प्रतिज्ञायौगन्धरायणम्/प्रथमोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search
प्रतिज्ञायौगन्धरायणम्
प्रथमोऽङ्कः
भासः
द्वितीयोऽङ्कः →

कथापात्राणि[सम्पाद्यताम्]

पुरुष-पात्राणि

यौगन्धरायणः (उन्मत्तकः) - वत्सराजस्य मुख्यमन्त्री।

रुमण्वान् (श्रमणकः) - वत्सराजस्य द्वितीयमन्त्री।

विदूषकः (वसन्तकः) - वत्सराजस्य मित्रम्

हंसकः - वत्सराजस्य सेवकः।

सालकः - यौगन्धरायणस्य अनुचरः एवं सन्देशवाहकः।

निर्मुण्डकः - यौगन्धरायणस्य भृत्यः।

ब्राह्मणः - यौगन्धरायणस्य मित्रम्।

भटः -

गात्रसेवकः -

प्रद्योतः (महासेनः) - उज्जयिनीराजाः।

भरतरोहकः - महासेनस्य प्रधानमंत्री।

बादरायणः -

स्त्री-पात्राणि

अङ्गारवती - महासेनस्य राणी।

विजया - वत्सराजस्य प्रतीहारी।


प्रथमोऽङ्कः[सम्पाद्यताम्]

(नान्द्यन्ते ततः प्रविशति सूत्रधारः ।)

सूत्रधारः - पातु वासवदत्तायो महासेनोऽतिवीर्यवान् ।

वत्सराजस्तु नाम्ना सश, श्क्तिर्यौगन्धरायणः ।।

(परिक्रम्य नेपथ्याभिमुखमवलोक्य) आर्ये! इतस्तावत् ।

(प्रविश्य)

नटी - अय्य! इअम्हि । (आर्य! इयमस्मि ।)

सूत्रधार - आर्ये! गीयतां तावत् किञ्चिद् वस्तु । ततस्तव गीतप्रसादिते रङ्गे वयमपि प्रकरणमारभामहे। आर्ये! किमिदं चिन्त्यते । ननु
गीयते ।

नटी - अज्ज मए सिविणे ञ्ञादिकुलस्स अस्सत्थं विअ दिट्ठं । ता इच्छामि अय्येण कुसलविञ्ञाणणिमित्तं कञ्चि पुरुसं पेसिदुं । (अद्य
मया स्वप्ने ज्ञातिकुलस्यास्वास्थ्यमिव दृष्टम् । तदिच्छाम्यार्येण कुशलविज्ञाननिमित्तं कञ्चित् पुरुषं प्रेषयितुम् ।)

सूत्रधारः - बाढम् ।

पुरुषं प्रेषयिष्यामि व्यक्तमात्महिते क्षमम् ।

सूत्रधारः - पुरुषं प्रेषयत्येष यथा यौगन्धरायणः ।।

सूत्रधारः - पुरुषं प्रेषयत्येव यथा यौगन्धरायणः ।।

(निष्क्रान्तौ ।)

