बृहत्संहिता/अध्यायः १०४

विकिस्रोतः तः
← अध्यायः १०३ बृहत्संहिता
अध्यायः १०४
वराहमिहिरः
अध्यायः १०५ →

१०४ रूपसत्राध्यायः ।।

 पादौ मूलं जङ्घे च रोहिणी जानुनी[क्.ओमित्तेद्] तथाश्विन्यः ।
 ऊरू च आषाढद्वयं अथ गुह्यं फल्गुनी*द्वितयम्[क्.युग्मम्] ।। १०४.०१ ।।

 कटिरपि च कृत्तिका पार्श्वयोश्च यमला भवन्ति भद्रपदाः ।
 कुक्षिस्था रेवत्यो विज्ञेयं उरो +अनुराधा च ।। १०४.०२ ।।

 पृष्ठं विद्धि धनिष्ठां[क्.धनिष्ठा] भुजौ विशाखा[क्.विशाखां] स्मृतौ करौ हस्तः ।।
 अङ्गुल्यश्च पुनर्वसुराश्लेषासंज्ञिताश्च नखाः ।। १०४.०३ ।।

 ग्रीवा ज्येष्ठा *श्रवणं श्रवणौ[क्.श्रवणौ श्रवनः] पुष्यो मुखं द्विजाः स्वातिः ।
 हसितं शतभिषगथ नासिका मघा मृगशिरो नेत्रे ।। १०४.०४ ।।

 चित्रा ललाटसंस्था शिरो भरण्यः शिरोरुहाश्चऽर्द्रा ।
 नक्षत्रपुरुषको +अयं कर्तव्यो रूपं इच्छद्भिः ।। १०४.०५ ।।

 चैत्रस्य बहुलपक्षे ह्यष्टम्यां मूलसंयुते चन्द्रे ।
 ह्य्[क्.ओमित्तेद्] उपवासः कर्तव्यो विष्णुं सम्पूज्य धिष्ण्यं च ।। १०४.०६ ।।

 दद्याद्व्रते समाप्ते घृतपूर्णं भाजनं सुवर्णयुतम् ।
 विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या च ।। १०४.०७ ।।

अन्नैः क्षीरघृतौत्कटैः सह गुडैर्विप्रान्समभ्यर्चयेद्
दद्यात्तेषु सुवर्ण[क्.तथएव]वस्त्ररजतं लावण्यं इच्छन्नरः ।
पादऋक्षात्प्रभृति क्रमादुपवसन्नङ्गऋक्षनामस्वपि
कुर्यात्केशवपूजनं स्वविधिना धिष्ण्यस्य पूजां तथा ।। १०४.०८ ।।

 प्रलम्बबाहुः पृथुपीनवक्षाः क्षपाकरऽस्यः सितचारुदन्तः ।
 गजेन्द्रगामी कमलऽयताक्षः स्त्रीचित्तहारी स्मरतुल्यमूर्तिः ।। १०४.०९ ।।

 शरदमलपूर्णचन्द्रद्युतिसदृशमुखी सरोजदलनेत्रा ।
 रुचिरदशना सुकर्णा भ्रमरौदरसन्निभैः केशैः ।। १०४.१० ।।

 पुंस्कोकिलसमवाणी ताम्रोष्टी[क्.ऊ.ताम्रोष्ठी] पद्मपत्रकरचरणा ।
 स्तनभारानतमध्या प्रदक्षिणावर्तया नाभ्या ।। १०४.११ ।।

 कदलीकाण्डनिभऊरुः[क्.ऊ.ऊरूः] सुश्रोणी वरकुकुन्दरा सुभगा ।
 सुश्लिष्टाङ्गुलिपादा भवति प्रमदा *मनुष्यश्च[क्.मनुष्यो वा] ।। १०४.१२ ।।

यावन्नक्षत्रमाला विचरति गगने भूषयन्ती इह भासा
तावन्नक्षत्रभूतो विचरति सह तैर्ब्रह्मणो +अह्नो +अवशेषम् ।
कल्पादौ चक्रवर्ती भवति हि मतिमांस्तत्क्षयाच्चापि भूयः
संसारे जायमानो भवति नरपतिर्ब्राह्मणो वा धनाढ्यः ।। १०४.१३ ।।

 मृगशीर्षऽद्याः केशवनारायणमाधवाः सगोविन्दाः ।
 विष्णुमधुसूदनऽख्यौ त्रिविक्रमो वामनश्चएव ।। १०४.१४ ।।

 श्रीधरनामा तस्मात्सहृषीकेशश्च पद्मनाभश्च ।
दामोदर इत्येते मासाः प्रोक्ता यथासंख्यं ।। १०४.१५ ।।

 मासनाम समुपोषितो नरो द्वादशीषु विधिवत्प्रकीर्तयन् ।
 केशवं समभिपूज्य तत्पदं याति यत्र नहि जन्मजं भयम् ।। १०४.१६ ।।