प्रतिमानाटकम्/तृतीयोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search
← द्वितीयोऽङ्कः प्रतिमानाटकम्
तृतीयोऽङ्कः
भासः
चतुर्थोऽङ्कः →

(तत: प्रविशति सुधाकार:।)
सुधाकार: - (समार्जनादीनि कृत्वा।) भोदु, दाणि किदं एत्थ कय्यं अय्यसम्भवअरस आणत्तं। जाव मुहुत्तं सुविस्सं। (स्वपिति।) (भवतु, इदानीं कृतमत्र
कार्यमार्यसम्भवकस्याज्ञप्तम्। यावन्मुहूर्तं स्वप्स्यामि।)
(प्रविश्य)
भट: - (चेटमुपगम्य ताडयित्वा।) अङ्घो दासीएपुत्त! किं दाणि कम्मं ण करेसि। (ताडयति।) (अङ्घो दास्या: पुत्र! किमिदानीं कर्म न करोषि।)
सुधाकार: - (बुद्धवा ताळेहि मं ताळेहि मं (ताडय मां ताडय माम्।)
भट: - ताडीदे तुवं किं करिस्ससि। (ताडिते त्वं किं करिष्यसि।)
सुधाकार: - अहण्णस्स म्म कत्तवी अस्स विअ बाहुसहस्सं णात्थि। (अघन्यस्य मम कार्तवीर्यस्येव बहुसहस्रं नास्ति।)
भट: - बाहुसहस्सेण किं कय्यं? (बाहुसहस्रेण किं कार्यम्?)
सुधार: - तुवं हणिस्सं। (त्वं हनिष्यामि।)
भट: - एहि दासीएपुत! मुदे मुञ्चिरसम्। (पुनरपि ताडयति।) (एहिदास्या: पुत्र! मृते मोक्ष्यामि।)
सुधाकार: - (रूदित्वा।) सक्कं दाणि भट्टा! मे अवराहं जाणिदुम्। (शक्यमिदानीं भर्त: मेऽपराधं ज्ञातुम्)
भट: - णत्थि किळ अवराहो णत्थि। णं मए सन्दिट्ठो भट्टिदारअस्स रामस्स रज्जविब्भट्ठकिसन्दावेण सग्गं गटस्स भट्टिणो दसरहस्स पडिमागेहं
देट्ठुं अज्ज कोसळळापुरोएहि सव्वेहिं अन्तेउरेहि इह आअन्तव्वं त्ति। एत्थ दाणि तुष किं किदं । (नास्ति किलापराधो नास्ति। ननु मया
सन्दिष्टो भर्तृदारकस्य रामस्य राज्यविभ्रष्टकृतसन्तापेन स्वर्गं गतस्य भर्तुर्दशरथस्य प्रतिमागेहं द्रष्टुमद्य कौसल्यापुरोगै: सर्वैरन्तपुरैरिहागन्तव्यमिति।
अत्रेदानीं त्वया किं कृतम्।)
सुधाकार: - पेक्खदु भट्टा। अवणीदकवोदसन्दाणअं दाव गब्भगिहं। सोहवण्णअदत्तचन्दणपढ्चाङ्गुळा भित्तीओ। ओसत्तमळळदानमसोहीणि दुवाराणि।
पइण्णा वाळुआ। एत्थ दाणि मए किं ण किदं। (पश्यतु भर्ता अपनीतकपोतसन्दानकं तावद् गर्भगृहम्। सौधवर्णकदत्तचन्दनपञ्चाङ्गुला
भित्तय:। अवसक्तमाल्यदामशोभीनि द्वाराणि। प्रकीर्णा वालुका:। अत्रेदानीं मया किं न कृतम्।)
 
भट: - ज एवं, विस्सत्तो गच्छ। जाव अहं वि सव्वं किदं त्ति अमच्चस्स णिवेदेमि। (यद्येवं, विश्वस्तो गच्छ। यावदहमपि सर्वे कृतमित्यमात्याय
निवेदयामि।)
 (निष्क्रान्तौ।)
प्रवेशक:।
भरत: - (सावेगम्।) सूत! चिरं मातुलपरिचयादविज्ञातवृत्तान्तोऽस्मि। श्रुतं मया दृढमकल्यशरीरो महाराज इति। तदुच्यताम्
पितुर्मे को व्याधि:?