इति स्थापना

(ततः प्रविशति यौगन्धरायणः सालकेन सह ।)
यौगन्धरायणः - सालक! सज्जस्त्वम् ।
सालकः - अय्य! अह इं। (आर्य अथ किम् । )
यौगन्धरायणः - महान् खल्वध्वा गन्तव्यः ।
सालकः - महत्तरेण सिणेहेण अय्यं उवचिट्ठामि । (महत्तरेण स्नेहेनार्यमुपतिष्ठे ।)
यौगन्धरायणः - हन्त यास्यति बलवान् यस्य सौहार्दम् । कुतः,
स्निग्धेष्वासज्यं कर्म यद् दुष्करं स्याद्
यो वा विज्ञाता सत्कृतानां गुणानाम् ।
क्रीतं सामथ्र्यं यस्य तस्य क्रमेण
दैवप्रामाण्याद् भ्रश्यते वर्धते वा ।। 3 ।।
अथ वेणुवनाश्रितेषु नागवनं श्वः प्रयाता स्वामी प्रागेव सम्भावयितव्यः।
सालकः - अय्य! लेहो खु मं ओबज्झइ, जहिं आअत्तं कय्यसरीरं । (आर्य लेखः खलु मामपक्हति, यस्मिन् आयत्तं कार्यशरीरम् ।)
यौगन्धरायणः - विजये!
(प्रविश्य)
विजया - अय्य इअम्हि । (आर्य! इयमस्मि।)
यौगन्धरायणः - विजये! त्वर्यतां लेखः प्रतिसरा च ।
विजया - अय्य! तह। (निष्क्रान्ता।) (आर्य! तथा।)
यौगन्धरायणः - अथ दृष्टपूर्वस्त्वयैष पन्थाः ।
6
सालकः - णहि, सुदपुरुवो। (नहि, श्रुतपूर्वः ।)
यौगन्धरायणः - एतदपि मेधाविलक्षणम्। भोः ! वनगजप्रच्छादितशरोरं नीलहस्तिनमुपन्यस्य प्रद्योतः स्वामिनं छलयितुकाम इति प्रवृत्तिरुपगता
नः। अपीदानीं स्वामिनो बुद्ध्ययतिक्रमो न स्यात् । अहो नु खलु वत्सराजभीरुत्वं प्रद्योतस्य। व्यक्तीकृतमसामथ्र्यमक्षौहिण्याः ।
कुतः,
व्यक्तं बलं बहु च तस्य न चैककार्य
संख्यातवीरपुरुषं च न चानुरक्तम् ।
व्याजं ततः समभिनन्दति युद्धकाले
सर्वं हि सैन्यमनुरागमृते कलत्रम् ।। 4 ।।
(प्रविश्य)
विजया - लेहो खु अअं। पडिसरा सव्ववहूजणहत्थादो तुवारीअदित्ति भट्टिमादा आह। (लेखः खल्वयम्। प्रतिसरा सर्ववधूजनहस्तात्
त्वर्यत इति भर्तृमाता आह)
यौगन्धरायणः - विजये! विज्ञाप्यतां तत्रभवत्यै-सर्ववधूजनहस्तप्रयुक्ता वा एका वा प्रतिसरा दीयतामिति।
विजया - अय्य! तह । (निष्क्रान्ता ।) आर्य तथा।)
(प्रविश्य)
निर्मुण्डकः - सुहं अय्यस्स । (सुखमार्यस्य)
यौगन्धरायणः - कथं निर्मुण्डकः ।
निर्मुण्डकः - अय्य! एसो भट्ठिपादमूलादो ओवट्ठिइओ हंसओ आअदो। (आर्य! एष भर्तृ पादमूलादौपस्थितिको हंसकः आगतः ।)
यौगन्धरायणः - कथा हंसक एकः प्राप्त इति। सालक! विश्रमम्यतामिदानीं मुहूर्तम्। त्वरिततरं वा यास्यसि सविश्रमो वा।
सालकः - अय्य! तह। (निष्क्रान्तः ।) (आर्य! तथा।)
यौगन्धरायणः - स्वामिनाविरहितपूर्वो हंसक एकः प्राप्त इति साविग्नमिव मे मनः। कुतः,
यथा नरस्याकुलबान्धवस्य
गत्वान्यदेशं गृहमागतस्य ।
तथा हि मे सम्प्रति बुद्धिशङ्का
श्रोष्यामि किन्नु प्रियमप्रियं वा ।। 5 ।।
(ततः प्रविशति हंसको निर्मुण्डकश्च।)
निर्मुण्डकः - एदु एदु अय्यो। (एत्वेत्वार्य।)
हंसकः - कहिं कहिं अय्यो । (कुत्र कुत्रार्यः।)
निर्मुण्डकः - एसो अय्यो। चिट्ठइ, उवसप्पदु णं । (निष्क्रान्तः।) एष आर्यस्तिष्ठति उपसर्पत्वेनम्।)
हंसकः - (उपसृत्य) सुहं अय्यस्य । (सुखमार्यस्य।)
यौगन्धरायणः - हंसक! न खलु गतः स्वामी नागवनम्।
हंसकः - अय्य! हिज्जो एव्व गदो भट्टा। (आर्य! ह्य एव गतो भर्ता।)
यौगन्धरायणः - हन्त निष्फलमनुप्रेषणम् । छलिताः स्मः । अथास्ति प्रत्याशा अथवा अद्यैव प्राणा मोक्तव्याः।
हंसकं धरदि खु दाव भट्ठा। (धरते खलु तावद् भर्ता।)
यौगन्धरायणः - धरते तावदित्यनूर्जिता विपत्तिरभिहिता। गृहीतेन स्वामिना भवितव्यं ननु।
हंसकः - सुट्ठु अय्येण विञ्ञादं। गहीदो भट्ठा। (सुष्ठु आर्येण विज्ञातम्। गृहीतो भर्ता।)

