सामग्री पर जाएँ

बृहत्संहिता/अध्यायः १०३

विकिस्रोतः तः
← अध्यायः १०२ बृहत्संहिता
अध्यायः १०३
वराहमिहिरः
अध्यायः १०४ →

१०३ ग्रहगोचराध्यायः ।।

 प्रायेण सूत्रेण विनाकृतानि प्रकाशरन्ध्राणि चिरन्तनानि ।
 रत्नानि शास्त्राणि च योजितानि नवैर्गुणैर्भूषयितुं क्षमाणि ।। १०३.०१ ।।

 प्रायेण गोचरो व्यवहार्यो +अतस्तत्फलानि वक्ष्यामि ।
 नानावृत्तैरार्या[क्.तन्नो] मुखचपलत्वं *क्षमध्वं नः [क्.क्षमन्त्वार्याः] ।। १०३.०२ ।।

 माण्डव्यगिरं श्रुत्वा न मदीया रोचते +अथ वा नैवम् ।
 साध्वी तथा न पुंसां प्रिया यथा स्याज्जघनचपला ।। १०३.०३ ।।

सूर्यः षट्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमा
जीवः सप्तनवद्विपञ्चमगतो वक्रार्कजौ षट्त्रिगौ ।
सौम्यः षड्द्विचतुर्दशाष्टमगतः सूर्ये[क्.ऊ.सर्वे] +अप्युपान्ते शुभाः
शुक्रः सप्तमषड्दशऋक्षसहितः शार्दूलवत्त्रासकृत् ।। १०३.०४ ।।

जन्मन्यायासदो +अर्कः क्षपयति विभवान्कोष्ठरोगाध्वदाता
वित्तभ्रंशं द्वितीये दिशति च न सुखं वञ्चनां दृग्रुजं च ।
स्थानप्राप्तिं तृतीये *धननिचयमुदा कल्यकृच्[क्.धननिचयमुदाकल्यकृच्] चारिहर्ता[क्.हन्ता]
रोगान्दत्ते[क्.धत्ते] चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ।। १०३.०५ ।।

पीडाः स्युः पञ्चमस्थे सवितरि बहुशो रोगारिजनिताः
षष्ठे +अर्को हन्ति रोगान्क्षपयति च रिपून्शोकांश्च नुदति ।
अध्वानं सप्तमस्थो जठरगदभयं दैन्यं च कुरुते ।
रुक्त्रासौ[क्.रुक्कासौ] चाष्टमस्थे भवति सुवदना न स्वापि वनिता ।। १०३.०६ ।।

रवावापद्दैन्यं रुगिति नवमे वित्त[क्.चित्त]चेष्टाविरोधो
जयं प्राप्नोत्युग्रं दशमगृहगे कर्मसिद्धिं क्रमेण ।
जयस्थानं[क्.जयं स्थानं] मानं विभवं अपि चएकादशे रोगनाशं
सुवृत्तानां चेष्टा भवति सफला द्वादशे नैतरेषाम् ।। १०३.०७ ।।

शशी जन्मन्यन्नप्रवरशयनऽच्छादनकरो
द्वितीये मानार्थान्[क्.मानार्थौ] ग्लपयति सविघ्नश्च भवति ।
तृतीये वस्त्रस्त्रीधनविजय[क्.निचय]सौख्यानि लभते
चतुर्थे +अविश्वासः शिखरिणि भुजङ्गेन सदृशः ।। १०३.०८ ।।

दैन्यं व्याधिं शुचं अपि शशी पञ्चमे मार्गविघ्नं
षष्ठे वित्तं जनयति सुखं शत्रुरोगक्षयं च ।
यानं मानं शयनं अशनं सप्तमे वित्तलाभं
मन्दाक्रान्ते फणिनि हिमगौ च अष्टमे भीर्न कस्य ।। १०३.०९ ।।

