प्रतिज्ञायौगन्धरायणम्/चतुर्थोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search
← तृतीयोऽङ्कः प्रतिज्ञायौगन्धरायणम्
चतुर्थोऽङ्कः
भासः

(ततः प्रविशति भटः।)

भटः - को काळो अहं भट्टिदारिआए वासवदत्ताए उदए कीळिदुकामाए भद्दवदीपरिचारअं गत्तसेवअं ण पेक्खामि। भाव पुप्फदन्तअ!
गत्तसेवअं ण पेक्खसि। किं भणासि-एसो गतसेवओ कण्डिळसुण्डिगिणीए गेहं पविसिअ सुरं पिबदि त्ति। गच्छदु भावो।
(परिक्रम्य) इदं कण्डिळसुण्डिगिणीए गेहं। जाव णं सद्दावेमि। भो गत्तसेवअ! । गतसेव अ (कः कालोऽहं भर्तृदारिकाया
वासवदत्ताया उदके क्रीडितुकामाया भद्रवतीपरिचारकं गात्रसेवकं न प्रेक्षे। भाव पुष्पदन्तक! गात्रसेवकं न प्रेक्षसे। किं भणसि-एष
गात्रसेवकः कण्डिलशौण्डिक्या गेहं प्रविश्य सुरां पिबतीति। गच्छतु भावः। इदं कण्डिलशौण्डिक्या गेहम्। यावदेनं शब्दापयामि।
भो गात्रसेवक! गात्रसेवक!।)
(नेपथ्ये)
को दाणिं एसो एत्थ राअमग्गे गत्तसेवअ! गत्तसेवअ त्ति मं सद्दावेदि। (क इदानीमेषोऽत्र राजमार्गे गात्रसेवक! गात्रसेवकेति मां
शब्दापयति।)
भटः - एसो गत्तसेवओ सुरं पिबिअ हसिअ हसिअ मदिअ मदिअ जवापुफं विअरत्तळोअणो इदो एव्व आअच्छदि। एदस्स पुरदो ण
चिट्ठिस्सं। (निवृत्य स्थितः।) (एष गात्रसेवकः सुरां पीत्वा पीत्वा हसित्वा हसित्वा मदित्वा मदित्वा जपापुष्पमिव रक्तलोचन इत
एवागच्छति। एतस्य पुरतो न स्थास्यामि।)
(ततः प्रविशति यथानिर्दिष्टो गात्रसेवकः।
गात्रसेवकः - को दाणिं एसो एत्थ राअमग्गे गत्तसेवअ! गत्तसेवअ! त्ति मं सद्दावेदि। पाणागारादो णिक्कन्तो दिट्ठ म्हि मम सुसुरेण सुरुट्ठेण।
अमुदअमळ्ळएण घिदमरिअळोणरुशिदे मंशखण्डे मुहे पक्खित्ते अ। णुसा रज्जइ पीदा जइ। अत्तां णं दण्डुज्जुआ होइ।
धण्णा सुराहि मत्ता धण्णां सुराहि अणुळित्ता।
धण्णा सुराहि ण्हादा धण्णा सुराहि संञविदा।। 1 ।।
24
अधण्णा अत्तणो पुत्तदाराणं कट्ठं पिट्ठं सुणन्ता जे मूढा णरा सुसमिद्धा सुरातटाअं ण जोजअंति। ता जाणे जमळोए वा णरअं
अत्थि ण त्थि अ। (क इदानीमेषोऽत्र राजमार्गे गात्रसेवक! गात्रसेवक! इति मां शब्दापयति। पानागारन्निष्क्रान्तो दृष्टोऽस्मि मम
श्वशुरेण सुरुष्टेन। अमृतमल्लकेन घृतमरिचलवणरूषितो मांसखण्डो मुखे प्रक्षिप्तश्व। स्नुषा रज्यति पीता यदि। श्वश्रूर्ननु
