पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- यतीनामाश्रमं गत्वा प्रत्यायास्यति यः पुनः । यतिधर्मविलोपेन बैडालं नाम तद् व्रतम् ॥ बकवृत्तिश्चोक्तो यमेन, (१) अघोष्टिकृतिकः स्वार्थसाधनतत्परः । (२) स्वयं मिथ्याविनीतश्च बकवृत्तिपरो द्विजः ॥ अवेदविन्मन्त्रार्थज्ञानशून्यो नैकृतिकः । कृतघ्न इति मिश्राः । वायुपुराणे प्राह वेदान् वेदभृतो वेदान् यश्चोपजीवति । उभौ तौ नाईतः श्राद्धं पुत्रिकापतिरेव च ॥ वेदभृतो वेदान् यः प्राहेत्यन्वयः, वेदभृतो-भृतकाध्यापकः वेतनग्रहणेन यः पाठयति स इत्यर्थः, तथा यः सपणं वेदपारायणा दितो द्रव्यमुपजीवीत तौ, पुत्रिकापतिजमाता व श्राद्धान. इत्यर्थः । व्यासशातातपौ-- (३) सन्ध्याहने व्रतम्भ्रष्टे विप्रे वेदविवर्जिते । दीयमानं रुदत्यन किं मया दुष्कृतं कृतम् ॥ प्रतानि = महानाम्म्यादीनि तद्भ्रष्टे । केचित्तु व्रतात् ब्रह्मचर्याद् भ्रष्ट इति वदन्ति | यमः, न प्रतिग्रहमर्हन्ति वृषलाध्यापका द्विजाः । शुद्रस्याध्यापनाद्विप्रः पतत्यत्र न संशयः ॥ वृषलः = शूद्रः । श्राद्धानिमन्त्रणीयब्राह्मणानुकत्वाह --कास्यायन:- द्विर्नमशुक्ला वकिलघश्यावदन्तविप्रजननव्याधितव्यङ्गभित्रत्रिकुष्ठ कुनाखवजनामीत । द्विग्नो दुश्चर्मा, स्खलातर्वैति हेमाद्रिः । शुक्लोऽति गौरः । विक्लिघो=हीनौष्ठः । तथाह | सुमन्तु, यस्य नैवाघरोष्ठाभ्यां छाद्यते दशनावली । विक्लिधः स तु विज्ञेयो ब्राह्मणः पङ्किदूषणः || (१) अघोष्टिनैष्कृतिक इति मनुस्मृतौ पाठ । (२) शठ इति दानखण्डे मनुस्मृतौ च पाठः । (३) नष्टशोचे, इति दानखण्डे पाठः ।