प्रतिज्ञायौगन्धरायणम्/तृतीयोऽङ्कः
← द्वितीयोऽङ्कः | प्रतिज्ञायौगन्धरायणम् तृतीयोऽङ्कः भासः |
चतुर्थोऽङ्कः → |
(ततः प्रविशति डिण्डिकवेषो विदूषकः।)
विदूषकः - (निरूप्य) भो! देवउऴपीठिआए मम मोदअमळ्ळअं णिक्खिविअ दक्खिणामासआणि गणिअ बन्धिअ पडिणिवुत्तो दाणि मोद
अमऴ्ऴअं ण पेककामि। (विचिन्त्य) आ एकमोदअपरितोसिदो ण दाव ओऴग्गो मं अणुसरदि। उच्चदाए पाआरस्स अगई
कुक्कुराणं। अक्खदभत्तदाए अळोहणीअं पहिआणं। आदु अपि णं खाआमि। भोदु ओग्गारइस्सं दाव अहं। ही ही बुड्डो विअ
सअरवत्थी सुद्धवादं एव्व उग्गिरामि। अहव ऴाहिदकच्चाअणीए केरअं मम केरअं त्ति करिअ सिवेण पडिहत्थीकिदं भवे।
(निरूप्य) जदि वि एसो बम्हआरी बहुकेहि रूवेहि अविणअं करेदि। भोदु पेक्खिस्सं दाव अहं । भो! एदं खु मम मोदअमळ्ळअं
सिवस्स पादमूऴे चिट्ठइ। जाव णं गह्णामि। देहि भट्टा! देहि मे मोदअमळ्ळअं। भट्टा! तुवं वि मम चोरो सि। अविहा
अळि़हिदं खुमम मोदअममऴ्ऴअं संदावतिमिरेण सुट्ठुण पेक्खामि। भोदु पमज्जिस्सं दाव अहं। ही ही साहु ऴे चित्तअर! भाव!
साहु। जुत्तळेहदाए वण्णाणं जह जह पमज्जामि, तह तह उज्जळदरं होइ भोदु, उदएण पमज्जिस्सं। कहिं णु हु उदअं। इदं सोहणं
सुद्धतडाअं। अहं विअ सिवो वि दाव एदÏस्स मोदअमऴ्ऴए णिरासो होदु। (भोः! देवकुलपीठिकायां मम मोदकमल्लकं निक्षिप्य
दक्षिणामाषकान् गणयित्वा बद्धवा प्रतिनिवृत्त इदानीं मोदकमल्लकं न प्रेक्षे। आ एकमोदकपरितोषितो न तावदवलग्नो मामनुसरति।
उच्चतया प्राकारस्यागतिः कुक्कुराणाम्। अक्षतभक्ततयालोभनीयं पथिकानाम्। अथवा अप्येनं खादामि। भवतु उद्धगरिष्यामि
तावदहम् ही ही वृद्ध इव सूकरबस्तिः शुद्धवातमेवोद्गिरामि। अथवा लोहितकात्यायन्याः सम्बन्धि मम सम्बन्धीति कृत्वा शिवेन
प्रतिहस्तीकृतं भवेत्। यद्यप्येष ब्रह्मचारी बहुकै रूपैरविनयं करोति। भवतु प्रेक्षिष्ये तावदहम्। भोः! एष खलु मम मोदकमल्लकः
शिवस्य पादमूले तिष्ठति। यावद् एनं गृहणामि। देहि भर्तः! देहि मे मोदकमल्लकमम्। भर्तः! त्वमपि मम चोरोऽसि। अविधा
आलिखितं खलु मम मोदकमल्लकं सन्तापतिमिरेण सुष्ठु न प्रेक्षे। भवतु प्रमार्जिष्यामि तावदहम्। ही ही साधु रे चित्रकर! भाव!
