पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- एष = श्रोत्रियादिरूपो मुख्यः कल्प उक्तः, गौणस्तूच्यते इत्यर्थः । सदा सद्भिरनुष्ठित इति तु प्रशंसामात्रम् | ब्रह्माण्डपुराणे, अलाभे योगिभिक्षूणां भोजयेवानिनः शुभान् । असम्भवेsपि तेषां वै नैष्ठिकान् ब्रह्मचारिणः ॥ सदलाभेऽप्युदासीनं गृहस्थमपि भोजयेत् । उदासीनः = दातुरसम्बन्धी मित्रारिभावशून्यो वा । भिक्षवः = त्रिदण्डाः । ध्यानिनो=वानप्रस्थाः | गृहस्थाश्चोक्तश्रोत्रियत्वादिगुणयुक्ता' । गृहस्थेष्वपि योगिनो मुख्यास्तदभावे वेदार्थज्ञा, तदभावे कृतवेदाध्ययनमात्रा इत्युक्तं ब्रह्मवैवर्ते- योगिनः प्रथमं पूज्याः श्राद्धेषु प्रयतात्मभिः । तदभावे वेदविदः पाठमात्रास्ततः परम् || विनियोज्या महानेष पात्रसाध्यो विधिर्मतः । श्रोत्रियश्रोत्रियपुत्रस्यालाभे केवलयोः श्रोत्रियतत्पुत्रयोः प्रसकौ कस्य मुख्यत्वमित्यपेक्षायामाह मनुः -- ( अ० ३ श्लो० १३६ ) अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपारगः | अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥ ज्यायांसमनयोर्विद्याद्यस्य स्थाच्छ्रोत्रियः पिता । मन्त्रसम्पूजनार्थन्तु सत्कारमितरोऽर्हति ॥ ( अ० ३ श्लो० १३७ ) अनयोरिति, [स्वयंथोत्रियश्रोत्रियपुत्रयोः प्रसक्तौ कस्य मुख्यत्वमिन्य. पेक्षायामाह मनुः ।] अश्रोत्रियपितृकस्य स्वयं श्रोत्रियस्थ, स्वयमश्रोत्रि यस्य श्रोत्रियपितृकस्य च मध्य इत्यर्थः । इतरः= पित्रश्रोत्रियः स्वयं श्रो. त्रियः । मन्त्रसंपूजनार्थं वेदपारायणाद्यर्थ सत्कारमर्हति न श्राद्धे ब्राह्मणार्थमित्यर्थः । एतच्च श्रोत्रियपुत्रस्य वृत्तस्थत्वे शेयम् । तथा चाग्निपुराणे- कि कुलेन विशालेन वृत्तहीनस्थ देहिनः । किमयः किं न जायन्ते कुसुमेषु सुगन्धिषु || जातूकर्ण्योऽपि, किंकुलेन विशालेन वृत्तहीनस्य देहिनः । अपि विद्याकुलैर्युक्तान् वृत्तहीनान् द्विजाधमान् ॥ अनन् हव्यकव्येषु वाङ्मात्रेणापि नार्चयेत् । इति ।