प्रतिमानाटकम्/षष्ठोऽङ्कः

विकिस्रोतः तः
← पञ्चमोऽङ्कः प्रतिमानाटकम्
षष्ठोऽङ्कः
भासः
सप्तमोऽङ्कः →

(तत: प्रविशतो वृद्धतापसौ।)
 
उभौ: - परित्रायतां परित्रायतां भवन्त:!
प्रथम: - इयं हि नीलोत्पलदामवर्चसा
मृणालशुक्रोज्वलदंष्ट्रहासिना ।
निशाचरेन्द्रेण निशार्धचारिणा
मृगीव सीता परिभूय नीयते ।। 1 ।।
द्वितीय: - एषा खलु तत्रभवती वैदेही,
विचेष्टमानेव भुजङ्गमाङ्गना
विधूयमानेव च पुष्पिता लता ।
प्रसह्य पापेन दशाननेन सा
तपोवनात्, सिद्धिरिवापनीयते ।। 2 ।।
 
उभौ: - परित्रायतां परित्रायतां भवन्त:!।
प्रथम: - (ऊध्र्वमवलोक्य।) अये वचनसमकाल एव दशरथस्यानृण्यं कंर्तुं मयि स्थिते क्व यास्यसींति रावणमाहूयान्तरिक्षमुत्पतितो जटायु:।
द्वितीय: - एष रोषादुद्वृत्तनयन: प्रतिनिवृत्तो रावण:।
प्रथम: - एष रावण:।
द्वितीय: - एष जटायु:।
उभौ - हन्तैतदन्तरिक्षे प्रवृत्तं युद्धम्।
प्रथम: - काश्यप! काश्यप! पश्य क्रव्यादीश्वरस्य सामथ्र्यम् ।
पक्षाभ्यां परिभूय वीर्यविषयं द्वन्द्वं प्रतिव्यूहते
तुण्डाभ्यां सुनिघृष्टतीक्ष्णमचल: संवेष्टनं चेष्टते ।
तीक्ष्णैरायासकण्टकैरिव नखैर्भीमान्तरं वक्षसो
वज्राग्रैरिव दार्यमाणविषमाच्छैलाच्छिला पाट्यते ।। 3 ।।
द्वितीय:- हन्त संक्रुद्धेन रावणेनासिना क्रव्यादीश्वर: स दक्षिणांसदेशे हत:।
उभौ - हा धिक्। पतितोऽत्रभवान् जटायु:,
प्रथम: - भो: कष्टम्। एष खलु तत्रभवान् जटायु:,
कृत्वा स्ववीर्यसदृशं परमं प्रयत्नं
क्रीडामयूरमिव शत्रुमचिन्तयित्वा ।
दीप्तं निशाचरपतेरवधूय तेजो
नागेन्द्रभग्नवनवृक्ष इवावसन्न: ।। 4 ।।
उभौ - स्वग्र्योऽयमस्तु ।
प्रथम: - काश्यप! आगम्यताम्। इमं वृत्तान्तं तत्रभवते राघवाय निवेदयिष्याव: ।
द्वितीय: - बाढम्। प्रथम: कल्प: ।
(निष्क्रान्तौ।)
विष्कम्भक:।
(तत: प्रविशति काञ्चुकीय:।)
काञ्चुकीय: - क इह भो:! काञ्चनतोरणद्वारमशून्यं कुरुते ।
(प्रविशति)
प्रतिहारी - अय्य! अहं विजयां! किं करीअदु। (आर्य! अहं विजया। किं क्रियताम्।)
काञ्चुकीय: - विजये! निवेद्यतां निवेद्यतां भरतकुमाराय - एष खलु रामदर्शनार्थं जनस्थानं प्रस्थित: प्रतिनिवृत्तस्तत्रभवान् इति।
प्रतिहारी - अय्य! अवि किदत्थो तादसुमन्तो आअदो। (आर्य!अपि कृतार्थस्तातसुमन्त्र आगत:।)
काञ्चुकीय: - भवति! न जाने ।
हृदयस्थितशोकाग्निशोषिताननमागतम् ।
दृष्ट्वैवाकुलमासीन्मे सुमन्त्रमधुना मन: ।। 5 ।।
 