साधु। युक्तलेखतया वर्णानां यथा यथा प्रमाÐज्म, तथा तथोज्जवलतरं भवति। भवतु, उदकेन प्रमार्जिष्यामि। कुत्र नु खलूदकम्।
इदं शोभनं शुद्धतटाकम्। अहमिव शिवोऽपि तावद् एतस्मिन् मोदक-मल्लके निराशो भवतु।)
(नेपथ्ये)
मोदआ! मोदआ! हहह। (मोदकाः! मोदकाः! हहह।)
विदूषकः - अविहा एसो उम्मत्तओ मम मोदअमळ्ळअं गह्णिअ हसमाणो फेणायमाणमळिणवरिसारच्छोदअं विअ इदो एव्वाहावइ। चिच्ठ
चिट्ठ उम्मत्तअ! चिट्ठ। इमिणा दण्डअट्ठेण सीसं दे भिन्दामि। (अविधा एष उन्मत्तको मम मोदकमल्लकं गृहीत्वा हसमानः
फेनायमानमत्निनवर्षारथ्योदकमिवेत एवाधावति। तिष्ठ तिष्ठोन्मत्तक! तिष्ठ। अनेन दण्डकाष्ठेन शीर्षं ते भिनझ्मि।)
(ततः प्रविशत्युन्मत्तकः।)
उन्मत्तकः - मोदआ! मोदआ! हहह। (मोदकाः! मोदका! हहह।)
विदूषकः - भो उम्मत्तअ! आणेहि मम मोदअमळ्ळअं। (भो उन्मत्तक! आनय मम मोदकमल्लकम्।)
उन्मत्तकः - किं मोदआ। कहिं मोदआ। कश्य मोदआ। किं इमे मोदआ उज्झन्ति, आदु पिणज्झन्ति, उदाहो खज्जन्ति। (किं मोदकाः। कुत्र
मोदकाः। कस्य मोदकाः। किमिमे मोदका उज्झ्यन्ते, अथवा पिनह्यन्ते उताहो खाद्यन्ते।)
विदूषकः - ण खज्जन्ति ण खज्जन्ति ण उज्झन्ति अ। (न खाद्यन्ते न खाद्यन्ते नोज्झ्यन्ते च।)
उन्मत्तकः - एसा खु मम रसणा खाइदुकामा ळिङ्गाणि करेदि। (एषा खलु मम रसना खादितुकामा लिङ्गानि करोति।)
विदूषकः - भो उम्मत्तअ। आणेहि मम मोदअमळ्ळअं । मा परकेरए सिणेहं करिअ ओवज्झेहि। (भो उन्मत्तक! आनय मम मोदकमल्लकम्।
मा परकीये स्नेहं कृत्वा अवबध्यस्व।)
उन्मत्तकः - के के मं वज्झन्ति। मोदआ खु मं रक्खन्ति।
णेवच्छविसेसमण्डिदा पीदिं उवदेदुं उवट्ठिआ।
ळाअगिहहे दिण्णमुळिळआ काळवसेण मुहुत्तदुब्बऴा ।। 1 ।।
(के के मां बध्नन्ति। मोदकाः खलु मां रक्षन्ति।
19
नेपथ्यविशेषमण्डिताः प्रीतिमुपदातुमुपस्थिताः।
राजगृहे दत्तमूल्या कालवशेन मुहूर्तदुर्बलाः।।)
विदूषकः - भो उम्मत्तअ! आणेहि मम मोदअमळ्ळअं। इमिणा। पच्चएण उवज्झाअउळं गन्तव्वं। (भो उन्मत्तक! आनय मम
मोदकमल्लकम्। अनेन प्रत्ययेनोपाध्यायकुलं गन्तव्यम्।)
उन्मत्तकः - मए वि इमिणा पच्चएण जोअणसदं गन्तव्वं। (मयाप्यनेन प्रत्ययेन योजनशतं गन्तव्यम्।)
विदूषकः - किं एळावणे तुवं। (किमैरावणस्त्वम्।)
उन्मत्तकः - आम एळावणे अहं। ण हु दाव देवळाजो मं आशणं आळुहदि। शुदं च मया पादपाशिएहि इन्दे वज्झ त्ति। धाराणिअळेहि
विज्जुम्मइहहहि कशाहि ताळिअ वाउब्भामेण परिब्भमन्तेण भिन्दीअदि मेहबन्धणं। (आम एरावणोऽहम्। न खलु तावद् देवराजो
मामासनमारोहति। श्रुतं च मया पादपाशिकैरिन्द्रो बद्ध इति। धारानिगलैः विद्युन्मयीभिः कशाभिस्ताडयित्वा वातोद्भ्रामेण
