प्रतिमानाटकम्/पञ्चमोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search
← चतुर्थोऽङ्कः प्रतिमानाटकम्
पञ्चमोऽङ्कः
भासः
षष्ठोऽङ्कः →

(तत: प्रविशति सीता तापसी च।)
सीता - अय्ये। उवहारसुमणाइण्णो सम्मज्जिदो असमो। अस्समपदविभवेण अणुट्ठिओ देवलमुदाआरो। ता जाव अय्यउत्तो ण आअच्छदि दाव
अमाणं बाळरुक्खाणं उदअप्पदाणेण अणुक्कोसइस्सं। (आर्ये! उपाहारसुमननाकीर्ण: संमार्जित आश्रम:। आश्रमपदविभवेनानुष्ठितो देवसमुदाचार:
तद् यावदार्यपुत्रो नागच्छति, तावदिमान् बालवृक्षानुदकप्रदानेनानुक्रोशयिष्यामि।)
तापसी - अविग्घं से होदु । (अविघ्नमस्य भवतु।)
राम: - (सशोकम्।)
त्यक्त्वा तां गुरुणा मया च रहितां रम्यामयोध्यां पुरी -
मुद्यम्यापि ममाभिषेकमखिलं मत्सन्निधावागत: ।
रक्षार्थं भरत: पुनर्गुणनिधिस्तत्रैव सम्प्रेषित:
कष्टं भो नृपतेर्धुरं सुमहतीमेक: समुत्कर्षति ।। 1 ।।
(विमृश्य) ईदृशमेवैतत्। यावदिदानीमीदृशशोकविनोदनार्थमवस्थाकुटुम्बिर्नी मैथिलीं पश्यामि। तत् क्व नु खलु गता वैदेही ।
(परिक्रम्यावलोक्य) अये इमानि खलु प्रत्यग्राभिषिक्तानि वृश्रमूलानि अदूरगतां मैथिलीं सूचयन्ति। तथाहि,
भ्रमति सलिलं वृक्षावर्ते सफेनमवस्थितं
तृषितपतिता नैते क्लिष्टं पिबन्ति जलं ख़गा: ।
स्थलमभिपतन्त्याद्र्रा: कीटा बिले जलपूरिते
नववलयिनो वृक्षा मूले जलक्षयरेखया ।। 2 ।।
(विलोक्य।) अये इयं वैदेही। भो:। कष्टम्।
 
योऽस्या: कर: श्राम्यति दर्पणेऽपि
स नैति खेदं कलशं बहन्त्या: ।
कष्टं वनं स्त्रीजनसौकुमार्यं
समं लताभि: कठिनीकरोति ।। 3 ।।
(उपेत्य) मैथिलि! अपि तपो वर्धते।
सीता - हं अय्यउत्तो। जेदु अय्यठत्तो। (हम् आर्यपुत्र:। जयत्वार्यपुत्र:।)
राम: - मैथिलि! यदि ते नास्ति धर्मविघ्न: आस्यताम्।
सीता - जं अय्यउत्तो आणवेदि। (उपविशति। (यदार्यपुत्र आज्ञापयति।)
राम: - मैथिलि! प्रतिवचनार्थिनीमिव त्वां पश्यामि। किमिदम्।
सीता - सोअसुण्णाहिअअस्स विअ अय्यउत्तस्स मुहाराओ। किं एदं। (शोकशून्यहृदयस्येवार्यपुत्रस्य मुखराग: किमेतत्।)
राम: - मैथिलि! स्थाने खलु कृता चिन्ता।
कृतान्तशल्याभिहते शरीरे
तथैव तावद्धृदयव्रणो मे ।
नानाफला: शोकशराभिघाता -
स्तत्रैव तत्रैव पुन: पतन्ति ।। 4 ।।
सीता - अय्यउत्तस्स को विअ सन्दावो। (आर्यपुत्रस्य क इव सन्ताप:।)
राम: - श्वस्तत्रभवतस्तातस्यानुसंवत्सरश्राद्धविदिघ:। कल्पविशेषेण निवपनक्रियामिच्छन्ति पितर:। तत् कथं निर्वर्तयिष्यामीत्येतच्चिन्त्यते। अथवा।
गच्छन्ति तुÏष्ट खलु येन केन
त एव जानन्ति हि तां दशां मे।
इच्छामि पूजां च तथापि कर्तुं
तातस्य रामस्य च सानुरूपाम्।।5।।
राम:- मैथिलि!
फलानि दृष्द्वा दर्भेषु स्वहस्तरचितानि न: ।
स्मारितो वनवासं च तातस्तत्रापि रोदिति ।। 6 ।।
(तत: प्रविशति परिव्राजकवेषो रावण:)
रावण: - एष भो:!
नियतमनियतात्मा रूपमेतद् गृहीत्वा
खरवधकृतवैरं राघवं वञ्चयित्वा ।
स्वरपदपरिहीणां हव्यधारामिवाहं
जनकनृपसुतां तां हर्तुकाम: प्रयामि ।। 7 ।।
(परिक्रम्यादो विलोक्य) इदं रामस्याश्रमपदद्वारम् ।। (यावदवतरामि।)
(अवतरति।) यावदहमप्यतिथिसमुदाचारमनुष्ठास्यामि । अहमतिथि: । कोऽत्रभो:।
राम: - (श्रुत्वा।) स्वागतमतिथये !
 