नवमगृहगो बन्धौद्वेगश्रमौदररोगकृद्
दशमभवने च आज्ञाकर्मप्रसिद्धिकरः *शशी[क्.ओमित्तेद्] ।
उपचयसुहृत्संयोगार्थप्रमोदं उपान्त्यगो
वृषभचरितान्दोषानन्त्ये[क्.अन्ते] करोति च[क्.हि] सव्ययान् ।। १०३.१० ।।

 कुजे +अभिघातः प्रथमे द्वितीये नरेन्द्रपीडा कलहारिदोषैः ।
 भृशं च पित्तानल*चौररोगैर्[क्.रोगचौरैर्] उपेन्द्रवज्रप्रतिमो +अपि यः स्यात् ।। १०३.११ ।।

तृतीयगश्चौरकुमारकेभ्यो
भौमः सकाशात्फलं आदधाति ।
प्रदीप्तिं आज्ञां धनं और्णिकानि
धात्वाकरऽख्यानि किल अपराणि ।। १०३.१२ ।।

 भवति धरणिजे चतुर्थगे ज्वरजठरगदासृगुद्भवः ।
 कुपुरुषजनिताच्च सङ्गमात्प्रसभं अपि करोति च अशुभम् ।। १०३.१३ ।।

रिपुगदकोपभयानि पञ्चमे
तनयकृताश्च शुचो महीसुते ।
दतिरपि न अस्य चिरं भवेत्स्थिरा
शिरसि कपेरिव मालती यथा[क्.कृता] ।। १०३.१४ ।।

 रिपुभयकलहैर्विवर्जितः सकनकविद्रुमताम्र*कामगः[क्.कागमः ऊ.चागम] ।
 रिपुभवनगते महीसुते किं अपरवक्त्रविकारं ईक्षते ।। १०३.१५ ।।

कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे
क्षरत्क्षतजरूक्षितः क्षपित[क्.क्षयित]वित्तमानो +अष्टमे ।
कुजे नवमसंस्थिते परिभवार्थनाशऽदिभिर्
विलम्बितगतिर्भवत्यबलदेहधातुक्लमैः ।। १०३.१६ ।।

 दशमगृहगते समं महीजे विविधधनऽप्तिरुपान्त्यगे जयश्च ।
 जनपदं उपरि स्थितश्च भुङ्क्ते वनं इव षट्चरणः सुपुष्पिताग्रम् ।। १०३.१७ ।।

नानाव्ययैर्द्वादशगे महीसुते
सन्ताप्यते +अनर्थशतैश्च मानवः ।
स्त्रीकोपपित्तैश्च सनेत्रवेदनैर्
यो +अपि इन्द्रवंशाभिजनेन गर्वितः ।। १०३.१८ ।।

 दुष्टवाक्यपिशुनाहितभेदैर्बन्धनैः सकलहैश्च हृतस्वः ।
 जन्मगे शशिसुते पथि गच्छन्स्वागते +अपि कुशलं न शृणोति ।। १०३.१९ ।।

 परिभवो धनगते धनलब्धिः सहजगे शशिसुते हृदयऽप्तिः[क्.ऊ.सुहृदाप्तिः] ।
 नृपतिशत्रुभयशङ्कित*चितो[क्.चित्तो] द्रुतपदं व्रजति दुश्चरितैः स्वैः ।। १०३.२० ।।

चतुर्थगे स्वजनकुटुम्बवृद्धयो
धनऽगमो भवति च शीतरश्मिजे ।
सुतस्थिते तनयकलत्रविग्रहो
निषेवते न च रुचिरां अपि स्त्रियम् ।। १०३.२१ ।।

सौभाग्यं विजयं अथ उन्नतिं च षष्ठे
वैवर्ण्यं कलहं अतीव सप्तमे ज्ञः ।
मृत्युस्थे जयसुत[क्.सुतजय]वस्त्रवित्तलाभा
नैपुण्यं भवति मतिप्रहर्षणीयम् ।। १०३.२२ ।।