परिभ्रमता भिद्यते मघबन्धनम्।)
विदूषकः - भो उम्मत्तअ! ण तुवं मम दइस्शिसि, विळविस्सं दाव अहं। (भो उनमत्तक! न त्वं मम दास्यसि, विलापिष्यामि तावदहम्।)
उन्मत्तकः - विळव विळव विक्कोस वा विळव। (विलप विलप विक्रोश वा विलप।)
विदूषकछ - अब्बम्मण्णं भो! अब्बम्मण्णं। (अब्रह्मण्यं भोः! अब्रह्मण्यम्।)
उन्मत्तकः - अहं पि विळविस्सं । इन्दे वज्झे भो। इन्दे वज्झे भो!। (अहमपि विलपिष्यामि। इन्द्रो बद्धो भोः! ।)
विदूषकः - अब्बम्मण्णं भो! अब्बम्मण्णं। (अब्रह्मण्यं भोः! अब्रह्मण्यम्।)
(नेपथ्ये)
मा भाआहि मा भाआहि बम्हणाउस। मा भाआहि। (मा बिभीहि मा बिभीहि ब्राह्मणोपासक! मा बिभीहि।)
विदूषकः - (सहर्षम्) आअदे चन्दे समाअदाणि सव्वणक्खत्ताणि। अघं बम्हणभावं। ईहामत्तएण समणएण अभअं दीअदि। (आगते चन्द्रे
समागतानि सर्वनक्षत्राणि। अघं ब्राह्मणभावः। ईहामात्रकेण श्रमणकेनाभयं दीयते।)
(ततः प्रविशति श्रमणकः।)
श्रमणकः - मा भाआहि मा भाआहि बम्हणाउस! मा भाआहि। के के इह, किं कय्यं विळवन्दि। (मा बिभीहि मा बिभीहि ब्राह्मणोपासक!
मा बिमीहि। के के इह, किं कार्यं, विलपन्ति।)
विदूषकः - अविहा पडिहहारक्खअउतिं्त खु समणओ अणुहोदि। भो समणअ! भअवं! एसो उम्मत्तओ मम मोदअमळ्ळअं गह्णिअ ण देदि
(अविधा प्रतिहहाररक्षकवृतिं्त खलु श्रमणकोऽनुभवति। भोः श्रमणक! भगवन्! एष उन्मत्तको मम मोदकमल्लकं गृहीत्वा न
ददाति।)
श्रमणकः - मोदअं पेक्खामि दाव। (मोदकं प्रेक्षे तावत्।)
उन्मत्तकः - पेक्खदु पेक्खदु शमणअ! भवं। (प्रेक्षतां प्रेक्षतां श्रमणक! भवान्!)
श्रमणकः - थु थु। (थु थु।)
विदूषकः - हद्धि उम्मत्तअस्स हत्थे ईहहामत्तएण समणएण थुथूकिदा अधण्णस्स मम मोदआ दिट्ठपुरुवा एव्व संवुत्ता। (हा धिग् उन्मत्तकस्य
हस्ते ईहामात्रकेण श्रमणकेन थुथूकृता अधन्यस्य मम मोदका दृष्टपूर्वा एव संवृत्ताः।)
श्रमणः - भो उम्मत्तआउस! णीआदेहि णीआदेहि एदाणि मोदआणिकत्थूळिआफेणपण्डराणि बहुपिट्ठसमिद्धकोमळाणि णिट्ठणिआ सुरा
विअ महुराणणइ। मा दे खाइदाणि खअं उप्पादन्ति। (भो उन्मत्तकोपासक! निर्यातय निर्यातय एतानि मोदकानि कस्थूलिकाफेनपाण्डराणि
बहुपिष्टसमृद्धकोमलानि निष्ठानिताः सुरा इव मधुराणि। मा ते खादितानि क्षयमुत्पादयन्तु।)
विदूषकः - अविहा मोदआणि त्ति करिअ कण्डिळळङ्डुआ मे पडिच्छिदा। (अविधा मोदका इति कृत्वा कण्डिललङ्डुका मे प्रतीष्ठाः।)
श्रमणकः - उम्मत्तआउस! णीआदेहि णीआदेहि। जदि ण णीआदेसि, तुवं सवेमि। (उन्मत्तकोपासक! निर्यातय निर्यातय। यदि न निर्यातयसि,
