पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रशस्तब्राह्मणनिरूपणम् । ऋषेः किंचिद् गुणैर्न्यूनो ऋषक इति कीर्तितः ॥ इति सुमन्तुस्मरणात् । द्वादशवार्षिकवदेवतचारी द्वादशवार्षिक | सहस्रदो= गोसहस्रय इति मेघातिथिः । सहस्रदक्षिणक्रतुयाजीत्यपरे । 1 तथा । चान्द्रायणव्रतचरः सत्यवादी पुराणवित् । विमुक्तः सर्वतो धीरो ब्रह्मभूतो द्विजोत्तमः ॥ सर्वतः - जायमानो वै ब्राह्मण इत्यादिश्रुतिबोधितर्णत्रयादिति शेषः । सर्वतो ब्रह्मातिरिक्तविषयादिति तु युक्तम्, 'धीरो ब्रह्मभूत इति उत्तरग्रन्थसमभिव्याहारात् । तथा। अनमित्रोऽनचामित्रो मैत्रश्चात्मविदेव च । न विद्यते अमित्रं शत्रु र्यस्य । न च स्वय कस्यापि शत्रुमैत्रीरतश्च भवति । तथा । स्नातको जव्यनिरतः सदा पुष्पबलिप्रियः । स्नातकः = नानोत्तरं प्राग् विवाहात् । परमेश्वरपूजाद्यर्थ पुष्पं बलिरुपहारश्च साधनत्वेन प्रियं यस्य स तथा । शङ्खलिखितावपि । अथ पाङ्केयाः । वेदवेदाङ्गवित् पञ्चाझिरनूचानः साङ्ख्ययोगो- पनिषद्धर्मशास्त्रविच्छ्रोत्रिय, त्रिणाचिकेतः त्रिमधुः, त्रिसुपर्णको ज्येष्ठसामगः | साङ्ख्ययोगोपनिषद्धर्मशास्त्राध्यायी वेदपरः सदाग्निको मातृपितृशुश्रूषुर्धर्मशास्त्ररतिरिति । साङ्ख्य= कापिलम् | योगः=पातञ्जलम् । उपनिषद - वेदान्ताः | पूवा सामादिविदुक्त उत्तरार्द्धे तु तदध्येनेति भेदः । सदाग्निका=नि. त्याग्निमान् | हारीतस्तु । तस्मात् कुलीनाः श्रुतवन्तः शीलवन्तो वृत्तस्थाः सत्यवादिनो- ऽव्यङ्गाः पाङ्क्तेया इत्युपक्रम्य कुलशीलवृत्तरूपान् पाङ्क्केयत्वप्रयो जकान् गुणानाह। स्थितिरविच्छिन्नवेदवेदिता योनिसंकरित्वमार्षे. यत्वं चेति कुलगुणाः । स्थितिः=सन्तत्यविच्छेदः, आपद्यपि वर्णाश्रमा