प्रतिमानाटकम्/चतुर्थोऽङ्कः

विकिस्रोतः तः
← तृतीयोऽङ्कः प्रतिमानाटकम्
चतुर्थोऽङ्कः
भासः
पञ्चमोऽङ्कः →

(तत: प्रविशतश्चेट्यौ।)

विजया - हळा णन्दिणिए! भणोहि भणेहि। अज्ज कोसळळापुरोगोहि सव्वेहि अन्तेवुरेहि पडिमागेहं दट्ठुं गदेहि तहिं किळभट्टिदाराओ भरदो दिट्ठो।
अहं च मन्दभाआ दुवारे ट्ठिदा।
(हला नन्दिनिके!भण भण। अद्य कौसल्यापुरोगै: सर्वैरन्त:पुरै: प्रतिमागेहं द्रष्टुं गतैस्तत्र किल भर्तृदारको भरतो दृष्ट:। अहं च मन्दभागा
द्वारे स्थिता।)
नन्दिक - हळा! विट्ठो अम्हेहि कोदूहळेण भट्टिदाओ भरदो। (हला! दृष्टोऽस्माभि:, कौतृहलेन भर्तृदारको भरत:।)
विजया - भट्ठिणी कुमारेण किं भणिदा। (भट्टिनी कुमारेण किं भणिता।)
नन्दिनिका - किं भणिदं। ओळोइदुं वि णेच्छदि कुमारो। (किं भणितम्। अवलोकितुमपि नेच्छति कुमार:।)
विजया - अहो अच्चाहिदम्। रज्जळुद्धाए भट्टिदारअस्स रामस्स रज्जविब्भट्ठं करन्तीए अत्तणो वेहव्वं आदिट्ठ। ळोओ वि विणासं गमिओ।
णिग्घिणा हु भट्टिणी। पापअं किदं। (अहो अत्याहितम्। राज्यलुब्धया भर्तृदारकस्य रामस्य राज्यविभ्रष्टं कुर्वत्यात्मनो वैधव्यमादिष्टम्।
लोकोऽपि विनाशं गमित:। निर्घृणा खलु भट्टिनी। पापकं कृतम्।)
नन्दिनिका - हळा! सूणाहि। पइदीहि आणीदं अंभिसअं विसज्जिअं रामतवोवणं गदो कुमारो (हला! शृणु। प्रकृतिभिरानीतमभिषेकं विसृज्य रामतपोवनं
गत: कुमार:।)
विजया - (सविषादम्) हं। एवं गदो कुमार:। नन्दिनिके। एह्यावां भट्टिनीं पश्या:।)
(निष्क्रान्ते।)
प्रवेशक:
(तत: प्रविशति भरतो रथेन सुमन्त्र: सूतश्च।)
भरत: - स्वर्गं गते नरपतौ सुकृतानुयात्रे
पौरश्रुपातसलिलैरनुगम्यमान: ।
द्रष्टुं प्रयाम्यकृपणेषु तपोवनेपु
रामाभिधानमपरं जगत: शशाङ्कम् ।। 1 ।।
सुमन्त्र: - एष एष आयुष्मान् भरत:.
दैत्येन्द्रमानमथनस्य नृपस्य पुत्रो
यज्ञोपयुक्तविभवस्य नृपस्य पौत्र: ।
 