सूत: - हृदयपरिताप: खलु महान्।
भरत: - किमाहुस्तं वैद्या: ?
सूत: - न खलु भिषजस्तत्र निपुणा:।
भरत: - किमाहारं भुङ्क्तेशयनमपि?
सूत: - भूमौ निरशान:
भरत: - किमाशा स्याद्?
सूत: - दैवं।
भरत: - स्फुरति हृदयं वाहय रथम् ।। 1 ।।
सूत: - यदाज्ञापयत्यायुष्मान्। (रथं वाहयति।)
भरत: - (रथवेगं निरुप्य) अहो नु खलु रथवेग: - । एते ते
द्रुमा धावन्तीव द्रुतरथगतिक्षीणविषया
नदीवाद्द्वृत्ताम्बुर्निपतति मही नेमिववरे ।
अरव्यक्तिर्नष्टा स्थितमिव जवाच्छक्रवलयं
रजश्चोश्वोद्भूतं पतति पुरतो नानुपतति ।। 2 ।।
सूत: - आयुष्मन्! सोपस्नेहतया वृक्षाणामभित: खल्वयोध्यया भवितव्यम्।
भरत: - अहो नु खलु स्वजनदर्शनोत्सुकस्य त्वरता मे मनस: । सम्प्रति ही,
पतितमिव शिर: पितु: पादयो:
स्निह्यतेवास्मि राज्ञा समुत्थापित:
त्वरितमुपगता इव भ्रातर:
क्लेदयन्तीव मामश्रुभिर्मातर:।
सदृश इति महानिति व्यायतश्चेति
भृत्यैरिवाहं स्तुत: सेवया
परिहसितमिवात्मनस्तत्र पश्यामि
वेषं च भाषां च सौमित्रिणा ।। 3 ।।
सूत: - (आत्मगतम्) भो:! कष्टम्, यदयविज्ञाय महाराजविनाशमुदर्के निष्फलामाशां परिवहन्त्योेध्यां प्रवेक्ष्यति कुमार:। जानद्भिरप्यस्माभिर्ननिवेद्यते।
कुत:,
पितु: प्राणपरित्यागं मातुरैश्वर्यलुब्धताम्।
 
ज्येष्ठभ्रातु: प्रवासं च त्रीन् दोषान् कोऽभिधास्यति ।। 4 ।।
(प्रविश्य)
भट: - जयतु कुमार:।
भरत: - भद्र! किं शत्रुघ्नो मामभिगत:।
भट: - अभिगत: खलु वर्तते कुमार:। उपाध्यायास्तु भवन्तमाहु:।
भरत: - किमिति किमिति।
भट: - एकनाडिकावशेष: कृत्तिकाविषय:। तस्मात् प्रतिपन्नायामेव रोहिण्यामयोध्यां प्रवेक्ष्यति कुमार:।
भरत: - बाढमेवम्। न मया गुरुवचनमतिक्रान्तपूर्वम्। गच्छ त्वम्।
भट: - यदाज्ञापयति कुमार:।
(निष्क्रान्त:)
भरत: - अथ कस्मिन् प्रदेशे विश्रमिष्ये। भवतु दृष्टम्। एतस्मिन् वृक्षान्तराविष्कृते देवकुले मुहूर्तं विश्रमिष्ये तदुभयं भविष्यति देवतपूजा विश्रमश्च।
अथ च उपोपविश्य प्रवेष्टव्यानि नगराणीति सत्समुदाचार:। तस्मात् स्थाप्यतां रथ:।
सूत: - यदाज्ञापयत्यायुष्मान्। (रथं स्थापयति।)
भरत: - (रथादवतीर्य) सूत! एकान्ते विश्रामयाश्वान्।
सूत: - यदाज्ञापयत्यायुष्मान्।
(निष्क्रान्त:।)
भरत: - (किञ्चिद् गत्वावलोक्य) साधुमुक्तपूष्यलाजाविष्कृता बलय:, दत्तचन्दनपञ्चाङ्गुला भित्तय:, अवसक्तमाल्यदामशोभीनि द्वाराणि, प्रकीर्णा
वालुका:। किन्नु खलु पार्वणोऽयं विशेष, अथवा आÏह्नकमास्तिक्यम्।कस्य नु खलु दैवतस्य स्थानं भविष्यति। नेह किञ्चित् प्रहरणं
