पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रशस्तब्राह्मणानुकल्पनिरूपणम् । सदेति, प्रकृतामावास्याष्टकादिकाल इत्यर्थः । तथा, ब्राह्मणानां सहस्त्रेभ्यो योगी त्वग्राशनो यदि । यजमान च भोक्तश्च नौरिवाम्मसि तारयेत् ॥ पितृगाथास्तथैवात्र गीयन्ते पितृवादिभिः | या गीताः पितृभिः पूर्वमैलस्यासन्महीपतेः ॥ कदा नः सन्ततावग्रन्थः कस्य चिद्भविता सुतः । यो योगिभुक्तशेषान्नाद् भुवि पिण्डान् प्रदास्यति ॥ ऐलस्यैलनाम्नः | इति योगिनां श्राद्धे नियोगकथनम् | अथ तेषामेव गृहस्थादिभ्योऽधिकत्वमुक्त वायुपुराणे, गृहस्थानां सहस्रेण वानप्रस्थशतेन च । ब्रह्मचारिसहस्रेण योंगी त्वेको विशिष्यते ॥ कूर्मपुराणेऽपि, तस्माद्यतेन योगीन्द्रमीश्वरज्ञानतत्परम् | भोजयेद्धव्यकव्येषु अलाभादितरान् द्विजान् ॥ योग्यतिक्रमणे दोषश्चोक्तः, छागलेयेन, योगिनं समतिक्रम्य गृहस्थं यदि पूजयेत् | न तत् फलमवाप्नोति सर्व गोत्र प्रतापयेत् || गृहस्थम् = अयोगिनम् । तत्फलम् = तस्य श्राद्धादिकर्मणः फलम् । गो त्रम्=गोत्र जान्,' योग्यतिक्रमजनितप्रत्यवायाग्निना, प्रतापयेत्, दाहयेत् । वृद्धशातातपोऽपि - ७३ योगिनं समतिक्रम्य गृहस्थं यदि भोजयेत् । न तत् फलमवाप्नोति स्वर्गस्थमपि पातयेत् ॥ तस्माद् गृहस्थाद्यतिक्रमेण योगिभ्योऽत्रे देयमिति । इति योगिनां श्राद्धे नियोगः । अथ प्रस्तब्राह्मणानुकल्प उच्यते । एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ इति । तत्र मनुः - १० वी० मि० ( अ० ३ श्लो० १४७ )