भ्राता पितु: प्रियकरस्य जगत्प्रियस्य
रामस्य रामसदृशेन पथा प्रयाति ।। 2 ।।
भरत: - भोस्तात!
सुमन्त्र: - कुमार, अयमस्म्मि।
भरत: - क्व तत्रभवान् ममार्यो राम:। क्वासौ महाराजस्य प्रतिनिधि: । क्व सन्निदर्शनं सारवताम्। क्वासौ प्रत्यदेशो राज्यलुब्धाया:। कैकेय्या:। क्व
तत् पात्रं यशस:। क्वासौ नरपते: पुत्र:। क्वासौ सत्यमनुव्रत:।
मम मातु: प्रियं कर्तु येन लक्ष्मीर्विसर्जिता ।
तमहं द्रष्टुमिच्छामि दैवतं परमं मम ।। 3 ।।
सुमन्त्र: - कुमार! एतस्मिन्नाश्रमपदे।
अत्र रामश्च सीता च लक्ष्मणश्च महायशा: ।
सत्यं शीलं च भक्तिश्च येषु विग्रहवत् स्थिता ।। 4 ।।
भरत: - तेन हि स्थाप्यातां रथं।
सूत: - यदाज्ञापयत्यायुष्मान्। (तथा करोति)
भरत:- (रथादवतीर्य।) सूत! एंकान्ते विश्रामयाश्वान्।
सूत: - यदाज्ञापयत्यायुष्मान्।
(निष्क्रान्त:।)
भरत:- भोस्तात! निवेद्यतां निवेद्यताम्।
समन्त्र: - कुमार! किमिति निवेद्यते।
भरत: - राज्यलुब्धाया: कैकेय्या: पुत्रो भरत: प्राप्त इति।
सुमन्त्र: - कुमार! अलं गुरुजनापवादमभिधातुम्।
भरत: - सुष्ठु न न्याय्यं परदोषमभिधातुम्। तेन उच्यतामिक्ष्वाकुकुलन्यङ्गभूतो भरतो दर्शनमभिलषतीति।
सुमन्त्र: - कुमार! नाहमेवं वक्तुं समर्थ:। अथ पुनर्भरत: प्राप्त इति ब्रूयाम्।
भरत: - न न । नाम केवलमभिधीयमानमकृतप्रायश्चित्तमिव मे प्रतिभाति। किं ब्रह्मघ्नानामपि परेण निवेदनं क्रियते। तस्मात् तिष्ठतु तात:।
अहमेव निवेदयिष्ये। भो भो:। निवेद्यतां निवेद्यतां तत्रभवते पितृवचनकराय राघवाय --
निर्घृणश्च कृतघ्नश्च प्राकृत: प्रियसाहस: ।
भक्तिमानागत: कश्चित् कथं तिष्ठतु यात्विति ।। 5 ।।
(तत: प्रविशति राम: सीतालक्ष्मणाभ्याम्।)
राम: - (आकण्र्य सहर्षम्।) सौमित्रे! श्रृणोषि। अयि विदेहराजपुत्रि! त्वमपि श्रृणोषि।
कस्यासौ सदृशतर: स्वर: पितुर्मे
गाम्भीर्यात् परिभवतीव मेघनादम् ।
य: कुर्वन् मम हृदयस्य बन्धुशङ्कां
सस्नेह: श्रुतिपथमिष्टत: प्रविष्ट: ।। 6 ।।
 