ध्वजो वा बहिश्चिह्रं दृश्यते । भवतु, प्रविश ज्ञास्ये। (प्रविश्यावलोक्य) अहो क्रियामाधुर्यं पाषाणानाम्। अहो भावगतिराकृतीनाम्।
दैवतोदिृष्टानाम्। दैवतोदिृष्टानामपि मानुषविश्वासतासां प्रतिमानाम्। किन्नु खलु चतुर्दैवतोऽयं स्तोम:। अथवा यानि तानि भवन्तु। अस्ति
तावन्मे मनसि प्रहर्ष:।
कामं दैवतमित्येव सुक्तं नमयितुं शिर: ।
वार्षलस्तु प्रणाम: स्यादमन्त्रार्चितदैवत: ।। 5 ।।
(प्रविश्य)
देवकुलिक: - भो:! नैत्यकावसाने प्राणिधर्ममनुतिष्ठति मयि को नु खल्वयमासां प्रतिमानामल्पान्तराकृतिरिव प्रतिमागृहं प्रविष्ट:। भवतु, प्रविश्य
ज्ञास्ये
(प्रविशति।)
भरत: - नमोस्तु।
देवकुलिक: - न खलु न खलु प्रणाम: कार्य:।
भरत: - मा तावद् भो: !
वक्तव्यं किञ्चिदस्मासु विशिष्ट: प्रतिपाल्यते ।
किङ्कृत: प्रतिषेधोऽयं नियमप्रभविष्णुता ।। 6 ।।
 
देवकुलिक: - न खल्वेतै: कारणै: प्रतिषेधयामि भवन्तम्। किन्तु दैवतशङ्क्या ब्रह्मणजनस्य प्रणामं परिहरामि। क्षत्रिया ह्मत्रभवन्त:।
भरत: - एवम्। क्षत्रिया ह्मत्रभवन्त:। अथ के नामात्रभवन्त:।
देवकुलिक: - इश्वाकव:।
भरत: - (सहर्षम) इश्वाकव इति। एते तेऽयोध्याभर्तार:।
एते ते दैवतानामसुरपुरवधे गच्छन्त्यभिसरी -
मेते ते शक्रलोके सपुरजनपदा यान्ति स्वसुकृतै: ।
एते ते प्राप्नुवन्त: स्वभुजबलजितां कृत्स्नां वसुमती -
मेते ते मृत्युना ये चिरमनवसिताश्छन्दं मृगयता ।। 7 ।।
भो:! यदृच्छया खलु मया महत् फलमासादितम्। अभिधीयतां कस्तावदत्रभवान्।
देवकुलिक: - अयं खलु तावत् सन्निहितसर्वरत्नस्य विश्वजितो यज्ञस्य प्रवर्तयिता प्रज्वलितधर्मप्रदीपो दिलीप:।
भरत: - नमोस्तु धर्मपरायणाय। अभिधीयतां कस्तावदत्रभवान्।
देवकुलिक: - अयं खलु तावत् संवेशनोत्थापनयोरनेकब्राह्मणजनसहस्रप्रयुक्तपुण्याहशब्दरवो रघु:।
भरत: - अहो बलवान् मृत्युरेतामपि रक्षामतिक्रान्त:। नमोस्तु ब्राह्मणजनावेदितराज्यफलाय। अभिधीयतां कस्तावदत्रभवान्।
देवकुलिक: - अयं खलु तावत् प्रियावियोगनिर्वेदपरित्यक्तराज्यभारो नित्यावभृथस्नानप्रशान्तरजा अज:।
भरत: - नमोऽस्तुश्लाघनीयपश्चात्तापाय। (दशरथस्य प्रतिमामवलोकयन् पर्याकुलो भूत्वा।) भो:! बहुमानव्याक्षिप्तेन मनसा सुव्यक्तं
नावधारितम्। अभिधीयतां कस्तावदत्रभवान्।
देवकुलिक: - अयं दिलीप:।
भरत: - पितृपितामहो महाराजस्य। ततस्तत:।
देवकुलिक: - अत्रभवान् रघु:।
भरत: - पितामहो महाराजस्य। ततस्तत:।
देवकुलिक: - अत्रभवानज:।
