बृहत्संहिता/अध्यायः १०२

विकिस्रोतः तः
← अध्यायः १०१ बृहत्संहिता
अध्यायः १०२
वराहमिहिरः
अध्यायः १०३ →

१०२ विवाहपटलाध्यायः ।।

मूर्तौ करोति दिनकृद्विधवां कुजश्च
राहुर्विपन्नतनयां रविजो दरिद्राम् ।
शुक्रः शशाङ्कतनयश्च गुरुश्च साध्वीम्
आयुःक्षयं प्रकुरुते +अथ विभावरीशः ।। १०२.०१ ।।

कुर्वन्ति भास्करशनैश्चरराहुभौमा
दारिद्र्यदुःखं अतुलं नियतं द्वितीये ।
वित्तेश्वरीं अविधवां गुरुशुक्रसौम्या
नारीं प्रभूततनयां कुरुते शशाङ्कः ।। १०२.०२ ।।

सूर्यैन्दुभौमगुरुशुक्रबुधास्तृतीये
कुर्युः सदा बहुसुतां धनभागिनीं च ।
व्यक्तां[क्.व्यक्तं] दिवाकरसुतः सुभगां करोति
मृत्युं ददाति नियमात्खलु सैंहिकेयः ।। १०२.०३ ।।

स्वल्पं पयः स्रवति सूर्यसुते चतुर्थे
दौर्भाग्यं उष्णकिरणः कुरुते शशी च ।
राहुः सपत्ननम्[क्.सपत्न्यं ऊ.सपत्नम्] अपि च क्षितिजो +अल्पवित्तं[क्.अल्पवित्तां]
दद्याद्भृगुः सुरगुरुश्च बुधश्च सौख्यम् ।। १०२.०४ ।।

नष्टात्मजां रविकुजौ खलु पञ्चमस्थे[क्.पञ्चमस्थौ]
चन्द्रात्मजो बहुसुता गुरुभार्गवौ च ।
राहुर्ददाति मरणं शनिरुग्ररोगं
कन्या*विनाशम्[क्.प्रसूतिम्] अचिरात्कुरुते शशाङ्कः ।। १०२.०५ ।।

षष्ठऽश्रिताः शनिदिवाकरराहुजीवाः
कुर्युः कुजश्च सुभगां श्वशुरेषु भक्ताम् ।
चन्द्रः करोति विधवां उशना दरिद्राम्
ऋद्धां शशाङ्कतनयः कलहप्रियां च ।। १०२.०६ ।।

सौरऽरजीवबुधराहुरविइन्दुशुक्राः
कुर्युः प्रसह्य खलु सप्तमराशिसंस्थाः ।
वैधव्यबन्धनवधक्षयं अर्थनाश
व्याधिप्रवासमरणानि यथाक्रमेण ।। १०२.०७ ।।

स्थाने +अष्टमे गुरुबुधौ नियतं वियोगं
मृत्युं शशी भृगुसुतश्च तथएव राहुः ।
सूर्यः करोत्यविधवां सरुजां[क्.सरुजं] महीजः
सूर्यात्मजो धनवतीं पतिवल्लभां च ।। १०२.०८ ।।

धर्मे स्थिता भृगुदिवाकरभूमिपुत्रा
जीवश्च धर्मनिरतां शशिजस्त्वरोगाम् ।
राहुश्च सूर्यतनयश्च करोति बन्ध्यां[क्.वन्ध्यां]
कन्याप्रसूतिं अटनां[क्.अटनं] कुरुते शशाङ्कः ।। १०२.०९ ।।

राहुर्नभःस्थलगतो[क्.नभस्थलगतो] विधवां करोति
पापे रतां दिनकरश्च शनैश्चरश्च ।
मृत्युं कुजो +अर्थरहितां कुलटां च चन्द्रः
शेषा ग्रहा धनवतीं सुभगां च कुर्युः ।। १०२.१० ।।

आये रविर्बहुसुतां सधनां[क्.धनिनीं] शशाङ्कः
पुत्रान्वितां क्षितिसुतो रविजो धनाढ्याम् ।
आयुष्मतीं सुरगुरुः शशिजः समृद्धां
राहुः करोत्यविधवां भृगुरर्थयुक्ताम् ।। १०२.११ ।।

अन्ते गुरुर्धनवतीं दिनकृद्दरिद्रां
चन्द्रो धनव्ययकरीं कुलटां च राहुः ।
साध्वीं भृगुः शशिसुतो बहुपुत्रपौत्रां
पानप्रसक्तहृदयां रविजः कुजश्च ।। १०२.१२ ।।

गोपैर्यष्ट्याहतानां खुरपुटदलिता या तु धूलिर्दिनान्ते
सोद्वाहे सुन्दरीणां विपुलधनसुतऽरोग्यसौभाग्यकर्त्री ।
तस्मिन्काले न चऋक्षं न च तिथिकरणं नैव लग्नं न योगः
ख्यातः पुंसां सुखार्थं शमयति दुरितान्युत्थितं गोरजस्तु ।। १०२.१३ ।।