पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ वीरमित्रोदयस्य श्राद्धप्रकाशे- बीत स्पृहस्तपस्वी च पडिपावनपावनः | न रज्यते न च द्वेष्टि पङ्क्षिपावनपाचनः || सौरपुराणे | यो न निन्दति न द्वेष्टि न शोचति न कति । आत्मारामः पूर्णकामः पङ्किपावनपावनः || यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं स वै पावनपावनः || अशनायापिपासाभ्यां शीतोष्णादिभिरेव च । अस्पृष्टः शोकमोहाभ्यां पङ्गिपावनपावनः || ओमित्येकाक्षरं ब्रह्म व्याहरत्यनिशं शुचिः । आत्मैकताचवीर्थोऽसौ पङ्किपावनपावनः || गरुडपुराणे | साङ्ख्यशास्त्रार्थनिपुणो योगशास्त्रार्थतत्ववित् । वेदान्तनिष्ठबुद्धिश्च प्रत्याहारपरायणः || प्रियाऽप्रियाभ्यामस्पृष्टः पङ्किपावनपावनः | प्राणायामपरो धीरो मैत्रः करुण एव च ॥ अध्यात्मज्ञानपूतात्मा पडिपावनपावनः | साङ्ख्यं वेदान्ताविरोधि । इति पङ्क्षिपावनपावनाः ॥ अथ योगिनां श्राद्धे नियोगः । ब्रह्मवैवर्ते । क्रियया गुरुपूजाभिर्योगं कुर्वन्ति योगिनः | तेन चाप्याययन्ते ते पितरो योगवर्द्धनात् । आप्यायिताः पुनः सोमपितरो योगभूषिताः | आप्याययन्ते योगेन त्रैलोक्यं तेन जीवति ।। पितॄणां हि बलं योगो योगात्सामः प्रवर्तते । तस्माच्छ्राद्धानि देयानि योगिनां यत्नतः सदा ॥ बहुछिद्रः पुरा प्रोको मैत्रो यज्ञो महर्षिभिः । निष्प्रत्यूहश्च निश्छिद्रो जायते योगरक्षया ॥ जीवपरयोरेकीभावलक्षणः सम्बन्धो, योगस्तद्वान् योगी | नि- प्रत्यूहः = यातुधानादिक्कतोपघातराहतः । निरिछद्रः = सकलः | मार्कण्डेयपुराणेऽपि ---- योगिनश्च तथा श्रद्धे भोजनीया विपश्चिता । योगाधारा हि पितरस्तस्मात्तान् पूजयेत् सदा ॥