रावण: - साधु विशेषितं खलु रूपं स्वरेण ।
राम: - (विलोक्य।) अये भगवान्। भगवन्! अभिवादये ।
रावण: - स्वस्ति ।
राम: - भगवन्! एतदासनमास्यताम् ।
रावण: - (आत्मगतम्।) कथमाज्ञप्त इवास्म्यनेन। (प्रकाशम्) बाढम्। (उपविशति।)
राम: - मैथिलि! पाघ्यमानय भगवते ।
सीता - जं अय्यउत्तो आणवेदि। (निष्क्रम्य प्रविश्य।) इमा आवो। (यदार्यपुत्र आज्ञापयति। इमा आप:।)
राम: - शुश्रूषय भगवन्तम् ।
सीता - जं अय्यउत्तो आणवेदि। (यदायऱ्पुत्र आज्ञापयति।)
रावण: - (मायाप्रकाशनपर्याकुलो भूत्वा) भवतु, भवतु,
इयमेका पृथिव्यां हि मानुषीणामरुन्धती ।
यस्या भर्तेति नारीभि: सत्कृत: कथ्यते भवान् ।। 8 ।।
राम: - तेन हि आनय, अहमेव शुश्रूषयिष्ये।
रावण: - अयि छायां परिहृत्य शरीरं न लङ्घयामि। वाचानुवृत्ति: खल्वतिथिसत्कार:। पूजितोऽस्मि। आस्याताम् ।
राम: - बाढम्। (उपविशति।)
रावण: - (आत्मगतम्।) यावदहमपि ब्राह्मणसमुदाचारमनुष्ठास्यामि। (प्रकाशम्) भो:! काश्यपगोत्रोऽस्मि। साङ्गोपाङ्गं वेदमधीये, मानवीयं धर्मशास्त्रं,
माहेश्वरं योगशास्त्रं, बार्हस्पत्यमर्थशास्त्रं, मेधातिथेन्र्यायशास्त्रं, प्रचेतसं श्राद्धकल्पं च ।
राम: - कथं कथं श्राद्धकल्पमिति ।
रावण: - सर्वा: श्रुतीरतिक्रम्य श्राद्धकल्पे स्पृहा दर्शिता। किमेतत् ।
राम: - भगवन्! भ्रष्टायां पितृमत्तायामागम इदनीमेष:।
रावण: - अलं परिहृत्य। पृच्छतु भवान् ।
राम: - भगवन्! निवपनक्रियाकाले केन पितृंस्तर्पयामि ।
रावण: - सर्वं श्रद्धया दत्तं श्राद्धम् ।
राम: - भगवन्! अनादरत: परित्यक्तं भवति। विशेषार्थं पृच्छामि ।
रावण: - श्रूयताम्। विरूढेषु दर्भा:, ओषधीषु तिला:, कलायं शाकेषु, मत्स्येषु महाशफर:, पक्षिषु वाध्र्राणस:, पशुषु गौ: खङ्गो वा, इत्येते मानुषाणां
विहिता: ।
राम: - भगवन् ! वाशब्देनावगतमन्यदप्यस्तीति ।
रावण: - अस्ति प्रभावसम्पाद्यम् ।
राम: - भगवन्! एष एव मे निश्चय: ।
उभयस्यास्ति सान्निध्यं यद्येतत् साधयिष्यति ।
 