दण्डोद्यता भवति।
धन्याः सुराभिर्मत्ता धन्याः सुराभिरनुलिप्ताः।
धन्याः सुराभिः स्नाता धन्याः सुराभिः संज्ञापिताः।। 2 ।।
अधन्या आत्मनः पुत्रदाराणां कष्टं पिष्टं शृण्वन्तो ये मूढा नराः सुसमृद्धाः सुरातटाकं न योजयन्ति। ततो जाने यमलोके वा
नरकोऽस्ति नास्ति च।)
भटः - (उपसृत्य) भो गत्तसेवअ! को काळो तुमं अण्णेसामि। भट्टिदारिआए वासवदत्ताए उदए किळिदुकामाए भद्दवदी ण दिस्सदि। तुमं
दाव मत्तो एत्थ आहिण्डसि। (भो गात्रसेवक! कः कालस्त्वामन्विष्यामि। भर्तृदारिकाया वासवदत्ताया उदके क्रीडितुकामाया
भद्रवती न दृश्यते। त्वं तावन्मत्तोऽत्राहिण्डसे।)
गात्रसेवकः - जुज्जइ। सा अ णं मत्ता, सो पुरुसो वि मत्तो, अहं वि मत्तो, तुमं वि मत्तो, सव्वं मत्तसमं होइ। (युज्यते। सा च ननु मत्ता, स
पुरुषोऽपि मत्तोऽहमपि मत्तः, त्वमपि मत्तः, सर्वं मत्तसमं भवति।)
भटः - सव्वं दाव चिट्ठदु। राअउळे भद्दपीठिअं णणिक्वमिअ कुदो अअं आहिण्डादि त्ति। (सर्वे तावत् तिष्ठतु। राजकुले भद्वपीठिकां
ननिष्क्राम्य कुतोऽयमाहिण्डत इति।)
गात्रसेवकः - इदो आहिण्डामि, एत्थ पिबामि, एदेण पिबामि, मा संरम्भेण। किं करीअदु। (इत आहिण्डे, अत्र पिबामि, एतेन पिबामि, मा
संरम्भेण। किं क्रियताम्।)
भटः - हिज्जउ असम्बन्धप्पळावो। सिग्धं भद्दवदिं पवेसेहि। (भवत्वसम्बन्धप्रलापः। शीघ्रं भद्रवतीं प्रवेशय।)
गात्रसेवकः - पविसदु पविसदु भद्दवदी। अंधो भए भद्दवदीए अङ्कुसं आढत्तं। (प्रविशतु प्रविशतु भद्रवती। अङ्घो मया भद्रवत्या अङ्कुशमाहितम्।)
भटः - सभावविणीदाए भद्दवदीए अङ्कुसेण किं कय्यं। गच्छ सिग्घं भद्दवदिं पवेसेहि। (स्वभावविनीताया भद्रवत्या अङ्कुशेन किं
कार्यम्। गच्छ, शीघ्रं भद्रवर्ती प्रवेशय।)
गात्रसेवकः - पविसदु पविसदु भद्दवदी। अंघो मए भद्दवदीए खुरप्पमाळा आढत्ता। (प्रविशतु प्रविशतु भद्रवती। अङ्घो मया भद्रवत्याः
क्षुरप्रमालाहिता।)
भटः - पुप्फबन्धिआए भद्दवदीए खुरप्पमाळाए किं कय्यं। सिग्घं भद्दवदिं पवेसेहि। (पुष्पबन्ध्याया भद्रवत्याः क्षुरप्रमालया किं कार्यम्।
शीघ्रं भद्रवर्ती प्रवेशय।)
गात्रसेवकः - पविसदु पविसदु भद्दवदी। अंघो मए बद्दवदीए घण्टा आढत्ता! (प्रविशतु प्रविशतु भद्रवती। अङ्घो मया भद्रवत्या घण्टाहिता।)