 विघ्नकरो नवमः शशिपुत्रः कर्मगतो रिपुहा धनदश्च ।
 सप्रमदं शयनं च विधत्ते तद्गृहदो +अथ *कथां स्तरणं च[क्.कथास्तरणं] ।। १०३.२३ ।।

धन*सुतसुख[क्.सुखसुत]योषिन्मित्र*वाह[क्.वाह्य]आप्तितुष्टिस्
तुहिनकिरणपुत्रे लाभगे मृष्टवाक्यः ।
रिपुपरिभवरोगैः पीडितो द्वादशस्थे
न सहति परिभोक्तुं मालिनीयोगसौख्यम् ।। १०३.२४ ।।

जीवे जन्मन्यपगतधनधीः
स्थानभ्रष्टो बहुकलहयुतः ।
प्राप्य अर्थे +अर्थान्व्यरिरपि कुरुते
कान्ताआस्याब्जे भ्रमरविलसितम् ।। १०३.२५ ।।

स्थानभ्रंशात्कार्यविघाताच्च तृतीये
+अनेकैः[क्.नैकैः] क्लेशैर्बन्धुजनौत्थैश्च चतुर्थे ।
जीवे शान्तिं पीडितचित्तश्च स विन्देद्[क्.विन्देन्]
नैव ग्रामे नापि वने मत्तमयूरे ।। १०३.२६ ।।

जनयति च तनयभवनं उपगतः
परिजनशुभसुतकरितुरगवृषान् ।
सकनकपुरगृहयुवतिवसनकृन्
मणिगुणनिकरकृदपि विबुधगुरुः ।। १०३.२७ ।।

न सखीवदनं तिलकोज्ज्वलं
न *च वनं[क्.भवनं] शिखिकोकिलनादितम् ।
हरिणप्लुतशावविचित्रितं
रिपुगते मनसः सुखदं गुरौ ।। १०३.२८ ।।

त्रिदशगुरुः शयनं रतिभोगं
धनं अशनं कुसुमान्युपवाह्यम् ।
जनयति सप्तमराशिं उपेतो
ललितपदां च गिरं धिषणां च ।। १०३.२९ ।।

बन्धं व्याधिं चाष्टमे शोकं उग्रं
मार्ग*क्लेशान्[क्.क्लेशं] मृत्युतुल्यांश्च रोगान् ।
नैपुण्याआज्ञापुत्रकर्मार्थसिद्धिं
धर्मे जीवः शालिनीनां च लाभम् ।। १०३.३० ।।

स्थानकल्यधनहा दशऋक्षगस्
तत्प्रदो भवति लाभगो गुरुः ।
द्वादशे +अध्वनि विलोमदुःखभाग्
याति यद्यपि नरो रथोद्धतः ।। १०३.३१ ।।

प्रथमगृहौपगो भृगुसुतः स्मरौपकरणैः
सुरभिमनोज्ञगन्धकुसुमाम्बरैरुपचयम् ।
शयनगृहऽसनाशनयुतस्य च अनुकुरुते
समदविलासिनीमुखसरोजषट्चरणताम् ।। १०३.३२ ।।

शुक्रे द्वितीयगृहगे प्रसवार्थधान्य
भूपाल*सन्नत[क्.सन्नति]कुटुम्बहितान्यवाप्य ।
संसेवते कुसुमरत्नविभूषितश्च
कामं वसन्ततिलकद्युतिमूर्धजो +अपि ।। १०३.३३ ।।

 आज्ञाअर्थमानऽस्पदभूतिवस्त्रशत्रुक्षयान्दैत्यगुरुस्तृतीये ।
 दत्ते[क्.धत्ते] चतुर्थश्च सुहृत्समाजं रुद्रैन्द्रवज्रप्रतिमां च शक्तिम् ।। १०३.३४ ।।

 जनयति शुक्रः पञ्चमसंस्थो गुरुपरितोषं बन्धुजनऽप्तिम् ।
 सुतधनलब्धिं मित्रसहायाननवसितत्वं च अरिबलेषु ।। १०३.३५ ।।