धनुर्वा तपसि श्रान्ते श्रान्तेधनुषि वा तप: ।। 9 ।।
रावण: - सन्ति। हिमवति प्रतिवसन्ति ।
राम: - हिमतीति। ततस्तत: ।
रावण: - हिमवत: सप्तमे शृङ्गे प्रत्यक्षस्थाणुशिर:पतितगङ्गाम्बुपायिनो वैदूर्यश्यामपृष्ठा: पवनसमजवा: काञ्चनपाश्र्वा नाम मृगा:,
यैर्वैखानसवालखिल्यनैमिशीयादयो महर्षयश्चिन्तितमात्रोपस्थितविपन्नै: श्राद्धान्यभिवर्धयन्ति ।
तैस्तर्पिता: सुतफलं पितरो लभन्ते
हित्वा जरां खमुपयान्ति हि दीप्यमाना: ।
तुल्यं सुरै: समुपयान्ति विमानवास-
मावर्तिभिश्च विषयैर्न बलाद्घ्रियन्ते ।। 10 ।।
राम: - मैथिलि!
आपृच्छ पुत्रकृतकान् हरिणान् द्रुमांश्च
विन्ध्यं वनं तव सखीर्दयिता लताश्च ।
वत्स्यामि तेषु हिमवद्गिरिकाननेषु
दीप्तैरिवौषाधिवनैरुपरञ्जितेषु ।। 11 ।।
सीता - जं अय्यउत्तो आणवेदि । (यदार्यपुत्र आज्ञापयति।)
रावण: - कौसल्यामात: ! अलमतिमनोरथेन । न ते मानुषैर्दृश्यन्ते ।
राम: - भगवन् ! किं हिमवति प्रतिवसन्ति ।
रावण: - अथ किम् ।
राम: - तेन हि पश्यतु भवान् ।
सौवर्णान् वा मृगांस्तान् मे हिमवान् दर्शयिष्यति ।
भिन्नो मद्बाणवेगेन क्रौञ्चत्वं वा गमिष्यति ।। 12 ।।
रावण: - (स्वागतम्।) अहो असह्य: खल्वस्यावलेप: ।
राम: - (दिशो विलोक्य।) अये विद्युत्सम्पात इव दृश्यते ।
रावण: - (प्रकाशम्।) कौसल्यामात:। इहस्थमेव भवन्तं पूजयति हिमवान्। एष काञ्चनपाश्र्व: ।
राम: - भगवतो वृद्धिरेषा ।
सीता - दिट्ठिआ अय्यउत्तो वड्ढइ । (दिष्ट्वात्र्यार्यपुत्रो वर्धते।)
राम: - न न,
तातस्यैतानि भाग्यानि यदि स्वयमिहागत: ।
अर्हत्येष हि पूजायां लक्ष्मणं ब्रूहि मैथिलि ।। 13 ।।
सीता - अय्यउत्त! णं तित्थअसादो उवावत्तमाणं कुळवदिं पच्चुग्गच्छेहित्ति सन्दिट्ठो सोमित्ती । (आर्यपुत्र! ननु तीर्थयात्रात उपावर्तमानं कुलपतिं
प्रत्यद्गच्छेति सन्दिष्ट: सौमित्रि:।)
राम: - तेन हि अहमेव यास्यामि ।
 