भटः - उदए कीळिदुकामाए भद्दवदीए घण्टाए किं कय्यं। सिग्घं भद्दवदिं पवेसेहि। (उदके क्रीडितुकामाया भद्रवत्या घण्टया किं कार्यम्।
शीघ्रं भद्रवतीं प्रवेशाय।)
गात्रसेवकः - पविसदु पविसदु भद्दवदी। अंघो मए भद्दवदीए कसिअं आढत्तं। (प्रविशतु प्रविशतु भद्रवती। अङ्घो मया भद्रवत्याः कशिका
आहिता।)
भटः - कसिएण किं कय्यं। सिग्धं भद्दवदिं पवेसेहि। (कशिकया किं कार्यम्। शीघ्रं भद्रवतीं प्रवेशाय।)
गात्रसेवकः - पविसदु पविसदु भद्दवदी। अंघो। (प्रविशतु प्रविशतु भद्रवती। अङ्घो।)
भटः - किं अंघो। (किम् अङ्घो।)
गात्रसेवकः - अंधो मए। (अङ्घो मया।)
भटः - किं तुए। (किं त्वया।)
गात्रसेवकः अंघो भद्द। (अङ्घो भद्र।)
25
भटः - किं भद्दत्ति। (किं भद्रेति।)
गात्रसेवकः - अंघो भद्दवदी। (अङ्घो भद्रवती।)
भटः - किं भद्दवदी। (किं भद्रवती।)
गात्रसेवकः - भद्दवदी पि आढत्ता। (भद्रवत्यप्याहिता।)
भटः - ण तुवं एत्था अवरज्झो। कण्डिळसुण्डिकिणी खु अवरज्झा, जा राअवाहणं गणिहअ सुरं देदि। (त्वमत्रापराद्धः कण्डिलशौण्डकी
खल्वपराद्धा, या राजवाहनं गृहीत्वा सुरां ददाति।)
गात्रसेवकः - अंघो मए उत्तं-मा मूळविद्धिविणासेहि त्ति। (अङ्घोमयोक्तम्--मा मूलवृदिं्ध विनाशयेति।)
भटः - हं सद्दो विअ। (हं शब्द इव।)
गात्रसेवकः - अंघो जाणामि जाणामि, कण्डिळसुण्डिकिणीए गेहं भिन्दिअ भद्दवदी पळाअदि। (अङ्घो जानामि, कण्डिलशौण्डिक्या गेहं भित्वा
भद्रवती पलायते।)
भटः - किं भणासि (आकाशे) एसो भट्टा वच्छराओ वासवदत्तं गणिहअ णिग्गदो त्ति। (किं भणसि-एष भर्ता वत्सराजो वासवदत्तां
गृहीत्वा निर्गत इति।)
गात्रसेवकः - (सहर्षम्) अविध्नमस्तु स्वामिनः।
भटः - पिब पिब। अज्ज वि तुमं मत्तो आहिण्डेहि। (पिब पिब। अद्यापि त्वं मत्त आहिण्डेहि। (पिब पिब। अद्यापि त्वं मत्त आहिण्डस्व।)
गात्रसेवकः - आः को मत्तः, कस्य वा मदः, वयं खल्वार्ययौगन्धरायणेन स्वेषु स्वेषु स्थानेषु स्थापिताश्चारपुरुषाः। यावदहमपि सुहृज्जनस्य
संज्ञा करोमि। एते ते सुहृदो निरोधमुक्ता इव कृष्णसर्पा इतस्ततो निर्धावन्ति। भो भोः सुहृदः! शृण्वन्तु शृण्वन्तु भवन्तः-
नवं शरावं सलिलैः सुपूर्णं सुसंस्कृतं दर्भकृतोत्तरीयम्।
तत्तस्य मा भून्नरकं स गच्छेद् यो भर्तृपिण्डस्य कृते न युध्येत् ।। 2 ।।
क्व नु खल्वार्ययौगन्धरायणः। (विलोक्य) अये अयमत्रभवान् आर्ययौगन्धरायणः। य एषः,