प्रतिहारी - अय्य! एदं सुणिअ पय्याउळं विअ मे हिअअं। (आर्य! एतच्छØत्वा पर्याकुलमिव मे हृदयम्।)
काञ्चुकीय: - भवति! किमिदानीं स्थिता। शीघ्रं निवेद्यताम् ।
प्रतिहारी - अय्य! इअं णिवेदेमि। (निष्क्रान्ता।) (आर्य! इयं निवेदयामि।)
काञ्चुकीय: - (विलोक्य।) अये! अयमत्रभवान् भरतकुमार: सुमन्त्रागमनजनितकुतूहलश्चीर-वल्कलवसनश्चित्रजटापुञ्चञ्जिरितोत्तमाङ्ग इत एवाभिवर्तते।
य एष:,
प्रख्यातसद्गुणगण: प्रतिपक्षकाल-
स्तिग्मांशुवंशतिलकस्त्रिदशेन्द्रकल्प: ।
आज्ञावशादखिलभूपरिरक्षणस्थ:
श्रीमानुदारकलभेभसमानयान: ।। 6 ।।
(तत: प्रविशति भरत: प्रतिहारी च।)
भरत: - विजये! एवम् उपगतस्तत्रभवान् सुमन्त्र:।
गत्वा तु पूर्वमयमार्यनिरीक्षणार्तं
लब्धप्रसादशपथे मयि सन्निवृत्ते ।
दृष्ट्वा किमागत इहात्रभवान् सुमन्त्रो
रामं प्रजानयनबुद्धिमनोभिरामम् ।। 7 ।।
काञ्चुकीय:- (उपगम्य।) जयतु कुमार: ।
भरत: - अथ कस्मिन् प्रदेशे वर्तते तत्रभवान् सुमन्त्र: ।
काञ्चुकीय: - असौ काञ्चनतोरणद्वारे ।
भरत: - तेन हि शीघ्रं प्रवेश्यताम् ।
काञ्चुकीय: - यदाज्ञापयति कुमार: । (निष्क्रान्त:।)
(तत: प्रविशति सुमन्त्र: प्रतिहारी च।)
सुमन्त्र: - (सशोकम् कष्टं भो:! कष्टम्।)
नरपतिनिधनं मयानुभूतं
नृपतिसुतव्यसनं मयैव दृष्टम्।
श्रुत इह स च मैथिलीप्रणाशो
गुण इव बह्वपराद्धमायुषा मे ।। 8 ।।
प्रतिहारी - (सुमन्त्रमुद्दिश्य।) एदु एदु अय्यो। एसो भट्टा। उपसप्पदु अय्यो। (एत्वेत्वार्य: एष भर्ता। अपसर्पत्वार्य:।)
सुमन्त्र:- (उपसृत्य।) जयतु कुमार:।
भरत: - तात!अपि दृष्टस्त्वया लोकाविष्कृतपितृस्नेह: । अपि दृष्टं द्विधाभूतमरुन्धतीचारित्रम्। अपि दृष्टं त्वया निष्कारणावहितवनवासं सोभ्रात्रम्।
(सुमन्त्र : सचिन्तस्तिष्ठति।)
प्रतिहारी - भट्टिदारओ खु अय्यं पुच्छदि। (भर्तृदारक: खल्वार्यं पृच्छति।)
सुमन्त्र:- भवति ! किं माम् ।
 
भरत: - (स्वगतन्।) अतिमहान् खल्वायास: । सन्तापाद् भ्रष्टहृदय: । (प्रकाशम्।) अपिमार्गात् प्रतिनिवृत्तस्तत्रभवान्।
सुमन्त्र:- कुमार:! त्वन्नियोगाद् रामदर्शनार्थं जनस्थानं प्रस्थित: कथमहमन्तरा प्रतिनिवर्तिष्ये।
भरत: - किभु खलु क्रोधेन वा लज्जया वात्मानं न दर्शयन्ति।
सुमन्त्र:- कुमार!
कुत: क्रोधो विनीतानां लज्जा वा कृतचेतसाम् ।
मया दृष्टं तु तच्छून्यं तैर्विहीनं तपोवनम् ।। 9 ।।
भरत: - अथ क्व गता इति श्रुता:।
सुमन्त्र:- अस्ति किल किष्किन्धा नाम वनौकसां निवास:। तत्र गता इति श्रुता:।
भरत: - हन्त! अविंज्ञातपुरुषविशेषा: खलु वानरा:। दुखिता: प्रतिवसन्ति।
सुमन्त्र:- कुमार! तिर्यग्योनयोऽप्युपकृतमवगच्छन्ति।
भरत: - तात! कथभिव।
सुमन्त्र:- सुग्रीवो भ्रंशितो राज्याद् भ्रात्रा ज्येष्ठेन वालिना ।
हृतदारो वसच्छैले तुल्यदु:खेन मोक्षित: ।। 10 ।।
भरत: - तात! कथ तुल्यदु:खेन नाम ।
सुमन्त्र:- (आत्मगतम्।) हन्त सर्वमुक्तमेव मया। (प्रकाशम्।)कुमार! न खलु किञ्चित्। ऐश्वर्यभ्रंशतुल्यता ममाभिप्रेता ।
भरत: - तात! किं गूहसे स्वर्गं महाराजपादमूलेन शापित: स्या: यदि सत्यं न ब्रूया: ।
सुमन्त्र: - का गति:। श्रूयतां,
वैरं मुनिजनस्यार्थे रक्षसा महता कृतम् ।
सीता मायामुपाश्रित्य रावणेन ततो हृता ।। 11 ।।
भरत: - कथं हृतेति। (मोहमुपगत:।)
सुमन्त्र:- समाश्र्वसिहि समाश्वसिहि ।
भरत: - (पुन: समाश्वस्य।) भो: ! कष्टम् ।
पित्रा च बान्धवजनेन च विप्रयुक्तो
दु:खं महत् समनुभुय वनप्रदेशे ।
भार्यावियोगमुपलभ्य पुनर्ममार्यो
जीमूतचन्द्र इव खे प्रभया वियुक्त: ।। 12 ।।
भो! रिमिदीनीं करिष्ये। भवतु, दष्टम्। अनुगच्छतु मां तात:।
सुमन्त्र:- यदाज्ञापयति कुमार:।
(उभौ परिक्रामत:।)
सुमन्त्र: - कुमार! न खलु न खलु गन्तव्यम् । देवीनां चतुश्शालमिदम् ।
भरत: - अत्रैव मे कार्यम्। भो: ! क इह प्रतिहारे ।
 