यौगन्धरायणः - कथं गृहीतः स्वामी। हन्त भोः! महान् खलु भारः प्रद्योतस्य भाग्यैर्निस्तीर्णः। अद्यप्रभृति वत्सराजसचिवानां प्रतिष्ठितमसामथ्र्यमयशश्च
। इदानीमनुत्पन्नकार्यपण्डितो रुमण्वान् क्व गतः। इदानीमश्वारोहणीयं क्व गतम्। कुतः,
स्निग्धं च सौहृदहृतं च कुलोद्गतं च
व्यायमयोग्यपुरुषं च गुणार्जितं च।
क्रीतं परैर्गहनदुर्गतया प्रनष्टं
युद्धे समस्तमतिभारतया विपन्नम्।। 6 ।।
हंसकः - जइ समग्गजोहबलपरिवारो भवे भट्ठा, ण एसो दोसो भवे। (यदि समग्रयोधबलपरिवारो भवेद् भर्ता, नैष दोषो भवेत्।)
यौगन्धरायणः - कथमसमग्रयोधबलपरिवारो नाम स्वामी।
हंसकः - सुणादु अय्यो। (शृणोत्वार्यः।)
यौगन्धरायणः - अध्वश्रान्तो भवान्। आस्यताम्।
हंसकः - अय्य! तह। (उपविश्य) सुणादु अय्यो। सावसेसपच्चूसाए रअणीए वाहणसुहाए वेलाए वालुअतित्थेण णइं णम्मदं तरिअ वेणुवणे
कलत्तं आवासिअ छत्तमत्तपरिच्छदेण गजजूहविमजोग्गेण बलेण मग्गमदअणीए वीहीए णाअवणं पआदो भट्टा । (आर्य! तथा
शृणोत्वार्यः । सावशेषप्रत्यूषायां रजन्यां वाहनसुखायां वेलायां वालुकातिर्थेन नदीं नर्मदां तीत्र्वा वेणुवने कलत्रमावास्य छत्रमात्रपरिच्छदेन
गजयूथविमर्दयोग्येन बलेन मार्गमदन्या वीथ्या नागवनं प्रयातो भर्ता।)
यौगन्धरायणः - ततस्ततः ।
हंसकः - तदो इसक्खेवमत्तोत्थिदे सुय्ये एत्तिअमत्ताणि विअ जोअणाणि गेच्छिअ कोसमत्तेण विअ मदअंधीरपव्वदं अणासादिअ तडाअङ्कुक्खित्तं
अद्धणिम्मिदसिलाकम्मं विअ विसमदंसणं दिट्ठ णो णाअजूहं। (तत इषुक्षेपमात्रोत्थिते सूर्ये इयन्मात्राणीव योजनानि गत्वा
क्रोशमात्रेणेव मदगन्धीरपर्वतमनासाद्य तटाकपङ्कोत्क्षिप्तमर्धनिर्मितशिलाकर्मेव विषमदर्शनं दृष्टं नो नागयूथम्।)
यौगन्धरायणः - ततस्ततः।
हंसकः - तदो णिज्झाअन्तीसु सेणासु समुप्पण्णसङ्कापिण्डिदे तÏस्म जूहे इमस्स अणत्थस्स उप्पादओ कोच्चि पदादी भट्टारं एव्वं
उवट्ठिदो। (ततो निध्यायन्तीषु सेनासु समुत्पन्नशङ्कापिण्डिते तस्मिन् यूथेऽस्यानर्थस्योत्पादकः कश्चित् पदातिः भर्तारमेवोपस्थितः।)
यौगन्धरायणः - तिष्ठ। इतः क्रोशमात्रे मल्लिकासालप्रच्छादितशरीरो नखदन्तवर्जमेकनीली हस्ती मया द्दश्यत इत्युक्तवान् ननु।
हंसकः - कहं परिण्णादं खु एदं अय्येण। जागत्ति खु समुप्पणो अअं दोसो। (कथं परिज्ञातं खल्वेतदार्येण। जाग्रति खलु समुत्पन्नोऽयं दोषः।)
यौगन्धरायणः - हंसक! जाग्रतोऽपि बलवत्तरः कृतान्तः। ततस्ततः।
हंसकः - तदो सुवण्णसदप्पदाणेण तं णिससं पडिपूजिअ भट्टिणा उत्तं अत्थि एसो चक्ववट्टी हत्थी णीलकुवलअतणू णाम हत्थिसिक्खाए
पठिदो। ता अप्पमत्ता होह तुम्हे इमिस्मि जूहे। गअं तं अहं वीणादुदीओ आणेमित्ति। (ततः सुवर्णशतप्रदानेन तं नृशंसं प्रतिपूज्य
भत्र्रोक्तम्-अस्त्येष चक्रवर्ती हस्ती नीलकुवलयतनुर्नाम हस्तिशिक्षायां पठितः। तद् अप्रमत्ता भवत यूयमस्मिन् यूथे। गजं तमहं
वीणाद्वितीय आनयामीति।)
यौगन्धरायणः - अथ कथमुपेक्षितस्तदानीं स्वामी रुमण्वता।
हंसकः - णहि णहि। पसादिअ भट्टा अमच्चेण विण्णाविदो-णहु दे एलावणादीणं वि दिसागआणं गहणं ण सम्भावणीअं। अविदु
दुरारक्खदाए आसण्णदोसाणि विसअन्तराणि। तहिं णिल्लज्जो णिरभिजणो पच्चन्तवासी जणो। ता पदादिमत्ताहिट्ठिदं इमं जूहं
करिअ सव्व एव्व गच्छामो, ण एकाइणा सामिणा गन्तळां त्ति। (नहि नहि। प्रसाद्य भर्तामात्येन विज्ञापितः- न खलु ते
ऐरावणादीनामपि दिग्गजानां ग्रहणं न सम्भावनीयम्। अपितु दुरारक्षतयासन्नदोषाणि विषयान्तराणि। तत्र निर्लज्जो निरभिजनः
प्रत्यन्तवासी जनः। तत् पदातिमात्राधिष्ठितमिदं यूथं कृत्वा सर्व एव गच्छामः, नैकाकिना स्वामिना गन्तव्यमीति।)
यौगन्धरायणः - अपि महाजनसमक्षमेवमुक्तः स्वामी रुमण्वता। एवमप्यवक्तव्यां स्वामिभक्तिमिच्छामि। ततस्तत्तः।
हंसकः - तदो अत्तजीविदणिद्दिट्ठेण सवहेण णिवारिअ अमच्चं णीलबलाहआदो हत्थिणो ओदरिअ सुन्दरपाडलं णाम अस्सं आलुहिअ
अणद्धागए सुय्ये विसदिमत्तेहि पदादिहि सह पआदो भट्टा। (तत आत्मजीवितनिर्दिष्टेन शपथेन निवार्यामात्यं नीलबलाहकाद्
हस्तिनोऽवतीर्य सुन्दरपाटलं नामाश्वमारुह्यानर्धागते सूर्ये विंशतिमात्रैः पदातिभिः सह प्रयातो भर्ता ।)