निशितविमलखड्गः संहुतोन्मत्तवेषः
कनकरचितचर्मव्यग्रवामाग्रहस्तः।
विरचितबहुचीरः पाण्डराबद्धपट्टः
सतडिदिव पयोदः किञ्चिदुद्गीर्णचन्द्रः।। 3 ।।
अहो महत् प्रवृत्तं युद्धम्।
हत्वा गजान् सगजिनः सहयांश्च यौधा-
नक्षौहिणीमतिविगाह्य बलान्मुहूर्तम्।
नागेन्द्रदन्तमुसलाहतभग्नबाहु-
भ्र्रष्टायुधोऽपि ननिवृत्तपदोऽभियातः ।। 4 ।।
हा धिग्, ग्रहणमुपगतः खल्वार्ययौगन्धरायणः। यावदहमप्यार्ययौगन्धरायणस्य प्रत्यन्तरीभविष्यामि। (निष्क्रान्तः।)
भटः - किं णु खु एदं। पाआरतोरणवज्जं सव्वं कोसम्बी खु इदं। होदु इमं वुत्तन्तं अमच्चस्स णिवेदेमि। (किन्नु खल्वेतत्। प्राकारतोरणवर्जे
सर्वे कौशाम्बी खल्विदम्। भवत्विमं वृत्तान्तममात्याय निवेदयामि।)
(निष्क्रान्तः।)
(प्रवेशकः।)
(ततः प्रविशतः साधारणौ।)
उभौ - उस्सरह उस्सरह अय्या! उस्सरह। (उत्सरतोत्सरतार्याः! उत्सरत।)
26
प्रथमः - अंघो कण्ठस्स दीअमाणस्स ण उच्चं विरमदि। (अङ्घो कण्ठस्य दीर्यमाणस्य नोच्चं विरमति।)
द्वितीयः - अंघो भट्टिदारिआए वासवदत्ताए अवणअणविब्भमदाए विरुवन्तस्स मे वअणं कोच्चि ण सुणादि। अंघो किं भणह-किण्णिमित्तं
उस्सारणा वत्तदि त्ति। गहीदो अय्यजोअन्धराअनो असिदुदीएण अक्खोहिणीए अग्गवेगो मुहुत्तअं धारिदो। विजयसुन्दरस्स हत्थिणो
दन्तन्तचोदिदो असी विवण्णो। असिदोशेण गहीदो, ण पुरुसदोसेण। (अङ्घो भर्तृदारिकाया वासवदत्ताया अपनयनविभ्रमतया
विरुवतो मे वचनं कश्चिन्न शृणोति। अङ्घो किं भणथ-किन्निमित्तमुत्सारणा वर्तत इति। गृहीत आर्ययौगन्धरायणः। किं भणत-
कथं गृहीत इति। शृण्वन्त्वार्याः। आर्ययौगन्धरायणेनासिद्वितीयेनाक्षौहिण्या अग्रवेगो मुहूर्तं धारितः। विजयसुन्दरस्य हस्तिनो
दन्तान्तजोदितोऽसिर्विपन्नः। असिदोषेण गृहीतो, न पुरुषदोषेण।)
प्रथमः - अंघो अप्पमत्ता होह तुम्हे। पाआरतोरणवज्जं सव्वं कोसम्बी खु इअं। (अङ्घो अप्रमत्ता भवत यूयम्। प्राकरतोरणवर्जं सर्वं
कौशाम्बी खल्वियम्।)
उभौ - ओदरदु ओदुरदु अय्यौ ओदरदु। (अवतरत्ववतरत्वार्योऽवतरतु।)
(ततः प्रविशति यौगन्धरायणः बद्धबाहुः फलकशयनेनानीयमानः।)
अयमहमवतरामि। यौगन्धरायणः -
रिपुगतमपनीय वत्सराजं
ग्रहणमुपेत्य रणे स्वशस्रदोषात्।
अयमहमपनीतभर्तृदुःखो
जितमिति राजकुले सुखं विशामि।। 5 ।।
