पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पङ्क्तिपावननिरूपणम् । ७१ पचर्यते । स्नातक:=पूर्वोक्तस्त्रिविधः । सहस्रसम्मितमिति सहपङ् क्त्युपविष्टब्राह्मण पङ्किपावकत्वात् । केचित्तु सहस्रब्राह्मणभोजनजन्यफलप्रापकत्वात् सहस्रमिति । एवमग्निमान् शतसहस्र लक्षं तन्मितां पङ्कि पावयतीत्यर्थः । ब्रह्माण्डपुराणे ---- षडङ्गवित् ध्यानयोगी सर्वतन्त्रस्तथैव च । यायावरच पञ्चैते विशेयाः पङ्क्षिपावनाः ॥ ये साध्ये वैदिके केचित् ये च व्याकरणे रताः । अधीयानाः पुराणं वा धर्मशास्त्राण्यथापि च || चतुर्दशानां विद्यानामेकस्यापि च पारगः | श्राद्धकल्पं पठेद्यस्तु सर्वे ते पडिपावनाः ॥ सर्वतन्त्रः = शालीनाख्यो गृहस्थः । यायावरः =वरणवृत्या यातीति (?) यायावरो गृहस्थविशेषः । विष्णुरपि । अथ पङ्किपावनाः । स्त्रिणाचिकेतः पञ्चाग्निः ज्येष्ठ. सामगो वेदाङ्गस्याप्येकस्य पारगस्तीर्थपूतो यशपूतः सत्यपूतो दान पूतो मन्त्रपूतो गायत्रीजपानरतो ब्रह्मदेयानुसन्तान स्त्रि सौपर्णो जामाता दौहित्रश्चेति । कूर्मपुराणे, महादेवार्चनरतो महादेवपरायणः । वैष्णवो वाथ यो नित्यं स विप्रः पङ्किपावनः । इति पङ्किपावनाः ॥ अथ पडिपावनपावना उच्यन्ते । मत्स्यपुराणे | वृद्धमनुः, यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । सामस्वरविधिज्ञश्च पङ्किपावनपावनः || पूवार्द्ध तुल्यमेव | यश्चावैत्यात्मकैवल्यं पडिपावनपावनः | यश्च व्याकुरुते वाचं प्रकृतिप्रत्ययविभागेन वाचः संस्कुरुते वैया- करण इति यावत् । अध्वरं यज्ञं मीमांसते विचारयति मीमांसक इति यावत् । आत्मकैवल्यम्=आत्मैकत्वम् । ब्रह्मवैवर्ते । वेदवेदाङ्गविंद यज्वा शान्तो दान्तः क्षमान्वितः ।