बृहत्संहिता/अध्यायः ५५

विकिस्रोतः तः
← अध्यायः ५४ बृहत्संहिता
अध्यायः ५५
वराहमिहिरः
अध्यायः ५६ →

५५ प्रासादलक्षणाध्यायः ।।

 कृत्वा प्रभूतं सलिलं आरामान्विनिवेश्य च ।
 देवताआयतनं कुर्याद्यशोधर्माभिवृद्धये ।। ५५.०१ ।।

 इष्टापूर्तेन लभ्यन्ते ये लोकास्तान्बुभूषता ।
 देवानां आलयः कार्यो द्वयं अपि अत्र दृश्यते ।। ५५.०२ ।।

 सलिलौद्यानयुक्तेषु कृतेष्वकृतेषु च ।
 स्थानेष्वेतेषु सान्निध्यं उपगच्छन्ति देवताः ।। ५५.०३ ।।

 सरःसु नलिनीछत्रनिरस्तरविरश्मिषु ।
 हंसांसऽक्षिप्तकह्लारवीथी[क्.वीची, क्ऽस्त्र्. वीथी]विमलवारिषु ।। ५५.०४ ।।

 हंसकारण्डवक्रौञ्चचक्रवाकविराविषु ।
 पर्यन्तनिचुलच्छायाविश्रान्तजलचारिषु ।। ५५.०५ ।।

 क्रौञ्चकाञ्चीकलापाश्च कलहंसकलस्वराः[क्.स्वनाः] ।
 नद्यस्तोयांशुका यत्र शफरीकृतमेखलाः ।। ५५.०६ ।।

 फुल्लतीरद्रुमौत्तंसाः सङ्गमश्रोणिमण्डलाः ।
 पुलिनाभ्युन्नतौरस्या हंसवासाश्[क्.हंसहासाश्] च निम्नगाः ।। ५५.०७ ।।

 वनौपान्तनदीशैलनिर्झरौपान्तभूमिषु ।
 रमन्ते देवता नित्यं पुरेषुउद्यानवत्सु च ।। ५५.०८ ।।

 भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि ।
 ता एव तेषां शस्यन्ते देवताआयतनेष्वपि ।। ५५.०९ ।।

 चतुःषष्टिपदं कार्यं देवताआयतनं सदा ।
 द्वारं च मध्यमं तस्मिन्[क्.तत्र] समदिक्स्थं प्रशस्यते ।। ५५.१० ।।

 यो विस्तारो भवेद्यस्य द्विगुणा तत्समुन्नतिः ।
 उच्छ्रायाद्यस्तृतीयांशस्तेन तुल्या *कटिः स्मृता[क्.कटिर्भवेत्] ।। ५५.११ ।।

 विस्तारार्धं भवेद्गर्भो भित्तयो +अन्याः समन्ततः ।
 गर्भपादेन विस्तीर्णं द्वारं द्विगुणं उच्छ्रितम् ।। ५५.१२ ।।

 उच्छ्रायात्पादविस्तीर्णा शाखा तद्वदुदुम्बरः ।
 विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम् ।। ५५.१३ ।।

 त्रिपञ्चसप्तनवभिः शाखाभिस्तत्प्रशस्यते ।
 अधः शाखाचतुर्भागे प्रतीहारौ निवेशयेत् ।। । ५५.१४ ।।

 शेषं मङ्गल्यविहगैः *श्रीवृक्षैः स्वस्तिकैर्[क्.श्रीवृक्षस्वस्तिकैर्] घटैः ।
 मिथुनैः पत्रवल्लीभिः प्रमथैश्चौपशोभयेत् ।। ५५.१५ ।।

 द्वारमानाष्टभागऊना प्रतिमा स्यात्सपिण्डिका ।
 द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ।। ५५.१६ ।।

 मेरुमन्दरकैलासविमानच्छन्दनन्दनाः ।
 समुद्गपद्मगरुडनन्दिवर्धनकुञ्जराः ।। ५५.१७ ।।

 गुहराजो वृषो हंसः सर्वतोभद्रको घटः ।
 सिंहो वृत्तश्चतुष्कोणः षोडशाष्टाश्रयस्तथा ।। ५५.१८ ।।

 इत्येते विंशतिः प्रोक्ताः प्रासादाः संज्ञया मया ।
 यथोक्तानुक्रमेणएव लक्षणानि वदाम्यतः ।। ५५.१९ ।।

 तत्र षडश्रिर्मेरुर्द्वादशभौमो विचित्रकुहरश्च ।
 द्वारैर्युतश्चतुर्भिर्द्वात्रिंशद्धस्तविस्तीर्णः ।। ५५.२० ।।

 त्रिंशद्धस्तऽयामो दशभौमो मन्दरः शिखरयुक्तः ।
 कैलासो +अपि शिखरवानष्टाविंशो +अष्टभौमश्च ।। ५५.२१ ।।

 जालगवाक्षकयुक्तो विमानसंज्ञस्त्रिसप्तकऽयामः ।
 नन्दन इति षड्भौमो द्वात्रिंशः षोडशाण्डयुक्तः ।। ५५.२२ ।।

 वृत्तः समुद्गनामा पद्मः पद्मऽकृतिः शया अष्टौ[क्.शयानाष्टौ] ।
 शृङ्गेणएकेन भवेदेकएव च भूमिका तस्य ।। ५५.२३ ।।

 गरुडऽकृतिश्च गरुडो नन्दीइति च षट्चतुष्कविस्तीर्णः ।
 कार्यस्तु[क्.च] सप्तभौमो विभूषितो +अण्डैस्तु[क्.च] विंशत्या ।। ५५.२४ ।।

 कुञ्जर इति गजपृष्ठः षोडशहस्तः समन्ततो मूलात् ।
 गुहराजः षोडशकस्त्रिचन्द्रशाला भवेद्वलभी ।। ५५.२५ ।।

 वृष एकभूमिशृङ्गो द्वादशहस्तः समन्ततो वृत्तः ।
 हंसो हंसऽकारो घटो +अष्टहस्तः कलशरूपः ।। ५५.२६ ।।

 द्वारैर्युतश्चतुर्भिर्बहुशिखरो भवति सर्वतोभद्रः ।
 बहुरुचिरचन्द्रशालः षड्विंशः पञ्चभौमश्च ।। ५५.२७ ।।

 सिंहः सिंहऽक्रान्तो द्वादशकोणो +अष्टहस्तविस्तीर्णः ।
 चत्वारो +अञ्जनरूपाः पञ्चाण्डयुतस्तु चतुरस्रः[क्.चतुरश्रः] ।। ५५.२८ ।।

 भूमिकाअङ्गुलमानेन मयस्याष्टोत्तरं शतम् ।
 सार्धं हस्तत्रयं चएव कथितं विश्वकर्मणा ।। ५५.२९ ।।

 प्राहुः स्थपतयश्चात्र मतं एकं विपश्चितः ।
 कपोतपालिसंयुक्ता न्यूना गच्छन्ति तुल्यताम् ।। ५५.३० ।।

प्रासादलक्षणं इदं कथितं समासाद्
गर्गेण यद्विरचितं तदिहास्ति सर्वम् ।
मनुआदिभिर्विरचितानि पृथूनि यानि
तत्संस्पृशन्[क्.तत्संस्मृतिं] प्रति मयाअत्र कृतो +अधिकारः ।। ५५.३१ ।।