भोः! सुखं खलु निष्कलत्राणां कान्तारप्रवेशः, रमणीयतरः खलु प्राप्तमनोरथानां विनिपातः, अपश्चात्तापकरः खलु सञ्चितधर्माणां
मृत्युः। मया हि,
वैरं भयं परिभवं च समं विहाय
कृत्वा नयैश्च विनयैश्च शरैश्च कर्म।
शत्रोः श्रियं च सुहृदामयशश्च हित्वा
प्राप्तो जयश्च नृपतिश्च महांश्च शब्दः।। 6 ।।
उभौ - उस्सरह उस्सरह अय्या! उस्सरह। (उत्सरतोत्सरतार्याः! उत्सरत।)
यौगन्धरायणः - मद्दर्शनाभिलाषी जनो न कश्चिदुत्सारयितव्यः।
पश्यन्तु मां नरपतेः पुरुषाः ससत्त्वा
राजानुरागनियमेन विपद्यमानम्।
ये प्रार्थयन्ति च मनोभिरमात्यशब्दं
तेषां स्थिरीभवतु नश्यतु वाभिलाषः।। 7 ।।
उभौ - उस्सरह उस्सरह। किं तुम्हेहि ण दिट्ठपुरुवो अय्यजोअन्धराअणो! (उत्सरतोत्सरत। किं युष्माभिर्न दृष्टपूर्वं आर्ययौगन्धरायणः।)
यौगन्धरायणः - दृष्टः पूर्वं, न त्वेवम्। मम हि,
उन्मत्तच्छन्नवेषस्य रथ्यासु परिधावतः।
अवगीतमिदं रूपं कर्म सम्प्रति दृश्यते।। 8 ।।
(प्रविश्य)
भटः - अय्य! पिअं दे णिवेदेमि। गहीदो किळ वच्छराओ। (आर्य! प्रियं ते निवेदयामि। गृहीतः किल वत्सराजः।)
यौगन्धरायणः - नैतदस्ति।
चिरमरिनगरे निरोधमुक्तः
स किल वनान्युपलभ्य भद्रवत्या।
27
ग्रहणमुपगमिष्यति प्रयातो
निमिषितमात्रगतेषु योजनेषु।। 9 ।।
भद्र! कथं गृहीत इति श्रुतम्।
भटः - अणुसारिअ णळागिरिणा गहीदो किळ। (अनुसार्य नलागिरिणा गृहीतः किल।)
यौगन्धरायणः - अस्ति वाहनसामथ्र्यम्। असमायुक्तस्तु सः।
गजस्याधोरणायुक्तो जवो भवति शिक्षया।
विमुक्तं वत्सराजेन क एनं वाहयिष्यति।। 10 ।।
भटः - अय्य! अमच्चो आह-आउहागारे चिट्ठदु किळ अय्यो। पुरुसगुतो अअं देसी त्ति। (आर्य! अमात्य आह-आयुधागारे तिष्ठतु
किलार्यः। पुरुषगुप्तोयं देश इति।
यौगन्धरायणः - अहो हास्यमभिधानम्।
अÏग्न बद्ध्वा वत्सराजाभिधानं
यस्मिन् काले सर्वतो रक्षितव्यम्।
तस्मिन् काले सुप्तमासीदमात्यै-
र्नोते रत्ने भाजने को निरोधः ।। 11 ।।
(परिक्रम्य)
भटः - इदं आहुहागारं। पविसदु अय्यो। (इदमायुधागारम्। प्रविशत्वार्यः।)
(प्रविश्य)
भटः - अमच्चो आह-अवणीअदु बन्धणं त्ति। (अमात्य आह - अपनीयतां बन्धनमिति।)
यौगन्धरायणः - अक्षीणं नां कुरु। व्यक्तं भरतरोहको मां द्रष्टुभिच्छति। अहमपि तावद् भरतरोहकं द्रष्टुमिच्छामि।