लक्ष्मण: - आर्य! ममापि खल्वेष स्वरसंयोगो बन्धुजनबहुमानमावहति। एष हि,
धन: स्पष्टो धीर: समदवृषभस्निग्घमधुर:
कल: कण्ठे वक्षस्यनुपहतसञ्चाररभस: ।
यथास्थानं प्राप्य स्फुटकरणनानाक्षरतया
चतुर्णां वर्णानामभयमिव दातुं व्यवसित: ।। 7 ।।
राम: - सर्वथा नायमबान्धवस्य स्वरसंयोग:। क्लेदयतीव मे हृदयम्। वत्स लक्ष्मण! दृश्यतां तावत्।
लक्ष्मण: - यदाज्ञापयत्यार्य:।
(परिक्रामातिं।)
भरत: - अये कथं न कश्चित् प्रतिवचनं प्रयच्छति। किन्नु खलु विज्ञातोऽस्मि कैकेय्या: पुत्रो भरत: प्राप्त इति।
लक्ष्मण: - (विलोक्य) अये अयमार्यो राम:। न न। रूपसादृयम्।
मुखमनुपमं त्वार्यस्याभं शशाङ्कमनोहरं
मम पितृसमं पीनं पक्ष: सुरारिशरक्षतम् ।
द्युतिपरिवृतस्तेजोराशीर्जगत्प्रियदर्शनो
नारपतिरयं देवेन्द्रो वा स्वयं मधुसूदन: ।। 8 ।।
(सुमन्त्रं दृष्ट्वा।) अये तात:।
सुमन्त्र: - अये कुमारो लक्ष्मण:।
भरत: - एवं गुरुरयम्। आर्य, अभिवादये।
लक्षमण: - एहोहि। आयुष्मान् भव। (सुमन्त्रं वीक्ष्य।) तात! कोऽत्रभवान्!
सुमन्त्र: - कुमार!
रघोश्चतुर्थोऽयमजात् तृतीय:
पितु: प्रकाशस्य तव द्वितीय: ।
यस्यानुजस्त्वं स्वकुलस्य केतो-
स्तस्यानुजोऽयंं भरत: कुमार: ।। 9 ।।
लक्ष्मण:- एह्योहीक्ष्वाकुकुमार! वत्स! स्वस्ति, आयुष्मान् भव।
असुरसमरदक्षैर्वज्रसंघृष्टचापै -
रनुपमबलवीर्यै. स्वै: कुलैस्तुल्यवीर्य: ।
रघुरिव स नरेन्द्रो यज्ञविश्रान्तकोशो
भव जगति गुणानां भाजनं भ्राजितानाम् ।। 10 ।।
भरत: - अनुगृहीतोऽस्मि।
लक्ष्मण: - कुमार! इह तिष्ठ। त्वदागमनमार्याय निवेदयामि।
भरत: - आर्यं! अचिरमिदानीमभिवादयितुमिच्छामि। शीघ्रं निवेद्यताम्।
लक्ष्मण: - बाढम्। (उपेत्य।) जयत्वार्य:। आर्य!
अयं ते दयितो भ्राता भरतो भ्रातृवत्सल: ।
 
संक्रान्तं यत्र ते रूपमादर्श इव तिष्ठति ।। 11 ।।
राम: - वत्स लक्ष्मण! किमेवं भरत: प्राप्त:।
लक्ष्मण: - आर्य! अथ किम्।
राम: - मैथिलि! भरतावलोकनार्थं विशालीक्रियतां ते चक्षु:।
सीता - अय्यउत्त! किं भरदो। (आर्यपुत्र! किं भरत आगत:।)
राम: - मैथिलि! अथ किम्।
अद्य खल्वगच्छामि पित्रा मे दृष्करं कृतम् ।
कीदृशस्तनयस्नेहो भ्रातृस्नेहोऽयमीदृश: ।। 12 ।।
लक्ष्मण: - आर्य! किं प्रविशतु कुमार:।
वत्स लक्ष्मण! इदमपि तावदात्माभिप्रायमनुवर्तयितुमिच्छसि। गच्छ सत्कृत्य शीघ्रं प्रवेश्यतां कुमार:।
लक्ष्मण: - यदाज्ञापयत्यार्य:।
राम: - अथवा तिष्ठ त्वम्।
इयं स्वयं गच्छतु मानहेतोर्मातेव भावं तनये निवेश्य ।
तुषारपूर्णोत्पलपत्रनेत्रा हर्षास्रमासारमिवोत्सृजन्ती ।। 13 ।।
सुमन्त्र: - अये वधू:।
भरत: - अये इयमत्रभवती जनकराजपुत्री।
इदं तत् स्त्रीमयं तेजो जातं क्षेत्रोदराद्हलात् ।
जनकस्य नृपेन्द्रस्य तपस: सन्निदर्शनम् ।। 14 ।।
आर्ये! अभिवादये भंरतोऽहमस्मि।
राम: - (सहर्षम्) एह्येहि, इश्वाकुकुमार! स्वस्ति, आयुष्मान् भव।
वक्ष: प्रसारय कवाटपुटप्रमाण -
मालिङ्ग मां सुविपुलेन भुजद्वयेन ।
उन्नामयाननमिदं शरदिन्दुकल्पं
प्रह्लादय व्यसनदग्धमिदं शरीरम् ।। 15 ।।
भरत: - अनुगृहीतोऽस्मि।
सुमन्त्र: - (उपेत्य।) जयत्वायुष्मान्।
राम: - हा तात!
गत्वा पूर्वं स्वसैन्यैरभिसरिसमये खं समानैर्विमानै -
र्विख्यातो यो विमर्दे स स इति बहुश: सासुराणां सुराणाम् ।
स श्रीमांस्त्यक्तदेहो दयितमपि विना स्नेहवन्तं भवन्तं
स्वर्रस्थ: साम्प्रतं किं रमयति पितृभि: स्वैर्नरेन्द्रैर्नरेन्द्र: ।। 17 ।।
सुमन्त्र: - (सशोकम्)
 