यौगन्धरायणः - विजयाय। हा धिक्, स्नेहात् पूर्ववृत्तान्तो नावेक्षितः। ततस्ततः।
हंसकः - तदो दिउणं विअ अद्धाणं गच्छिअ साललुक्खच्छाआए सवण्णणट्ठणीलदाए परुब्भासिदेहि असरीरविणिक्खित्तेहि विअ दन्तजुअलेहि
सूइदो धणुसदमत्तेण विअ दिट्ठो सो दिव्ववारणपडिच्छन्दो। (ततो द्विगुणमिवाध्वानं गत्वा सालवृक्षच्छायायां सावण्र्यनष्टनीलतया
प्रोद्भासिताभ्यमिशरीरविनिक्षिप्ताभ्यामिव दन्तयुगलाभ्यां सूचितो धनुःशतमात्रेणेव दृष्टः स दिव्यवारणप्रतिच्छन्दः।)
यौगन्धरायणः - हंसक! अस्मत्परिताप इत्युच्यताम्। ततस्ततः।
हंसकः - तदो भट्टिणा ओदरिअ अस्सादो आअमिअ देवदाणं पणामं करिअगहीदा वीणा। तदो पिट्ठदो एक्ककिदणिच्चओ विअ महन्तो
कण्ठीरवो समुप्पण्णो (ततो भत्र्रावतीर्याश्वादागम्य देवतानां प्रणामं कृत्वा गृहीता वीणा। ततः पृष्ठत एककृतनिश्चय इव महान्
कण्ठीरवः समुत्पन्नः।)
यौगन्धरायणः - कण्ठीरव इति। ततस्ततः ।
हंसकः - तदो कण्ठीरवपरिञ्ञाणणिमित्तं परिवुत्ता अ वअं। महामत्तोत्तराउहीआहिट्ठिदो पच्चुग्गदो सो किदअहत्थी (ततः कण्ठीरवपरिज्ञाननिमित्तं
परिवृत्ताश्च वयम्। महामात्रोत्तरायुधीयाधिष्ठितः प्रत्युद्गतः स कृतकहस्ती।)
यौगन्धरायणः - ततस्ततः।
हंसकः - तदो णामगोत्तग्गहणेण समस्सासिअ कुलवुत्तजणं सव्वहा पज्जोदप्पओओ एसो, अणुगच्छह मं, अहं दाणिं परस्स उवण्णासं
विसमारम्भं परक्कमेण समीकरोमि त्ति भणिअ भट्टा पविट्ठो एव्व तं परबलं (ततो नामगोत्रग्रहणेन समाश्वास्य कुलपुत्रजनं
सर्वथा प्रद्योतप्रयोग एषः, अनुगच्छत माम्, अहमिदानीं विषमारम्भं परस्योपन्यासं पराक्रमेण समीकरोमीति भणित्वा भर्ता प्रविष्ट
एव तत् परबलम्।)
यौगन्धरायणः - प्रविष्ट इति। अथवा ननु स्थाने,
व्रीलितो वञ्चनां प्राप्य मानी सत्वमुपाश्रितः।
शूरश्चैकायनस्थश्च किमन्यत् प्रतिपद्यते ।। 5
ततस्ततः।
हंसकः - तदो कीलाअमाणो विअ अत्तच्छन्दाणुवत्तिणा सुन्दरपाडलेण अस्सेण अत्ताभिप्पाआदो वि अहिअं पहरन्तो अदिबहुकदाए परबलस्स
अदिप्पउज्जमाणवाआमो विसण्णाणट्ठसव्वपरिजणो मए एक्काइणा, णहि णहि भट्ठिणा एव्व रक्खिअमाणो अणुबद्धदिवसजुद्धपरिस्सन्तो
बहुप्पहारणिपडिअतुरओ तम्माअमाणासुय्थदारुणाए वेलाए मोहं गदो भट्ठा। (ततः क्रीडन्निवात्मच्छन्दानुवर्तिना
सुन्दरपाटलेनाश्वेनात्माभिप्रायादप्यधिकं प्रहरन् अतिबहुकतया परबलस्यातिप्रज्युमानव्यायामो विषण्णनष्टसर्वपरिजनो मयैकाकिना,
नहि नहि, भत्र्रैव रक्ष्यमाणोऽनुबद्धदिवसयुद्धपरिश्रान्तो बहुप्रहारनिपतिततुरगस्ताम्यत्सूर्यदारुणायां वेलायां मोहं गतो भर्ता।)
यौगन्धरायणः - कथं मोहमुपगतः स्वामी। ततस्ततः।
हंसकः - तदो जहासत्ति सण्णिहिदगहणुप्पाडिदाहि अविण्णअमाणजादीहि कक्कसाहि लदाहि पाकिदो विअ सरीरअन्तणादो पहरिसिदो
भट्टा। (ततो यथाशक्ति सन्निहितगहनोत्पाटिताभिरविज्ञाय- मानजातिभिः कर्कशाभिर्लताभिः प्राकृत इव शरीरयन्त्रणात् प्रधर्षितो
भर्ता।)
यौगन्धरायणः - कथं प्रधर्षितः स्वामी।
पीनांसस्य विकृष्टपर्वंमहतो नागेन्द्रहस्ताकृते-
श्वापास्फालिकरस्य दूरभरणाद् बाणाधिकारोपिणः।
विप्राभ्यर्चयितुः - श्रमेषु सुहृदां सत्कर्तुरालिङ्गनै-
न्र्यस्तं तस्य भुजद्वयस्य, वलयस्थानान्तरे बन्धनम्।।
अथ कस्यां वेलायां प्रत्यागतप्राणः स्वामी। 8
हंसकः - अय्य! अवसिदावलेवेसु पावेसु। (आर्य! अवसितांवलेपेषु पापेषु।)
यौगन्धरायणः - दिष्टचा शरीरं घर्षितं न तेजः। ततस्ततः
हंसकः - तदो पच्चाअदप्पाणं दाणि भट्टारं पेक्खिअ अणेण मम हदो अणेण मम पिदा अणेण मम सुदो मम वउस्सो त्ति अञ्ञहा भट्ठिणीे