(प्रविश्य।
प्रतिहारी - जेदु भट्टिदारओ। विजआ खु अहं । (जयतु भर्तृदारक:। विजया खल्वहम्।)
भरत: - विजये! ममागमनं निवेदयात्रभवत्यै ।
प्रतिहारी - कदमाए भट्टिणीए णिवेदेमि । (कतमस्यै भट्टिन्यै निवेदयामि ।
भरत: - या मां राजानमिच्छति ।
प्रतिहारी - (आत्मगतम्।) हं किं णु खु भवे। (प्रकाशम्।) भट्टा! तह। (निष्क्रान्ता।) (हं किन्नु खलु भवेत्! भर्त:! तथा।)
(तत: प्रविशति कैकेयी प्रतिहारी च।)
कैकेयी - विजए! मं पेक्खिदुं भरदो आअदो । (विजये! मां प्रेक्षितुं भरत आगत:।)
प्रतिहारी- भट्टिणि ! तह। भट्टिदारअस्स रामस्स सआसादो तादसुमन्तो आअदो । तेण सह भट्टिदारओ भरदो भट्टिणिं पेक्खिदुं इच्छदि किळ।
(भट्टिनि ! तथा। भर्तृदारकस्य रामस्य सकाशात् तातसुमन्त्र आगत: । तेन सह भर्तृदारको भरतो भट्टिनीं प्रेक्षितुमिच्छति किल।)
कैकेयी - (स्वगतम्।) केण खु उग्धादेण मं उवाळम्भिस्सिदि भरदो। (केन खलूद्घातेन मामुपालप्स्यते भरत:।)
प्रतिहारी - भट्टिणि! किं पविसदु भट्टिदारओ। (भट्टिनि! किं प्रविशतु भर्तृदारक:।)
कैकेयी - गच्छ। पवेसेहि णं । (गच्छ। प्रवेशयैनम्।)
प्रतिहारी - भट्टिणि ! तह । (परिक्रम्योपसृत्य) जेदु भट्टिदापओ । पविसदु किळ । (भट्टिनि! तथा! जयतु भर्तृदारक:। प्रविशतु किल।)
भरत: - विजये! किं निवेदितम् ।
प्रतिहारी - आम् ।
भरत: तेन हि प्रविशाव:।
(प्रविशात:।)
कैकेयी - जाद! विअआमन्तेदि - रामस्स सआसादो सुमन्तो आअदोत्ति । (जात! विजया मन्त्रयते - रामस्य सकाशात् सुमन्त्र आगत इति।)
भरत: - अत: परं प्रियं निवेदयाम्यत्रभवत्यै ।
कैकेयी - जाद! अवि कोसळळा सुमिता अ सद्दावइदव्वा। (जात! अपि कौसल्या सुमित्रा च शब्दापयितव्या ।)
भरत: - न खलु ताभ्यां श्रोतव्यम् ।
कैकेयी - (आत्मगतम्।) हं किं णु हु भवे। (प्रकाशम्।) भणाहि जाद !। (हं किन्नु खलु भवेत्। भण जात!।)
भरत: - श्रूयतां,
य: स्वराज्यं परित्यज्य त्वन्नियोगाद्वनं गत: ।
तस्य भार्या हृता सीता पर्याप्तस्ते मनोरथ: ।। 13 ।।
कैकेयी - हं।
भरत: - हन्त भो:! सत्वयुक्तानामिक्ष्वाकूणां मनस्विनाम् ।
वधूप्रधर्षणं प्राप्तं प्राप्यात्रभवतीं वधूम् ।। 14 ।।
कैकेयी - (आत्मगतम्।) भोदु, दाणि काळो कहेउं। (प्रकाशम्।) जाद! तुवं ण आणासि महाराअस्स सावं। (भवतु इदानीं काल: कथयितुम्। जात!
 
त्वं न जानासि महाराजस्य शापम्।)
भरत: - किं शप्तो महाराज: ।
कैकेयी - सुमन्त! आअक्ख वित्थरेण। (सुमन्त्र! आचक्ष्व विस्तरेण।)
सुमन्त्र: - यदाज्ञापयति भवती । कुमार ! श्रूयताम् - पुरा मृगयां गतेन महाराजेन कस्मिश्चित् सरसि कलशं पूरयमाणो वनगजबृंहितानुकारि-
शब्दसमुत्पन्नवनगजशङ्कया शब्दवेधिना शरेण विपन्नचक्षुषो महर्षेश्चक्षुर्भूतो मुनितनयो हिंसित:।
भरत: - हिंसित इति। शान्तं पापं शान्तं पापम्। ततस्तत:।
सुमन्त्र: - ततस्तमेवंगतं दृष्टवा,
तेनोक्तं रुदितस्यान्ते मुनिनी सत्यभाषिणा ।
यथाहं भोस्त्वमप्येवं पुत्रशोकाद् विपत्स्यसे ।। 15 ।।
भरत: - नन्विदं कष्टं नाम।
कैकेयी: - जाद! एदण्णिमित्तं अवराहे मं णिक्खिविअ पुत्तओ रामो वणं पेसिदो, णहु रज्जकोहेण। अपरिहरणीओ महरिसिसावो पुत्तविप्पवासं विणा ण
होइ। (जात! एतन्निमित्तमपराधे मां निक्षिप्य पुत्रको रामो वनं प्रेषित:, न खलु राजलोभेन। अपरिहरणीयो महर्षिशाप: पुत्रप्रवासं विना न
भवति।)
भरत: - अथ तुल्ये पुत्रविप्रवासे कथमहमरण्यं न प्रेषित:।
कैकेयी - जाद! मादुळकुऱळे वत्तमाणस्स पइदीहूदो दे विप्पवासो। (जात! मातुलकुले वर्तमानस्य प्रकृती-भूतस्ते विप्रवास:।)
भरत: - अथ चतुर्दशं वर्षाणि किं कारणमवेक्षितानि।
कैकेयी - जाद! चउद्दस दिअस त्ति वत्तुकामाए पय्याउळहिअआए चउद्दस वरिसाणि त्ति उत्तं। (जात! चतुर्दश दिवसा इति वक्तुकामया पर्याकुलहृदयया
चतुर्दश वर्षाणीत्युक्तम्।)
भरत: - अस्ति पाण्डित्यं सम्यग् विचारयितुम्। अथ विदितमेतद् गुरुजनस्य।
सुमन्त्र:- कुमार! वसिष्ठवामदेवप्रभृतीनामनुमतं विदितं च ।
भरत: - हन्त त्रैलोक्यसाक्षिण: खल्वेते।दिष्ट्यानपराद्धात्रभवती। अम्ब! यद् भ्रातृस्नेहात् समुत्पन्नमन्युना मया दूषितात्रभवती, तत् सर्व मर्षयितव्यम्।
अम्ब! अभिवादये ।
कैकेयी - जाद! का णाम मादा पुतअस्स अवराहं ण मरिसेदि। उट्ठेहि उट्ठेहि। को एत्थ दोसो। (जात! का नाम माता पुत्रकस्यापराधं न मर्षयति।
उत्तिष्ठोत्तिष्ठ। कोऽत्र दोष:।)
भरत: - अनुगृहीतोऽस्मि। आपृच्छाम्यत्रभवतीम्। अद्यैवाहमार्यस्य साहाय्यार्थं कृत्स्नं राजमण्डलमुद्योजयामि । अयमिदानीं,
वेलामिमां मत्तगजान्धकारां
करोमि सैन्योघनिवेशनद्धाम् ।
बलैस्तरद्भिश्च नयामि तुल्यं
ग्लानिं समुद्रं सह रावणेन ।। 16 ।।
अये शब्द इव । तूर्णं ज्ञायतां शब्द: ।
(प्रविशय।)
प्रतिहारी - जेदु कुमारो । इयं वुत्तन्तं सुणिअ जोट्ठभट्ठिणी मोहं गआ। (जयतु कुमार: इमं वृत्तान्तं श्रुत्वा ज्येष्ठभट्टिनी मोहं गता।)
कैतेयी - हं।
 
भरत: - कथं मोहमुपताम्बा।
कैकेयी - एहि जाद! अय्यं अस्सासइस्सामो। (एहि! जात! आर्यामाश्वासयिष्याव:।)
भरत: - यदाज्ञापयत्यम्बा।
(निष्क्रान्ता: सर्वे।)
 
षष्ठोऽङ्क:।