षष्ठो भृगुः परिभवरोगतापदः
स्त्रीहेतुकं जनयति सप्तमो +अशुभम् ।
यातो +अष्टमं भवनपरिच्छदप्रदो
लक्ष्मीवतीं उपनयति स्त्रियं च सः ।। १०३.३६ ।।

नवमे तु धर्मवनितासुखभाग्
भृगुजे +अर्थवस्त्रनिचयश्च भवेत् ।
दशमे +अवमानकलहान्नियमात्
प्रमिताक्षराण्यपि वदन्लभते ।। १०३.३७ ।।

 उपान्त्यगो भृगो सुतः सुहृद्धनान्नगन्धदः ।
 धनाम्बरऽगमो +अन्त्यगः स्थिरस्तु नाम्बरऽगमः ।। १०३.३८ ।।

 प्रथमे रविजे विषवह्निहतः स्वजनैर्वियुतः कृतबन्धुवधः ।
 परदेशं उपैत्यसुहृद्भवनो विमुखार्थसुतो +अटकदीनमुखः ।। १०३.३९ ।।

चारवशाद्द्वितीयगृहगे दिनकरतनये
रूपसुखापवर्जिततनुर्विगतमदबलः ।
अन्यगुणैः कृतं वसुचयं तदपि खलु भवत्य्
अम्ब्विव वंशपत्रपतितं न बहु न च चिरम् ।। १०३.४० ।।

सूर्यसुते तृतीयगृहगे धनानि लभते
दासपरिच्छदौष्ट्रमहिषाअश्वकुञ्जरखरान् ।
सद्मविभूतिसौख्यं अमितं गदव्युपरमं
भीरुरपि प्रशास्त्यधिरिपूंश्च वीरललितैः ।। १०३.४१ ।।

चतुर्थं गृहं सूर्यपुत्रे +अभ्युपेते
सुहृद्वित्तभार्यऽदिभिर्विप्रयुक्तः ।
भवत्यस्य सर्वत्र चासाधु दुष्टं
भुजङ्गप्रयातानुकारं च चित्तम् ।। १०३.४२ ।।

सुतधनपरिहीणः पञ्चमस्थे
प्रचुरकलहयुक्तश्च अर्कपुत्रे ।
विनिहतरिपुरोगः षष्ठयाते
पिबति च वनिताआस्यं श्रीपुटोष्ठम् ।। १०३.४३ ।।

गच्छत्यध्वानं सप्तमे च अष्टमे च
हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः ।
तद्वद्धर्मस्थे वैरहृद्रोगबन्धैर्
धर्मो +अप्युच्छिद्येद्वैश्वदेवीक्रियाआद्यः ।। १०३.४४ ।।

कर्मप्राप्तिर्दशमे +अर्थक्षयश्च
विद्याकीर्त्योः परिहानिश्च सौरे ।
तैक्ष्ण्यं लाभे परयोषार्थ*लाभश्[क्.लाभा]
च अन्त्ये[क्.अन्ते] प्राप्नोत्यपि शोकऊर्मिमालाम् ।। १०३.४५ ।।

 अपि कालं अपेक्ष्य च पात्रं शुभकृद्विदधात्यनुरूपम् ।
 न मधौ बहु कं कुडवे वा[क्.च] विसृजत्यपि मेघवितानः ।। १०३.४६ ।।

रक्तैः पुष्पैर्गन्धैस्ताम्रैः कनकवृषबकुलकुसुमैर्दिवाकरभूसुतौ
भक्त्या पूज्याविन्दुर्धेन्वा सितकुसुमरजतमधुरैः सितश्च मदप्रदैः ।
कृष्णद्रव्यैः सौरिः सौम्यो मणिरजततिलककुसुमैर्गुरुः परिपीतकैः
प्रीतैः पीडा न स्यादुच्चाद्यदि पतति विशति यदि वा भुजङ्गविजृम्भितम् ।। १०३.४७ ।।