सीता - अय्यउत्त! अहं किं करिस्सं । (आर्यपुत्र! अहं किं करिष्यामि।)
राम: - शुश्रूषयस्व भगवन्तम् ।
सीता - जं अय्यउत्तो आणवेदि । (यदार्यपुत्र आज्ञापयति।)
(निष्क्रान्तो राम:)
रावण: - अये, अययध्र्यमादायोपसर्पति राघव:। एष इदानीं पूजामनवेक्ष्य धावन्तं मृगं दृष्ट्वा धनुरारोपयति राघव:।
अहो बलमहो वीर्यमहो सत्त्वमहो जव: ।
राम इत्यक्षरैरल्पै: स्थाने व्याप्तमिदं जगत् ।। 14 ।।
एष मृग:। एकप्लुतातिक्रान्तशरविषयो वनगहनं प्रविष्ट: ।
सीता - (आत्मगतम्।) अय्यउत्तविरहिदाए भअं मे एत्थ उप्पज्जइ । (आर्यपुत्रविरहिताया भयं मेऽत्रोत्पद्यते।)
रावण: - (आत्मगतम्।)
माययापहते .....
सीता - जाव उडजं पविसामि। (गन्तुमीहते) (यावदुटजं प्रविशामि।)
रावण: - (स्वरूपं गृहीत्वा।) सीते! तिष्ठ तिष्ठ ।
सीता - (सभयम्।) हं को दाणि अअं। (हं क इदानीमयम्।)
रावण: - किं न जानीषे ।
युद्धे येन सुरा: सदानवगणा: शक्रादयो निर्जिता
दृष्ट्वा शूर्पणखाविरूपकरणं श्रुत्वा हतौ भ्रातरौ ।
दर्पाद् दुर्मतिमप्रमेयबलिनं रामं विलोभ्य च्छलै:
स त्वां हर्तुमना विशालनयने! प्राप्तोऽस्म्यहं रावण: ।। 16 ।।
सीता - हं ळावणो णाम। (प्रतिष्ठते।) (हं रावणो नाम।)
रावण: - आ: रावणस्य चक्षुर्विषयमागता क्व यास्यसि।
सीता - अय्यउत्त! परित्ताआहि परित्ताआहि। सोमित्ती! परित्ताआहि परित्ताआहि मं। (आर्यपुत्र! परित्रायस्व परित्रायस्व। सौमित्रे! परित्रायस्व
परित्रायस्व माम्।)
रावण: - सीते! श्रूयतां मत्पराक्रम: ।
भग्न: शक्र: कम्पितो वित्तनाथ:
कृष्ट: सोमो मर्दित: सूर्यपुत्र: ।
धिग् भो: स्वर्गं भीतदेवैर्निविष्टं
धन्या भूमिर्वर्तते यत्र सीता ।। 17 ।।
सीता - अय्यउत्त! परित्ताआहि परिआहि। सोमित्ती! परित्ताआहि परित्ताआहि मं। (आर्यपुत्र! परित्रास्व परित्रायस्व। सौमित्रे! परित्रायस्व परित्रायस्व
माम्।)
रावण: - रामं वा शरणमुपेहि लक्ष्मणं वा
स्वर्गस्थं दशरथमेव वा नरेन्द्रम् ।
 
किं वा स्यात् कुपुरुषसंश्रितैर्वचोभि-
र्न व्याघ्रं मृगशिशव: प्रधर्षयन्ति ।। 18 ।।
सीता - अय्यउत्त! परित्तआहि परित्ताआहि। सोमित्ती! परित्ताआहि परिआहि मं । (आर्यपुत्र! परित्रायस्व परित्रायस्व। सौमित्रे! परित्रायस्व माम्।)
रावण:- विलपसि किमिदं विशालनेत्रे
विगणयमां च यथा तवार्यपुत्रम् ।
विपुलबलयुतो ममैष योद्धुं
ससुरगणोऽप्यसमर्थ एव राम: ।। 19 ।।
सीता - (सरोषं) सत्तो सि। (शप्तोऽसि।)
रावण: - हहह! अहो पतिब्रतायास्तेज:।
योऽहमुत्पतितो वेगान्न दग्ध: सूर्यरश्मिभि: ।
अस्या: परिमितैर्दग्ध: शप्तोऽसीत्येभिरक्षरै: ।। 20 ।।
सीता - अय्यउत्त ! परित्ताआहि परित्ताआहि । (आर्यपुत्र! परित्रायस्व परित्रायस्व।)
रावण: - (सीतां गृहीत्वा।) भो भो जनस्थानवासिनस्तपस्विन:! श्रृण्वन्तु श्रृण्वन्तु भवन्त: ।
बलादेष दशग्रीव: सीतामादाय गच्छति ।
क्षात्रधर्मे यदि स्निग्ध: कुर्याद् राम: पराक्रमम् ।। 21 ।।
सीता - अय्यउत्त! परित्ताआहि परित्ताआहि। (आर्यपुत्र! परित्रायस्व परित्रायस्व।)
रावण: - (परिक्रमन् विलोक्य।) अये स्वपक्षपवनोत्क्षेपक्षुभितवनषण्डश्चण्डचञ्चुरभिधावत्येष जटायु। आ: तिष्ठेदानीम्।
मद्भुजाकृष्टनिÏस्त्रशकृत्तपक्षक्षतच्युतै: ।
रुधिरेराद्र्रगात्रं त्वां नयामि यमसादनम् ।। 22 ।।
(निष्क्रान्तौ)

पञ्चमोऽङ्क: