पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रशस्तब्राह्मणनिरूपणम् । पात्रलक्षणमाह वृद्धशातातपः- क्षान्तो दान्तो सत्यवादी विप्रः पात्रमिहोच्यते ॥ इति । स्वाध्यायव= त्वं वाध्ययनाध्यापनार्थश (नप्रवचनादिभिः | नियमा, स्वाध्यायवानियमवांस्तपस्वी ज्ञानविश्व यः । स्नानमौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः | नियमा गुरुशुश्रूषाशौचाक्रोघाप्रमादता || ( अ० ३ प्रायश्चित्तप्र० श्लो० ३१३ ) इति याज्ञवल्क्योक्ताः । स्नान= नित्यं नैमित्तिकञ्च | मौन= निषिद्धवाक् परिवर्जनम् । उपवासो= विहितः । उपस्थनिग्रहः = निषिद्धरेतो विमोका- भिवृतिः । अप्रमादता = विधिप्रतिषेधयोः सावधानता । याज्ञवल्क्य, ( अ० १ दानप्र० श्लो० २०० ) न विद्यया केवलया तपसा वापि पात्रता | यत्र वृत्तमिमे चोभे तद्धि पात्र प्रचक्षते ॥ अस्यार्थः, केवलया विद्यया श्रुताध्ययनमात्रसम्पत्या न पात्रत्वं नापि केवलेन तपसा शमदमादिना, अपि शब्दान केवलानुष्ठानेन केवलया जात्या वा दाने पूर्णपात्रत्वं किन्तु यत्र ब्राह्मणे ( १ ) वृत्तम्, इमे विद्यातपसी चोभे तदेव पूर्ण पात्रं मन्वादयो ब्रुवते । यद्यपि केवलविद्यातपसोरपि पात्रताप्रयोजकतास्त्येव, "किञ्चिद् वेदमयं पात्र किश्चित् पात्रं तपोमयम्" इति वचनात् । तथापि नात्र पूर्णपात्रतोक्का, किञ्चित्पात्रमित्युक्तेरिति । महाभारते साझाँस्तु चतुरो वेदान् योऽधीते वै द्विजर्षभः | षड्भ्योऽनिवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः || षड्बो यजनादिभ्यः, अनिवृत्तिः सत्यधिकारे प्रवृत्तिः । देवल, त्रिशुक्लः कृशवृत्तिश्च घृणालुः सकलेन्द्रियः | विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते ॥ त्रीणि कुलविद्यावृत्तानि शुक्लानि विशुद्धानि पातित्यापादकदो- परहितानि यस्य स त्रिशुक्ल । घृणालः = दयालुः । योनिदोषा =योनिसङ्कर्य कारणभूताः । ( १ ) अनुष्ठानमिति विज्ञानेश्वरः । ९ बी० मि०