मद्वाक्यैः परिखिद्यमानहृदयं रोषात् प्रमत्ताक्षरैः
प्रारब्धेषु नयच्छलेषु तुलितं तुल्याधिकारोज्झितम्।
सूक्तैः शास्त्राविनिश्चितैर्विरहितं बुद्ध्याधिकं वञ्चितं
द्रष्टुं मल्लमपक्रियाविनिहतं व्रीलादिवाधोमुखम्।। 12 ।।
भरतरोहकः - क्वासौ क्वासौ यौगन्धरायणः।
अवसितनिजकार्यं वञ्चनैर्दुर्निरीक्षं
कथमिव परिभाषे भर्तुरर्थे विपन्नम्।
चिरमवनतकार्यं चापि निर्युक्तमन्त्रं
भुजगमिव सरोषं घर्षितं चोच्छ्रितं च।। 13 ।।
भटः - अय्यजोअन्धराअणो अय्यं पडिवाळअन्तो आउहागारे चिट्ठइ। (आर्ययौगन्धरायण आर्यें प्रतिपालयन् आयुधागारे तिष्ठति।)
भरतरोहकः - भवतु भवतु।
मन्त्रित्वे वञ्चितो ह्येष सव्याजं नीलहस्तिना।
प्रत्यादेष्टुं स तद्वैरं मामिदानीं प्रतीक्षते ।। 14 ।।
भटः - अय्य! एसो अमच्चो। (आर्य! एषोऽमात्यः।)
भरतरोहकः - (उपगम्य) भो यौगन्धरायण!
यौगन्धरायणः - भोः !।
भटः - अहो सरस्स गमम्भीरता। अय्यस्स एकक्खरेण पूरिदो अयं देसो। (अहो स्वरस्य गम्भीरता। आर्यस्यैकाक्षरेण पूरितोऽयं देशः)
28
भरतरोहकः - (उपविश्य) भोः!। यौगन्धरायण इत्यशरीराण्यक्षराणि श्रूयन्ते। दिष्ट्या भवान् दृश्यते।
यौगन्धरायणः - दिष्ट्या भवान् हश्यत इति। पश्यतु भवान् माम्,
एवं रुधिरदिग्धाङ्गं वैरं नियममास्थितम्।
गुरोरवजितं हत्वा शान्तं द्रौणिमिव स्थितम्।। 15 ।।
भरतरोहकः - अहो छलेनागतगजारम्भस्यात्मसम्भावना।
यौगन्धरायणः - किं छलेनेति। तत् पुनरिदानीं युक्तम्।
या सा मल्लिकसालवृक्षरचिता नागाश्रिता वञ्चना
बद्धः सेवितवान् हि नो नरपतिर्बाहूपधानां क्षितिम्।
राज्ञो वारणनिग्रहे परिचयाद् वीणाश्रिता वञ्चना
पूर्वं प्रस्तुतमेव यामि भवता नैवापराधो मम।। 16 ।।
भरतरोहकः - भो यौगन्धरायण! यदग्निसाक्षिकं महासेनस्य दुहितरं शिष्यां प्रतिगृह्य अदत्तापनयनं कृतं, युक्तेयं भोस्तस्करप्रवृत्तिः।
यौगन्धरायणः - मा मा भवानेवम्। विवाहः खल्वेष स्वामिनः।
भरतानां कुले जातो वत्सानामूर्जितः पतिः।
अकृत्वा दारनिर्देशमुपदेशं करिष्यति।। 17 ।।
भरतरोहकः - अद्यापि महासेनेन प्रयुक्तसत्कारो वत्सराजः। तदिदानीं किं नावेक्षते।
यौगन्धरायणः - मा मा भवानेवम्।
यदस्य चाज्ञां कुरुते नलागिरिः स शिक्षितानां वचनेषु तिष्ठति।
ततो विमुक्तः स्वशरीररक्षणे यशः प्रदातुं सुहृदां च जीवितम्।। 18 ।।