त्वां शपामि।)
20
उन्मत्तकः - पशीददु पशीददु शमणअ! भअवं। मा खु मा खु मं शविदुं गह्ण गह्ण। (प्रसीदतु प्रसीदतु श्रमणक! भगवन्! माखलु माखलु मां
शप्तुम्। गृहाण गृहाण।)
श्रमणकः - बम्हणाउस! पेक्ख पेक्ख मम प्पभावं। (बाह्मणेपासक! प्रेक्षस्व प्रेक्षस्व मम प्रभावमम्।)
विदूषकः - एसा उम्मत्तओ एदेण ईहामत्तएण उज्झिदं सावं पेक्खअ मोदअमळ्ळअं भीदभीदं अग्गङ्गुळिआए पसारिदाए ठाविअ चिट्ठइ। भो
उम्मत्तअं! आणेहि मम मोदअमळ्ळअं। (एष उन्मत्तक एतेनेहामात्रकेण श्रमणकेन उज्झितं शापं प्रेक्ष्य मोदकमल्लकं भीतभीतमग्राङ्गुल्यां
प्रसाहितायां स्थापयित्वा तिष्ठति। भो उन्मत्तक! आनय मम मोदकमल्लकम्।)
श्रमणकः - एदु एदु भवं। एदेहि मोदएहि मं सोत्थि वाअइस्ससि। (एतु एतु भवान्। एतैर्मोदकैर्मां स्वस्ति वाचयिष्यसि।)
विदूषकः - ही ही ममकेरएहिं सोत्थि वाएमि। मए वि कोडुम्बिअस्स हत्थादो पडिग्गहगहीदाणि। ताणि भवदो वि उवाअणं भविस्सदि। सो वि
समिद्धो होदु। एसो उम्मत्तओ अग्गिगिहं अहिमुहो गच्छइ। ट्टिदो मज्झह्णो। पुव्वहणे वि दाव अअं देसो सुञ्ञो भविस्सदि। जाव
अहं वि इमाणि दक्खिणामासआणि मग्गगेहे णणिक्खिविअ गच्छामि। एकस्स शाडिआए कय्यं अवरस्स मुळ्ळेण। (ही ही मदीयैः
स्वस्ति वाचयामि। मयापि कौटुम्बीकस्य हस्तात् प्रतिग्रहगृहीतानि। तानि भवतोऽप्युपायनं भविष्यति। सोऽपि समुद्धो भवतु। एष
उन्मत्तकोऽग्निगृहमभिमुखो गच्छति। स्थितो मध्याह्मः। पूर्वाहणोऽपि तावदयं देशः शून्यो भविष्यति। यावदहमपीमान् दक्षिणामाषकान्
मार्गगेहे निक्षिप्य गच्छामि। एकस्य शाटिकया कार्यमपरस्य मूल्येन।)
(सर्वे अग्निगृहं प्रविशन्ति।)
यौगन्धरायणः - वसन्तक! शून्यमिदमग्निगृहम्।
विदूषकः - आम भो! सुञ्ञं खु इदं। (आम भोः! शून्यं खल्विदम्।)
यौगन्धरायणः - तेन हि परिष्वजेतां भवन्तौ।
उभौ - बाढम्। (परिष्वजेते)
यौगन्धरायणः - भवतु भवतु। तुल्यपरिश्रमौ भवन्तौ। आस्तां भवान् भवानप्यास्ताम्।
उभौ - बाढम्।
यौगन्धरायणः - वसन्तक! अपि दृष्टस्त्वया स्वामी।
विदूषकः - आम भो! दिट्ठो तत्तभवं। (आम भोः!। दृष्टस्तत्रभवान्।)
यौगन्धरायणः - हन्त भोः अतिक्रान्तयोगक्षेमा रात्रिः। दिवस इदानीं प्रतिपाल्यते।
अहः समुत्तीर्य निशा प्रतीक्ष्यते
शुभे प्रभाते दिवसोऽनुचिन्त्यते।
अनागतार्थान्यशुभानि पश्यतां
गतं गतं कालमवेक्ष्य निर्वृतिः ।। 2 ।।
रुमण्वान् - सम्यग् भवानाह। तुल्येऽपि कालविशेषे निशैव बहुदोषा बन्धनेषु। कुतः,
व्यवहारेष्वसाध्यानां लोके वा प्रतिरज्यताम् ।
प्रभाते दष्टदोषाणां वैरिणां रजनी भयम् ।। 3 ।।
