प्रतिमानाटकम्/सप्तमोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search
← षष्ठोऽङ्कः प्रतिमानाटकम्
सप्तमोऽङ्कः
भासः

(तत: प्रविशतो तापस:।)
तापस: - नन्दिलक! नन्दिलक!
नन्दिलक: - अय्य! अअं म्हि(आर्य! अय्यमस्मि।)
तापस: - नन्दिलक! कुलपतिर्विज्ञापयति - एष खलु स्वदारापहारिणं त्रैलोक्यविद्रावणं नाशयित्वा राक्षसगणविरुद्धवृत्तं गुणगणविभूषणं बिभीषणमभिषिच्यदेव
देवर्षिसिद्धविमलचारित्रां तत्रभवतीं सीतामादाय ऋक्षराक्षसवानरमुख्यै: परिवृत: सम्प्राप्तस्तत्र भवान् शरद्विमलगगनचन्द्राभिरामो राम:।
तदद्यास्मिन्नाश्रमपदेऽस्माद्विभवेन यत् सङ्कल्पयितव्यं तत् सर्वं सज्जीक्रियतामिति।
नन्दिलक: - अय्य! सव्वं सज्जीकिदं । किन्तु-(आर्य! सर्वं सज्जीकृतम्। किन्तु -)
तापस: - किमेतत्।
नन्दिलक: - एत्थ बिभीसणकेरआ रक्खसा। तेसं भक्खणणिमित्तं कुळवदी पमाणां। (अत्र बिभीषणसम्बन्धिनो राक्षसा:। तेषां भक्षणनिमित्तं कुलपति:
प्रमाणम्।)
तापस: - किमर्थम्।
नन्दिलक: - ते खु खज्जन्ति । (ते खलु खादन्ति)
तापस: - अलमलं सम्भ्रमेण। बिभीषणविधेया: खलु राक्षसा: ।
नन्दिलक: - णमो रक्खससज्जणअ। (निष्क्रान्त:।) (नमो राक्षससज्जनाय।)
तापस: - (विलोक्य।) अये अयमत्रभवान् राघव: । य एष
जय नरवर! जेय: स्याद् द्वितीयस्तवारि-
स्तव भवतु विधेया भूमिरेकातपत्रा ।
इति मुनिभिरनेकै: स्तूयमान: प्रसन्नै:
क्षितितलमवतीर्णो मानवेन्द्रो विमानात् ।। 1 ।।
जयतु भवान् जयतु ।
(निष्क्रान्त:)
मिश्रविष्कम्भक:।
(तत: प्रविशति राम:।)
राम: - भो:!
समुदितबलवीर्यं रावणं नाशयित्वा
 
जगति गुणसमग्रां प्राप्य सीतां विशुद्धाम् ।
वचनमपि गुरुणामन्तश: पूरयित्वा
मुनिजनवनवासं प्राप्तवानस्मि भूय: ।। 2 ।।
तापसीनामभिवन्दनार्थंमभ्यन्तरं प्रविष्टा चिरायते खलु मैथिली। (विलोक्य।) अये इयं वैदेही,
सखीति सीतेति च जानकीति
यथावय: स्निग्धतरं स्नुषेति ।
तपस्विदारैर्जनकेन्द्रपुत्री
सम्भाष्यमाणा समुपैति मन्दम् ।। 3 ।।
(तत: प्रविशति सीता तापसी च।)
तापसी - हळा! एसो दे कुडुम्बिओ। उवसप्प णं। णं सक्कं तुमं एआइणिं पेक्खिदुं। (हला! एष ते कुटुम्बिक:। उपसर्पैनम्। न शक्यं त्वामेकाकिनीं
प्रेक्षितुम्।)
सीता - हं! अज्ज वि अविस्ससणीअं विअ मे पडिभादि। (उपसृत्य।) जेदु अय्यउत्तो। (हम्! अद्याप्यविश्वसनीयमिव मे प्रतिभाति। जयत्वार्यपुत्र:।)
राम: - मैथिलि! अपि जानासि, पूर्वाधिष्ठानमस्माकं जनस्थानमासीत्। अप्यत्र ज्ञायन्ते पुत्रकृतका वृक्षा:।
सीता - जणामि जाणामि। ओळोइअपत्तआ उळळोअइद्व्वा दाणि संवुत्ता। (जानामि जानामि। अवलोकितपत्रका उल्लोकयितव्या इदानीं संवृत्ता:।)
राम: - एवमेतत्। निम्नस्थलोत्पादको हि काल:। मैथिलि! अप्युपलभ्यतेऽस्य सप्तपर्णस्याधस्ताच्छुक्लवाससं भरतं दृष्ट्वा परित्रस्तं मृगयूथमासीत्।
सीता - अय्यउत्त! दिढं खु सुमरामि। आर्यपुत्र! दृढं खलु स्मरामि।)
राम: - अयं तु नस्तपस: साक्षिभूतो महाकच्छ:। अत्रास्माभिरासीनैस्तातस्य निवपनक्रियां (चिन्तयद्भि:) काञ्चनपाश्र्वो नाम मृगो दृष्ट:।
सीता - हं अययउत्त! मा खु मा खु एवं भणिदुं। (भीता वेपते।) (हम् आर्यपुत्र! मा खलु मा खल्वेवं भणितुम्।)
राम: - अलमलं सम्भ्रमेण। अतिक्रान्त: खल्वेष काल:। (दिशो विलोक्य।) अये कुतो नु,
रेणु: समुत्पतति लोध्रसमानगौर:
सम्प्रावृणोति च दिश: पवनावधूत: ।
शङ्खध्वनिश्च पटहस्वनधीरनादै:
सम्मूÐच्छतो वनमिदं नगरीकरोति ।। 4 ।।
(प्रविश्य)
लक्ष्मण: - जयत्वार्य:। आर्य!
अयं सैन्येन महता त्वद्दर्शनसमुत्सुक: ।
मातृभि सह सम्प्राप्तो भरतो भ्रातृवत्सल: ।। 5 ।।
राम: - वत्स लक्ष्मण! किमेवं भरत: प्राप्त:।
लक्ष्मण: - आर्य! अथ किम्।
राम: - मैथिली! श्वश्रूजनपुरोगं भरतमवलोकयितुं विशालीक्रियतां ते चक्षु:।
सीता - अय्यउत्त! इच्छिदव्वे काळे भरदो आअंदो। (आर्यपुत्र! एष्टव्ये काले भरत आगत:।)
भरत: - तैस्तै: प्रवृद्धविषयैर्विषमैर्विमुक्तं
मेघैर्विमुक्तममलं शरदीव सोमम् ।
 
आर्यासहायमहमद्य गुरुं दिदृक्षु:
प्राप्तोस्मि तुष्टहृदय: स्वजनानुबद्ध: ।। 6 ।।
राम: - अम्बा:! अभिवादये।
सर्वा: - जाद! चिरं जीव। दिट्ठिआ वङ्ढामो अवसिदपडिण्णं तुमं कुसळिणं सह वहूए एक्खिअ। (जात! चिरं जीव। दिष्ट्या वर्धामहे
अवसितप्रतिज्ञं त्वां कुशलिनं सह वध्वा प्रेक्ष्य।)
राम: - अनुगृहीतोऽस्मि।
लक्ष्मण:- अम्बा:! अभिवादये।
सर्वा: - जाद! चिरं जीव। (जात! चिरं जीव।)
लक्ष्मण: - अनुगृहीतोऽस्मि।
सीता - अय्य! वन्दामि। (आर्या:! वन्दे।)
सर्वा: - वच्छे! चिरमङ्गळा होहि। (वत्से! चिरमङ्गला भव।)
सीता - अणुग्गहिदम्हि। (अनुगृहीतास्मि।)
भरत: - आर्य! अभिवादये भरतोऽहमस्मि।
राम: - एह्येहि वत्स! इश्वाकुकुमार! स्वस्ति, आयुष्मान् भव।
वक्ष: प्रसारय कवाटपुटप्रमाण -
मालिङग मां सुविपुलेन भुजद्वयेन ।
उन्नामयाननमिदं शरदिन्दुकत्पं
प्रल्हादय व्यसनदग्धमिदं शरीरम् ।। 17 ।।
भरत: - अनुगृहीतोऽस्मि। आर्ये! अभिवादये भरतोऽहमस्मि ।
सीता - अय्यउत्तेण चिरसञ्चारी होहि। (आर्यपुत्रेण चिरसञ्चारी भव।)
भरत: - अनुगृहीतोऽस्मि। आर्य! अभिवादये ।
लक्ष्मणः- एह्येहि वत्स! दीर्घायुर्भव। परिष्वजस्व गाढम् । (आलिङ्गति।)
भरतः- अनुगृहीतोऽस्मि। आर्य प्रतिगृह्यतां राज्यभारः ।
रामः- वत्स! कथमिव ।
कैकेयी- जाद! चिराहिळसिदो खु एसो मणोरहो । (जात! चिराभिलषितः खल्वेष मनोरथः।)
(ततः प्रविशति शत्रुघ्नः।)
शत्रुघ्नः- विविधैव्र्यसनैः क्लिष्टमक्लिष्टगुणतेजसम् ।
द्रष्टुं मे त्वरते बुद्धी रावणान्तकरं गुरुम् ।। 8 ।।
(उपगम्य।) आर्य! शत्रुघ्नोऽहमभिवादये ।
रामः- एह्येहि वत्स! स्वस्ति, आयुष्मान् भव ।
 
शत्रुघ्नः- अनुगृहीतोऽस्मि। आर्ये अभिवादये ।
सीता - वच्छ! चिरं जीव। (वत्स! चिरं जीव।)
शत्रुघ्न:- अनुगृहीतोऽस्मि। आर्य ! एतौ वसिष्ठवामदेवौ सह प्रकृतिभिरभिषेकं पुरस्कृत्य त्वद्दर्शनमभिलषत: ।
तीर्थोदकेन मुनिभि: स्वयमाहूतेन
नानानदीनदगतेन तव प्रसादात् ।
इच्छन्ति ते मुनिगणा: प्रथमाभिषिक्तं
द्रष्टुं मुखं सलिलसिक्तमिवारविन्दम् ।। 9 ।।
कैकेयी - गच्छ जाद! गच्छ जाद! अभिळसेहि अभिसेअं। (गच्छ जात! अभिलषाभिषेकम्।)
राम: - यदाज्ञापयत्यम्बा।
(निष्क्रान्त:।)
(नेपथ्ये)
जयतु भवान्। जयतु स्वामी। जयतु महाराज:। जयतु देव:।
जयतु भद्रमुख:। जयत्वार्य: । जयतु रावणान्तक:।
कैकेयी - एदे पुरोहिदा कच्चुइणो पुत्तअस्समे विजअघोसं वड्ढअन्तो आसीहि पूजअन्ति। (एते पुरोहिता: कञ्चुकिन: पुत्रकस्य मे विजयघोषं वर्धयन्त
आशीर्भि: पूजयन्ति।)
सुमित्रा - पइदीओ परिचारआ सज्जणा अ पुत्तअस्समे विजअं वड्ढअन्ति। (प्रकृतय: परिचारका: सज्जनाश्च पुत्रकस्य मे विजयं वर्धयन्ति।)
(नेपथ्ये)
भो भो जनस्थानवासिनस्तपस्विन:! श्रृण्वन्तु श्रृण्वन्तु भवन्त:।
हत्वा रिपुप्रभवमप्रतिमं तमौघं
सूर्योऽन्धकारमिव शौर्यमयैर्मयूखै: ।
सीतामवाप्य सकलाशुभवर्जनीयां
रामो महीं जयति सर्वजनाभिराम: ।। 10 ।।
कैकेयी - अम्महे, पुत्तस्स मे विजअधोसणा वड्ढइ। (अम्महे पुत्रस्य मे विजयघोषणा वर्धते।)
(तत: प्रविशति कृताभिषेको राम: सपरिवार:।)
राम: - (विलोक्यकाशे।) भोस्तात!
स्वर्गेऽपि तुष्टिमुपगच्छ विमुञ्च दैन्यं
कर्म त्वयाभिलषितं मयि यत् तदेतत् ।
राजा किलास्मि भुवि सत्कृतभारवाही
धर्मेण लोकपरिरक्षणमभ्युपेतम् ।। 11 ।।
भरत: - अधिगतनृपशब्दं धार्यमाणातपत्रं
विकसितकृतमौलिं तीर्थतोयभिषिक्तम् ।
गुरुमधिगतलीलं वन्द्यमानं जनौधै -
र्नवशशिनमिवार्यं पश्यतो मे न तृप्ति: ।। 12 ।।
 
शत्रुघ्न: - एतदार्याभिषेकेण कुलं मे नष्टकल्मषम् ।
पुन: प्रकाशतां याति सोमस्येवोदये जगत् ।। 13 ।।
राम: - वत्स लक्ष्मण! अधिगतराज्योऽहमस्मि।
लक्ष्मण: - दिष्ट्या भवान् वर्धते।
(प्रविश्य)
काञ्चुकीय: - जयतु महाराज: । एष खलु तत्रभवान् विभीषणो विज्ञापयति, सुग्रीवनीलमैन्दजाम्ब--वद्धनूमत्प्रमुखाश्चानुगच्छन्तो विज्ञापयन्ति---- दिष्ट्या
भवान् वर्धत इति ।
राम: - सहायानां प्रसादाद् वर्धत इति कथ्यताम् ।
काञ्चुकीय: - यदाज्ञापयति महाराज:।
कैकेयी - धण्णा खु म्हि । इदं अब्भुदअं अओज्झाअं पेक्खिदुं इच्छामि । (धन्या खल्वस्मि। इममभ्युदयमयोध्यायं प्रेक्षितुमिच्छामि।)
राम: - द्रक्ष्यति भवती । (विलोक्य।) अये प्रभाभिर्वनमिदमखिलं सूर्यवत् प्रतिभाति। (विभाव्य।) आ ज्ञातम् । सम्प्राप्तं पुष्पकं दिवि रावणस्य
विमानम् । कृतसमयमिदं स्मृतमात्रमुपगच्छतीति। तत् सर्वै रारुह्यताम् ।
(सर्व आरोहन्ति।)
राम: - अद्यैव यास्यामि पुरीमयोध्यां
सम्बन्धिमित्रैरनुगम्यमान: ।
लक्ष्मण: - अद्यैव पश्यन्तु च नागरास्त्वां
चन्द्रं सनक्षत्रमिवोदयस्थम् ।। 14 ।।
(भरतवाक्यम्।)
यथा रामश्च जानक्या वन्धुभिश्च समागत: ।
तथा लक्ष्म्या समायुक्तो राजा भूमिं प्रशास्तु न: ।। 15 ।।
(निष्क्रान्ता: सर्वे।)

सप्तमोऽङ्क:।

प्रतिमानाटकं समाप्तम्।