भरतरोहकः - यद्येवं नलागिरिग्रहणार्थं विमुक्तश्चेद् न पुनर्बद्धस्ते स्वामी।
यौगन्धरायणः - नेति पश्यत्युपक्रोशभयात्।
भरतरोहकः - अपरोक्षराज्यव्यवहारो भवानिति ब्रवीति। समरावजितेषु शत्रुषु किमाह शास्रम्।
यौगन्धरायणः - वधः।
भरतरोहकः - वधार्हो वत्सराजश्चेत् किमस्माभिः स सत्कृतः।
यौगन्धरायणः - एतदवेक्ष्य खलु यदस्य शरीरं नापहृतम्।
भरतरोहकः - एतदपि सम्भाव्य मन्यते स्वामी।
यौगन्धरायणः - कः संशयः।
हस्तप्राप्तो हि वो राजा रक्षितस्तेन साधुना।
न ह्यनारुह्य नागेन्द्रं वैजयन्ती निपात्यते।। 19 ।।
भरतरोहकः - भवतु भवतु।महासेनस्य प्रतिकूलं कृत्वा कौशाम्बीं प्रति का कृता ते बुद्धिः।
यौगन्धरायण - अहो हास्यमभिधानम् ।
भवतां चाग्रतो यातः शेषकार्येषु का कथा।
समूलं वृक्षमुत्पाट्य शाखाश्छेत्तुं कुतः श्रमः ।। 20 ।।
(प्रविश्य)
काञ्चुकीयः - (कर्णे) एवमिव।
29
भरतरोहकः - प्रकाशमुच्यताम्।
काञ्चुकीयः - कारणैर्बहुभिर्युक्तैः कामं नापकृतं त्वया।
गुणेषु न तु मे द्वेषो भृङ्गरः प्रतिगृह्यताम्।। 21 ।। इति।
यौगन्धरायणः - हा धिक्।
गृहा न निर्वान्ति मया प्रदीपिता
स्तथैव तावद् हृदयानि मन्त्रिणाम्।
इयं तु पूजा मम दण्डधारिणः
कृतापराधस्य हि सत्कृतिर्वधः ।। 22 ।।
(नेपथ्ये हाहाकारः क्रियते।)
भरतरोहकः - अये,
को नु खल्वेष सहसा प्रासादाग्राद् विनिः सृतः।
श्येनपक्षाभिमृष्टानां कुररीणामिव ध्वनिः ।। 23 ।।
काञ्चुकीयः - यदाज्ञापयत्यार्यः। (निष्क्रम्य प्रविश्य) एषा तत्रभवत्यङ्गारवती शोकाभिभूतहृदया प्रासादाच्छरीरं विमोक्तुकामा महासेनेनाभिहिता
यथा-क्षत्रधर्मेणोद्दिष्टस्ते दुहितुर्विवाहः। किमिदानीं हर्षकाले सन्तप्यसे। तच्चित्रफलकस्थयोर्वत्सराजवासवदत्तयोर्विवाहोऽनुष्ठीयताम्
इति। तत्र हि,
स्रीजनेनाद्य सहसा प्रहर्षव्याकुलक्रमा।
क्रियते मङ्गलाकीर्णा सबाष्पा कौतुकक्रिया।। 24 ।।
यौगन्धरायणः - एवं सम्बन्धं मन्यते महासेनः। तेन ह्यानीयतां भृङ्गरः।
काञ्चुकीयः - गृह्यताम्। (उपनयति)
भरतरोहकः - भो यौगन्धरायण! किं ते भूयः प्रियमुपहरति महासेनः ।
यौगन्धरायणः - यदि मे महासेनः प्रसन्नः, किमतः परमिच्छामि।
(भरतवाक्यम्)
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ।। 25 ।।
(निष्क्रान्ताः सर्वे।)

चतुर्थोऽङ्कः ।

प्रतिज्ञानाटिकावसिता।