परक्कमं वण्णउन्ता सव्वदो अभिद्दुदा दे पावा। ततः प्रत्यगतप्राणमिदानीं भर्तारं प्रेक्ष्यानेन मम भ्राता हतोऽनेन मम पितानेन मम
सुतः तो अनेन मम वयस्य इति अन्यथा भर्तुः पराक्रमं वर्णयन्तः सर्वतोऽभिद्रुतास्ते पापाः।)
यौगन्धरायणः - ततस्ततः।
हंसकः - अण्णं च दाणि अच्चरिअं! अञ्ञाञ्ञणुणएण तर्हि एक्को ववसिदो अकय्यं कत्तुं। सो दक्खिणाहिमुहं परिवत्तिअ भट्टारं
समरवाआमसंखोहिदाणि णिरुवआरं संखिविअ केसाणि पीडिअ करेण करवालं पहारवेगं उप्पादइदुकामो आधावन्तो
(अन्यच्चेदानीमास्चर्यम्। अन्योन्यानुनयेन तत्रैको व्यवसितोऽकार्यं कर्तुम्। स दक्षिणाभिमुखं परिवत्र्य भर्तारं समख्यायामसंक्षोभितान्
निरुपचारं संक्षिप्य केशान् पीडयित्वा करेण करवालं प्रहारवेगमुप्पा दयितुकाम आधावन-)
यौगन्धरायणः - हंसक! वृत्तान्तं तावदवधारय, यावदहमुच्छ्वसामि ।
हंसकः - तदो ठ्ठुहिठ्ठपडपिच्छिठ्ठाए भूमीए सो णिसंसओ सएण वेएण ओधट्टिदचणो पडिहदारम्भो हदो पडिदो। (ततो रुधिरपटलपिच्छिलायां
भूमौ स नृशंस:स्वेन वेगेनावघट्टितचरण: प्रतिगतारम्भो हत: पतित:।)
यौगन्धरायणः - पतितः पाप एषः। भोः!
परचक्रैरनाक्रान्ता धर्मसङ्करवर्जिता।
भूमिर्भर्तारमापन्नं रक्षिता परिरक्षति ।। 9
हंसकः - तदो भट्टिणा पुढमं कुन्तप्पहारजणिदरोहो सालङ्काअणो णाम पज्जोदस्स अमच्चो मा खु मा खु साहसं भणिअ तं देसं
उवट्ठिदो। (ततो भत्र्रा प्रथमं कुन्तप्रहारजनितमोहः शालङ्कायनो नाम प्रद्योतस्यामात्यो मा खलु मा खलु साहसमिति भणित्वा ‘’
तं देशमुपस्थितः।)
यौगन्धरायणः - ततस्ततः।
हंसकः - तदो तक्कालदुल्लहं पणामं करिअ सरीरअन्तणादो तेण मोइदो भट्टा (ततस्तत्कालदुर्लभं प्रणामं कृत्वा शरीरयन्त्रणात् तेन
मोचितो भर्ता।)
यौगन्धरायणः - विमुक्तः स्वामी। साधु भोः शालङ्कायन! साधु। अवस्था खलु नाम शत्रुमपि सुहुत्त्वे कल्पयति। हंसक! व्यसनात् किञ्चदुच्छ्वसितमिव
मे मनः। अथ किं प्रतिपन्नं तेन साधुना।
हंसकः - तदो तेण अय्येण अणेअं सोवआरं सन्तिवअणं भणिअ गाढबहुप्पहारदाए असमत्थो वाहणासणत्ति खन्धसअणं आरोविअ
उज्जइणिं एव्व णीदो भट्टा। (ततस्तोनार्योणानेकं सोपचारं शान्तिवचनम् भणित्वा गाढबहुप्रहारतयासमर्थे वाहनासन इति
स्कन्धशयनमारोप्योज्जयिनीमेव नीतो भर्ता।)
यौगन्धरायणः - नीतः स्वामी। एष सोऽनर्थः,
एतत् तन्यङ्गमस्माकमेष सोऽतिमनोरथः।
प्रद्योतस्य मनस्वित्वात् स्वामी दुःखेषु वर्तंते।। 20
अथ,
कथमगणितपूर्वं द्रक्ष्यते तं नरेन्द्रः कथमपुरुषवाक्यं श्रोष्यते सिद्धवाक्यः।
कथमविषयवन्ध्यं धारयिष्यत्यमर्षं प्रणिपतति निरुद्धः सत्कृतो घर्षितो वा।। 22
(प्रविश्य)
प्रतिहारी - अय्य! एसा पडिसरा। (आर्य! इयं प्रतिसरा।)
यौगन्धरायणः - एतानि तान्यापतितानि काले भाग्यक्षयान्निष्फलमुद्यतानि।
तुरङगमस्येव रणे निवृत्ते नीराजनाकौतुकमङ्गलानि।।
प्रतीहारी - अय्य! इमा पडिसरा। (आर्य! एषा प्रतिसरा।)
यौगन्धरायणः - विजये! स्थाप्यताम्।

प्रतीहारी - किं त्ति भट्टिमादरं णिवेदेमि। (किमिति भर्तृंमातरं निवेदयामि।)
यौगन्धरायणः - विजये! एवमेतत्।
प्रतीहारीः - किं एदं। (किमेतत्।)
यौगन्धरायणः - इदम्।
प्रतीहारी - भणादु भणादु अय्या भणादु । (भणतु भणत्वार्यो भणतु।)
यौगन्धरायणः - अथवा नैतच्छक्यं परिहर्तुम्। निवेदयिष्याम्यत्रभवत्यै। विजये! स्थिरीक्रियतामात्मा। (कर्णे) एवमिव।
प्रतीहारी - हा।
यौगन्धरायणः - विजया खल्वसि।
प्रतीहारी - एसा गच्छामि मन्दभाआ । (एषा गच्छामि मन्दभागा।)
यौगन्धरायणः - विजये! न खलु त्वयात्रभवत्यै गृहीतः स्वामीति सहसा निवेदयितव्यम्। स्नेहदुर्वलं मातृहृदयं रक्ष्यम्।
प्रतीहारी - कहं दाणि णिवेदेमि। (कथमिदानीं निवेदयामि।)
यौगन्धरायणः - शृणुु।
पूर्वं तावद् युद्धसम्बद्धदोषाः प्रस्तोतव्या भावनाः संशयानाम्।
सान्दिग्धेऽर्थे चिन्त्यमाने विनाशे रूढे शोके कार्यतत्त्वं निवेद्यम्।। 13 ।।
प्रतीहारी - घत्तिस्सं (निष्क्रान्ता।) (ग्रहीष्यामि।)
यौगन्धरायणः - हंसक! त्वमिदानीं स्वामिना किं न गतः।
हंसकः - अय्य! ववसिदो खु अहं अत्ताणं अणुग्गहिदुं सालङकाअणेण णिउत्तो। - गच्छ इमं वुत्तन्तं कोसम्बीए णिवेदेहि त्ति। (आर्य!
व्यवसितः खल्वहमात्मानमनुग्रहीतुं सालङकायनेन नियुक्तः गच्छेमं वृत्तान्तं कौशाम्ब्यां निवेदयेति।)
यौगन्धरायणः - किन्नु खल्विदानीं निराशमनुसारं कर्तुकामः, उताहो स्निग्धपुरुषसन्निकर्षं परिहरति।
हंसकः - अह इं। (अथ किम्)
यौगन्धरायणः - स स्वकं विस्मयादात्मानमाविष्करोति, उत सर्वारम्भसिद्धौ रमणीयं भवति। अथ मामन्तरेण स्वामी न किञ्चिदाह।
हंसकः - अय्य! अत्थि, पदक्खिणीकरअन्तो भट्टारं अन्तज्जलावगाढाए दिट्ठीए बहुकं सदेट्ठुकामेण विअ म्हि भट्ठिणा उत्तो-गच्छ
जोअन्ध- (इत्यर्थोक्ते तिष्ठति।) (आर्य! अस्ति, प्रदक्षिणीकुर्वन् भर्तारमन्तर्जलावगादया हष्टया बहुकं सन्देर्धोकामेनेवास्मि
भत्र्रोक्तः- गच्छ यौगन्ध-)
यौगन्धरायणः - स्वैरममिधीयतां, स्वामिवाक्यमेतत्।
हंसकः - जोअन्धराअणं पेक्खेहि त्ति। (यौगन्धरायणं प्रेक्षस्वेति।)
यौगन्धरायणः - मा तावत्। सर्वसचिवमण्डलमतिक्रम्यैको यौगन्धरायणो द्रष्टव्य इत्याह।
हंसकः - अह इं। (अथ किम्।)
यौगन्धरायणः - तेन हि अनर्हप्रतिक्रियमनिर्विष्टभर्तृपिण्डमनुपकृतराजसत्कारं यदि खलु मां द्रष्टव्यं मन्यते स्वामी।
हंसकः - बाढं। (बाढम्।)
यौगन्धरायणः - पुरुषान्तरितं मां द्रक्ष्यति स्वामी,
रिपुनृपनगरे वा बन्धने वा वने वा
समुपगतविनाशः प्रेत्य वा तुल्यनिष्ठम्।
जितमिति कृतबुदिं्ध वञ्चयित्वा नृपं तं
पुनरधिगतराज्यः पाश्र्वतः श्लाघनीयम्।। 14 ।।

(नेपथ्ये)
हा हा भट्टा! (हा हा भर्तः!)
यौगन्धरायणः - एष शोकप्रतीकारो यथाशक्ति निवेद्यते।
एतत् स्त्रीभिरसामथ्र्यं मन्त्रिणामनुवण्र्यते।। 15 ।।
(प्रविश्य)
प्रतीहारीः - अय्य! भट्टिमादा। (आर्य! भर्तृमाता।)
यौगन्धरायणः - किं किंम्।
प्रतीहारी - आह।
यौगन्धरायणः - किमिति।
प्रतीहारी - एवंविहस्स सुहिज्जणेण परिगहिदस्स वच्छराअस्स अअं वृत्तन्तो। किं सक्कँ कत्तुं अन्तरेण विहाणं। ता सम्माणिअ सुहिज्जणं
समत्थिअदु। जो खु दाणि सङ्कटेसु वा णा विसीददि, विसमगतो वा ण पय्यवचिट्ठदि, वच्छिदो वा ण णिव्वेदं गच्छदि, पडिघदेसु
वा पाणा ण समुज्झदि, सो खु बुद्धिमन्तो पुच्छज्जइ पढमं एव्व मे वच्छस्स वअस्सो पच्छा अमच्चो आणेदु मे पुत्तअं पुत्तओ त्ति।
(एवंविधस्य सुहृज्जनेन परिगृहीतस्य वत्सराजस्यायं वृत्तान्तः। किं शक्यं कर्तुमन्तरेण विधानम्। तत् सम्मान्य सुहृज्जनं
समथ्र्यताम्। यः खल्विदानीं सङ्कटेषु वा न विषीदति, विषमगतो वा न पर्यवतिष्ठते, वञ्चितो वा न निर्वेदं गच्छति, प्रतिघातेषु
वा प्राणान् न समुज्झति, स खलु बुद्धिमान् पृच्छयते प्रथममेव मे वत्सस्य वयस्यः पश्चादमात्य आनयतु मे पुत्रकं पुत्रक इति।)
यौगन्धरायणः - अहो नु खल्वत्रभवत्या राजवंशाश्रितं धीरवाक्यमभिहितम्। अत्रभवत्याः सम्भावनां पूजयामि विजये। आपस्तावत्।
प्रतीहारी - अय्य! तह। (निष्क्रम्य प्रविश्य) इमा आवो। (आर्य! तथा। इमा आपः।)
यौगन्दरायणः - आनय़ (आचर्य) विजये! किमाह तत्रभवती।
प्रतीहारी - आणेदु मे पुत्तअं पुत्तओ त्ति। (आनयतु मे पुत्रकं पुत्रक इति।)
यौगन्धरायणः - आनय। (आचम्य) विजये ! किमाह तत्रभवती।
प्रतीहारी - आणेदु मे पुत्तअं पुत्तओ त्ति। (आनयतु मे पुत्रकं पुत्रक इति।)
यौगन्धरायणः - हंसक! किमाह स्वामी।
हंसकः - जोअन्धरायण पेक्खेहि त्ति। (यौगन्धरायणं प्रेक्षस्वेति।)
यौगन्धरायणः - विजये!
यदि शत्रुबलग्रस्तो राहुणा चन्द्रमा इव।
मोचयामि न राजानं नास्मि यौगन्धरायणः।। 16 ।।
प्रतीहारी - अय्य! तह। निष्क्रान्ता ।) (आर्य! तथा।)
(प्रविश्य)
निर्मुण्डकः - अय्य! अच्छरिअं णिव्वुत्तं। भट्टिणो सन्तिणिमित्तं उवट्टिअभोअणं बम्हणजणं पेक्खिअ केण वि किल उम्मत्तवेसधारिणा
बम्हणेण उच्चं हसिअ उत्तं - सेरं सेरं अण्हन्तु भवन्तो, अब्भुदअं खु इमस्स राअउलस्स भविस्सदि त्ति। तदो वअणसमआलं एव्व
अदंसणं गदो। (आर्य! आश्चर्यं निर्वृत्तम्। भर्तुः शान्तिनिमित्तमुपस्थितभोजनं ब्राह्मणजनं प्रेक्ष्य केनापि किलोन्मत्तवेषधारिणाब्राह्मणेनोच्चं
हसित्वोक्तं - स्वैरं स्वैरमश्नन्तु भवन्तः, अभ्युदयः खल्वस्य राजकुलस्य भविष्यतीति। ततो वचनसमकालमेवादर्शनं गतः।)
यौगन्धरायणः - अपि सत्यम्।
(तत: प्रविशति ब्राह्मण:)
ब्राह्मणः - इमेऽत्रभवता परिगृहीता आत्मप्रयोजनोत्सृष्टाः परिच्छद विशेषाः। एभिः प्रच्छादितशरीरो भगवान् द्वैपायनः प्राप्तः।

यौगन्धरायणः - एवं, द्वैपायनः प्राप्तः।
ब्राह्मणः - बाढम्।
यौगन्धरायणः - तेन हि पश्यामस्तावत्।
ब्राह्मणः - पश्यतु भवान्।
यौगन्धरायणः -कथमन्यद् रुपमिव मे संवृत्तम्। हन्त भोः! गतोऽस्मि स्वामिसन्निकर्षमेव। इदानीं ममोपदेशार्थमिवोत्सृष्टः।
उन्मत्तसद्दशो वेषो धारितस्तेन साधुना।
मोचयिष्यति राजानं मां च प्रच्छादयिष्यति।। 17 ।।
(प्रविश्य)
प्रतीहारीः - अय्य! भट्टिमादा आह - इच्छामि पुत्तअं पेक्खिदुं ति। (आर्य! भर्तृमाताह - इच्छामि मे पुत्रकं प्रेक्षितुमिति।)
यौगन्धरायणः - अयमयमागच्छामि। आर्य! शान्तिगृहे मां प्रतीक्षस्व।
ब्राह्मणः - बाढम्। (निष्क्रान्तः।)
यौगन्धरायणः - हंसक! विश्रम्यतामिदानीम्।
हंसकः - अय्य! तह। (निष्क्रान्तः।) आर्य! तथा)
यौगन्धरायणः - विजये! गच्छाग्रतः।
प्रतीहारीः - अय्य तह। (आर्य! तथा।)
यौगन्धरायणः - भोः!
काष्ठादग्निर्जायते मथ्यमानाद्
भूमिस्तोयं खन्यमाना ददाति।
सोत्साहानां नास्त्यसाध्यं नराणां
मार्गारब्धाः सर्वयत्नाः फलन्ति।।
(निष्क्रान्ताः।)
इति प्रथमोऽङ्कः।