नरपतिनिधनं भवत्प्रवासं
भरतविषादमनाथतां कुलस्य ।
वहुविधमनुभूय दुष्प्रसह्यं
गुण इव बह्वपराद्धमायुषा मे ।। 18 ।।
सीता - रोदन्तं अय्यउत्तं पुणो वि रोवीअदि तादो। (रुदन्तमार्यपुत्रं पुनरपि रोदयति तात:।)
राम: - मैथिलि! एष पर्यवस्थापयाम्यात्मानम्। वत्स लक्ष्मण! आपस्तावत्।
लक्ष्मण: - यदाज्ञापयत्यार्य:।
भरत: - आर्य! न खलु न्याय्यम्। क्रमेण शुश्रूषयिष्ये। अहमेव यास्यामि। (कलशं गृहीत्वा निष्क्रम्य प्रविश्य।) इमा आप:।
राम: - (आचम्य) मैथिलि! विशीर्यते खलु लक्ष्मणस्य (खलु लक्ष्मणस्य) व्यापार:।
सीता - अय्यउत्त! णं एदिणा पि सुस्सूसइदव्वो। (आर्यपुत्र! नन्वेतेनापि शुश्रुषयितव्य:।)
राम: - सुष्ठु खल्विह लक्ष्मण: शुश्रूषयतु। तत्रस्थो मां भरत: शुश्रषयतु।
भरत: - प्रसीदत्वार्यं:।
इह स्थास्यामि देहेन तत्र स्थास्यामि कर्मणा
नाम्नैव भवतो राज्यं कृतरक्षं भविष्यति ।। 19 ।।
राम: - वत्स! कैकेयीमात:! मा मैवम्।
पितुर्नियोगादहमागतो वनं
न वत्स! दर्पान्न भयान्न विभ्रमात् ।
कुलं च न: सत्सधनं ब्रवीमि ते
कथं भवान् नीचपथे प्रवर्तते ।। 20 ।।
सुमन्त्र: - अथेदानीमभिषेकोदकं क्व तिष्ठतु।
राम: - यत्र मे मात्राभिहितं, तत्रैव तावत् तिष्ठतु।
भरत: - प्रसीदत्वार्य:। आर्य ! अलमिदानीं व्रणे प्रहर्तुम्।
अपि सुगुण! ममापि त्वत्प्रसूति: प्रसूति:
स खलु निभृतधीमांस्ते पिता मे पिता च ।
सुपुरुष! पुरुषाणां मातृदोषो न दोषो
वरद! भरतमार्तं पश्य तावद् यथावत् ।। 21 ।।
सीता - अययउत्त! अदिकरुणं मन्तेअइ भरदो। किं दाणिं अय्यउत्तेण चिन्तीअदि। (आर्यपुत्र! अतिकरुणं मन्त्रयते भरत:। किमिदानीमार्यपुत्रेण
चिन्त्यते।)
राम: - मैथिलि!
तं चिन्तयामि नृपतिं सुरलोकयातं
येनायमात्मविशिष्टगुणो न दृष्ट: ।
ईदृग्विधं गुणनिधिं समवाप्य लोके
धिग् भो! विधेर्यदि बलं पुरुषोत्तमेषु ।। 22 ।।
वत्स! कैकेयीमात:।