भरत: - पिता तातस्य। किमिति किमिति
देवकुलिक: - अयं दिलीप:, अयं रघु:, अयमज:।
भरत: - भवन्तं किञ्चित् पृच्छामि। धरमाणानामपि प्रतिमा: स्थाप्यन्ते।
देवकुलिक: - न खलु अतिक्रान्तानामेव।
भरत: - तेन ह्यापृच्छे भवन्तम्।
देवकुलिक: - तिष्ठ।
येन प्राणाश्च राज्यं च स्त्रीशुल्कार्थे विसर्जिता: ।
इमां दशरथस्य त्वं प्रतिमां किं न पृच्छसे ।। 8 ।।
भरत: - हा तात! (मूर्छित: पतति। पुन: प्रत्यागत्य।)
हृदय भव सकामंं यत्कृते शङ्कसे त्वं
 
श्रृणु पितृनिधनं तद् गच्छ धैर्यं च तावत् ।
स्पृशति तु यदि नीचो मामयं शुल्न्कशब्द -
स्त्वथ च भवति सत्यं तत्र देहो विशोध्य: ।। 9 ।।
आर्यं!।
देवकुलिक: - आर्येति इश्वाकुकुलालाप: खल्वयम्। कश्चित् कैकेयीपुत्रो भरतो भवान् ननु।
भरत: - अथ किम अथयकिम्। दशरथपुत्रो भरतोऽस्मि न कैकेय्या:।
देवकुलिक: - तेन ह्यापृच्छे भवन्तम्।
भरत: - तिष्ठ! शेषमभिधीयताम्।
देवकुलिक: - का गति:। श्रूयताम्। उपरतस्तत्रभवान् दशरथ:। सीतालक्ष्मणसहायस्य रामस्य वनगमनप्रयोजनं न जाने।
भरत: - कथं कथम्? आर्योऽपि वनं गत? (द्विगुणं मोहमुपगत:।)
देवकुलिक: - कुमार! समाश्वसिहि समाश्वसिहि।
भरत: - (समाश्वस्य।)
अयोध्यामटवीभूतां पित्रा भ्रात्रा च वर्जिताम् ।
पिपासार्तोऽनुधावामि क्षीणतोयां नदीमिव ।। 10 ।।
आर्य ! विस्तरश्रवणं मे स्थैर्यमुत्पादयति। तत् सर्वमनवशेषमभिधीयताम्।
देवकुलिक: - श्रुयतां तत्रभवता राज्ञाभिषिच्यमाने तत्रभवति रामे भवतो जनन्याभिहितं किल।
भरत: - तिष्ठ।
तं स्मृत्वा शुल्कदोषं भवतु मम सुतो राजेत्यभिहितं
तद्धैर्येणाश्वसत्या व्रज सुत! वनमित्यार्योऽप्यभिहित: ।
तं दृष्ट्वा बद्धचीरं निधनमसदृशं राजा ननु गत:
पात्यन्ते धिक्प्रलापा ननु मयि सदृशा: शेषा: प्रकृतिभि: ।। 11 ।।
(नेपथ्ये)
उस्सरह अय्या! उस्सरह। (उत्सरतार्याः उत्सरत।)
देवकुलिक:- (विलोक्य) अये,
काले खल्वागता देव्य: पुत्रे मोहमुपागते ।
हस्तस्पर्शो हि मातृणामजलस्य जलाञ्जलि: ।। 12 ।।
(तत: प्रविशन्ति देव्य: सुमन्त्रश्च।)
सुमन्त्र: - इत इतो भवत्य:।
इदं गृहं तत् प्रतिमानृपस्य न:
समुच्छ्रयो यस्य स हम्र्यदुर्लभ: ।।
अयन्त्रितैरप्रतिहारिकागतै -
र्विना प्रणामं पथिकैरुपास्यते ।। 13 ।।
(प्रविश्यावलोक्य।) भवत्य:! न खलु न खलु प्रवेष्टव्यम्।
 
अयं हि पतित: कोऽपि वयस्स्थ इव पार्थिव: ।
देवकुलिक:- परशङ्कामलं कर्तंु गृह्यतां भरतो ह्ययम् ।। 14 ।।
देव्य: - (सहसोपगम्य।) हा जाद! भरद!। (हा जात! भरत!)
भरत: - (किञ्चित् समाश्वस्य।) आर्य!।
सुमन्त्र:- जयतु महा - (इत्यर्धोक्ते सविषादम्।) अहो स्वरसादृश्यम्। मन्येप्रतिमास्थो महाराजो व्याहरतीति।
भरत:- अथ मातृणामिदानीं कावस्था।
देव्य: - जाद! एसा णो अवत्था। (अवगुण्ठमपनयन्ति।) (जात! एषा नोऽवस्था।)
सुमन्त्र: - भवत्य:! निगृह्यतामुत्कण्ठा ।
भरत: - (सुमन्त्रं विलोक्य।) सर्वसमुदाचारसन्निकर्षस्तु मां सूचयति। कच्चित् तात! सुमन्त्रो भवान् ननु।
सुमन्त्र: - कुमार! अथ किम्। सुमन्त्रोऽस्मि ।
अन्वास्यमानश्चिरजीवदोषै:
कृतघ्रभावेन विडम्ब्यमान:।
अहं हि तस्मिन् नृपतौ विपन्ने
जीवामि शून्यस्य रथस्य सूत: ।। 15 ।।
भरत: - हा तात! (उत्थाय।) तात! अभिवादनक्रममुपदेष्टुमिच्छामि मातृणाम् ।
सुमन्त्र: - बाढम्। इयं तत्रभवतो रामस्य जननी देवी कौसल्या ।
भरत: - अम्ब! अनपराद्धोऽहमभिवादये ।
कौसल्या - जाद!णिस्सन्दायो होहि। (जात! नि:सन्तापो भव।)
भरत: - (आत्मगतम्।) आक्रुष्ट इवास्म्यनेन। (प्रकाशम्।) अनुगृहीतोऽस्मि। ततस्तत: ।
सुमन्त्र: - इयं तत्रभवतो लक्ष्मणस्य जननी देवी सुमित्रा ।
भरत: - अम्ब! लक्ष्मणेनातिसन्धितोऽहमभिवादये ।
सुमित्रा - जाद! जसोमाई होहि। (जात! यशोभागी भव)
भरत: - अम्ब!इदं प्रयतिष्ये। अनुगृहीतोऽस्मि। ततस्तत: ।
सुमन्त्र: - इयं ते जननी ।
भरत: - (सरोषमुत्थाय।) आ: पापे!
मम मातुश्च मातुश्च मध्यस्था त्वं न शोभसे ।
गङ्गायमुनयोर्मध्ये कुनदीव प्रवेशिता ।। 16 ।।
कैकेयी - जाद! किं मए किदं। (जात! किं मया कृतम्।)
भरत: - किं कृतमिति वदसि।
वयमयशसा चीरेणार्यो नृपो गृहमृत्युना
 
प्रततरुदितै: कृत्स्नायोध्या, मृगै: सह लक्ष्मण: ।
दयिततनया: शोकेनाम्बा:, स्नुषाध्वपरिश्रमै-
र्धिगिति वचसा चोग्रेणात्मा त्वया ननु योजिता: ।। 17 ।।
कौसल्या - जाद! सव्वममुदाआरमज्झत्थो किं ण वन्दसि मादरं। (जात!सर्वसमुदाचारमध्यस्थ: किं न वन्दसे मातरम्।)
भरत: - मातरमिति। अम्ब! त्वमेव मे माता। अम्ब! अभिवादये।
कौसल्या - णहि णहि! इअं दे जणणी। (नहि। इयं ते जननी।)
भरत: - आसीत् पुरा। न त्विदानीम्। पश्यतु भवती,
त्यक्त्वा स्नेहं शीलसङ्कान्तदोषै:
पुत्रास्तावन्नन्वपुत्रा: क्रियन्ते ।
लोकेऽपूर्वं स्थापयाम्येष धर्मं
भर्तृद्रोदस्तु माताप्यमाता ।। 18 ।।
कैकेयी - जाद! महारअस्स सच्चवअणं रक्खन्तीए मए तह उत्तं। (जात! महाराजस्य सत्यवचनं रक्षन्त्या मया तथोक्तम्।)
भरत: - किमिति किमिति।
कैकेयू - पुत्तओ मे राजा होदु त्ति। (पुत्रको मे राजा भवत्विति।)
भरत: - अथ स इदानीमार्योऽपि भवत्या: क: ।
पितुर्मे नौरस: पुत्रो न क्रमेणाभिषिच्यते ।
दयिता भ्रातरो न स्यु: प्रकृतीनां न रोचते ।। 19 ।।
कैकेयी - जाद! सुक्कळुद्धा णणु पुच्छिदव्वा। (जात! शुल्कलुब्धा ननु प्रष्टव्या।)
भरत: - वल्कलैर्हृतराज्यश्री: पदाति: सह भार्यया ।
वनवासं त्वयाज्ञप्त: शुल्केऽप्येतदुदाहृतम् ।। 20 ।।
कैकेयी - जाद! देसकाळे णिवदेमि। (जात!देशकाले निवेदयामि।)
भरत: - अयशसि यदि लोभ: कीर्तयित्वा किमस्मान्
किमु नृपफलतर्ष: किं नरेन्द्रो न दद्यात् ।
अथ तु नृपतिमातेत्येष शब्दस्तवेष्टो
वदतु भवति! सत्यं किं तवार्यो न पुत्र: ।। 21 ।।
कष्टं कृतं भवत्या,
त्वया राज्यैषिण्या नृपतिरसुभिर्नैव गणितः
सुतं ज्येष्ठं च त्वं व्रज वनमिति प्रेषितवती ।
न शीर्णं यद् दृष्ट्वा जनकतनयां वल्लकलवती-
महो धात्रा सृष्टं भवति हृदयं वज्रकठिनम् ।। 22 ।।
सुमन्त्र: - कुमार! एतौ वसिष्ठवामदेवौ सह प्रकृतिभिरभिषेकं पुरस्कृत्य भवन्तं प्रत्युद्गतौ विज्ञापयत:।
गोपहीना यथा गावो विलयं यान्त्यपालिता: ।
एवं नृपतिहीना हि विलयं यान्ति वै प्रजा: ।। 23 ।।
भरत: - अनुगच्छन्तु मां प्रकृतय:।
 
सुमन्त्र: - अभिषेकं विसृज्य क्व भवान् यास्यति।
भरत: - अभिषेकमिति। इहात्रभवत्यै प्रदीयताम्।
सुमन्त्र: - क्व भवान् यास्यति।
भरत: - तत्र यास्यामि यत्रासौ वर्तते लक्ष्मणप्रिय:।
नायोध्या तं विनायोध्या सायोध्या यत्र राघव: ।। 24 ।।
(निष्क्रान्ता: सर्वे।)
 
तृतीयोऽङ्क: