सामग्री पर जाएँ

प्रतिज्ञायौगन्धरायणम्/द्वितीयोऽङ्कः

विकिस्रोतः तः
← प्रथमोऽङ्कः प्रतिज्ञायौगन्धरायणम्
द्वितीयोऽङ्कः
भासः
तृतीयोऽङ्कः →

(ततः प्रविशति काञ्चुकीयः।)
काञ्चुकीयः - आभीरक! आभीरक गच्छ महासेनवचनात् प्रतीहाररक्षकं ब्रूहि - एष काशिराजोपाध्याय आर्यजैवन्तिरद्य दौत्येन प्राप्तः। अस्य
सामान्यदूतसत्कारं पृष्ठतः कृत्वा सुखमिव निवेश्यताम्। यथा चातिथिसत्कारं जानीयात् तथा प्रयतितव्यम् इति। भो! एवं
नामाहन्यहनि गोत्रानुकूलेभ्यो राजकुलेभ्यः कन्याप्रदानं प्रति दूतसम्प्रेषणा वर्तते। न खलु महासेनः कञ्चिदपि प्रत्याचष्टे, न
चाप्यनुगृह्रीते। किन्नु खल्विदम् । अथवा दैवमत्र कन्याप्रदानेऽधिकृतम्। कुतः,
व्यक्तं न तावत् समुपैति तस्य
दूतो वधूत्वे विहिता हि यस्य।
ततो नरेन्द्रेषु गुणान् नरेन्द्रो
न वेत्ति जानन्नपि पत्प्रतीक्षः।। 1 ।।
अये संलीयमानान्तःपुरचरः सनाथीभवत्ययं देशः। अये अयं महासेनः य एषः,
दूर्वाङकुरस्तिमितनीलमणिप्ररोहैः
पीताङगदैः परिगतैेः परिणीवितांसः।
13
अस्माद् घनात् कनकतालवनैकदेशा-
न्निर्धावितः शरवणादिव कार्त्तिकेयः।। 2 ।।
(निष्क्रान्त्तः।)
इति विष्कम्भकः
(ततः प्रविशति राजा सपरिवारः)
मम हयखुरभिन्नं मार्गरेणुं नरेन्द्रा
मुकुटतटविलग्नं भृत्यभूतां वहन्ति।
न च मम परितोषो यन्न मां वत्सराजः
प्रणमति गुणशाली कुञ्जरज्ञानद्दप्तः।। 3 ।।
बादरायण!
(प्रविश्य)
काञ्चुकीयः - जयतु महासेनः।
राजा - निवेशितो जैवन्तिः।
काञ्चुकीयः - निवेशितोऽनुरूपतश्च सत्कृतः।
राजा - न्याय्यं कृतं राजवंश्यगुणाभिलाषिणा। समागतानां युक्तः पूजया प्रतिग्रहः। अथ सर्वोऽपि कन्याप्रदानं प्रति पृष्टश्चेत् परच्छन्देन
तिष्ठति। (काञ्चुकीयमवलोक्य) बादरायण! वक्तुकाममिव त्वां लक्षये।
काञ्चुकीयः - न खलु किञ्चित्। कन्याप्रदानं प्रति समुत्पन्नोऽभिमर्शः।
राजा - अलमलं परिहृत्य। सर्वसाधारणो ह्येष विधिः। अभिधीयताम्।
काञ्चुकीयः - महासेन! एषा मे विवक्षा- एवं नामाहन्यहनि गोत्रनुकूलेभ्यो राजकुलेभ्यः कन्याप्रदानं प्रति दूतसम्प्रेक्षणा वर्तंते। न च महासेनः
कश्चिदपि प्रत्याचष्टे, न चाप्यनुगृहीते। किन्तु खल्विदमिति।
राजा - बादरायण! एवमेतत्। अतिलोभाद् वरगुणानामतिस्नेहाच्च वासवदत्तायां न शक्नोमि निश्चयं गन्तुम्।
कुलं तावच्छ्लाध्यं प्रथममभिकाङ्क्षे हि मनसा
तत सानुक्रोशं मृदुरपि गुणो ह्येष बलवान्।
ततो रूपे काÏन्त न खलु गुणतः स्त्रीजनभयात्
ततो वीर्योदग्रं न हि न परिपाल्या युवतयः ।। 4 ।।
काञ्चुकीयः - महासेनं वर्जयित्वा न हीदानीमेते गुणाः क्वचिदेकस्था द्दश्यन्ते।
राजा - अतः खलु चिन्त्यते।
कन्याया: वरसम्पत्तिः पितुः प्राय: प्रयत्नतः।
भाग्येषु शेषमायत्तं दृष्टपूर्वं न चान्यथा।। 5
दुहितुः प्रदानकाले दुःखशीला हि मातरः। तस्माद् देवी तावदाहूयताम्।
काञ्चुकीयः - यदाज्ञापयति महासेनः। (निष्क्रान्तः)
राजा - भोः! काशिराजदूतसम्प्रेक्षणेन वत्सराजग्रहणार्थं गतं शालङ्कायनं प्रति गता मे बुद्धिः। किन्तु खल्वद्यापि वृत्तान्तं न प्रेयषति स
ब्राह्मणः।
कामं या तस्य सा लीला तत्रैवानुगतं मनः।
ये त्वस्य सचिवाः सर्वे यत्नमास्थाय ते स्थिताः।। 6
(ततः प्रविशति देवी असपरिवारा।)
देवी - जेदु महासेनो । (जयतु महासेणो।)
14
राजा - आस्यताम्।
देवी - जं महासेणो आणवेदि। (उपविशति।) यन्महासेन आज्ञापयति)
राजा - वासवदत्ता क्व।
देवी - उत्तराए वेदालिआए सआसे वीणं सिक्खिदुं णारदोअं गआ आसी। (उत्तराया वैतालिक्याः सकाशे वीणां शिक्षितुं नारदीयां
गतासीत्।)
राजा - कथमुत्पन्नोऽस्या गान्धर्वेऽभिलाषः।
देवी - केण वि किल उग्धादेण कञ्चणमालं वीणाजोग्गं करअÏन्त पेक्खिअ सिक्खिदुकामा आसी। (केनापि किलोद्धातेन काञ्चनमालां
वीणायोग्यां कुर्वतीं प्रेक्ष्य शिक्षितुकामासीत् ।)
राजा - सद्दशं बाल्यस्य।
देवी - महासेणं वि किं वि विण्णविदुकामा म्हि। (महासेनमपि किमपि विज्ञापयितुकामास्मि।)
राजा - किमति।
देवी - आअय्यं इच्छामि त्ति। (आचार्यमिच्छामीति।)
राजा - उपस्थितविवाहकालायाः किमिदानीमाचार्येण। पतिरेवैनां शिक्षयिष्यति।
देवी - हं एसो दाणि मे दारिआए कालो । (हम् एष इदानीं मे दारिकायाः कालः।)
राजा - भोः! नित्यं प्रदीयतामित्यस्मानुपरुध्य किमिदानीं सन्तप्यसे।
देवी - अभिप्पेदं मे पदाणं। विओओ मं सन्तावेदि। अह कस्स उण, दिण्णा। (अभिप्रेतं मे प्रदानम्। वियोगो मां सन्तापयति। अथ कस्मै
पुनर्दत्ता।)
राजा - न तावन्निश्चयोः गम्यते।
देवी - इदाणिं पि ण दाव। (इदानीमपि न तावत्)
राजा - अदत्तेत्यागता लज्जा दत्तेति व्यथितं मनः ।
धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ।।
सर्वथा श्वसुरपरिचरणसमर्थे वयसि वर्तते वासवदत्ता। एष चापरः कासिराजोपाध्याय आर्यजैवन्तिरद्य दौत्येन प्राप्तो विलोभयति
मां चारित्रेण। (आत्मगतम्) न किञ्चिदाह। अश्रुपूर्वा व्याकुला कथं निश्चयं गमिष्यति। भवतु, निवेदयाम्यस्यै। (प्रकाशम्)
श्रूयन्तेऽस्मत्सम्बन्धप्रयोजनायागता राजानः।
देवी - किं दाणि वित्थरेण। जहिं दइअ ण सन्तप्पामो, तहिं दीअदु।
(किमिदानीं विसतरेण । यत्र दत्त्वा न सन्तप्यामहे, तत्र दीयतां।)
राजा - श्रूयता अहो महान् खलु लीलाभिहितो दुःखविस्तर इदानीं पश्चादुपालम्भनं श्रोतुम्। तस्माद् देवी तावन्निश्चयं गच्छतु। श्रूयताम्,
अस्मत्सम्बद्धो मागधः काशिराजो वाङ्गः सौराष्ट्रो मेथिलः शूरंसनः।
एते नानार्थैर्लोभयन्ते गुणैर्मां कस्ते वैतेषां पात्रतां याति राजा।।
(प्रविश्य)
काञ्चुकीयः - वत्सराजः ।
राजा - किं वत्सराजः ।
काञ्चुकीयः - प्रसीदतु प्रसीदतु महासेनः। प्रियवचननिवेदनत्वरया क्रमविशेषो नावेक्षितः ।
राजा - प्रियवचनमिति ।
15
देवी - (उत्थाय) जेदु महासेणो। (जयतु महासेनः ।)
राजा - (सहर्षम्) प्रियवचनपरिहार्या हि देवी । आस्यताम् ।
देवी - जं महासेणो आणवेदी । (उपविशति ।) (यद् महासेन आज्ञापयति ।)
राजा - उत्तिष्ठोत्तिष्ठ, स्वरमभिधीयताम् ।
काञ्चुकीयः - (उत्थाय) तत्रभवतामात्येन शालङ्कायनेन गृहीतो वत्सराजः ।
राजा - (सहर्षम्) किमाह भवान् ।
काञ्चुकीयः - तत्रभवतामात्येन शालङ्कायनेन गृहीतो वत्सराजः ।
राजा - उदयनः ।
काञ्चुकीयः - अथ किम् ।
राजा - शतानीकस्य पुत्रः ।
काञ्चुकीयः - द्दढम् ।
राजा - सहस्रानीकस्य नप्ता।
काञ्चुकीयः - स एव।
राजा - कौशाम्बीशः।
काञ्चुकीयः - सुव्यक्तम्।
राजा - गान्धर्ववित्तकः।
काञ्चुकीयः - एवं ब्रुवन्ति।
राजा - वत्सराजो ननु।
काञ्चुकीयः - अथ किं, वत्सराजः ।
राजा - अथ किमुपरतो यौगन्धरायणः ।
काञ्चुकीयः - न खलु कौशम्ब्यां किल ।
राजा - यद्येवं, नगृहीतो वत्सराजः ।
काञ्चुकीयः - श्रद्धत्तां महासेनः ।
राजा - न श्रद्दधाम्युदयनग्रहणं त्वयोक्तं व्यावर्तनं करतलैरिव मन्दरस्य। 9
यस्याहवेषु रिपवः कथयन्ति शौर्यं यौगन्धरायणमतानि च नः स्वनन्ति ।।
काञ्चुकीयः - प्रसीदतु महासेनः । वृद्धोऽस्मि ब्राह्मणः खल्वहम्। न महासेनसमीपेऽनृतमभिहितपूर्वम्।
राजा - आ अस्त्येतत् । अथ कः प्रियदूतः शालङ्कायनेन प्रेषितः।
काञ्चुकीयः - न पुरुषः । जवातिशययुक्तेन खररथेन वत्सराजमग्रतः कृत्वा स्वयमेवामात्यः प्राप्तः ।
राजा - एवं प्राप्तः । हन्त भोः! अद्य विमुक्तसन्नाहा सुखं विश्राम्यत्वक्षौहिणी। अद्यप्रभुति प्रच्छन्नकृतदूतसम्प्रेषणा अशङ्किताः स्थास्यन्ति
राजानः । एष समासः- अद्यास्मि महासेनः।
देवी - किं अमच्चेण आणीदो । (किममात्येनानीतः)
राजा - अथ किम्।
देवी - एदण्णिमित्तं कस्स वि ण दिच्छामो वासवदत्तं। (एतन्निमित्तं कस्मा अपि न दित्सामो वासवदत्ताम्।)
16
राजा - युद्धावजितशत्रुः खल्वेष मम। बादरायण! शालङ्कायनः क्व।
काञ्चुकीयः - आहितो भद्रद्वारे।
राजा - गच्छ । भरतरोहतकं ब्रूहि- कुमारविधिविशिष्टेन सत्कारेण वत्सराजमग्रतः कृत्वा प्रवेश्यताममात्य इति।
काञ्चुकीयः - यदाज्ञापयति महासेनः।
राजा - एहि तावत्।
काञ्चुकीयः - अयमस्मि।
राजा - वत्सराजदर्शने कश्चिन्नोत्सारयितव्यः।
शत्रुं पश्यन्तु मे पौराः श्रुतपूर्वं स्वकर्मभिः।
सिंहमन्तर्गतामर्षं यज्ञार्थमिव संयतम्।। 10
काञ्चुकीयः - यदाज्ञापयति महासेनः (निष्क्रान्तः)
देवी - बहूणि अब्भुदआणि इमस्मि राअउले अणुभूदाणि। ण खु अहं ईदिसं पीदिजोग्गं महासेणस्स सुमरामि। (बहवोऽभ्युदया अस्मिन्
राजकुलेऽनुसूताः। न खल्वहमीद्दशं प्रीतियोग्यं महासेनस्य स्मरामि।)
राजा - अहमप्येतादृशं प्रीतिविशेषं न श्रुतपूर्वं स्मराभि, यथा गृहीतो वत्सराज इति।
देवी - बच्छराओ णं । (वत्सराजो ननु ।)
राजा - अथ किम्।
देवी - बहूणि सम्बन्धप्पओअणागदाणि राअउलाणि सुदाणि। एदिणा ण पेसिदपुरुषो पुरुसो। (बहूनि सम्बन्धप्रयोजनागतानि राजकुलानि
श्रुतानि । एतेन न प्रेषितपूर्वः पुरुषः ।)
राजा - देवी! महासेनशब्दमपि न गणयति, किं सम्बन्धमभिलषति।
देवी - ण गणेदि। कि बालो अपण्डिदो वा। (नगणयति । किं बालः अपण्डितो वा)
राजा - बालः न त्वपण्डितः।
देवी - किण्णु हु एणं उस्सेअअदि। (किन्तु खल्वेनसुत्सेकयति।)
राजा - उत्सेकयत्येनं प्रकाशराजर्षिनामधेयो वेदाक्षरसमवायप्रविष्टो भारतो वंशः । दर्पयत्येनं दायाद्यागतो गान्धर्वो वेदः। विभ्रमयत्येनं
वयस्सहजं रूपम् । विस्रभ्ययत्येनं कथमप्युत्पन्नोऽस्य पौरानुरागः।
देवी - अभिळसणीआ वरगुणा। कस्स वामदाए दोसो संवुत्तो। (अभिलषणीया वरगुणाः कस्य वामतया दोषः संवृत्तः।)
राजा - देवि! किमिदानीमस्थाने विस्मितासि। पश्य,
अग्निः कक्ष इवोत्सृष्टो दहत् कात्सन्र्येन मेदिनीम् ।
अस्य मे शासनं दीप्तं विषयान्तेऽवसीदति।। 11 ।।
(प्रविश्य)
काञ्चुकीयः - जयतु महासेनः। यथाज्ञाप्रयुक्तसत्कारं प्रविष्टः शालङ्कायनः। स तु विज्ञापयति- इदं भरतकुलोपभुक्तं वत्सराजकुले द्रष्टव्यं
घोषवती नाम वीणारत्नम्। महासेनः प्रतिग्राहयितव्य इति। (वीणांदर्शयति।)
राजा - प्रतिगृहीतं जयमङ्गलम्। (वीणां गृहीत्वा) इयं सा घोषवती नाम। यैषा,
श्रुतिसुखमधुरा स्वभावरक्ता
करजमुखोल्लिखिताग्रघृष्टतन्त्री।
ऋषिवचनगतेव मन्त्रविद्या
गजहृदयानि बलाद्वशीकरोति।। 12 ।।
भोः! समरावजितानां रत्नानामिष्टसम्भोगः प्रीतिमुत्पादयति।
17
अर्थशास्त्रगुणग्राहि ज्येेष्ठो गोपालकः सुतः।
गान्धर्वद्वेषी व्यायामशाली चाप्यनुपालकः।। 13 ।।
क्व नु खल्वियं सुन्यस्ता भवेत्। देवि! वासवदत्ता वीणामुपक्रान्ता ननु।
देवी - आम।
राजा - तेन हि इयमस्यै प्रदीयताम्।
देवी - वीणाप्पदाणेण भूओ वि उम्मत्ता विअ चिट्ठदि। (वीणाप्रदानेन भूयोऽप्युन्मतेव तिष्ठति।)
राजा - क्रीडतु क्रीडतु। नेतत् श्वशुरकुले। बादरायण! क्व सा।
काञ्चुकीयः - अमात्येन सहोपविष्टा।
राजा - अथ वत्सेष्वधिकृतः।
काञ्चुकीयः - अहितविनयत्वात् पादयोरङ्गे तस्य बहुप्रहारत्वाच्च रुकन्धवाह्येन शयनीयेन मध्यमगृहे प्रवेशितः।
राजा - हा धिग, बहुप्रहारः। एष इदानीं निरुपस्कृतस्य तेजसो दोषः। नृशंसः खल्वस्मिन् काल उपेक्षितवान्। बादरायण! गच्छ।
भरतरोहकं ब्रूहि- क्रियतामस्य व्रणप्रतिकर्मेति।
काञ्चुकीयः - यदाज्ञापयति महासेनः।
राजा - अथवा एहि तावत्।
काञ्चुकीयः - अयमस्मि।
राजा - अस्य सर्वदर्शनमविमुक्तसत्कारमवगन्तव्यम्। आकारसूचिता अस्य प्रीतयो विज्ञेयाः। अतिक्रान्तविग्रहाश्रिताः कथा न
कथयितव्याः। क्षुतादिप्रयोगेष्वाशिषोऽभिधेयाः। कालसंवादिनास्तवे नाच्र्यः।
काञ्चुकीयः - यदाज्ञापयति महासेनः। (निष्क्रम्य प्रविश्य) जयतु महासेनः। पथ्येव कृतव्रणप्रतिकर्मा वत्सराजः। अकालस्तावदिदानीं
द्वितीयस्य प्रतिकर्मण इति। मद्याह्ममारोहति दिवाकरः।
राजा - अथ कस्मिन् प्रदेशे वीरमानी।
काञ्चुकीयः - मयूरयष्टिमुखे।
राजा - हा धिग्, अनाश्रयणीयः खल्वयं देशः। आतपप्रातिकूल्यार्थं मणिभूमिकायां प्रवेशयेत्याज्ञापय।
काञ्चुकीयः - यदाज्ञापयति महासेनः। (निष्क्रम्य प्रविश्य) यदाज्ञप्तं महासेनेन, सर्वमनुष्ठितम्। अमात्यस्तु भरतरोहको महासेनं द्रह्टुमिच्छति।
राजा - व्यक्तं न रोचते तस्मै वत्सराजसत्क्रिया। अस्यैष नीतेः परिश्रमः। अहमेवैनमनुनयामि।
देवी - किं सम्बन्धो णिच्चिदो। (कि सम्बन्धो निश्चितः।)
राजा - न तावन्निश्चयो गम्यते।
देवी - अऴं दाणि तुवरिअ। बाळा मे दारिआ। (अलमिदानीं त्वरित्वा। बाला मे दारिका।)
राजा - यदभिरुचितं भवत्यै। प्रविशत्वभ्यन्तरम्।
देवी - जं महासेणो आणवेदि। (निष्क्रान्ता सपरिवारा।) (यन्महासेन आज्ञापयति।)
राजा - (विचिन्त्य)
पूर्वं तावद् वैरमस्यावलेपा
दानीतेस्मिन् स्यात् तु मध्यस्थता मे
युद्धक्लिष्टं संशयस्थं विपन्नं
श्रुत्वा त्वेनं संशयं चिन्तयामि।। 14 ।।
18
(निष्क्रान्तौ।)

द्वितीयोऽङ्कः।