यौगन्धरायणः - वसन्तक! स्वामिना सह कथितं ननु।
विदूषकः - आम भो! चिरं एव्व अ म्हि तत्तहोदा ओवज्झो। अज्ज चउद्दसीं ण्हाअमाणो पडिवाळिदो अ। (आम भोः! चिरमेव चास्मि
तत्रभवतावबद्धः। अद्य चतुर्दशीं स्नायमानः प्रतिपालितश्च।)
यौगन्धरायणः - स्नातः स्वामी।
विदूषकः - ण्हादो अत्तभवं। (स्नातोऽत्रभवान्।)
यौगन्धरायणः - कृतं देवकार्यम्।
विदूषकः - आ भो! पणाममत्तेण पूइदा देवदा। (आम भोः! प्रणाममात्रेण पूजिता देवताः।)
21
यौगन्धरायणः - एतामपि बहुमतामवस्थां प्राप्तः स्वामी। कुतः,
स्नातस्य यस्य समुपस्थितदैवतस्य
पुण्याहघोषविरमे पटहा नदन्ति।
तस्यैव कालविभवात् तिथिपूजनेषु
दैवप्रणामचलिता निगलाः स्वनन्ति।। 4 ।।
रुमण्वान् - भवत इदानीं प्रयल उचितं तिथिसत्कारमानेष्यति स्वामिनः।
यौगन्धरायणः - वसन्तक! गच्छ भूयः स्वामिनं पश्य। विज्ञाप्यतां च स्वामी- या सा प्रयाणं प्रतीह प्रस्तुता कथा, तस्याः श्वः प्रयोगकाल इति।
कुतः, स्थानावगाहयवसशय्याभागेष्वाश्रयेषुपन्यस्तौषधिव्याजो नलागिरिर्मन्त्रौषधिनियमसम्भृतः पुराणकर्मव्यामोहितः।
अनुकूलमारुतमोक्तव्यः सज्जितो धूपः। रोषप्रतिकूलोऽस्य सज्जितः प्रतिगजमदः। शालासन्निकृष्टमल्पसाधनं गृहमादीपयितुमग्नित्रासित्वाद्
वारणानाम्। गजपतिचित्तोद्भ्रमणार्थं देवकुलेषु स्थापिताः शङ्खदुन्दुभयः। तेन नादेन सर्वसाधनपरिगतशरीरेणावश्यं श्वः प्रद्योतेन
स्वामी शरणमुपगन्तव्यः। ततः स्वामिना शत्रोरनुमतेनैव बन्धनान्निष्क्रम्य सहव्यापन्नां घोषवतीं हस्तगतां कृत्वा नलगिरिः स्वाधीनः
कर्तव्यः। ततो व्यवस्थितासनस्तदानीं स्वामी नलागिरौ,
सेनाभिर्मनसानुबद्धजघनं कृत्वा जवे वारणं
सिंहानामसमाप्त एव विरुते त्यक्त्वा सविन्ध्यं वनम्।
एकाहे व्यसने वने स्वनगरे गत्वा त्रिवर्णां दशां
येनैव द्विरदच्छलेन नियतस्तेनैव निर्वाह्यते ।। 4 ।।
इति !
रूमण्वान् - वसन्तक! किमिदानीं चिन्त्यते।
विदूषकः - एव्वं चिन्तेमि महन्तो खु भवदो पयत्तो विवज्जिस्सिदि त्ति। (एवं चिन्तयामि महान् खलु भवतः प्रयत्नोे विपत्स्यत इति।)
उभौ - न खलु वयं विज्ञातारः।
विदूषकः - अहं पुढम पच्चा भवन्तो। (अहं प्रथमं पश्चाद् भवन्तौ।)
यौगन्धरायणः - अथ किंकृता कार्यविपत्तिः।
विदूषकः - वच्छराअस्स अण्णकय्यदाए। (वत्सराजस्यान्यकार्यतया।)
यौगन्धरायणः - कथमिव।
विदूषकः - सुणह भवन्तो। (शृणुतां भवन्तौ)
उभौ - अवहितौ स्वः।
विदूषकः - जा सा काळट्ठमी अदिक्कन्दा, तर्हि तत्तहोदी वासवदत्ता णाम राअदारिआ धत्तीदुदीआ कण्णआदंसणं णिद्दोसं त्ति करिअ
अवणीदकञ्चुआए सिविआए ओघट्टिदपणाळीपस्सुदसळ्ळिविसमं राअमग्गं परिहरिअ जं तं बन्धणदुवारस्स अग्गदो भअवदीए
