पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् । विचर्धिकाबहुल इति कल्पतरः । गलव्रण इति शङ्खधरः । श्यामदन्तः = स्वभावात् कृष्णदन्तः । विद्धप्रजननःनिशिश्नो परितनचर्मा | व्याधित: दुर्विचिकित्स्यव्याधियुक्तः | ताश्च व्याधयो देवलेनोक्ताः । उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरो महोदरोऽ. श्मरीत्यष्टौ महापापरोगाः | वित्री श्वेतकुष्ठी | कुनखी = उपाध्यभावे कुत्सितनखवान् । लिखित न बै दुष्टान् भोजयेद | दुश्चर्मकुनखकुष्ठिशिवत्रिश्यावदन्ता ये चान्ये हीनातिरिक्ताङ्गझस्तानपि वर्जयेत् । दुधर्मा=गजचर्मरोगी | हानातिरिक्ताङ्कः=सङ्घयया परिमाणेन वा हीनमतिरिक्तं वाङ्गं यस्य स हीनातिरिकाङ्गः ब्रह्मपुराणे, भोक्तुं श्राद्धे न चाहन्ति दैवोपहतचेतसः । षण्डो मूकश्च कुनखी खल्वाटो दन्तरोगवान् ॥ श्यावदन्तः पूतिनासः छिनाङ्गश्चाधिकाङ्गुलिः । गलरोगी च गडमान् स्फुटिताच सज्वरः ॥ खखतूवरमण्डाश्च ये चान्ये हनिरूपिणः | बण्डाचक्ता देवलेन-- षण्डको वातजः षण्डः षण्डः क्लोबो नपुंसकः | कीलकश्चेति षट्कोऽयं क्लीबभेदो विभाषितः ॥ तेषां स्त्रीतुल्यवाक्चेष्टः स्त्रीधर्मा षण्डको भवेत् । पुमान् भूत्वा सलिङ्गानि पश्चाच्छिन्द्यात्तथैव च ॥ स्त्री च पुंभावमास्थाय पुरुषाचारवद्गुणा । वातजो नाम षण्डः स्यात् स्त्रीषण्डो वापि नामतः ॥ असल्लिङ्गोऽपि षण्डः स्यात् षण्डस्तु म्लानमेहनः । अमेध्याशी पुमान् क्लीबो नष्टरेता नपुंसकः ॥ स कीलक इति शेयो यः कन्यादात्मनः स्त्रियम् । अन्येन सह संयोज्य पश्चात्तामेव सेवते ॥ इति ॥ मूकः = वागिन्द्रियरहितः खल्वाटः=शिरसि समूलकेशशून्यः । पूति नास = प्रतिवन् नासा यस्य सः । गलरोगी= गण्डमालादियुक्तः | गड्डुमान् = कुब्जः । खञ्जः=पादहीनः | तूबरो यौवनेऽजातश्मः | मण्डः = मण्ड़ा ११ वी० मि०