पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- ऋचा तु तृप्यति पिता यजुषा च पितामहः पितुः पितामहः साम्ना छन्दोगोऽभ्यधिकस्ततः ॥ भोजयेद्यद्यथर्वाणं दैवे पित्र्ये च कर्मणि | अनन्तमक्षयं चैव फलं तस्येति वै श्रुतिः ॥ अनन्तं =चिरस्थापि । अक्षयं =अन्यूनम् । यस्त्वन्यं भोजयेच्छ्राद्धे विद्यमानेष्वथर्वसु | निराशास्तस्य गच्छन्ति देवताः पितृभिः सह ॥ तस्मात् सर्वप्रयतेन श्राद्धकाले त्वथर्वणम् | भोजयेद्धव्यकव्येषु पितॄणां च तदक्षयम् ॥ इति । एतेन यथा कन्या तथा हविरिति वचनात् भ्राम्यन्तो यजमानवेद समानशाखा एव श्राद्धे ब्राह्मणा इति वदन्तो निरस्ताः । यथा कन्ये त्यादिवाक्यस्य हविःषु निर्वातकुलशीलत्वादि सम्प्रदान ककन्यासादृश्यपरत्वेनाप्युपपत्तेः न कश्चिद्विरोधः । अत एव कुलवंशादिशानमावश्यकमुक्तम् मात्स्ये, "ज्ञातवंशकुलान्वित" इति । येऽपि "यत्तेन भोजयच्छ्राद्धे” इत्यादिवचनेन बहूवचादीनां त्रयाणामेव प्राप्तत्वात्, "एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः । पितॄणां तस्य तृप्तिः स्यात् शाश्वती साप्तपौरुषी" इति वाक्यस्याथर्वणनिषेधार्थत्वमाहुस्तेऽप्ये तेनैव निराकृताः । उक्तवाक्यस्य तु 'अथर्वाणं भोजयेत्' इति प्रत्यक्षविरोधात बच्चादिप्रशसार्थत्वेन छन्दोगं वा समाप्तिगमिति चकारार्थसमुचयनिरासार्थत्वेन चोपपत्तेर्नाथर्वणनिषेधार्थत्वमिति । याज्ञवल्क्यः, ( अ० १ श्रद्धप्र० लो० २१९ ) अग्न्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा । वेदार्थविद् ज्येष्ठलामा त्रिमधुः त्रिसुपर्णकः ॥ कर्मनिष्ठास्तपोनिष्ठाः पञ्चानब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदः ॥ इति । ( अ० १ श्राद्धप्र० श्लो० २२१ ) चतुर्ष्वषि वेदेषु अध्येतॄणां मध्ये मुख्योऽध्येता अग्रवः । ब्रह्म=औपनिषदात्मा | त्रिमधुः= त्रिमध्याख्यत्रतानुष्ठान पूर्वक तदाख्यऋग्वेदैकदे- शाध्येता । त्रिसुपर्णः=मधु मेतुमामित्यादि तैत्तिरीयशास्त्रान्तर्गतयजु स्त्रितयाध्येता । य इदं त्रिसुपर्णमितिश्रुतौ तेष्वेव निर्देशात् । कल्पतरुस्तु