जक्खिणीए ट्ठाणं, तÏस्स देवकय्यं कत्तुं गआ आसी। (या सा कालाष्टमी अतिक्रान्ता, तस्यां तत्रभवती वासवदत्ता नाम
राजदारिका धात्रीद्वितीया कन्यकादर्शनं निर्दोषमिति कृत्वापनीतकञ्चुकायां शिबिकायामवघट्टितप्रणालीप्रस्तुतसलिलविषमं राजमार्गं
परिहृत्य यत्तद् बन्धनद्वारस्याग्रतो भगवत्या यक्षिण्याः स्थानं, तस्मिन् देवकार्यं कर्तुं गतासीत्।)
यौगन्धरायणः - ततस्ततः।
विदूषकः - तदो तत्तभवं तं दिअसं अब्भन्तरबन्धणमपरिरक्खअं सिवअं णाम राअदासं अणुमाणिअ बन्धणदुवारे णिक्कन्तो। (ततस्तत्रभवान्
तं दिवसमभ्यन्तरबन्धनपरिरक्षकं शिवकं नाम राजदासमनुमान्य बन्धनद्वारे निष्क्रान्तः।)
उभौ - ततस्ततः।
विदूषकः - तदो पुरुसक्खन्धपरिवट्टणट्टिदाए सिविआए पकामं दिट्ठा सा राअदारिआ। (ततः पुरुषस्कन्धपरिवर्तनस्थितायां शिबिकायां
प्रकामं दृष्टा सा राजदारिका।)
22
यौगन्धरायणः - ततस्ततः ।
विदूषकः - किं तदो तदो त्ति। बन्धणं दाणिं पमदवणं सम्भाविअ पउत्तो राअळीळं कत्तुं। (किं ततस्तत इति। बन्धनमिदानीं प्रमदवनं सम्भाव्य
प्रवृत्तो रागलीलां कर्तुम्।)
यौगन्धरायणः - न खलु तां प्रति समुत्पन्नाभिलाषः स्वामी।
विदूषकः - भो! सङ्घआरिणो अणत्थ त्ति ईदिसं एव्व। (भोः! सङ्घचारिणोऽनर्था इतीदृशमेव।)
यौगन्धरायणः - सखे! रुमण्वन्! स्थिरीक्रियतामात्मा। अनेनैव वेषेण जरा गन्तव्या।
विदूषकः - भो! अहं च एदेण उत्तो-भणेहि जोअन्धराअणस्सं जहसमत्थिदा समत्थणा ण रोअदे मे। समाणे गमणे पज्जोदस्स अवमाणविसेसो
चिन्तीअदि। मा कामप्पधाण त्ति मं अवमण्णेहि। अवमाणस्स अवजिदिं अण्णेसामि त्ति। (भोः! अहं चैतेनोक्तः- भण यौगन्धरायणाय
यथासमर्थिता समर्थना न रोचते मे। समाने गमने प्रद्योतस्यावमानविशेषश्चिन्त्यते। मा कामप्रधान इति मामवमन्यस्व।
अवमानस्यापचितिमन्विष्यामीति।)
यौगन्धरायणः - अहो शत्रुजनापहास्यमभिधानम्। अहो निरपत्रपता खलु बुद्धेः। अहो सुहृज्जनसन्तापकारणम्। अदेशकाले ललितं कामयते
स्वामी। कुतः,
शक्ता दर्पयितुं स्वहस्तरचिता भूमिः कटप्रच्छदा
पर्याप्तो निगलस्वनश्चरणयोः कन्दर्पमालम्बितुम्।
कः श्रुत्वा न भवेद्धि मन्मथपटुः प्रत्यक्षतो बन्धने
रक्षार्थं परिगण्यमानपुरुषै राजेति शब्दापनम्।। 6 ।।
विदूषकः - भो! दंसिदो सिणेहो। णिव्विट्ठं पुरूसआरं । साहु उज्झिअ णं गच्छामो। (भोः! दर्शितः स्नेहः। निर्विष्टः पुरुषकारः। साधूज्झित्वैनं
गच्छामः।)
यौगन्धरायणः - वसन्तको भवान् ननु। वसन्तक! मा मैवम्।
परित्यजाम सन्तप्तं दुःखेन मदनेन च।
सुहृज्जनमुपाश्रित्य यः कालं नावबुध्यते।। 7 ।।