 शमयौद्गतां अशुभदृष्टिं अपि विबुधविप्रपूजया ।
 शान्तिजपनियमदानदमैः सुजनाभिभाषणसमागमैस्तथा ।। १०३.४८ ।।

 रविभौमौ पूर्वार्धे शशिसौरौ कथयतो +अन्त्यगौ राशेः ।
 सदसल्लक्षणं आर्यगीत्युपगीत्योर्यथासंख्यम् ।। १०३.४९ ।।

 आदौ यादृक्सौम्यः पश्चादपि तादृशो भवति ।
 उपगीतेर्मात्राणां गणवत्सत्सम्प्रयोगो वा ।। १०३.५० ।।

 आर्याणां अपि कुरुते विनाशं अन्तर्गुरुर्विषमसंस्थः ।
 गण इव षष्ठे दृष्टः स[क्.च] सर्वलघुतां जनं[क्.गतो] नयति ।। १०३.५१ ।।

अशुभनिरीक्षितः शुभफलो बलिना बलवान्
अशुभफलप्रदश्च शुभदृग्विषयौपगतः ।
अशुभशुभावपि स्वफलयोर्व्रजतः समताम्
इदं अपि गीतकं च खलु नर्कुटकं च यथा ।। १०३.५२ ।।

 नीचे +अरिभे +अस्ते *च अरिदृष्टस्य[क्ऽस्त्र्. अरिदृष्टस्य] सर्वं वृथा यत्[क्ऽस्त्र्. यथा] परिकीर्तितम् ।
 पुरतो +अन्धस्य इव कामिन्याः सविलासकटाक्षनिरीक्षणम् ।। १०३.५३ ।।

 सूर्यसुतो +अर्कफलसमश्चन्द्रसुतश्छन्दतः समनुयाति यथा ।
 स्कन्धकं आर्यागीतिर्वैतालीयं च मागधी गाथाआर्याम् ।। १०३.५४ ।।

 सौरो +अर्करश्मि*योगात्[क्.रागात्] सविकारो लब्धवृद्धिरधिकतरम् ।
 पित्तवदाचरति नृणां पथ्यकृतां न तु तथाआर्याणाम् ।। १०३.५५ ।।

 यादृशेन ग्रहेणैन्दुर्युक्तस्तादृग्भवेत्सो +अपि ।
 मनोवृत्तिसमायोगाद्विकार इव वक्त्रस्य ।। १०३.५६ ।।

 पञ्चमं *लघु सर्वेषु[क्.सर्वपादेषु] सप्तमं द्विचतुर्थयोः ।
 यद्वत्श्लोकाक्षरं तद्वल्लघुतां याति दुःस्थितैः ।। १०३.५७ ।।

 प्रकृत्याअपि लघुर्यश्च वृत्तबाह्ये व्यवस्थितः ।
 स याति गुरुतां लोके यदा स्युः सुस्थिता ग्रहाः ।। १०३.५८ ।।

 प्रारब्धं असुस्थितैर्ग्रहैर्यत्कर्मऽत्मविवृद्धये बुधैः[क्.+अबुधैः] ।
 विनिहन्ति तदेव कर्म तान्वैतालीयं इव अयथाकृतम् ।। १०३.५९ ।।

 सौस्थित्यं अवेक्ष्य यो ग्रहेभ्यः काले प्रक्रमणं करोति राजा ।
 अणुना अपि स पौरुषेण वृत्तस्याउपच्छन्दसिकस्य याति पारम् ।। १०३.६० ।।

