पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे वशिष्ट, स्वाध्यायाढ्य योनिमन्तं प्रशान्त (१) वैतानशं पापभीरुं बहुशम् । स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्लान्तं ब्राह्मणं पात्रमाहुः ॥ स्त्रीषु क्षान्तः = सहिष्णुः, रूबलाभजानितदुःख सहनशीलः | व्रतक्लान्तः = व्रतानुष्ठानेन शोषितेन्द्रियशरीरः । परमपात्रमाह व्यासः - किञ्चिद्वेदमयं पात्रं किञ्चित् पात्रं तपोमयम् । असङ्कीर्णन्तु यत् पात्रं तत् पात्र परमं स्मृतम् ॥ असङ्कीर्णव्योनिसाङ्कपतितसंसर्गरहितम् । ब्रह्मचारी भवेत् पात्रं पात्रं वेदस्य पारगः | पात्राणामुत्तमं पात्रं शूद्रानं यस्य नोदरे | इति । शूद्रात्पक्चमनतिक्रान्तत्र्यहमामं वा प्रतिगृह्य भुज्यते तत् शूद्रान्नम् । बृहस्पत्तिः, तथा, वीरमित्रोदयस्य श्राद्धप्रकाशे- ऋष्यशृङ्गः, अतिथिश्च तथा पात्रं तत् पात्रं परमं विदुः । अतिथिरुक्तो मनुना- एकरात्रन्तु निवसन्नतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते ॥ ( अ० ३ | । लो० १०२ ) भविष्यपुराणे, क्षान्त्यस्पृहा दमः सत्यं दानं शीलं तपः श्रुतम् । एतदष्टाङ्गमुद्दिष्ट परमं पात्रलक्षणम् ॥ इति । अत्र सर्वत्र किञ्चिद्वेदमयं पात्रमित्यादि वचनात् विद्यादीनां प्र. त्येकं पात्रता प्रयोजकत्वात्तत्र तत्र गुणाधिक्य पात्रतारतम्यायेति शेयम् । यमः । ऋषिव्रती ऋषीकञ्च तथा द्वादशवार्षिक । ब्रह्मदेयसुतञ्चैव गर्भशुद्ध सहस्रदः || ऋषीकः =ऋषेः किञ्चिन्न्यूनगुणः । (१) वैतानस्थमिति हेमाद्रौ पाठः ।