यत्सत्यं परितोषितोऽस्मि भवता निष्कल्मषात्मा भवां-
स्त्वद्वाक्यस्य वशानुगोऽस्मि भवत: ख्यातैर्गुणौर्निर्जित: ।
किन्त्वेतन्नृपत्तेर्वचस्तदनृतं कर्तुं न युक्तं त्वया
किञ्चोत्पाद्य भवद्विधं भवतु ते मिथ्याभिधायी पिता ।। 23 ।।
भरत: - यावद् भविष्यति भवन्नियमावसानं
तावद् भवेयमिह ते नृप! पादमूले ।
राम: - मैवं, नृप: स्वसुकृतैरनुयातु सिदिं्ध
मे शापितो, न परिरक्षसि चेत् स्वराज्यम् ।। 24 ।।
भरत: - अनुत्तरमभिहितम्। भवतु समयतस्ते राज्यं परिपालयामि।
राम: - वत्स! क: समय:।
भरत: - मम हस्ते निक्षिप्तं तव राज्यं चतुर्दशवर्षान्ते प्रतिग्रहीतुमिच्छामि।
राम: - एवमस्तु।
भरत: - आर्य! श्रुतम्! आर्ये श्रुतम्। तात! श्रुतम्।
सर्वे - वयमपि श्रोतार:।
भरत: - आर्यं! अन्यमपि वरं हर्तुमिच्छामि।
राम: - वत्स! किमिच्छसि! किमहं ददामि!। किमहमनुष्ठास्यामि।
भरत: - पादोपभुक्ते तव पादुके मे
एते प्रयच्छ प्रणताय मूध्र्ना ।
यावद् भवानेष्यति कार्यसिदिं्ध
तावत् भविष्याम्यनयोर्विधेय: ।। 25 ।।
राम: - (स्वागतम्) हन्त भो:!
सुचिरेणापि कालेन यश: किञ्जिन्मयार्जितम् ।
अचिरेणैव कालेन भरतेनाद्य सञ्चितम् ।। 26 ।।
सीता - अय्यउत्त! णं दीयहि खु पुडमजाअणं भरदस्स। (आर्यपत्र! ननु दीयते खलु प्रथमयाचनं भरताय।)
राम: - तथास्तु गृह्यताम्। (पादुके अर्पयति)
भरत: - अनुगृहीतोऽस्मि। (गृहीत्वा) आर्य! अत्राभिषेकोदकमावर्जयितुमिच्छामि।
राम: - तात! यदिष्टं भरतस्य तत् सर्वं क्रियताम्।
सुमन्त्र: - यदाज्ञापयत्यायुष्मान् !
भरत: - (आत्मगतम्) हन्त भो:,
श्रद्धेय: स्वजनस्य पौररूचितो लोकस्य दृष्ठिक्षम:
स्वर्गस्थस्य नराधिपस्य दयित: शीलान्वितोऽहं सुत: ।
भ्रातृणां गुणशालिनां बहुमत: कीर्तेर्महद् भाजनं
संवादेषु कथाश्रयो गुणवतां लब्धप्रियाणां प्रिय: ।। 27 ।।

राम: - वत्स कैकेयीमात:! राज्यं नाम मुहूर्तमपि नोपेक्षणीयम्। तस्मादद्यैव विजयाय प्रतिनिवर्ततां कुमार:।
सीता - हं अज्ज एव्व गमिस्सदि कुमारो भरदो। (हम् अद्यैव गमिष्यति कुमारो भरत:।)
राम: - अलमतिस्नेहेन। अद्यैव विजयाय प्रतिनिवर्ततां कुमार: ।
भरत: - आर्य अद्यैवाहं गमिष्यामि ।
आशावन्त: पुरे पौरा: स्थास्यन्ति त्वद्दिदृक्षया ।
तेषां प्रीतिं करिष्यामि त्वत्प्रसादस्य दर्शनात् ।। 28 ।।
सुमन्त्र: - आयुष्मन्! मयेदानीं किं कर्तव्यम्।
राम: - तात! महाराजवत् परिपाल्यतां कुमार:।
सुमन्त्र: - यदि जीवामि, तावत् प्रयतिष्ये।
राम: - वत्स कैकेयीमात:। आरुह्यतां ममाग्रतो रथ:।
भरत: - यदाज्ञापयत्यार्य:। (रथमारोहत:)
राम: - मैथिलि! इतस्तावत्। वत्स लक्ष्मण! इतस्तावत्। आश्रमपदद्वारमात्रमपि भरतस्यानुयात्रं भविष्याम:।
(इति निष्क्रान्ता: सर्वे।)

चतुर्थोऽङ्क: