प्रतिमानाटकम्/द्वितीयोऽङ्कः

विकिस्रोतः तः
← प्रथमोऽङ्कः प्रतिमानाटकम्
द्वितीयोऽङ्कः
भासः
तृतीयोऽङ्कः →

(तत: प्रविशति काञ्चुकीय:।)
काञ्चुकीय: - भो भो: प्रतिहारव्यापृता:! स्वेषु स्वेषु स्थानेष्वप्रमता भवन्तु भवन्त:!
 
प्रतिहारी - अय्य किं एदं। (आर्य! किमेतत्।)
काञ्चुकीय: - एष हि महाराज: सत्यवचनरक्षणपरं राममरण्यं गच्छन्तमुपावर्तयितुमशक्त: पुत्रविरहशोकाग्निना दग्धहृदय उन्मत्त इव बहु प्रलपन्
समुद्रगृहके शयान:,
मेरुश्चलन्निव युगक्षयसन्निकर्षे
शोषं व्रजन्निव महोदधिरप्रमेय:।
सूर्य: पतन्निव च मण्डलमात्रलक्ष्य:
शोकाद्भृशं शिथिलदेहमतिनरेन्द्र: ।। 1 ।।
प्रतिहारि - हा हा एव्वंगओ महाराओ। (हा एवंगतो महाराज:।)
काञ्चुकीय: - भवति! गच्छ।
प्रतिहारी: - अय्य! तह। (आर्य! तथा।) (निष्कान्ता।)
काञ्चुकीय:- (सर्वतो विलोक्य।) अहो नु खलु रामनिर्गमनदिनादाभ्य शून्यैवेयमयोध्या संलक्ष्यते। कुत:,
नागेन्द्रा यवसाभिलाषविमुखा: सास्रेक्षणा वाजिनो
हेषा शून्यमुखा: सवृद्धवनिताबालाश्च पौरा जना:।
त्यक्ताहारकथा: सुदीनवदना: क्रन्दन्त उच्चैर्दिशा
रामो याति यया सदारसहजस्तामेव पश्यन्त्यमी ।। 2 ।।
पतत्युत्थाय चोत्थाय हा हेत्युच्चैर्लपन् मुहु:।
दिशं पश्यति तामे व यया यातो रघूद्वह: ।। 3 ।।
(निष्क्रान्त:।)
मिश्रविष्कम्भक:।
(तत: प्रविशति यथानिर्दिष्टो राजा देव्यौ च।)
राजा - हा वत्स! राम! जगतां नयनाभिराम !
हा वत्स! लक्ष्मण! सुलक्षणसर्वगात्र! ।
हा साध्वि! मैथिलि! पतिस्थितचित्तवृत्ते ।
हा हा गता: किल वनं बत मे तनूजा: ।। 4 ।।
चित्रमिदं भो:! यद् भ्रातृस्नेहात् पितरि विमुक्तस्नेहमपि तावल्लक्ष्मणं द्रष्टुमिच्छमि। वधु वैदेहि।
रामेणापि परित्यक्तो लक्ष्मणेन च गर्हित:।
अयशोभाजनं लोके परित्यत्क्तस्त्वयाप्यहम् ।। 5 ।।
सत्यसन्ध! जितक्रोध! विमत्सर! जगत्प्रिय!।
गुरुशुश्रूषणे युक्त! प्रतिवाक्यं प्रयच्छ मे ।। 6 ।।
हा क्वासौ सर्वजनहृदयनयनाभिरामो रामः, क्वासौ मयि गुर्वनुवृत्तिः। क्वासौ शोकार्तेष्वनुकम्पा। क्वासौ तृणवदगणितराज्यैश्वर्यः। पुत्र!
राम! वृद्धं पितरं मां परित्यज्य किमसम्वद्धेन धर्मेण ते कृत्यम् हा धिक्। कष्टं भो!
सूर्य इव गतो राम: सूर्यं दिवस इव लक्ष्मणोऽनुगत:।
सूर्यदिवसावसाने छायेव न दृश्यते सीता ।। 7 ।।
 
(ऊध्र्वमवलोक्य।) भोः कृतान्तहतक ।
अनपत्या वयं राम: पुत्रोऽन्यस्य महीपते: ।
वने व्याघ्री च कैकेयी त्वया किं न कृतं त्रयम् ।। 8 ।।
कौसल्या - (सरुदितम्) अळं दाणि महारआ अदिमत्तं सन्तप्पिअ परवसं अत्ताणं कादुं । णं सा ते अ कुमारा महाराअस्स समआवसाणे पेक्खिदव्वा
भविस्सन्ति(अलमिदानीं महाराजोऽतिमात्रं सन्तप्य परवशमात्मानं कर्तुम्। ननु सा तौ च कुमारौ महाराजस्य समयावसाने प्रेक्षितव्या
भविष्यन्ति।)
राजा - का त्वं भो:।
कौसल्या - असिणिद्धपुत्तपसविणीं खु अहं (अस्निग्धपुत्रप्रसविनी खल्वहम्।)
राजा - किं किं सर्वजनहृदयनयनाभिरामस्य रामस्य जननीं त्वमसि कौसल्यानी।
कौसल्या - महाराअ! सा एव मन्दभाइणी खु अहं। (महाराज! सैव मन्दभागिनी खल्वहम्।)
राजा - कौसल्ये सारवती खल्वसि। त्वत्या हि खलु रामो गर्भे धृत:।
अहं हि दु:खमत्यन्तमसह्यज्वलनोपमम् ।
नैव सोढुं न संहर्तु शक्नोमि मुषितेन्द्रिय: ।। 9 ।।
(सुमित्रां विलोक्य।) इयमपरा का।
कौसल्या - महाराअ! वच्छळक्खण। (महाराज! वत्सलक्षमण -) (इत्यर्धोक्ते)
राजा - (सहसोत्थाय -) क्वासौ क्वासौ लक्ष्मण:। न दृश्यते। भो: कष्टम्।
(देव्यौ ससम्भ्रममुत्थाय राजानमवलम्बेते।)
कौसल्या - महाराअ! वच्छळक्खणस्स जणणी सुमित्तत्ति वत्तुं मए उवक्कन्दं। (महाराज! वत्सलक्षणस्य जननी सुमित्रेति वक्तुं मयोपक्रान्तम्।)
राजा - अयि सुमित्रे।
तवैव पुत्र: सत्पुत्रो येन नक्तन्दिवं वने ।
रामो रघुकुलश्रेष्ठश्छाययेवानुगम्य़ते ।। 10 ।।
(प्रविश्य)
काञ्चुकीय: - जयतु महाराज:। एष खलु तत्र भवान् सुमन्त्र: प्राप्त:।
राजा- (सहसोत्थाय सहर्षम्।) अपि रामेण।
काञ्चुकीय: - न खलु, रथेन।
राजा - कथं कथं रथेन केवलेन। (इति मूÐच्छत: पतति।)
देव्यौ - महाराअ! समस्ससिहि समस्ससिहि। (गात्राणि परामृशत:।) (महाराज!समाश्वसिहि समाश्वसिहि।)
काञ्चुकीय: - कष्टम्। ईर्दृग्विधा: पुरुषविशेषा ईध्शीमापदं प्राप्नुवन्तीति विधिरनतिक्रमणीय:. महाराज! समाश्वसिहि, समाश्वसिहि।
राजा - (किञ्चित्् समाश्वस्य।) बालाके! सुंत्र एक एव ननु प्राप्त:।
काञ्चुकीय: - महाराज! अथ किम्।
 
राजा - कष्टं भो:।
शून्य: प्राप्तो यदि रथो भग्नो मम मनोरथ: ।
नूनं दशरथं नेतुं कालेन प्रेषितो रथ: ।। 11 ।।
तेन हि शीघ्रं प्रवेश्यताम्।
काञ्चुकीय: - यदाज्ञापयति महाराज:।
(निष्कान्त:।)
राजा - धन्या: खलु वने वातास्तटाकपरिवर्तिन: ।
विचरन्तं वने रामं ये स्पृशन्ति यथासुखम् ।। 12 ।।
(तत: प्रविशति सुमन्त्र:)
सुमन्त्र: - (सर्वतो विलोक्य सशोकम्।)
एते भृत्या: स्वानि कर्माणि हित्वा
स्नेहाद् रामे जातबाष्पाकुलाक्षा: ।
चिन्तादीना: शोकसंदग्धदेहा
विक्रोशन्तं पार्थिवं गर्हयन्ति ।। 13 ।।
राजा - भ्रात:। सुमन्त्र! क्व मे ज्येष्ठो राम: - नहि नहि युक्तमभिहितं मया।
क्व ते ज्येष्ठो राम: प्रियसुत । सा क्व दुहिता
विदेहानां भर्तुर्निरतिशयभक्तिर्गुरुजने ।
क्व वा सौमित्रिर्मां हतपितृकमासन्नमरणं
किमप्याहु: किं ते सकलजनशोकार्णवकरम् ।। 14 ।।
सुमन्त्र: - महाराज! मा मैवममङ्गलवचनानि भाषिष्ठा:। अचिरादेव तान् द्रक्ष्यसि।
राजा - सत्यमयुक्तमभिहितं मया। नायं तपस्विनामुचित: प्रश्न:। तत् कथ्यताम्। अपि तपस्विनां तपो वर्धते। अप्यरण्यानि स्वाधीनानि विचरन्ती
वैदेही न परिखिद्यते।
सुमित्रा - सुमन्त! वहुवक्कळाशङ्किदसरीरा वाळा वि अवाशचरिता भत्तुणो सहधम्मआरिणि अम्हे महाराअं च किञ्चि णाळवदि। (समुन्त्र!
बहुवल्कलालङ्कृतशरीरा बालाप्यबालचारित्रा भर्तु: सहधर्मचारिणी अस्मान् महाराजं च किच्चिन्नालपति।)
सुमन्त्र: - सर्व एव महाराजम् --
राजा - न न । श्रोत्ररसायनैर्मम हृदयातुरौषधैस्तेषां नामधेयैरेव श्रावय।
सुमन्त्र: - यदाज्ञापयति महाराज:। आयुष्मान् राम:।
राजा: - राम इति। अयं राम:। तन्नामश्रवणात् स्पृष्ट इव मे प्रतिभाति।ततस्तत:।
सुमन्त्र: - आयुष्मान् लक्ष्मण:।
राजा - अयं लक्ष्मण: । ततस्तत:।
सुमन्त्र: - आयुष्मती सीता जनकराजपुत्री।
राजा - इयं वैदेही। रामो लक्ष्मणो वैदेहीत्ययमक्रम:।
सुमन्त्र: - अत क: क्रम: ।
 
राजा - रामो वैदेही लक्ष्मण इत्याभिधीयताम्।
रामलक्ष्मणयोर्मध्ये तिष्ठत्वत्रापि मैथिली ।
बहुदोषाण्यरण्यानि सनाथैषा भविष्यति ।। 15 ।।
सुमन्त्र: - यदाज्ञापयति महाराज:। आयुष्मान राम:।
राजा - अयं राम:।
सुमन्त्र: - आयुष्मती जनकराजपुत्री।
राजा - अयं लक्ष्मण:। राम! वैदेहि! लक्ष्मण! परिष्वजध्वं मां पुत्रका:!।
सकृत् स्पृशामि वा रामं सकृत् पश्यामि वा पुन: ।
गतायुरमृतेनेव जीवामीति मतिर्मम ।। 16 ।।
सुमन्त्र: - श्रृङ्गिवेरपूरे रथादवतीर्यायोध्याभिमुख: स्थित्वा सर्व एव महाराजं शिरसा प्रणम्य विज्ञापयितुमारब्धा।
कमप्यर्थं चिरं ध्यात्वा वक्तुं प्रस्फुरिताधरा: ।
बाष्पस्तम्भितकण्ठत्वादनुक्त्वैव वनं गता: ।। 17 ।।
राजा - कथमनुक्त्वैव वनं गता:। (इति द्विगुणं मोहमुपगत:।)
सुमन्त्र: - (ससम्भ्रमम्) बालाके! उच्यताममात्येभ्य: अप्रतीकारायां दशायां वर्तते महाराज इति ।
काञ्चुकीय: - तथा।
देव्यौ - महाराअ ! समस्ससिहि समस्स्ससिहि। (महाराज! समाश्वसिहि समाश्वसिहि।)
राजा - (किञ्च्त् िसमाश्वस्य।)
अङ्गं मे स्पृश कौसल्ये ! न त्वां पश्यामि चक्षुषा।
रामं प्रति गता बुद्धिरद्यापि न निवर्तते ।। 18 ।।
पुत्र!राम! यत् खलु मया सन्ततं चिन्तितम्।
राज्ये त्वामभिषिच्य सन्नरपतेर्लाभात् कृतार्था: प्रजा:
कृत्वा त्वत्सहजान् समानविभवान् कुर्वात्मन: सन्ततम्।
इत्यादिश्य च ते तपोवनमितो गन्तव्यमित्येतया
कैकेय्या हि तदन्यथा कृतमहो नि:शेषमेकक्षणे ।। 19 ।।
सुमन्त्र! उच्यतां कैकेय्या: -
गतो राम: प्रियं तेऽस्तु त्यक्तोऽहमपि जीवितै: ।
क्षिप्रमनीयतां पुत्र: पापं सफलमस्त्विति ।। 20 ।।
सुमन्त्र: - यदाज्ञापयति महाराज: ।
राजा - (ऊध्र्वमवलोक्य।) अये रामकथाश्रवणसन्दर्धहृदयं मामाश्वसयितुमागता: पितर:। कोऽत्र।
(प्रविश्य)
काञ्चुकीय: - जयतु महाराज:।
राजा - आपस्तावत्।
 
काञ्चुकीय: - यदाज्ञापयति महाराज:। (निष्क्रम्य प्रविश्य।) जयतु महाराज:।
राजा - (आचम्यालोक्य)
अयममरपते: सखा दिलीपो
रघुरयमत्रभवानज: पिता मे ।
किमभिगमनकारणं भवद्भि
सह वसने समयो ममापि तत्र ।। 21 ।।
राम! वैदेहि! लक्ष्मण! अहमित: पितृणां सकाशं गच्छामि। हे पितर:! अयमयमागच्छामि। (मूच्र्छया परामृष्टा:।)
(काञ्चुकीयो यवनिकास्तरणं करोति।)
सर्वे - हा हा महाराओ। (हा हा महाराज:।
(निक्रान्ता: सर्वे।)
द्वितीयोऽङ्क:।