विदूषकः - एव्वं एव्व जरं गमिस्सामो। (एवमेव जरां गमिष्यामः।)
यौगन्धरायणः - तन्ननु श्लाघ्यम्।
विदूषकः - सिळाघणीओ भवे, जदि ळोओ जाणादि। (श्लाघनीयं भवेद्, यदि लोको जानाति।)
यौगन्धरायणः - न नः कार्यं लोकेन, स्वामिप्रियार्थोऽयमारम्भः।
विदूषकः - सो वि दाव ण जाणीदि। (सोऽपि तावन्न जानाति।)
यौगन्धरायणः - काले ज्ञास्यति।
विदूषकः - कदमो दाणि सो काळो। (कतम इदानीं स कालः।)
यौगन्धरायणः - यदेयमारम्भसिद्धिः।
विदूषकः - तदो तादिसो भवं बन्धणादो राआणं अन्तेउरादो राअदारिअं उभे णिय्यादेदु। (ततस्तादृशो भवान् बन्धनाद्वाजानमन्तः पुराद्रजदारिकामुभे
निर्यातयतु।)
रुमण्वान् - इह भवता द्वष्टव्यम्।
यौगन्धरायणः - उभयमिति। बाढम्। इयं द्वितीया प्रतिज्ञा-
सुभद्रामिव गाण्डीवी नागः पद्मलतामिव।
यदि तां न हरेद् राजा नास्मि यौगन्धरायणः।। 8 ।।
अपि च,
23
यदि तां चैव तं चैव तां चैवायतलोचनाम्।
नाहरामि नृपं चैव नास्मि यौगन्धरायणः।। 9 ।।
(कर्णं दत्त्वा) अये शब्द इव। ज्ञायतां शब्दः।
विदूषकः - भो! तह। निष्क्रम्य प्रविश्य) भो! पडिउत्तदिवसविस्सम्भेण अविरळं सञ्चरन्तो जणो दीसइ। किं दाणि करम्ह। (भोस्तथा। भोः!
परिवृत्तदिवसविस्रम्भेणाविरलं सञ्चरन् जनो दृश्यते। किमिदानीं कुर्मः।)
रुमण्वान् - तेन हि चतुद्र्वारमग्निगृहं, भिद्यतां न सङ्घतः।
यौगन्धरायणः - न न। अभिन्नो नः सङ्घतः। भिद्यतामरिसङ्घतः। स्वकार्यमनुष्ठीयताम्।
उभौ - तह। (तथा) (निष्क्रान्तौ।)
उन्मत्तकः - ही ही चन्दं गिळदि ळाहू। मुञ्च मुञ्च चन्दं। यदि ण मुञ्चेशि, मुहं दे पाडिअ मुञ्चावइस्सं। एशे एशे दुट्ठअश्शे परिब्भट्टे
आअच्छदि। एशे एशे चउप्पहवीहिआअं। जाव णं आळुहिअ बळिं भक्खिस्सं। एशे एशे दाळअभट्टा! मं ताळेह। मा खु मा खु
मं ताळेह। किं भणाशि-अम्हाणं किं पि णच्चेहि त्ति। दक्खह दक्खह दाळअभट्टा! एशे दाळअभट्टा! पुणो वि मं ताळेह
इट्टिअहि। मा खु माखु ताळेह। तेण हि अहं पि तुम्हे ताळेमि। (ही ही चन्द्रं गिरति राहुः। मुञ्च मुञ्च चन्द्रम्। यदि न मुञ्चसि,
मुखं ते पाटयित्वा मोचयिष्यामि। एष एष दुष्टाश्वः परिभ्रष्ट आगच्छति। एष एष चतुष्पथवीथिकायाम्। यावदेनमारुह्य बलिं
भक्षयिष्यामि। एते एते दारकभर्तारः! यावदेनमारुह्य बलिं भक्षयिष्यामि। एते एते दारकभर्तारः! मां ताडयथ। मा खलु मा खलु
मां ताडयत। किं भणथ-अस्माकं किमपि नृत्येति। पश्यत पश्यत दारकभर्तारः!। एते दारकभर्तारः! पुनरपि मां ताडयथ यष्टिभिः।
मा खलु मा खलु ताडयत। तेन ह्यहमपि युष्मान् ताडयामि।) ‘
(निष्क्रान्तः।)
तृतीयोऽङ्कः।