिष्ठाः ।। ५६.०५ ।।

 सर्जरसरसऽमलकानि चैति कल्कः कृतो द्वितीयो +अयम् ।
 वज्राख्यः प्रथमगुणैरयं अपि तेष्वेव कार्येषु ।। ५६.०६ ।।

 गोमहिषाजविषाणैः खररोम्णा महिषचर्मगव्यैश्च ।
 निम्बकपित्थरसैः सह वज्रतलो[क्.वज्रतरो] नाम कल्को +अन्यः ।। ५६.०७ ।।

 अष्टौ सीसकभागाः कांसस्य द्वौ तु रीतिकाभागः ।
 मयकथितो योगो +अयं विज्ञेयो वज्रसङ्घातः ।। ५६.०८ ।।