उपचयभवनौपयातस्य भानोर्दिने कारयेद्धेमताम्राश्वकाष्ठास्थिचर्माउर्णिकाद्रिद्रुमत्वग्नखव्यालचौरऽयुधीयाटवीक्रूरराजोपसेवाभिषेकाउषधक्षौमपण्यादिगोपालकान्तारवैद्याश्मकूटावदाताभिविख्यातशूरऽहवश्लाघ्य*याय्य्[क्.याज्य]*अग्निकर्माणि[क्.अग्निकार्याणि] सिद्ध्यन्ति लग्नस्थिते वा रवौ ।
शिशिरकिरणवासरे तस्य व अप्युद्गमे केन्द्रसंस्थे +अथ वा भूषणं शङ्खमुक्ताअब्जरूप्याम्बुयज्ञैक्षुभोज्याङ्गनाक्षीरसुस्निग्धवृक्षक्षुपानूपधान्यद्रवद्रव्य*विप्राध्वगीत[क्.विप्राश्वशीत]क्रियाशृङ्गिकृष्यादिसेनाधिपऽक्रन्दभूपालसौभाग्यनक्तञ्चरश्लैष्मिकद्रव्यमातुल्य[क्.मातुङ्ग]पुष्पाम्बरऽरम्भसिद्धिर्भवेत् ।।
क्षितितनयदिने प्रसिद्ध्यन्ति[क्.प्रसिध्यन्ति] धात्वाकरादीनि सर्वाणि कार्याणि चामीकराग्निप्रवालऽयुधक्रौर्यचौर्याभिघाताटवीदुर्गसेनाधिकारास्तथा रक्तपुष्पद्रुमा रक्तं अन्यच्च तिक्तं कटुद्रव्यकूटाहिपाशार्जितस्वाः कुमारा भिषक्शाक्यभिक्षुक्षपावृत्तिकोशेश[क्.कौशेय]शाठ्यानि सिद्ध्यन्ति[क्.सिध्यन्ति] दम्भास्तथा ।।
हरति[ऊ.हरित, क्.हरित]मणिमहीसुगन्धीनि वस्त्राणि साधारणं नाटकं शास्त्रविज्ञानकाव्यानि सर्वाः कलायुक्तयो मन्त्रधातुक्रियावादनैपुण्यपुण्यव्रतायोगदूतास्तथाआयुष्यमायाअनृतस्नानह्रस्वाणि दीर्घाणि मध्यानि च छन्दतश्[क्.च्छन्दनश्] चण्डवृष्टिप्रयातानुकारीणि कार्याणि सिद्ध्यन्ति[क्.सिध्यन्ति] सौम्यस्य लग्ने +अह्नि वा ।। १०३.६१ ।।

सुरगुरुदिवसे कनकं रजतं तुरगाः करिणो वृषभा भिषगौषधयः[क्.ओषधयः]
द्विजपितृसुरकार्यपुरःस्थितघर्मनिवारणचामरभूषणभूपतयः ।
विबुधभवनधर्मसमाश्रयमङ्गलशास्त्रमनोज्ञबलप्रदसत्यगिरः
व्रतहवनधनानि च सिद्धिकराणि तथा रुचिराणि च वर्णकदण्डकवत् ।। १०३.६२ ।।

भृगुसुतदिवसे च चित्रवस्त्रवृष्यवेश्यकामिनीविलासहासयौवनोपभोगरम्यभूमयः
स्फटिकरजतमन्मथौपचारवाहनैक्षुशारदप्रकारगोवणिक्कृषीवलाउषधाम्बुजानि च ।
सवितृसुतदिने च कारयेन्महिष्यजौष्ट्रकृष्णलोहदासवृद्धनीचकर्मपक्षिचौरपाशिकान्
च्युतविनयविशीर्णभाण्डहस्त्यपेक्षविघ्नकारणानि च अन्यथा न साधयेत्समुद्रगो +अप्यपां कणम् ।। १०३.६३ ।।

 विपुलां अपि बुद्ध्वा छन्दोविचितिं भवति कार्यं एतावत् ।
 श्रुतिसुखदवृत्तसंग्रहं इमं आह वराहमिहिरो +अतः ।। १०३.६४ ।।